०२ वायुगत्यधिकरणम्

ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ

२. वायुगत्यधिकरणम्

सूत्रभाष्यम्

ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ २ ॥

अर्चिषो वायुं गच्छति । ‘स वायुमागच्छति’ इति सामान्यवचनात् । ‘स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरहरह्न आपूर्यमाणपक्षम्’ इति विशेषवचनाच्च ॥

तत्त्वप्रदीपिका

अर्चिर्देवं गत्वा ततो वायुं गच्छति । न प्रथमत एव । उक्तन्यायेन ‘स वायुमागच्छति’ इत्यस्य सामान्यवचनत्वात् । अर्चिषो वायुमेव गच्छति च वायोर्द्वितीयप्राप्यत्वे विशेषवचनात् ॥

तत्त्वप्रकाशिका

अत्र ब्रह्ममार्गे वायोर्द्वितीयप्राप्यत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा मार्गानिर्णया-दनुस्मृत्यसिद्धेः समर्थनीयमेतत् । प्रकृतो मार्गो विषयः । किं तत्र वायुर्द्वितीयप्राप्य उताहरिति सन्देहः । ‘वायुमागच्छति’ ‘अर्चिषोऽहः’ इति श्रुतिविप्रतिपत्तिः सन्देहबीजम् । उभयोरपि पूर्ववदधिकारिभेदेन मार्गभेदाद् द्वितीयप्राप्यत्वमिति पूर्वः पक्षः । श्रुतिद्वयस्यापि प्रामाण्यात् । न च पूर्ववद्व्यवस्थाऽत्र काचित् सम्भवति । तादृशप्रमाणाभावात् । अतो मार्गनिर्णयाभावा-त्तदनुस्मृत्ययोग इति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ वायुशब्दादिति ॥ न मार्गभेदेन द्वयोरपि द्वितीयप्राप्यत्वं मन्तव्यं किं त्वेक एव मार्गः । तत्रापि मार्गेऽर्चिषोऽनन्तरमेव वायुं गच्छति । न च श्रुत्यन्तरविरोधः । वायोरनन्तरमह्नः प्राप्तिसम्भवादिति भावः । कुत एतदित्यत आह ॥ स इति ॥ युक्तं वायोरेव द्वितीयत्वं सामान्यतः प्राथम्येन वायोः प्राप्यत्वे श्रुतिसद्भावात् । सामान्य-श्रुतेश्च यावदर्थे विशेषश्रुतिविरोधस्तावन्मात्रस्यैव त्याज्यत्वेनात्र प्रसिद्धिविरोधेन प्राथम्यायोगेऽपि द्वितीयत्वस्याऽऽवश्यकत्वात् । न हि भवति यागीयपशुहिंसाविधिविरोधेन, ‘न हिंस्यात्सर्वा भूतानि’ इति वाक्यस्य तदन्यहिंसानिषेधकत्वाभाव इति भावः । न केवलमेतन्न्यायेन वायोर्द्वितीय-प्राप्यत्वसिद्धिरपि तु विशेषश्रुतेश्चेति तामुदाहरति ॥ स इति ॥ अतो मार्गनिर्णयाद्युक्ता तदनुस्मृतिरिति सिद्धम् । वायुश्रुतेर्गतिप्रदर्शनार्थं चैतत्सूत्रम् । प्राथम्यश्रुतेः सामान्यत्वात्सामान्यस्य च विशेषश्रुत्या द्वितीयप्राप्यत्वं वदन्त्या बाधोपपत्तेर्द्वितीयप्राप्यत्वं वायोस्तदर्थ इति ।

