०१ अर्चिराद्याधिकरणम्

ॐ अर्चिरादिना तत्प्रथितेः ॐ

अथ चतुर्थाध्यायस्य तृतीयः पादः

सूत्रभाष्यम्

मार्गो गम्यं चास्मिन्पाद उच्यते–

॥ ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ १ ॥

‘तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षम्’ इत्यर्चिषः प्राथम्यं श्रूयते । ‘यदा ह वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति’ इति वायोः । तत्रार्चिषः प्राप्तिरेव प्रथमा ।

‘द्वावेव मार्गौ प्रथितावर्चिरादिर्विपश्चिताम् ।

धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥

अग्निर्ज्योतिरिति द्वेधैवार्चिषः सम्प्रतिष्ठितिः ।

अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ॥ इति ॥

एकस्मिंस्तु पुरे संस्थो द्विरूपोऽग्नेः सुतो महान्’ इति ब्रह्मतर्के ॥ १ ॥

॥ इति अर्चिराद्याधिकरणम् ॥ १ ॥

तत्त्वप्रदीपिका

अथ यथोक्तमार्गेण शरीरादुत्क्रान्तस्य ब्रह्म जिगमिषोर्गतिर्मार्ग उच्यते । स्मरणनिमित्तत्वं हि गतेरुक्तम् । अतश्च गतिप्रकारो विचारणीय इति तद्गम्यविशेषश्च निरूप्यतेऽस्मिन्पादे । कार्यं बाद-रिरित्यादिना गम्यविचारः, तत्पर्यन्तं मार्गविचारः । अर्चिरादिना तत्प्रथितेः ॥ ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षम्’ इत्यादिश्रुतौ ब्रह्म यास्यतां मार्ग-स्थानां सम्भावकानां देवानामर्चिर्देवस्य प्राथम्यं श्रूयते । श्रद्धया ज्ञानादिरूपं ब्रह्मोपासत इत्यर्थः । ‘यदा ह वै पुरुषोऽस्मांल्लोकात्प्रैति स वायुमागच्छति’ इत्यत्र वायोः । तत्र संशयः । किं वायोः प्रथमप्राप्यत्वमुतार्चिर्देवस्येति । वायोरिति प्राप्तम् । यदाऽस्मांल्लोकात्प्रैति तदा वायुमागच्छतीति स्पष्टं श्रूयमाणस्यान्यथाकर्तुमशक्यत्वात् । न चार्चिःप्राप्तिरुत्क्रान्त्यनन्तरमेवेति श्रूयते । न चाभिसम्भवः प्राप्तिरिति निश्चेतुं शक्यते । न च तत्रोत्क्रान्तिः श्रूयते । ‘उपासते तेऽर्चिषमभि-सम्भवन्ति’ इति हि श्रुतिः । अत्रोच्यते । अर्चिष एव प्रथमप्राप्यत्वम् । ‘सर्वे वा एत उत्क्रामन्ति तेऽर्चिषमेवाभियन्ति’ इति श्रुत्यन्तरात् । अतोऽभिसम्भवन्तीति श्रुतेश्चायमर्थो गम्यते । अहरादीनां सहपठितानां श्रुत्यन्तरे प्राप्यत्वसिद्धेश्च । ‘अर्चिषमेवाभिसंविशन्तीति’ इति चास्यामेव स्थानान्तरे श्रूयमाणत्वात् । अतोऽर्चिरादिना मार्गेणैवोत्क्रान्ता यान्ति । तदेव स्पष्टयति– ‘द्वावेव मार्गौ प्रथितावर्चिरादिर्विपश्चिताम्’ इति । न चाग्निर्ज्योतिरित्यादिवाक्यविरोध इत्याह– ‘अग्निर्ज्योतिरिति द्वेधैवार्चिषः सम्प्रतिष्ठितिः’ इत्यादिना ।

