०५ वैद्युताधिकरणम्

ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ

५. वैद्युताधिकरणम्

सूत्रभाष्यम्

ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ॥ ६ ॥

प्रकारान्तरेण तत्र तत्रोच्यमानत्वाद्वायोरपि परतो ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीति नाशङ्क-नीयम् । विद्युत्पतिना वायुनैव ‘स एनान्ब्रह्म गमयति’ इति ब्रह्मगमनश्रुतेः ।

‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः ।

कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति बृहत्तन्त्रे ॥

॥ इति वैद्युताधिकरणम् ॥ ५ ॥

तत्त्वप्रदीपिका

तारतम्यक्रममनादृत्य बहुप्रकारेणोच्यमानत्वात्प्रधानवायोरपि परतो ब्रह्मणोऽर्वाग्गन्तव्यः स्यादिति नाशङ्कनीयम् । विद्युत्पतिना वायुनैव ब्रह्मगमनश्रुतेः । आह हि विद्युतं गन्तव्यां प्रस्तुत्य ‘‘तत्पुरुषो मानवः स एनान्ब्रह्म गमयति’ इति । अस्मिन्नेवार्थे प्रमाणभूतं प्रकटार्थमुक्तश्रुतेरुपबृंहकं साक्षाद्भगवत्प्रणीतं तन्त्रवाक्यमिहाप्युदाहरति–

‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः ।

कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति ॥

‘दिवस्पतिः’ इति विशेषणं च तस्यैव स्यात् । ‘द्यौर्वाव विद्युत्तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति’ इति श्रुतेः । विद्युत्पतिना वायुनैवेति न श्रीरपि पृथग्गन्तव्येत्यर्थः ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तिमार्गे मुख्यवायोरन्तिमत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा तस्याति-प्राधान्यासिद्धेः समर्थनीयमेतत् । प्रकृतो मार्ग एव विषयः । किं तत्र मुख्यवायोरनन्तरं ब्रह्मणोऽ-र्वाग्गन्तव्योऽस्ति न वेति सन्देहः । उभयथा सम्भवः सन्देहबीजम् । ब्रह्मणोऽर्वाग्वायोः परतोऽन्यः प्राप्योऽस्तीति पूर्वः पक्षः । तथाभ्युपगमेऽपि बाधकाभावात् । न च वाच्यं वायोः सर्वाधिकार्युत्तम-त्वात्स एवान्तिमप्राप्य इति । उत्तमत्वक्रमानुसारेण प्राप्तिक्रमाभावात् । ‘सोमं वैश्वानरं चेन्द्रं ध्रुवम्’ इत्यादौ सोमावरस्याग्नेरिन्द्रावरस्य च ध्रुवस्य पश्चात्प्राप्त्युक्तेः । अतो वायोरपि परतो गन्तव्य-सद्भावान्न तस्यातिशयेन प्राधान्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ वैद्युतेनेति ॥ तत्र तत्र श्रुत्यादौ मार्गे प्रकारान्तरेण तारतम्यक्रमं विहाय प्राप्तेरुच्यमानत्वाद्वायोः परतो ब्रह्मणोऽ-र्वाग्गन्तव्योऽस्तीति न शङ्कनीयं किं तु वायुरेवान्तिमप्राप्यः । कुतः । यो ह्यन्तिमो भवति तस्य ब्रह्मप्रापयितृत्वेन भाव्यम् । राजादौ तथा दर्शनात् । ब्रह्मप्राप्तिश्च वायुनैव भवति । अतः स एवान्तिमः । ब्रह्मप्रापकत्वं च वायोः कुतः । ‘तत्पुरुषो मानवः स एनान् ब्रह्म गमयति’ इति श्रुतेरिति भावः । वायोरिवान्यस्यापि ब्रह्मप्रापकत्वेऽन्तिमत्वं सम्भवतीत्यत आह ॥ विद्युदिति ॥ अतो वायोरेवान्तिमत्वाद्युक्तं तस्यातिप्राधान्यमिति सिद्धम् ॥