भावबोधः

वायोर्द्वितीयप्राप्यत्वसमर्थनादिति । ‘तेऽर्चिषमेवाभियन्ति’ ‘ततो वायुम्’ इति श्रुतौ क्रमानुसारेणार्चिषः प्रथमप्राप्यत्वं प्रथमाधिकरणे प्रतिपाद्यात्र वायोर्द्वितीयप्राप्यत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किं तत्रेति ॥ अत्र ब्रह्मप्राप्तिमार्गः किं वायुरह उभयद्वितीयक उत वायुमात्रद्वितीयक इति चिन्ता । तदर्थं प्राप्तिमार्गेऽधिकारिभेदेनोभयोरपि द्वितीयत्वमुपपद्यत उत नोपपद्यत इति । तदर्थं ‘अर्चिषोऽहः, स वायुमागच्छति,’ इति श्रुतिद्वयस्यापि निरवकाशत्वम् उत ‘अर्चिषोऽहः’ इति श्रुतेः सावकाशत्वमिति । तदर्थं वायुमात्रद्वितीयकत्वे विशेषप्रमाणं नास्त्युता-स्तीति । स वायुमागच्छतीति । अस्याः श्रुतेः प्रागुक्तरीत्या वायोर्द्वितीयप्राप्यत्वप्रतिपादकत्वमिति भावः । अत्र भाष्ये एतच्छ्रुतिद्वयानुदाहरणं तु पूर्वमुदाहृतत्वात् । अत एव पूर्वं ‘अर्चिषोऽहः’ इत्यधिकांशोदाहरणमिति ज्ञातव्यम् । तत्र तत्रेत्यादिन्यायविवरणमेतदधिकरणपूर्वपक्षसम्बन्ध्यपि भवतीत्यभिप्रेत्याह– उभयोरपि पूर्ववदिति ॥

पूर्वन्यायेन दूषयितुं शक्यत्वात् कथमस्यायुक्तेरुपन्यास इत्यत आह– न च पूर्ववद्व्यवस्थेति । किं त्वेक एव मार्ग इति । अनेन ज्ञानिनामेकमार्गस्यैव प्राप्तेरिति न्यायविवरणमुक्ततात्पर्यं भवति । भाष्ये ‘अविशेष’ इति सूत्रांशव्याख्यानपरेण ‘सामान्यवचनात्’ इत्यनेन ‘स वायुमागच्छति’ इत्यस्य वायोर्द्वितीयत्वसाधकत्वं कथमुच्यते ? अनिर्णायकत्वादित्यतस्तदुपपादयति– सामान्य-श्रुतेश्चेत्यादिना ॥ प्रसिद्धिविरोधेनेति ॥ ‘तत्प्रथितेः’ इत्युक्तप्रसिद्धिविरोधेनेत्यर्थः ॥ तामुदाहर-तीति ॥ उपलक्षणं चैतत् । ‘सर्वे वा एतदुत्क्रामन्ति’ । ‘तेऽर्चिषमेवाभियन्ति’ ‘ततो वायुं ततोऽहः’ इति न्यायविवरणोदा हृतश्रुतिरपि वाय्वह्नोर्द्वितीयप्राप्यत्वप्रतिपादकत्वेनाप्यस्मिन्नर्थे विशेषश्रुतिरिति ज्ञातव्यम् । अनेन ‘अविशेषविशेषाभ्याम्’ सामान्यतो विशेषतश्च ‘वायुशब्दात्’ इति सूत्रार्थ उक्तो भवति । अविशेषविशेषाभ्यां वायुशब्दाद्वायुशब्दोपेतसामान्यश्रुतेर् द्वितीय-प्राप्यत्वप्रतिपादकतया वायुशब्दोपेतविशेषश्रुत्या बाधेन वायोर्द्वितीयप्राप्यत्वप्रतिपादकत्वं तदर्थ इति सूत्रस्यार्थान्तरप्रदर्शनपरतयापि भाष्यं व्याचष्टे– वायुश्रुतेरिति ॥ अनेन ‘अर्चिषो वायुं गच्छति’ इति भाष्ये इति श्रुत्यर्थ इति शेष इत्युक्तं भवति । सामान्यत्वादित्यनेन भाष्ये सामान्यवचनादिति भावप्रधान इत्युक्तं भवति ।