तत्त्वप्रकाशिका

एतत्पादार्थं दर्शयति ॥ मार्ग इति ॥ ब्रह्मनाड्योत्क्रान्तानां यो मार्गो ब्रह्मप्राप्तौ यच्च तेन पथा गतानां गम्यं तदुभयमस्मिन्पादे कथ्यत इत्यर्थः । तत्रादौ सूत्रमेव पठति ॥ अर्चिरादिनेति ॥ अत्र ब्रह्मप्राप्तिमार्गस्यार्चिरादित्वप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । मार्गानिर्णये तदनुस्मृत्यसम्भवा-त्समर्थनीयमेतत् । गत्यनुस्मरणं तत्प्राप्त्यर्थं कार्यमित्युक्तम् । स ब्रह्मप्राप्तिमार्ग एव विषयः । किमर्चिरादिरुत वाय्वादिरिति सन्देहः । सन्देहबीजं श्रुतिविरोधं दर्शयति ॥ तेऽर्चिषमिति ॥ उभयोरपि प्राथम्यमिति पूर्वः पक्षः । श्रुतिद्वयस्यापि निरवकाशत्वात् । न चोभयोरपि प्राथम्यं विरुद्धम् । मार्गभेदेन द्वयोरपि प्राथम्योपपत्तेः । न चैकस्याधिकारिणो मार्गद्वयं विरुद्धम् । अधिकारिभेदेनोपपत्तेः । अतो मार्गनियमाभावादनुस्मृत्ययोग इति । सिद्धान्तयत्सूत्रं व्याचष्टे ॥ तत्रेति ॥ न मार्गभेदेनोभयोः प्राथम्यं कल्प्यं किं त्वेक एव मार्गः । स चार्चिरादिस्तेनार्चिरादिना मार्गेण ज्ञानी गच्छतीति भावः । नन्वेक एव मार्गः स चार्चिरादिरेवेत्येतत्कुतः । स्मृतौ प्रसिद्धत्वादेवेति भावेन तामुदाहरति ॥ द्वाविति ॥ नन्वग्निर्ज्योतिरिति स्मृतावग्नेः प्राथम्यं श्रूयते तत्कथमर्चिषो ज्योतिःशब्दाभिहितस्य द्वितीयप्राप्तस्य प्राथम्यमुच्यत इत्यत आह ॥ अग्निरिति ॥ तथापि पृथक्किं नोच्यते ‘तेऽर्चिषम्’ इत्यादिश्रुतावित्यत आह ॥ एकस्मिन्निति ॥ नन्वग्नेः सोमादनन्तरं प्राप्तिरतः कथमेतदित्यत आह ॥ अग्नेरिति ॥ न च वायुप्राथम्यश्रुतेरप्रामाण्यम् । प्रबलश्रुत्यनुसारेणार्चिरनन्तरार्थत्वोपपत्तेः । अतो मार्गनिर्णयादनुस्मृतिसम्भव इति सिद्धम् ॥

गुर्वर्थदीपिका

नन्वग्नेः सोमादनन्तरं प्राप्तिरित्यत्र ‘सोमं वैश्वानरम्’ इति वक्ष्यमाणस्मृतौ सोमोपर्यग्ने-र्वक्ष्यमाणत्वादित्यर्थः ॥

भावबोधः

ब्रह्मनाड्योत्क्रान्तानामिति । अनेन पूर्वपादेनास्य पादस्य सङ्गतिरुक्ता भवति । तेन पथा गतानामिति । उपलक्षणं चैतत् । देहलयवतामित्यपि ग्राह्यम् । अत एव सुधायां गम्य-प्रतिपादकाधिकरणपर्यालोचनया ‘विमुक्तगम्यम्’ इत्यनुव्याख्यानस्थ ‘विमुक्त’पदस्योत्क्रान्तलीन-देहोभयपरत्वेन व्याख्यानं कृतम् । अनन्तरसङ्गतिं दर्शयन्विषयं दर्शयति– गत्यनुस्मरणमिति ॥ किमिति ॥ अत्र ब्रह्मप्राप्तिमार्गः किमर्चिर्वायूभयप्राथमिक उतार्चिर्मात्रप्राथमिक इति चिन्ता । तदर्थं ब्रह्मप्राप्तिमार्गेऽधिकारिभेदेनोभयोरपि प्राथम्यमुपपद्यत उत नोपपद्यत इति । तदर्थं ते ‘अर्चिषमभि-सम्भवन्ति’ इति । ‘स वायुमागच्छति’ इति श्रुतिद्वयस्यापि निरवकाशत्वम् उत ‘स वायुमागच्छति’ इति श्रुतेः सावकाशत्वमिति । तदर्थमर्चिर्मात्रप्राथमिकत्वे मार्गस्य प्रमाणं नास्त्युतास्तीति । तत्र तत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथङ्मार्गक्रमोपपत्तिरिति न्यायविवरणोक्तप्रकारेण भाष्यसूचित-पूर्वपक्षयुक्तिमुपपादयति । श्रुतिद्वयस्यापि निरवकाशत्वादित्यादिना । किं त्वेक एव मार्ग इति । अनेन ज्ञानिनामेकमार्गस्यैव प्राप्तिरिति न्यायविवरणमुक्ततात्पर्यं भवति । उपलक्षणं चैतत् । ‘एष एव ब्रह्मपथः । द्वे सृती पुनरावर्तिनः’ इति न्यायविवरणोदाहृतश्रुतिस्मृतिष्वित्यपि द्रष्टव्यम् । अनेन सूत्रे ‘प्रथितेः’ इत्यस्य श्रुतौ स्मृतौ च प्रसिद्धेरित्यर्थ उक्तो भवति ॥ सोमादनन्तरमिति ॥ ‘सोमं वैश्वानरम्’ इति प्रमाणबलादिति भावः । (अन्यथा न्यायविवरणे ‘एष एव ब्रह्मपथः’ इत्यव-धारणविरोधात् ‘अन्यथा’ इत्याद्ययुक्तं स्यात्)। प्रबलश्रुत्यनुसारेणेति ॥ उदाहृतश्रुतिस्मृति-साहित्येन ‘तेऽर्चिषमभिसम्भवन्ति’ इति प्रबलश्रुत्यनुसारेणेत्यर्थः । अथ वा, ‘सर्वे वा एते उत्क्रामन्ति’ ‘तेऽर्चिषमेवाभियन्ति । ततो वायुं ततोऽहः पूर्वपक्ष इत्येष एव ब्रह्मपथः’ इति न्यायविवरणोदाहृत ‘अर्चिषमेव’ इत्यवधारणयुक्तत्वेन ‘ततो वायुम्’ इति वायोर्द्वितीयगम्यत्व-प्रतिपादकत्वेन ‘एष एव’ इति ज्ञानिमार्गैक्यप्रतिपादकत्वेन च प्रबला या श्रुतिस्तदनुसारेणेत्यर्थः ॥

