ॐ तटितोऽधि वरुणस्सम्बन्धात् ॐ
३. तटिदधिकरणम्
सूत्रभाष्यम्
ॐ तटितोऽधि वरुणस्सम्बन्धात् ॐ ॥ ३ ॥
‘मासेभ्यस्संवत्सरं संवत्सराद्वरुणलोकं वरुणलोकात्प्रजापतिलोकम्’ इति कौण्डिन्यश्रुतिः । ‘संवत्सरात्तटितमागच्छति तटितः प्रजापतिलोकम्’ इति च गौपवनश्रुतिः । ‘तत्र तटितो वरुणं गच्छति । तटिता ह्यूह्यते वरुणलोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो राजा सत्यानृते विविञ्चति’ इत्युपरिसम्बद्धत्वश्रुतेः ॥
तत्त्वप्रदीपिका
‘अह्न आपूर्यमाणपक्षम् आपूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तन्मासेभ्यः संवत्सरं संवत्सरादा-दित्यम्’ इति छन्दोगश्रुतौ । ‘संवत्सराद्वरुणलोकं वरुणलोकात्प्रजापतिलोकम्’ इति कौण्डिन्यश्रुतौ । संवत्सरात्तटितमागच्छति तटितः प्रजापतिलोकमिति गौपवनश्रुतौ । तत्रानुक्तित उक्तेर्बलवत्त्वादुभय-श्रुत्यनुग्रहयोगाच्च संवत्सरादित्ययोरन्तराले प्रजापतेर्गम्यत्वमविचारेणैव सिद्धम् । तयोश्च श्रुत्योरेकैक-स्यामेकैकस्य गम्यत्वोक्तेः कतरस्य प्राथम्यमिति विचार्यते । वरुणस्येति प्राप्तम् । ‘विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति’ इति श्रुतेः । वृष्टेश्च जलात्मकत्वेन वरुणसम्बन्धित्वात् तटितस्तल्लोकस्थत्वोपपत्तेः पृथग्गम्यत्वाभावादित्यत आह– तत्र तटितो वरुणं गच्छतीत्यादि । अयमर्थः । संवत्सरलोका-त्तटिल्लोकं गच्छति तस्माद्वरुणलोकं, तटिल्लोकेन वरुणलोकस्य तदुपरिस्थत्वेन सम्बद्धत्वश्रुतेः ।
तत्त्वप्रकाशिका
अत्र सूत्रमेवादौ पठति ॥ तटित इति ॥ अत्र ब्रह्मप्राप्तिमार्गे तटितः संवत्सरानन्तर्य-समर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथानुस्मरणायोगस्यैव प्राप्तेः समर्थनीयमेतत् । प्रकृतो मार्ग एवात्र विषयः । स चार्चिरादिः संवत्सरपर्यन्तं निर्णीतः । तत्र किं संवत्सरलोकानन्तरं वरुणलोकस्य प्राप्यत्वमुत तटित इति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयति ॥ मासेभ्य इति ॥ वरुण-तटितोरुभयोरपि संवत्सरानन्तर्यमिति पूर्वः पक्षः । श्रुतिद्वयस्यापि प्रामाण्यात् । न च विरोधः । संवत्सरलोकात् प्रजापतिलोकं गन्तुमधिकारिभेदेन मार्गभेदोपपत्तेः । न चात्र पूर्ववक्तिंचिदन्यथयितुं प्रमाणमस्ति । अतो मार्गानिर्णयात्तदनुस्मरणानुपपत्तिरिति । सिद्धान्तयत्सूत्रं व्याचष्टे ॥ तत्रेति ॥ न प्रजापतिं गन्तुं मार्गभेदेन वरुणतटितोरुभयोरपि संवत्सरानन्तरत्वं ग्राह्यं किं त्वेक एव मार्गः । तत्र संवत्सरानन्तरं तटितमेव गच्छति । न च श्रुत्यन्तरविरोधः । तटितोऽनन्तरं वरुणस्य प्राप्यत्वेन तदर्थत्वोपपत्तेरिति भावः । कुत एतदित्यत आह ॥ तटितेति ॥ मुक्तामयो वीतरोगः । विविञ्चति विवेचयति । अतो मार्गैक्येनानुस्मरणमुपपद्यत इति सिद्धम् ॥