ननु सामान्यवचनत्वादेव प्रथमप्राप्यत्वप्रतिपादकत्वं किं न स्यादित्यतः प्रवृत्तस्य ‘स इतो गतो द्वितीयं गतिं वायुमागच्छति’ इति विशेषवचनाच्चेति भाष्यस्याभिप्रायमाह– सामान्यस्य चेति ॥ अस्मिन् व्याख्याने ‘वायोरहरह्न आपूर्यमाणपक्षः’ इति श्रुत्युदाहरणस्य अनुपयोगात् तदनुरोधेन प्राचीनं व्याख्यानम् । अत एव तत्र वायोरनन्तरमह्नः प्राप्तिसम्भवादिति एतदुदाहरणस्योपयोग उक्तः ।

भावदीपः

ब्रह्ममार्गे ब्रह्मप्राप्तिरूपमोक्षमार्ग इत्यर्थः ॥ वायोरिति ॥ वायोरेवेत्यर्थः । एतेन पूर्वत्र मोक्षमार्गे प्रथमप्राप्यदेवता निर्णीता । अत्र तु द्वितीयप्राप्या निर्णीयत इति पूर्वसङ्गतिरपि सूचिता ॥ वायुरिति ॥ वायुरेव ॥ अहरिति ॥ अहर्देवतापीत्यर्थः । एवं च सन्देहस्य न पूर्वपक्षानानु-गुण्यमिति ध्येयम् । न्यायविवरणे चास्य पूर्वस्माच्छङ्कानिरासमात्रार्थतया पृथक्पूर्वोत्तरन्यायानुक्तेः पूर्वोक्तावेव पूर्वोत्तरन्यायावत्रापि योजयन् पूर्वत्रेवात्रापि पूर्वपक्षं व्यञ्जयति ॥ उभयोरपीति ॥ मार्गभेदप्रापकयोरप्रामाण्ये नोपपत्तिमाशङ्क्याह ॥ श्रुतिद्वयस्येति ॥ तत्रोपपत्तिरधिकारीत्यादिना प्रागेवोक्ता । एतेन द्वितीये निवेशः प्रत्युक्तः । तर्हि पूर्वेणैव गतार्थमेतदित्यत आह ॥ न चेति ॥ अर्चिषः प्राथम्यं तदानन्तर्यमितिवद् अह्नो द्वितीयत्वं वायोस्तदानन्तर्यमिति वायोरेव द्वितीयत्व-मह्नस्तदानन्तर्यमिति वा काचिद् व्यवस्था न च सम्भवति । येन पूर्वेण गतार्थतेत्यर्थः ॥ तादृशेति ॥ द्वावेव मार्गावित्येवंरूपेत्यर्थः । एतेन पूर्ववैषम्येणाप्यत्र पूर्वपक्षप्रवृत्त्या प्रत्युदाहरणरूपा च पूर्वसङ्गतिः सूचिता ॥ अत इति ॥ द्वयोरपि द्वितीयप्राप्यत्वादित्यर्थः ॥ पूर्वत्रेव सिद्धान्तमाह ॥ नेति ॥ भाष्यं व्याचष्टे ॥ अर्चिष इति ॥ श्रुत्यन्तरेति ॥ अर्चिषोऽहरिति श्रुत्यन्तरेत्यर्थः ॥ कुत इति ॥ कुतो मानाद्वायोरानन्तर्यमह्न इत्यर्थः । कथं सामान्यवचनस्योक्तार्थसाधकतेत्यतो व्यनक्ति ॥ युक्तमिति ॥ प्रसिद्धीति ॥ प्रथितेरित्युक्तस्मृत्यादिप्रसिद्धीत्यर्थः ॥ विधीति ॥ पशुमाल-भेतेत्यादिविधीत्यर्थः ॥ अत इति ॥ वायोरेव द्वितीयप्राप्यत्वादित्यर्थः । एवं सूत्रस्य वायोरेव द्वितीयप्राप्यत्वनिर्णयार्थत्वमेकं फलमुक्त्वा वायुशाब्दादविशेषादित्येव पूर्तौ विशेषवचनोक्ति-सार्थक्याय फलान्तरमाह ॥ वायुश्रुतेरिति ॥ यद्वा यावदर्थ इत्यादिपूर्वोक्तदिशा स वायुमिति सामान्यश्रुतेर्द्वितीयप्राप्यपरत्वसम्भवात्सूत्रं चेदमनर्थकमित्यत आह ॥ वायुश्रुतेरिति ॥ विशेषश्रुत्या द्वितीयप्राप्यपरत्वरूपगतीत्यर्थः । तदेव व्यनक्ति ॥ प्राथम्येति ॥