भावदीपः

पूर्ववत्पादार्थत्वाप्रतीतेराह ॥ एतदिति ॥ प्रतिपाद्योक्तिर् वृत्तवर्तिष्यमाणसङ्गतिसूचनायेति भावेन व्याचष्टे ॥ ब्रह्मेति ॥ एतेनोत्क्रान्तानामेव मार्गो न तु देहलयवतामिति दर्शितम् ॥ तदुभयमिति ॥ कार्यं बादरिरित्यादौ गम्योक्तिस् ततः प्राङ्मार्गोक्तिरिति विवेकः । न चैवं पादभेदप्रसङ्ग इति शङ्क्यम् । चरमगम्येन सहितस्यैव मार्गत्वेन मार्गरूपैकार्थत्वेऽपि मार्गैकदेश-चरमगम्यस्य पृथग्विवक्षया तदुभयमित्युक्तेरिति भावः । एतेन यत्स्मृतिनिमित्तत्वमुत्क्रान्तेरुक्तं स मार्गोऽत्रोच्यते । अन्यथा तज्ज्ञानस्यैवायोगेनान्तकाले तत्स्मरणायोगादिति सूचितम् । सम्बन्धभाष्यत्वभ्रमनिरासायाह ॥ तत्रादाविति ॥ तत्र सङ्गत्यादौ निरूपणीये सतीत्यर्थः । सङ्गत्यादिजिज्ञासाजननायेति भावः । स्वयं तदाह ॥ अत्रेति ॥ अर्चिरादित्वमर्चिः प्रथम-कत्वमित्यर्थः । अत्र ब्रह्मप्राप्तीति शास्त्रे मार्गस्येति पादे ब्रह्मप्राप्तिरूपमोक्षेत्यभिप्रेतत्वाद्वा प्राप्तीत्युक्त्यैव वा अध्याये च सङ्गतिरुपपादिता । पूर्वसङ्गतिफले आह ॥ मार्गेति ॥ एवमग्रेऽपि । विषयस्याप्रकृतत्वं निराह ॥ गतीति ॥ तच्छेषगत्यनुस्मृतीत्यत्रोत्क्रान्तिद्वारोक्तमित्यर्थः ॥ किमिति ॥ किमर्चिरादिरेव उत वाय्वादिरपीत्यर्थः । बहुव्रीहिः । सन्देहबीजोक्त्या पूर्वपक्षोऽपि सूचित इत्युपेत्याऽऽह ॥ उभयोरिति ॥

