०४ आतिवाहिकाधिकरणम्

ॐ आतिवाहिकस्तल्लिङ्गात् ॐ

४. आतिवाहिकाधिकरणम्

सूत्रभाष्यम्

ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ॥ ४ ॥

पूर्वोक्तस्त्वातिवाहिको वायुः । पूर्वगमनलिङ्गात् ॥

कुतः?–

तत्त्वप्रदीपिका

ननु ‘द्यौर्वाव विद्युत्तत्पतिं वायुमुपगम्य तेनैव परमभिगच्छति’ इति श्रुतेरुपरि च वायोर्गम्यत्वादेक एव द्विरूपो गम्यतेऽर्चिर्देववदित्येष्टव्यं स्यान्मतं, नासौ न्यायोऽत्रावतरति । तत्र तु द्वैरूप्यम् । ‘अग्निर्ज्योतिरिति द्वैधैवार्चिषः सम्प्रतिष्ठितिः’ इत्यादिविशेषवचनात् । नात्र द्वैरूप्ये प्रमाणं, बहुत्वाच्च वायूनां, द्वावेतौ वायू इति । तर्हि पूर्वः प्रधानोऽस्तु तत्प्रेषणे तूत्तरेषु गन्तॄणा-मवकाशदानाद्युपपत्त्या पूर्वं तस्य प्राप्तेर्युक्तत्वात्, गतौ तारतम्यक्रमस्यानपेक्षितत्वात्, न हि सोमाग्नीन्द्रध्रुवगतिः क्रमानुरोधिनीत्यत आह– आतिवाहिकस्तल्लिङ्गात् ॥ पूर्वत्रोक्तो वायुराति-वाहिकः, न प्रधानः, पूर्वप्राप्यत्वादेव लिङ्गात् ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तिमार्गेऽर्चिरनन्तरप्राप्यस्य वायोरातिवाहिकत्वसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा वायोरुत्तमत्वासिद्धेः समर्थनीयमेतत् । प्रकृतो वायुरत्र विषयः । किं मुख्यवायुरुतामुख्य इति सन्देहः । वायुशब्दः सन्देहबीजम् । मुख्यवायुरिति पूर्वः पक्षः । वायुशब्दस्य तत्रैव मुख्यत्वात् । तस्यापि प्राप्यत्वात् । न चात्र बाधकं किञ्चिदस्ति येन वायुशब्दस्यामुख्यार्थत्वं स्यात् । अतो वायोरर्चिषोऽनन्तरमेव प्राप्यत्वान्न तस्याधिक्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ आतिवाहिक इति ॥ योऽयं पूर्वं प्राप्यतयोक्तो वायुरसावातिवाहिक एव न तु मुख्यः । पूर्वप्राप्यत्वलिङ्गात् । तद्ध्यमुख्यस्यैव भवेन्न मुख्यस्येति भावः ॥

भावबोधः

अनन्तरसङ्गतिं सूचयन्नाह– वायोरातिवाहिकत्वसमर्थनादिति ॥ ननु तर्ह्यस्य ‘वायुशब्दात्’ इत्येतदानन्तर्यमेव स्यादिति चेत्, सत्यम् । एकवाक्यपठिततटिद्वरुणविचारस्यान्तरङ्गत्वेन तदानन्तर्यमेवास्य प्राप्तत्वादिति भावः ॥ किमिति ॥ अत्र ‘स इतो गतो द्वितीयं स वायुम्’ इति श्रुत्युक्तो वायुः किं मुख्य उतातिवाहिक इति चिन्ता । तदर्थं श्रौतोऽयं वायुशब्दो मुख्यया वृत्या प्राप्यत्वेनाभिमतमुख्यवायुपर उतामुख्यया वृत्त्या तथाभूतातिवाहिकपर इति । तदर्थं तत्पतिं वायुमुपगम्येत्यन्ते प्राप्यत्वेन श्रुतो वायुः किमातिवाहिक उत मुख्य इति ॥ तदर्थमन्ते प्राप्यस्य मुख्यवायुत्वे पूर्वप्राप्यस्यातिवाहिकत्वे च विशेषप्रमाणं नास्त्युतास्तीति । वायुशब्दस्य तत्रैव मुख्यत्वादिति । अनेन शाब्दे ज्ञाने शब्दमुख्यार्थस्यैव प्रथमं विषयत्वेन प्राप्तिः । तत्र बाधकोपस्थित्यनन्तरम् अमुख्यार्थस्येति मुख्यवायुग्रहणे प्रतीतिसुक्रमोपपत्तिरिति न्यायविवरणांशो व्याख्यातो भवति ।