भावबोधः

मुख्यवायोरन्तिमत्वसमर्थनादिति ॥ पूर्वाधिकरणे दिवस्पतित्वेनोक्तस्य मुख्यवायोरत्रान्तिम-प्राप्यत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र प्राप्तिमार्गः किं मुख्यप्राण-परब्रह्ममध्यगतकिञ्चित्प्राप्यको भवत्युत न भवतीति चिन्ता । तदर्थं ‘सोमं वैश्वानरं चेन्द्रं ध्रुवम्’ इत्यादिनोक्तोत्तमक्रमानुसारेण प्राप्तिक्रमाभावः, मध्ये कस्यचित् प्राप्यत्वसाधको भवत्युत न भवतीति । तदर्थं वायोरन्यस्य ब्रह्मप्रापकत्वशक्तिरस्त्युत नास्तीति । तदर्थं ब्रह्मपापकत्व-शक्तेर्मुख्यप्राणमात्रनिष्ठत्वे विशेषप्रमाणं नास्त्युतास्तीति । ‘सोमादग्निमग्नेरिन्द्रम्’ इति सोमा-दवरत्वस्यापि प्राप्तेः प्राधानवायोरप्यवरोऽन्यः प्राप्योऽस्तीति न्यायविवरणं मनसि निधाय पूर्वपक्षं रचयति । ‘ब्रह्मणोर्वाग्वायोः परतोऽन्यः प्राप्य’ इत्यादिना उदाहृतन्यायविवरणानुसारेण तत्र तत्रेत्यादिभाष्यं व्याचष्टे– तत्र तत्रेत्यादिना ॥ राजादौ तथा दर्शनादिति ॥ अनेन न हि राजानं यः कश्चित् प्रापयति । क्लृप्तमतिप्रियं चापहायेति न्यायविवरणांशो व्याख्यातो भवति । ब्रह्मप्राप्तिश्च वायुनैव भवतीति । अनेनोत्तमत्वात्तस्यैव ब्रह्मप्रापयितृत्वशक्तेरिति न्यायविवरणमुक्ततात्पर्यं भवति ॥ तत्पुरुषो मानव इति ॥ उपलक्षणमेतत् । ‘वायुरेव ब्रह्म, गमयति तस्य ह्येषा शक्तिः’ इत्यादिन्यायविवरणोदाहृतश्रुतेश्चेत्यपि द्रष्टव्यम् ।

भावदीपः

मुख्यवायोरन्तिमत्वेति ॥ एतेन पूर्वत्र दिवस्पतित्वबाधकेन चरमवायोरातिवाहिकत्वा-योगेऽपीह बाधकाभावान्मुख्यवाय्वनन्तरमपि तदवमः कश्चित्प्राप्योऽस्त्विति पूर्ववैषम्येण शङ्कना-त्पूर्वसङ्गतिरपि सूचिता । प्रधानवायोरप्यवरोऽन्यः प्राप्योऽस्त्वित्यन्यत्रोक्तप्रतिज्ञानुरोधेन वायो-रपीत्यादिभाष्यार्थमाह ॥ ब्रह्मण इति ॥ स्वयं हेतुमाह ॥ बाधकाभावादिति ॥ इयदा-मननादित्युक्तं हृदि कृत्वा शङ्कते ॥ न चेति ॥ तन्निरासकतया न्यायविवरणोक्तहेतुमुक्त्वा तत्रोक्तरीत्यैव हेतुमुपपादयति ॥ उत्तमत्वेति ॥ एतेनेयन्नयेन गतार्थता निरस्ता ॥ अत इति ॥ उत्तमत्वक्रमानुसारेण प्राप्तिक्रमाभावेन बाधकाभावादिति भावः ॥ भाष्यं व्याचष्टे ॥ तत्र तत्रेति ॥ भाष्यस्य फलितार्थमाह ॥ किं तु वायुरिति ॥ भाष्यशेषमवतारयति ॥ कुत इति ॥ अस्य अत इति परिहारः । तस्य विवरणम् ॥ यो हीत्यादि ॥ हि यस्मादंतिम एव ब्रह्मप्रापिता । राजादौ दर्शनात् । यतो ब्रह्मप्राप्तिश्च वायुनैवातः स एवान्तिम इत्यर्थः । भाष्ये वायुनैव ब्रह्मगमन-श्रुतेरित्युक्तहेतोरप्रयोजकत्वनिरासाय । न हि राजानं यः कश्चित्प्रापयतीति न्यायविवरणसूचिताया यो हीति सामान्यव्याप्तेरुक्तिः । भाष्योक्तश्रुतौ स इति तच्छब्दपरामर्शद्योतनाय पूर्ववाक्यमाह ॥ तत्पुरुष इति ॥ तस्याः पूर्वप्रकृतविद्युतः पुरुषो भर्ता मानवः । सर्वमनुस्वामी वायुरित्यर्थः ॥ अत इति ॥ वायोरेव ब्रह्मप्रापकत्वश्रवणादन्तिमस्यैव प्रभुप्रापकत्वस्य राजादौ दर्शनाच्चेत्यर्थः ॥