अभिनवचन्द्रिका

सूत्रयोजना तु – ‘सुपां सुपो भवन्ति’ इति वचनात् पञ्चमीद्विवचनस्य पञ्चम्येकवचनादेशः । अविशेषविशेषाभ्यां सामान्यविशेषात्मकाभ्यां वायुशब्दोपेतश्रुतिभ्यां वायुरेव द्वितीयप्राप्य इति । इदं सूत्रं पृथगधिकरणतया योजयित्वा पूर्वाधिकरणशेषतयापि योजनां सूचयितुं प्रतिजानीते – वायुश्रुतेरिति ॥ अस्मिन्पक्षे वायुशब्दादिति पञ्चमी षष्ठ्यर्थे । वायुशब्दोपेतस्य ‘स वायुमागच्छति’ इति श्रुतिवाक्यस्य वायोर्द्वितीयप्राप्यत्वमेवार्थोऽवगन्तव्यः । सामान्यविशेषभावोपपन्नाभ्यां श्रुतिभ्यामेकस्यैवाऽर्थस्य प्रतिपत्तव्यत्वादिति सूत्रयोजना ।

पूर्वपक्षस्तु अधिकारिभेदेन मार्गभेदाद्वायुलोकस्येवाऽहर्लोकस्यापि द्वितीयप्राप्यत्वं ‘स वायुमागच्छति अर्चिषोऽह’रित्युभयत्रापि श्रुतिसद्भावात् । न च एकस्य पूर्वत्वम्, अपरस्याऽऽनन्तर्य-मिति व्यवस्था । विशेषप्रमाणाभावात् । अतो मार्गनिर्णयाभावादनुस्मृत्ययोग इति ।

सिद्धान्तस्तु नात्र मार्गभेदः किं तु एक एव मार्गः । तत्रापि अर्चिषो वायुं गच्छति तदनन्तरमहः ‘स वायुमागच्छति’ इति वायोः प्रथमप्राप्यत्वश्रुतेः, सामान्यश्रुतेश्च मुख्य-प्राथम्यबाधेऽमुख्यप्राथम्यपरत्वात् । तद्यथा ‘न हिंस्यात्’ इति निषेधस्य यागीयपशुहिंसा-निषेधपरत्वासम्भवेन बाह्यहिंसानिषेधपरत्वम् । ‘स इतो गतो द्वितीयां गतिं वायुयागच्छती’ति विशेषश्रुतेश्च । अतो मार्गनिर्णयाद् युक्ता तदनुस्मृतिरिति सिद्धम् । अथवा पुनरस्तु ‘वायुशब्दादविशेषविशेषाभ्याम्’ इति सूत्रं ‘स वायुमागच्छति’ इति श्रुतेरप्रामाण्यप्रसङ्गपरिहाराय गतिप्रदर्शनार्थं सत् पूर्वाधिकरणशेषः ॥