गुर्वर्थदीपिका
वीतरोग इत्यस्य वीता रोगा यस्मिन्निति समासः । मुक्तामयो मौक्तिकमय इति वा ।
भावबोधः
नन्वत्र ‘अर्चिषो वायुं वायोरहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षट् उदङेति मासान् मासेभ्यः संवत्सरं संवत्सराद्वरुणलोकम्’ इति श्रौतक्रमानुसारेण एतदधिकरणत्रयस्य क्रमेणानन्तर्यं वाच्यम् । तत्र शुक्लपक्षोत्तरायणसंवत्सरपरित्यागेन तदुपरितनतटिद्वरुणविचारपरस्यास्य कथं तदानन्तर्यमित्यत आह– स चेति ॥ विपरीतश्रुत्यभावेन तत्र विवादाभावादस्यैव विरुद्ध-श्रुतिविवादविषयत्वेन तदनन्तरं विचार्यत्वमिति तद्विचारपरस्यास्य अनन्तरसङ्गतिरिति भावः ॥ तत्र किमिति ॥ अर्चिरादिमार्गः किं साक्षात्तटिद्वरुणोभयानन्तर्योपेतसंवत्सरप्राप्यक उत क्रमिकतटि-द्वरुणानन्तर्योपेतसंवत्सरप्राप्यक इति चिन्ता । तदर्थमर्चिरादिमार्गेऽधिकारिभेदेन तटिद्वरुणयोरुभयो-रपि संवत्सरानन्तर्यमुपपद्यत उत नोपपद्यत इति । तदर्थं ‘संवत्सराद्वरुणलोकम्’ ‘संवत्सरात्तटितम्’ इति श्रुतिद्वयस्यापि निरवकाशत्वमुत ‘संवत्सराद्वरुणलोकम्’ इति श्रुतेः सावकाशत्वमिति । तदर्थं क्रमिकतटिद्वरुणानन्तर्योपेतसंवत्सरप्राप्यमार्गैक्ये विशेषप्रमाणं नास्त्युतास्तीति । ‘तेऽर्चिषमभि-सम्भवन्ति’ ‘अर्चिषोऽहरिति’ ‘स वायुमागच्छति’ इति श्रुतिद्वयविवक्षयैव ‘संवत्सराद्वरुणलोकम्’ ‘संवत्सरात्तटितम्’ इति श्रुतिद्वयविवक्षयापि तत्र तत्रेत्यादिन्यायविवरणं प्रवृत्तमित्याशयेन पूर्वपक्षमाह– उभयोरपीति ॥ ‘वरुणलोकात् प्रजापतिलोकम्’ ‘तटितः प्रजापतिलोकम्’ इति श्रुतिशेषद्वयोदाहरणस्य तन्निवर्तनीयाशङ्कानिरासपूर्वकं प्रयोजनमाह– न च विरोध इत्यादिना । अभ्यधिकाशङ्कामाह– न चात्रेति ॥ किं त्वेक एवेति ॥ अनेन ज्ञानिनामेकमार्गस्यैव प्राप्तेरिति न्यायविवरणांशस्य तात्पर्यमुक्तं भवति । न्यायविवरणे विशेषश्रुतित इत्युक्ता विशेषश्रुतिस् तटिता ह्यूह्यत इति भाष्योदाहृतैव । अत एवोपरि सम्बन्धादित्यनुक्त्वा उपरि सम्बन्धत्वश्रुतेरिति भाष्यऽभिहितमिति ज्ञेयम् ॥ वीतराग इति ॥ अन्यथा सत्यानृतविवेचकत्वं न स्यादिति भावः ॥