अभिनवचन्द्रिका

अन्यथेति । ननु वायोरन्तिमत्वसाधनं विनापि श्रुतिप्रामाण्यादेव अतिप्राधान्यसिद्धिर्भविष्यति । न हि भवति सोमेन्द्रयोर् अग्निध्रुवाभ्यां परतः प्राप्यत्वं न समर्थितमित्येतावता विद्यमानमपि तदुत्तमत्वावेदकं प्रमाणमनादृत्य तयोरुत्तमत्वासिद्धिः । ततश्चेदमधिकरणमनारम्भणीयमिति चेत् सत्यं सिध्यत्येव प्रमाणबलाद् अधिकार्युत्तमत्वं प्राणस्य, तथापि साक्षाद्भगवत्प्रापकत्वलक्षणं माहात्म्यं न सिध्यति । तद्यथा अमात्योत्तमस्यापि भाविपदनियुक्तस्य राजपुत्रस्य, राजेच्छाविरहान् न राजप्रापकत्वरूपं माहात्म्यम्, अपि तु अवरस्याप्यमात्यस्य तन्माहात्म्यं, तद्वदिहापि मुख्यप्राणस्य तन्माहात्म्यं नेति भ्रमनिरासाय समर्थनीयमेव चरमप्राप्यत्वमिति ॥ बाधकाभावादिति ॥ ननु मुख्यवाय्वनन्तरं प्राप्यान्तरसद्भावे प्रमाणमस्ति न वा । आद्ये तदेव वक्तव्यं, मानाधीनत्वान्मेयसिद्धेः । किं बाधकाभावोपन्यासेन । द्वितीये वाय्वनन्तरम् अन्यः प्राप्योऽस्तीति रिक्तं वचः । न हि भवति नास्ति प्रमाणम् अस्तितत्प्रमेयमिति इति चेत्, सत्यम् – प्रमाणमेव प्रमेयसिध्यर्थं वक्तव्यम् । उक्तं च – पूर्वपक्षिणा यदयमङ्गीकारे बाधकाभावमाह तदेव तत्र प्रमाणं बाधकाभावस्य वस्तुतथात्वेन विनाऽनुपपद्यमानत्वात् । तद्यथा रात्रिभोजनं विनाऽनुपपद्यमानं पीनत्वं तत्र प्रमाणमिति ॥ अतिशयेन प्राधान्यमिति ॥ सर्वेषां साक्षाद्भगवत्प्रापकत्व-रूपातिशयसहितप्राधान्यमित्यर्थः । एतेन इन्द्रादीनामिव प्रथमप्राप्यत्वेऽपि स्वाभाविकस्वमाहात्म्या-नपायाद् अतिशयेन प्राधान्यं न स्यादित्ययुक्तमिति परास्तम् ।

पूर्वपक्षस्तु वायोः परतः ब्रह्मणोऽर्वाक्गन्तव्योऽस्ति । तथाऽङ्गीकारे बाधकाभावात् । एवं च न वायोर् ब्रह्मप्रापकत्वरूपं विशिष्टं माहात्म्यमिति ।

सिद्धान्तस्तु नास्त्येव वायोरनन्तरं प्राप्यं यतः । विद्युत्पतिना वायुनैव ब्रह्मप्राप्तिर् न तु तदन्येन । तस्य ब्रह्म प्रापणसामर्थ्याभावात् । न च वायोरपि प्रमाणाभावेन तत्सामर्थ्याभाव इति वाच्यम् । ‘स एनान् ब्रह्म गमयति’ इति श्रुतेः । ‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चाऽपरः । कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति स्मृतेश्च । अतो वायोरेवान्तिमप्राप्यत्वाद् युक्तं तस्याऽतिशयेन प्राधान्यमिति सिद्धम् ॥