भावदीपः

वायोरातिवाहिकत्वेति ॥ विद्युदनन्तरप्राप्यवायोर्मुख्यवायुत्वेत्यपि ध्येयम् । एतेन भिन्न-श्रुतिस्थभिन्नपदार्थयोरर्चिर्वाय्वोस्तटिद्वरुणयोश्च पौर्वापर्योक्तावत्रैव वायुशब्दार्थयोरातिवाहिक-मुख्ययोर्व्यवधानेन पौर्वापर्योक्तिरिति पूर्वसङ्गतिरपि सूचिता ॥ अन्यथेति ॥ आतिवाहिकत्वानुक्तौ मुख्यवायुत्वप्राप्तेश्चरमस्यातिवाहिकत्वप्राप्तेश्चेति भावः । न चैक एव मुख्यवायुरर्चिर्देववद् द्विरूप उभयत्र प्राप्योऽस्तु । तथा च नोत्तमत्वभङ्ग इति वाच्यम् । अग्निर्ज्योतिरिति द्वेधैवार्चिष इतिवदिह मुख्यवायुद्वैरूप्ये मानाभावादिति भावः । एतेन सोमाग्नीन्द्रध्रुवानां क्रमेण प्राप्त्युक्त्या गतौ क्रमस्याविवक्षितत्वात् । मुख्यवायोर्द्वितीयप्राप्यत्वेऽपि नोत्तमत्वभङ्ग इत्यपि निरस्तम् । मुख्य-वायोर्द्वैरूप्याभावेनोभयत्र प्राप्यत्वभावादादावेव प्राप्यत्वे विद्युत्पतित्वेनोक्तवायोरातिवाहिकत्वप्राप्त्या मुख्यवायोरियदामननादित्यत्रोक्ताधिकार्युत्तमत्वं न स्यादिति तात्पर्यात् । पूर्वोक्तस्त्वातिवाहिक इति भाष्यव्यावर्त्यमाह ॥ मुख्येति ॥ भाष्ये वायुपदप्रयोगसूचितयुक्तिमाह ॥ वाय्विति ॥ निमित्ताधिक्यादिति ॥ आकाशाद्वायुरित्यादाविवास्त्वत्राप्यमुख्योऽर्थ इत्यत आह ॥ न चेति ॥ प्रथमाप्राप्यत्वं तु न बाधकम् । तस्यापि सम्भवादिति भावः ॥ अत इति ॥ अबाधेन वायुशब्देन मुख्यस्यैव प्राप्तत्वादित्यर्थः । द्वैरूप्याभावेनोभयत्र प्राप्यत्वाभावमभिप्रेत्याह ॥ अर्चिषोऽनन्तर-मेवेति ॥ उद्देश्यविधेयव्यञ्जनेन भाष्यं व्याचष्टे ॥ योऽयमिति ॥

अभिनवचन्द्रिका

‘स वायुमागच्छति’ इति प्रथमप्राप्यतयोच्यमानो वायुरातिवाहिकः । तस्मादेव पूर्वगमन-रूपाल्लिङ्गाज् ज्ञापकादिति सूत्रार्थः । इदमुक्तं भवति ‘स वायुमागच्छति’ इति वायुः प्रथमप्राप्यतया श्रूयते । प्रथमत्वं च उत्तरमार्गावधिकत्वं, तत्र यद्यपि उत्तरावधिकत्वरूपं प्रथमत्वम् अर्चिरादिविद्युत्पर्यंतं सत्वान् नाऽऽतिवाहिकत्वसाधनायाऽलम्, तथापि वायुत्वनिश्चयसहकृतं पूर्वप्राप्यत्वम् आतिवाहिकत्वं साधयेदेव । तदिदमुक्तं लिङ्गादिति । एतेन – ‘आतिवाहिकस्तस्मात्’ इत्येतावता पूर्णत्वेन सूत्रे लिङ्गग्रहणं व्यर्थमिति परास्तम् । तस्य केवलस्य पूर्वप्राप्यत्वस्य अर्चिरादौ व्यभिचारेणाऽ-साधकत्वेऽपि वायुत्वनिश्चयसहकृतस्य साधकत्वमिति ज्ञापनार्थत्वात् ।