वाक्यार्थमुक्तावली

द्वितीयप्राप्यत्वेति ॥ यदा पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छतीति श्रुतेरर्चिरनन्तरं वायोः प्राप्यत्वार्थकत्वेन यत्सावकाशत्वमुक्तं तन्निर्वाहाय द्वितीयप्राप्यत्वसमर्थनादनन्तरसङ्गतिः ॥ किमिति ॥ किं तत्र वायुरेव द्वितीयप्राप्य उताहरपीति सन्देह इत्यर्थः । ततश्च ब्रह्मप्राप्ति-मार्गेऽधिकारिभेदेन वायुरहश्च द्वितीय उत सर्वेषां वायुरेवेति चिन्ता । तदर्थं वायोरेव द्वितीयत्वे व्यवस्थापकं प्रमाणं नास्त्युतास्तीति । अस्याः श्रुतेः पूर्वोक्तरीत्या वायोर्द्वितीय प्राप्यत्वपर्यव-सन्नत्वाद्द्वितीयप्राप्यत्वप्रतिपादकत्वमिति भावः । अत्र भाष्ये संशयबीजतया पूर्वपक्षसूचकतया चैतच्छ्रुतिद्वयानुदाहरणं तु पूर्वमुदाहृतत्वात् । अत एव पूर्वमर्चिषोऽहरित्यधिकांशोदाहरणं ज्ञेयम् । अत्रापि सुक्रम इत्युक्तन्यायेनैव पूर्वपक्षमाह ॥ उभयोरपीति ॥ पूर्वसिद्धान्तन्यायेन गतार्थत्वमाशङ्क्य तन्न्यायविषयत्वमाह ॥ न चेति ॥ सूत्रे अध्याहारपरमर्चिषो वायुं गच्छतीति भाष्यं व्याचष्टे ॥ न मार्गभेदेनेत्यादिना ॥ ननु सामान्यश्रुतिः कथमर्चिरनन्तरं प्राप्यत्वे प्रमाणमित्यत आह ॥ सामान्यतः प्राथम्येनेति ॥ यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छतीति प्रमाणान्तरे प्राप्त्युक्त्या प्राथम्येन वायोः प्राप्यत्वे श्रुतिसद्भावादित्यर्थः । ततश्च किमित्यत आह ॥ सामान्य-श्रुतेश्चेति ॥ प्राथम्यायोग इति ॥ मुख्यप्राथम्यायोगेऽपि युवराजवत्तदनन्तरप्राथम्यस्यावश्यकत्वा-दित्यर्थः । सामान्यश्रुतेर्यावदर्थे विशेषश्रुतिविरोधस्तावन्मात्रस्यैव त्याज्यत्वं नातोऽधिकस्येत्ये-तद्दृष्टान्तेनाह ॥ न हीति ॥ अर्चिषोऽहरित्यत्राहर्द्वितीयमित्युक्त्यभावेन सावकाशत्वा-त्सामान्यश्रुतिरेव बलवतीति भावः ॥ न्यायेनेति ॥ न्यायानुगृहीतया सामान्यश्रुत्येत्यर्थः ॥ विशेषश्रुतेश्चेति ॥ एतेन सम्प्राप्तिरिति न्यायः सूत्रारूढो भवतीत्युक्तं भवति । ततश्चायं सूत्रार्थः । सामान्यविशेषाभ्यां श्रुतिभ्यां द्वितीयप्राप्ये वायुशब्दप्रयोगादर्चिषोऽनन्तरं वायुरेव द्वितीयप्राप्य इति । यद्वाऽविशेषविशेषाभ्यां सामान्याकारेण विशेषाकारेण च वायुशब्दाद्वायोर्द्वितीयप्राप्यत्वश्रुते-रर्चिषोऽनन्तरं वायुर्द्वितीयप्राप्य इत्यर्थः । केचित्तु वायुशब्दादिति विभक्तिव्यत्ययः । सामान्य-विशेषात्मकाभ्यां वायुशब्दघटितश्रुतिभ्यामित्यर्थमाहुः । एवमिदं सूत्रं पृथगधिकरणतया योजयित्वा पूर्वगुणसूत्रतयापि योजयितुं प्रतिजानीते ॥ वायुश्रुतेरिति ॥ यदुक्तमर्चिष एव प्रथमप्राप्यत्वं प्रसिद्धेरिति तदयुक्तम् । वायुप्राथम्यश्रुतेरपि निरवकाशत्वादित्यतो वायुश्रुतेर्गतिप्रदर्शनार्थमिदं सूत्रमित्यर्थः । तत्कथमित्यतो भाष्यं सूत्रारूढतया करोति ॥ प्राथम्येति ॥ द्वितीयप्राप्यत्वं वायोस्तदर्थ इत्यनेनार्चिषो वायुं गच्छतीति साध्याध्याहारभाष्ये इति श्रुत्यर्थ इति शेष इत्युक्तं भवति । तत्र हेत्वाकाङ्क्षायां सूत्रम् । तत्र सामान्यविशेषाभ्यामित्यस्य सामान्याद्विशेषाच्चेति विवक्षितम् । वायुशब्दादित्यस्य षष्ट्यन्ततया विपरिणामो यथाश्रुतं च विवक्षितम् । तत्र षष्ट्यन्तत्वे वायुशब्दस्य स वायुमागच्छतीति वायुप्राथम्यश्रुतेः सामान्यात् । भावप्रधानो निर्देशः । सामान्यत्वादित्यर्थः । भाष्येऽपि स वायुमागच्छतीत्यस्य सामान्यवचनत्वादित्यर्थ इत्यभिप्रेत्य व्याचष्टे ॥ प्राथम्यश्रुतेः सामान्यत्वादिति ॥ ननु सामान्यवचनत्वेऽपि प्रथमप्राप्यत्वं किं न स्यादित्यतो विशेषाद्वायुशब्दादिति सूत्रांशस्य विवरणपरं स इतो गच्छतीत्यादिभाष्यं तात्पर्यतो व्याचष्टे ॥ सामान्यस्य चेति ॥