भावदीपः
पूर्ववद् भ्रान्तिनिरासायाह ॥ अत्रेति ॥ अधिकरण इत्यर्थः । एतदर्थस्यैतदध्यायादितो वाच्यत्वेऽपि सर्वत्रापि संयोजनाय क्वचिद्वक्तव्यत्वादत्र पूर्वत्र चोक्तमित्याहुः ॥ आदाविति ॥ सङ्गत्यादिजिज्ञासाजननायेति भावः । एतेनास्य गुणरूपत्वं प्रत्युक्तम् ॥ तटित इति ॥ तटित एवेत्यर्थः । तृतीयादिप्राप्यमविचार्यैतद्विचारे को हेतुरित्यत आह ॥ स चेति ॥ निर्णीत इति ॥ अर्चिषोऽहो ऽह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासान् मासेभ्यः संवत्सरमिति छन्दोगश्रुतावुक्तक्रमेऽपवादाभावान् निर्णीत इत्यर्थः । वरुणलोकस्य वरुणलोकस्यापि । तटितस् तटित एवेत्यर्थः । यद्यपि छान्दोग्ये संवत्सरादादित्यमिति संवत्सरानन्तर्यमादित्यस्य श्रुतम् । भाष्योक्तश्रुत्योश्च वरुणतटितोरित्यस्यादित्यस्यापि संवत्सरानन्तर्यावकाशः । तथाप्यनुक्ति-वदुक्तेर्बलवत्त्वाद्भाष्योक्तोभयश्रुत्यनुग्रहाच्च संवत्सरादित्ययोरन्तराले प्रजापतेः प्राप्यत्वमविचारेण सिद्धमिति प्रजापतेः पूर्वं संवत्सरात्पश्चात्तटिद्वरुणयोः समकक्ष्यत्वमुत पौर्वापर्यमित्येवमेव सन्देहः प्रदर्शितः । अत एव भाष्ये श्रुतिद्वयेऽपि प्रजापतिलोकमित्यंशस्याप्युक्तिः । अत एव चाग्रे टीकायां संवत्सरात्प्रजापतिलोकं गन्तुमिति वक्ष्यति । अन्यथा अधिकारिभेदेनेत्याद्ये वावेक्ष्यदत्रेति । पृथक्न्यायविवरणाभावात्पूर्वत्रेवात्रापि पूर्वोत्तरपक्षौ विवृण्वन् पूर्वपक्षं तावदाह ॥ वरुणेति ॥ गतार्थतामाशङ्क्याह ॥ न चात्रेति ॥ अन्यथयितुं तटिद्वरुणयोः पौर्वापर्यमिति वक्तुम् ॥ अत इति ॥ द्वयोरपि संवत्सरानन्तरत्वादित्यर्थः ॥ पूर्वत्रेव सिद्धान्तमाह ॥ नेत्यादिना ॥ तटितोऽ-धीत्यादिविन्यासलब्धमाह ॥ तत्र संवत्सरेति ॥ एकमार्गत्वे सतीत्यर्थः । मासेभ्य इति श्रुतिविरोधनिरासकतया सूत्रभाष्ये व्याचष्टे ॥ न चेत्यादिना ॥ आमयपदस्य रोगार्थत्वादाह ॥ वीतरोग इति ॥ तटिद्वरुणयोः पौर्वापर्येणैकमार्गत्वादित्यर्थः ॥
अभिनवचन्द्रिका
पूर्वपक्षस्तु वरुणतटितोरुभयोरपि संवत्सरानन्तर्यम् । ‘मासेभ्यः संवत्सरं संवत्सराद्वरुणलोकम् । तथा ‘संवत्सरात्तटितमागच्छति’ इत्युभयथाश्रुतेः । मार्गभेदेन उभयोरपि संवत्सरानंतर्योपपत्तौ अन्यतरस्वीकारे कारणाभावात् । अतो मार्गनिर्णयाभावात् तदनुस्मरणानुपपत्तिरिति ।