वाक्यार्थमुक्तावली

अन्यथेति ॥ यद्ययमातिवाहिको न भवेत् किन्तु विद्युदनन्तरप्राप्यो भारतीपतिरेव भवेत् तदा सर्वोत्तमो न स्यात् । न हि सर्वोत्त(मत्वं)मं प्राप्तस्य ब्रह्मप्राप्तिं विना तदादिप्राप्तिः सम्भवति । तथा च विद्युत्पतेस्सर्वोत्तमत्वसिध्द्यर्थम् अर्चिरनन्तरस्यातिवाहिकत्वं समर्थ्यते । तथा चेदमधिकरणं विद्युत्पर्यन्तं मार्गनिर्णये जाते तदनन्तरस्य वायोः प्राधान्यसिद्धये द्वितीयप्राप्यवायोरातिवाहिकत्व-समर्थनपरमित्यनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अर्चिषो वायुं गच्छतीत्युक्तो वायुः किं मुख्य उतामुख्य इति चिन्ता । तदर्थं वायुशब्दस्य मुख्यार्थग्रहणे बाधकं नास्त्युतास्तीति । अन्यस्य मुख्यार्थबोधकत्वं तद्बोधेऽमुख्यार्थबोधकत्वमिति क्रमः । वायुशब्देन मुख्यग्रहणे बाधकाभावान् मुख्य एव प्रथमप्राप्तो ग्राह्य इति भावेन सुक्रम इत्युक्तन्यायं विशदयति ॥ वायुशब्दस्येत्यादिना ॥ सम्बन्धदीपिकायां शङ्कराचार्यैर् वायुशब्दादित्याद्यधिकरणत्रयेऽपि सुक्रमस्य विशेषसंप्राप्तेश्च पूर्वपक्षसिद्धान्तन्यायतया योजितत्वादिति ज्ञेयम् । भाष्ये तुशब्दोऽवधारणे । अर्चिषोऽनन्तरं प्राप्यतयोक्तो वायुरातिवाहिकः प्रवह एव न तु मुख्यः । कुतस् तस्य तत्र मुख्यादन्यत्वे पूर्वप्राप्यत्व-लक्षणलिङ्गसद्भावात् । तद्धि पूर्वप्राप्यत्वममुख्यस्यैव भवेद् ब्रह्म विनाऽन्यप्रापकत्वादिति भावेन व्याचष्टे ॥ योऽयमित्यादिना ॥ नन्वातिवाहिकः प्रवह इत्यत्र किं प्रमाणमिति चेन्न । यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छतीत्यत्र बृहद्भाष्ये

प्रवहं वायुपुत्रं च सूर्यसौमौ च विद्युतम् ।

प्राप्य प्रधानवायुं च याति तत्परमं पदम् ॥

इत्यर्चिरनन्तरवायोः प्रवहत्वस्य मुख्यवायुपुत्रत्वस्य चोक्तत्वात् ।

तत्त्वसुबोधिनी

अभ्यनन्तरसङ्गतिं सूचयन्नाह ॥ वायोर् आतिवाहिकत्वसमर्थनादिति ॥ न चास्य वायुशब्दादित्येतत्तदानन्तर्यमेव स्यादिति वाच्यम् । एकवाक्यपतिततटिद्वरुणविचारस्यानन्तरत्वेन तदनन्तरमेवास्य प्राप्तत्वादिति भावः । ननु वायुशब्दस्य मुख्ये मुख्यत्वेऽपि नात्र तस्य मुख्यपरत्व-मित्यत आह ॥ न चेति ॥

वाक्यार्थविवरणम्

अन्यथेति ॥ अर्चिरनन्तरं प्राप्यस्य वायोर्मुख्यवायुत्वमित्यर्थः ॥ उत्तमत्वासिद्धेरिति ॥ अस्माद्वायोरुपरि अहरादेः प्राप्यत्वश्रवणेन तस्यैवोत्तमत्वप्रसङ्गादिति भावः । ननु वायुशब्दस्य तस्मिन् मुख्यत्वेऽपि अर्चिरादिमार्गे तस्य प्राप्यत्वाभावान् न तत्प्रसक्तिरित्यत आह ॥ तस्या-पीति ॥ ‘द्यौर्वाव विद्युत्तत्पतिं वायुमुपगम्य’ इति तस्यापि प्राप्यत्वश्रवणादित्यर्थः । अत्र मुख्यवायुग्रहणे ॥ न मुख्यस्येति ॥ मुख्यस्यान्ते प्राप्यत्वादिति भावः ।

वाक्यार्थमञ्जरी

अन्यथा वायोरिति ॥ प्रधानवायोरित्यर्थः । नीचानामेव प्रथमप्राप्यत्वादिति भावः ॥ ॐ आतिवहिकस्तल्लिङ्गात् ॐ ॥ अर्चिषोऽनन्तरं प्राप्यो वायुरिति आतिवाहिकस् तन्नामको मुख्यवायुपुत्र एव कुतस् तल्लिङ्गात् पूर्वप्राप्यत्वस्यामुख्यवायुलिङ्गादिति भावः । उक्तलिङ्गेन संशयनिवृत्तिः स्यादित्यत आह ॥ मुख्यस्यापीति ॥