वाक्यार्थमुक्तावली

मुख्यवायोरन्तिमत्वसमर्थनादिति ॥ पूर्वाधिकरणे दिवःप्राप्त्यनन्तरं गम्यवायोर्मुख्यत्व-मुक्त्वाऽधुना तस्यैवान्तिमत्वप्राप्यत्वसमर्थनादनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ तदनन्तरमपि द्वारतया प्राप्तव्यान्तरसद्भावे दिव इव तस्याप्यतिप्राधान्यासिद्धेरित्यर्थः ॥ किमिति ॥ ब्रह्ममार्गे वायोरनन्तरं द्वारतया प्राप्योऽस्ति न वेति चिन्ता । तदर्थं तथाभ्युपगमे बाधकं नास्त्युतास्तीति । वायोरपि परतः ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीत्युत्तरभाष्यानुसारेण पूर्वपक्षयति ॥ ब्रह्मण इति ॥ तथाभ्युपगमेऽपीति ॥ दिवः ब्रह्मणो द्वारतया प्राप्यान्तरसाहित्यदर्शनात् प्रकृतेऽपि मार्गत्वेन हेतुतयाऽभ्युपगमे बाधकाभावादित्यर्थः । एतेन बाधकाभावमात्रस्य प्रमेयासाधकत्वात् कथं तन्मात्रोपन्यास इति निरस्तम् । सत्प्रतिपक्षमाशङ्क्य निषेधति ॥ न चेति ॥ कुतो न वाच्यमित्यतः प्रकारान्तरेण तत्र तत्रोच्यमानत्वादिति भाष्यसूचितं विक्रम इत्युक्तन्यायं विशदयति ॥ उत्तमत्वेति ॥

ननु दिवस्पतित्वेनावधृतमुख्यभावस्य वायोः पूर्वप्राप्यत्वे ब्रह्मैकगमयितृत्वाभावेन मुख्यत्व-व्याहतिरिति चेन्न । मुख्यप्राणस्य ब्रह्मैकगमयितृत्वे प्रमाणाभावात् । तथा चातिवाहिकस्य मुख्यान्यत्वे पूर्वगमनलिङ्गमप्यप्रयोजकमेवेति भावः । सूत्रे वैद्युतेनेति, भाष्ये च विद्युत्पतिना वायुनेति तृतीया प्रथमार्थे च । अन्तिमप्राप्य इति शेषः । तथा च विद्युतोऽयं वैद्युतः विद्युत्पति-र्वायुरेवान्तिमः प्राप्य इति प्रतिज्ञा न, किंतु वायुरेवान्तिमः प्राप्य इति वक्ष्यन् एवकार-व्यावर्त्यप्रदर्शनपरं प्रकारान्तरेणेत्यारभ्य न शङ्कनीयमित्यन्तभाष्यं व्याचष्टे ॥ तत्र तत्रेत्यादिना नाशङ्कनीय इत्यन्तेन ॥ प्रतिज्ञातार्थे हेतुं पृच्छति ॥ कुत इति ॥ तदुत्तरत्वेनापि वैद्युतेन तत इत्यंशं विद्युत्पतिना वायुनेति भाष्यं यतो ब्रह्मप्राप्तिश्चेत्यादावुपस्कारपूर्वं व्याचष्टे ॥ ब्रह्मप्राप्तिश्च वायुनैव भवत्यतः स एवान्तिम इति ॥ ब्रह्मप्रापयितृत्वहेतोरन्तिमत्वसाध्येन व्याप्तिमुपपादयितु-मन्तिमत्वस्य व्यापकत्वमाह ॥ यो हीति ॥ यो येन ह्यग्निमान् तस्य धूमवत्वेन भाव्यमिति-वदियमुक्तिरिति । दृष्टान्तमाह ॥ राजादाविति ॥ राजादावन्तिमेनैव गम्यत्वदर्शनादित्यर्थः । तदुक्तं न्यायविवरणे । न हि राजानं यः कश्चित्प्रापयति क्लृप्तमतिप्रियं चापहायेति हेतुस्वरूपे प्रमाणं पृच्छति ॥ ब्रह्मपापकत्वं चेति ॥ तदुत्तरत्वेन वैद्युतेनैव विद्युत्पतिना वायुनैव तच्छ्रुतेर्ब्रह्मगमन-मित्येतत्प्रतिपादकश्रुतेरिति भावेन प्रवृत्तं विद्युत्पतिनेत्यादिभाष्यं व्याचष्टे ॥ तत्पुरुष इति ॥ विद्युतं प्रस्तुत्य तस्याः पुरुषः पतिर्यो मानवः ज्ञानरूपत्वान्मनुनाम्नो हरेः सम्बन्धी वायुः स एनान्ब्रह्म गमयतीति श्रुतेरित्यर्थः । वायुनेत्यनुक्त्वा वैद्युतेनेति वचनं तत्पुरुषो मानव इति श्रुतिविशेष-द्योतनायेति भावः । वैद्युतग्रहणेनैव विद्युत्पतिर्वायुरेवेति स्मृतिश्च सूचितेति भावेनावतार्य व्याचष्टे ॥ वायोरिवेति ॥ स्मृतौ प्राणानां मन आदीन्द्रियदेवानां शेषादीनां नायकमृते कस्यापि ब्रह्मगमयितृत्वशक्तिर्नास्तीत्युक्तयोरुत्वमित्युक्तन्यायोऽपि हेतुस्वरूपसाधकमित्युक्तं भवति । तदुक्तं न्यायविवरणे । उत्तमत्वात्तस्यैव ब्रह्मगमयितृत्वशक्तेरिति ।