सिद्धान्तस्तु न वरुणतटितोरुभयोरपि संवत्सरानन्तर्यं ग्राह्यम्, किन्तु एक एव मार्गः । तत्र संवत्सरानन्तरं तटितमेव गच्छति । न च श्रुत्यन्तरविरोधः । तटितोऽनन्तरं वरुणस्य प्राप्यत्वेन तदर्थत्वोपपत्तेः । अतो मार्गैक्येनाऽनुस्मरणमुपपद्यत इति सिद्धम् ॥
वाक्यार्थमुक्तावली
अत्र सूत्रमेवेति ॥ यद्यपि पूर्वाधिकरणेऽप्यादौ सूत्रं पठितं तथापि तत्र वक्तव्यसंशयबीजस्य श्रुतिविप्रतिपत्तेस्तत्पूर्वाधिकरण एव दर्शितत्वाद्वक्तव्यशेषाभावात्सूत्रमुपन्यस्य व्याख्यानं कृतम् । अत्र तु संशयबीजस्योत्तरत्र प्रदर्शयिष्यमाणत्वाद्व्याख्यानार्थं सूत्रस्यापठितत्वात्सङ्गत्यादिजिज्ञासा-जननायैवादौ सूत्रं पठतीति भावः । अत्र ब्रह्मप्राप्तिमार्ग इति । अर्चिषो वायुं वायोरहो ऽह्न आपूर्यमाणपक्षमापूर्यमाणपक्षान् मासान् षट् उदगायनमासान् । मासेभ्यः संवत्सरं संवत्सरा-द्वरुणलोकमिति श्रुतौ तटितो वरुणात्पूर्वं संवत्सरानन्तर्यसमर्थनादित्यर्थः ॥ नन्वह्नो वाय्वानन्तर्यं समर्थनीयं क्रमप्राप्तत्वादित्यत आह ॥ स चेति ॥ उक्ते मार्गे यत्र यत्र विवादस्तत्र तत्र क्रमेण निरस्यते । संवत्सरपर्यन्तं विवादो यत्र यत्रास्ति तत्र तत्र तदुच्छंकनेन निरस्त इति मार्गो निर्णीतः । अधुना संवत्सरानन्तरकक्ष्यायां विप्रतिपत्तिसद्भावात्तन्निरासेन तटितस्तदानन्तर्यं निर्णीयत इत्यनन्तरसङ्गतिरिति भावः ॥ तत्र किमिति ॥ तत्र किं संवत्सरलोकानन्तरं तटित इव वरुणलोकस्यापि प्राप्यत्वमुत तटित एवेति सन्देह इत्यर्थः । ततश्चात्र संवत्सरलोकानन्तरं वरुणलोकस्य तटितश्चाधिकारिभेदेन प्रजापतिं प्राप्तुं मार्गतया प्राप्यत्वमुत सर्वैरपि तटित एवेति चिन्ता । तदर्थं संवत्सरानन्तरं तटित एव प्राप्यत्वे साधकं वरुणस्य संवत्सरानन्तरप्राप्यत्व-श्रुतेस्सावकाशत्वापादकं विशेषप्रमाणं नास्त्युतास्तीति ॥ श्रुतिद्वयस्येति ॥ संवत्सराद्वरुणलोकं संवत्सरात्तटितमिति श्रुतिद्वयस्य निरवकाशत्वादित्यर्थः । भाष्ये वरुणलोकात्प्रजापतिलोकं तटितः प्रजापतिलोकमिति श्रुतिशेषद्वयोदाहरणात्सूचितं सुक्रम इत्युक्तपूर्वपक्षन्यायं तद्व्यवच्छेद्यचोद्यपद-प्रतिक्षेपपूर्वं दर्शयति ॥ न चेत्यादिना ॥ अभ्यधिकाशङ्कामाह ॥ न चेति ॥ सूत्रे संवत्सरादिति शेषः । एवेति लभ्यते । तथा च संवत्सरादधि उपरि अनन्तरं तटित एव प्राप्यत्वमिति वक्ष्यन्नेवकारेणोभयोरपि प्राप्यत्वं पूर्वपक्ष्यभिमतं व्यावर्त्यत इति तावदाह ॥ प्रजापतिमिति ॥ किंत्वेक एवेति । एतेन विशेषसंप्राप्तिरिति न्यायेन प्राप्तिरित्यंशोऽपि दर्शितः । तदुक्तं न्यायविवरणे । ज्ञानिनामेकमार्गस्यैव प्राप्यत्वादिति । तत्रेत्यादिभाष्ये तत्रेत्यनन्तरमध्याहार्यं दर्शयन्सूत्रं व्याचष्टे ॥ तत्रेति ॥ मार्ग इत्यर्थः । ननु संवत्सरानन्तरं तटित एकस्यैव प्राप्यत्वे संवत्सराद्वरुणलोकमिति श्रुतिविरोध इत्याशङ्क्य तत्सावकाशत्वाय तटितोऽधि वरुण इत्येतद्व्याख्यापरं तटितो वरुणं गच्छतीति भाष्यं व्याचष्टे ॥ न चेत्यादिना ॥ कुत इत्यत आहेति ॥ कुतः प्रमाणादित्याशङ्कायां वरुणस्य तटितोऽधि उपरि सम्बन्धात् सम्बन्धत्वप्रतिपादकश्रुतेरिति श्रुत्युदाहरणपूर्वं सूत्रखण्डार्थ-माहेत्यर्थः । तेन न्यायेन विशेषेत्यंशोऽपि विशेषश्रुत्येति विवृतो भवति ।
तत्त्वसुबोधिनी
नन्वत्र अर्चिषो वायुं, वायोरहो ऽह्न आपूर्यमाणपक्षमापूर्यमाणापक्षाद्यान् षडुदङ्ङेति मासा-न्मासेभ्यः संवत्सरं संवत्सराद्वरुणलोकमिति श्रौतक्रमानुसारेण एतदधिकरणत्रयस्य क्रमेणानन्तर्यं वाच्यम् । तत्र शुक्लपक्षोत्तरायणसंवत्सरपरित्यागेन तदुपरितनतटिद्वरुणविचारपरस्यास्य कथं तदानन्तर्यमित्यत आह ॥ स चेति ॥ विपरीतश्रुत्यभावेन तत्र विवादाभावात् । अस्यैव विरुद्धश्रुतिविवादविषयत्वेन तदनन्तरविचार्यत्वमिति तद्विचारपरस्यानन्तरसङ्गतिरिति भावः । वरुणलोकात् प्रजापतिलोकं तटितः प्रजापतिलोकमिति श्रुतिशेषद्वयोदाहरणस्य तन्निवर्तनीयाशङ्का-निरासपूर्वकं प्रयोजनमाह ॥ न च विरोध इति ॥ अभ्यधिकाशङ्कामाह ॥ न चात्रेति ॥ वीतरोग इति ॥ अन्यथा सत्यानृतविधेयकत्वं न स्यादिति भावः ॥
वाक्यार्थविवरणं
श्रुत्यन्तरेति ॥ संवत्सराद्वरुणलोकमिति श्रुत्यन्तरेत्यर्थः ॥ तटितोऽनन्तरमिति ॥ तथा च तटितस् तटिल्लोकाद् अधि उपरि अनन्तरमिति यावत् । वरुणस्तल्लोकः प्राप्य इति सूत्रखण्डार्थो द्रष्टव्यः । भाष्ये ॥ तडिता ह्यूह्यतेति ॥ तटिता तटिल्लोकेन वरुणः वरुणलोक ऊह्यते । तथा च वाह्यवाहकयोर्वाह्यस्योपरितनत्वं वाहकस्याधस्तनत्वं प्रसिद्धमिति वाहकस्य तटिल्लोकस्याधस्तनत्वं तद्वाह्यस्य वरुणलोकस्योपरितनत्वमिति भावः ।
वाक्यार्थमञ्जरी
तटितस् तटिल्लोकादधि उपरि वरुणः प्राप्यः कुतः सम्बन्धात् तटितश्रुतौ वरुणलोकस्य तदुपरिसम्बन्धोक्तेरित्यर्थः ॥ निर्णीत इति ॥ विवादविषयस्य निर्णीतत्वादित्यत्र विवादाभावादिति भावः ॥ अन्यथेति ॥ तटिदनन्तरं वरुणप्राप्तिं ज्ञापयितुमित्यर्थः ॥ वीतरोग इति ॥ अन्यथा सत्यानृतविवेचकत्वं न स्यादिति भावः ॥
॥ इति तटिदधिकरणम् ॥ ३ ॥