तत्त्वसुबोधिनी

वायोर्द्वितीयप्राप्यत्वेति ॥ तेऽर्चिषमेवाभियन्ति ततो वायुमिति श्रौतक्रमानुसारेणाहर्विदः प्रथमप्राप्यत्वं प्रथमाधिकरणे प्रतिपाद्यात्र वायोर् द्वितीयप्राप्यत्वसमर्थनादनन्तरसङ्गतिरिति भावः । स वायुमागच्छतीति ॥ अस्याः श्रुतेः प्राक् कूटाद्यावायोर्द्वितीयप्राप्यत्वम् अह्नस् तृतीयप्राप्यत्वमिति पूर्वन्यायेन दूषयितुं शक्यत्वात् कथमस्या युक्तेर् उपन्यास इत्यत आह ॥ न च पूर्वव्यवस्थेति ॥ न च श्रुत्यन्तरविरोध इति ॥ अर्चिषोऽहरिति श्रुत्यन्तरविरोधो नेत्यर्थः । भाष्ये अविशेष इति सूत्रांशव्याख्यानपरेण सामान्यवचनादित्यनेन स वायुमागच्छतीत्यस्य वायोर् द्वितीयत्वसाधकत्वं कथमुच्यतेऽनिर्णायकत्वादित्यतस् तदुपपादयति ॥ सामान्यश्रुतेश्चेति ॥ प्रसिद्धिविरोधेनेति ॥ तत्प्रथितेरिति उक्तप्रसिद्धिविरोधेनेत्यर्थः । ननु प्राथम्ये बाधश्चेद् द्वितीयत्वेऽपि बाधः स्यादेवेत्यत आह ॥ न हीति ॥ अन्यथा न हिंस्यादित्यस्य याज्ञीयहिंसान्यहिंसानिषेधकत्वमपि न स्यादिति भावः ॥ तामुदाहरतीति ॥ अनेन अविशेषविशेषाभ्यां सामान्यतो विशेषतः प्राप्यश्च वायु-शब्दादिति सूत्रार्थ इत्युक्तं भवति । अविशेषविशेषाभ्यां सामान्यविशेषाभ्यां वायुशब्दाद् वायु-शब्दोपेतसामान्यश्रुतेर् द्वितीयप्राप्यत्वप्रतिपादिकया वायुशब्दोपेतविशेषश्रुत्या बाधेन वायोर् द्वितीयप्राप्यत्वप्रतिपादकत्वं तदर्थ इति सूत्रस्य अर्थान्तरप्रदर्शनपरतयापि भाष्यं व्याचष्टे ॥ वायुश्रुतेरिति ॥ तदर्थ इति ॥ अनेन अर्चिषो वायुं गच्छतीति भाष्ये इति श्रुत्यर्थ इति शेष इत्युक्तं भवति । सामान्यत्वादित्यनेन भाष्ये सामान्यवचनादिति भावप्रधानमित्युक्तं भवति । ननु सामान्यवचनत्वादेव प्रथमप्राप्यत्वप्रतिपादकत्वं किं न स्यादित्यतः प्रवृत्तस्याग्निं गतो द्वितीयां गतिं वायुमागच्छतीति विशेषवचनाच्चेति भाष्यस्य अभिप्रायमाह ॥ सामान्यस्य चेति ॥ अस्मिन् व्याख्याने वायोर् अहरह्न आपूर्यमाणपक्षमिति श्रुत्युदाहरणस्यानुपयोगात् तदनुरोधेन प्राचीनो व्याख्यातः । अत एव तत्र वायोरनन्तरमह्नः प्राप्तिसम्भवादित्येतदुदाहरणस्यानुपयोग उक्तः ॥