तत्त्वसुबोधिनी

मुख्यवायोरन्तिमत्वेति ॥ पूर्वाधिकरणे दिवस्पतित्वेन उक्तस्य मुख्यवायोरत्रान्तिमप्राप्यत्वं समर्थ्य तदनन्तरसङ्गतिरिति भावः ॥ उभयथासम्भव इति ॥ वायोर् उत्तमत्वाद् अन्यो मार्गत्वेन नास्ति अर्चिरादिवन्मध्येऽन्योऽपि भविष्यतीत्युभयथासम्भव इति । वायोर् उत्तमत्वाद् अन्यः मार्गत्वेन नास्ति ॥ तथा दर्शनादिति ॥ राज्ञः समीपस्थस्य अन्तिमस्य खण्डाधिपत्यादि-प्रापयितृत्वस्य दृष्टत्वादित्यर्थः । तत्पुरुषो मानव इति । उपलक्षणमेतत् । वायुरेव गमयति । तस्य ह्येषा शक्तिरिति श्रुतेश्चेत्यपि दृष्टव्यम् ।

वाक्यार्थविवरणम्

ब्रह्मण इति ॥ कार्याकार्यब्रह्मणः सकाशादर्वागित्यर्थः ॥ परत इति ॥ अनन्तरमित्यर्थः ॥ स एवेति ॥ वायोरनन्तरमन्यस्य प्राप्यत्वे तस्यैवान्तिमप्राप्यत्वप्राप्त्याऽधिकार्युत्तमत्वापत्तिरिति भावः । प्रकारान्तरेणेत्यस्यार्थमाह ॥ सोमं वैश्वानरमित्यादिना ॥ तथा दर्शनादिति ॥ अन्तिमस्य मन्त्रिण एव राजप्रापकत्वदर्शनादित्यर्थः ।

वाक्यार्थमञ्जरी

वैद्युतेनैव विद्युत्पतिना वायुनैव ब्रह्मप्राप्तेर्यतस्ततः स एवान्तिमप्राप्यस् तदेवं कुतस् तच्छ्रुतेस्तेनैव ब्रह्मप्राप्तः स एवेति श्रुतिसिद्धत्वादिति भावः ॥ राजादाविति ॥ क्लृप्तस्यातिप्रियस्यान्तिमप्राप्यस्य मन्त्रिण एव राजादिप्रापयितृत्वदर्शनादिति भावः ॥ तत्पुरुष इति ॥ तस्या विद्युतः पुरुषो भर्ता मननान्मनुर् भगवान् तत्पुत्रत्वान्मानवो वायुरेनानधिकारिणो ब्रह्म गमयतीत्यर्थः ॥

॥ इति वैद्युताधिकरणम् ॥ ५ ॥