वाक्यार्थविवरणं

तादृशेति ॥ व्यवस्थाकल्पकेत्यर्थः ॥ श्रुत्यन्तरेति ॥ अर्चिषोऽहरिति श्रुत्यन्तरेत्यर्थः । सामान्यश्रुतेर्विशेषश्रुतिविरोधे तन्मात्रपरित्यागेन तदन्यविषयत्वम् इत्येतद् दृष्टान्तेनोपपादयति ॥ न हीति ॥ तदन्यहिंसानिषेधकत्वाभावो न हि भवति । किन्तु ‘न हिंस्यात्’ इति श्रुतेरग्निषोमीयं पशुमालभेतेति श्रुतिविरोधेनाग्निषोमीयपशुहिंसामात्रपरित्यागेन तदन्यहिंसानिषेधकत्वमेव भवति तद्वदिति भावः ॥ न्यायेनेति ॥ सामान्यविशेषरूपोत्सर्गापवादन्यायेनेत्यर्थः ॥ वायुश्रुतेरिति ॥ स वायुमागच्छतीति वायुश्रुतेरित्यर्थः ॥ गतिप्रदर्शनार्थं चेति ॥ न केवलं मार्गनिर्णयार्थमिदं सूत्रं, किन्तु वायोर्द्वितीयप्राप्यत्वे स वायुमागच्छतीति प्रथमप्राप्यत्वश्रुतेर्निर्विषयत्वेनाप्रामाण्यं स्यादित्याशङ्कायां तस्या गतिं दर्शयितुं चेदं सूत्रमित्यर्थः । तत्प्रकारं दर्शयति ॥ प्राथम्यश्रुते-रिति ॥ तदर्थः । स वायुमागच्छतीति श्रुत्यर्थः ।

वाक्यार्थमञ्जरी

स वायुमागच्छतीत्यस्याः श्रुतेः प्रागुक्तरीत्या वायोर्द्वितीयप्राप्यत्वप्रतिपादकत्वमिति भावः ॥ व्यवस्था वायोरन्तरमह्नःप्राप्यत्वरूपा ॥ ॐ वायुशब्दादविशेषविशेषाभ्यां ॐ ॥ वायुर्द्वितीयप्राप्यः कुतो ऽविशेषविशेषाभ्यां सामान्यतो विशेषतश्च वायुशब्दाद्वायोर्द्वितीय प्राप्यत्वप्रतिपादक-श्रुतेरित्यर्थः ॥ अथाविशेषविशेषाभ्यां सामान्यविशेषाभ्यां वायुशब्दाद्वायुशब्दोपेतसामान्यश्रुतेर् द्वितीयप्राप्यत्वप्रतिपादकतया वायुशब्दोपेतविशेषश्रुत्या बाधेन वायोर्द्वितीयप्राप्यत्वप्रतिपादकत्वं तदर्थ इति सूत्रस्यार्थान्तरप्रदर्शनपरतया भाष्यं व्याचष्टे ॥ वायुश्रुतेरिति ॥

॥ इति वायुगत्यधिकरणम् ॥ २ ॥