तत्र मार्गस्याऽन्यथोक्तेरित्यन्यत्रोक्तदिशा भाष्यसूचितहेतुमाह ॥ श्रुतीति ॥ अप्रामाण्येन हेतोरन्यथोपपत्तिमाशङ्क्य अधिकारिभेदेन पृथक् मार्गः सुक्रमोपपत्तिरित्यन्यत्रोक्तं श्रुतिद्वया-विरोधोपपादनं व्यनक्ति ॥ न चेत्यादिना ॥ एतेन श्रुतिविगानपरं द्वितीय एव निवेशोऽस्य स्यादिति प्रत्युक्तम् । श्रुत्यप्रामाण्येनेह पूर्वपक्षाप्रवृत्तेः । एवमग्रे ध्येयम् ॥ अत इति ॥ श्रुतिद्वयस्य निरवकाशत्वादुक्तन्यायेनाविरोधाच्चेत्यर्थः ॥ मार्गनियमाभावादिति ॥ अधिकारिभेदेन मार्गद्वयस्य व्यवस्थितत्वेऽप्यत्र मार्गेऽहमधिकारीत्यनिर्णये तदनुस्मृत्ययोग इति भावः । भाष्येऽर्चिषः प्राप्तिरेव प्रथमा वायोरपीत्यर्थमुपेत्य तात्पर्यतो भाष्यं पूर्वपक्षनिरासकतया व्याचष्टे ॥ नेति ॥ एकमार्गस्यैव प्राप्तत्वादित्यन्यत्रोक्त्यनुरोधेन फलितार्थमाह ॥ किं त्वेक एवेति ॥ सूत्रार्थमाह ॥ तेनेत्यादिना ॥ सोमादनन्तरमिति ॥ आतिवाहिकनये तथा प्रमाणस्य वक्ष्यमाणत्वादिति भावः ॥ प्रबल-श्रुतीति ॥ तेऽर्चिषमिति श्रुतेः स्मार्तप्रसिद्धिसाहित्येन निरवकाशत्वात् स वायुमिति श्रुते-र्वक्ष्यमाणदिशा सावकाशत्वादिति भावः ॥ अत इति ॥ अर्चिराद्येकमार्गस्यैव श्रुत्यादि-प्रसिद्धत्वादित्यर्थः ।

अभिनवचन्द्रिका

एतत्पादार्थमिति ॥ ‘अध्यायस्य एकार्थत्वात् पादभेदः किं निबन्धन इत्यतः फलेऽप्यवान्तरभेदेन पादभेद उपपन्न इति भावेनेति वर्तते तस्याऽनेन सम्बन्धः ॥ मार्गानिर्णय इति ॥ ननु ‘आचार्यस्तु ते गतिं वक्ता’ इति लिङ्गात् सर्वज्ञगुरूपदिष्टो मार्गमनुस्मरति न ग्रन्थपर्यालोचनया । एवं च ग्रन्थे तन्निर्णयकथनं व्यर्थमिति चेन् न । ग्रन्थोक्तमार्गेण मननं कुर्वत एव सर्वज्ञोपदेश इति नियमात् तत्सिध्द्यर्थमेवेह मार्गनिर्णयस्याऽऽवश्यकत्वात् । अतो मार्गनियमेति ॥ अयं मया स्मर्तव्यो मार्ग इति निश्चयाऽभावाद् आचार्योपदेशात्प्राक् मार्गस्मरणानुपपत्तिरित्यर्थः । एतेनाऽऽचार्योपदेशेन मूर्तिविशेषस्य निर्णयेन ध्यानवत्, मार्गस्यापि मरणे स्मरणमनुपपन्नमिति परास्तम् ।

पूर्वपक्षस्तु द्वौ मार्गौ । तत्र एकस्मिन्मार्गेऽर्चिषो लोकः प्रथमः मार्गान्तरे तु वायुलोकः । ‘तेऽर्चिषमभिसम्भवन्ति स वायुमागच्छति’ इत्युभयविधश्रुतेः । ततश्च गुरूपदेशात्प्राक् मार्गनिर्णयाभावात् । स्मरणानुपपत्तिरिति ।

सिद्धान्तस्तु एक एव विपश्चितां मार्गः । ‘द्बावेव मार्गौ प्रथितावर्चिरादिर्विपश्चिताम् । धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयादिति स्मृतेः । तत्र द्वावग्नेः सुतौ एकस्मिन्पुरे संस्थौ तत्र एकोऽग्निनामकः, अपरो ज्योतिर्नामकः । तदुभयाधिष्ठितस्य लोकस्य प्रथमप्राप्तिः । न च ‘स वायुमागच्छति’ति श्रुतिविरोधः । प्रबलैतच्छ्रुतिविरोधेन अर्चिरनन्तरार्थत्वोपपत्तेः । अतो मार्गनिर्णयादनुस्मृतिसम्भव इति सिद्धम् ॥

वाक्यार्थमुक्तावली

॥ एतत्पादार्थमिति ॥ अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यत इति पूरणीयम् ॥ ब्रह्मनाड्योत्क्रान्तानामिति ॥ अनेन पूर्वपादेनास्य पादस्य सङ्गतिरुक्ता भवति ॥ तेन पथा गतानामिति ॥ उपलक्षणं चैतत् । देहलयवतामित्यपि ग्राह्यम् । अत्र गम्यमुच्यते । तद्द्विविधम् । मार्गो, गम्यं परमगम्यं चेति । अतो मार्गो गम्यमित्यवान्तरभेदेऽपि पादैक्यमिति ज्ञेयम् । अत्रादावित्यतः परं शास्त्रादिसङ्गतिसूचनायेति पूरणीयम् । अत एव तत्सूचितां सङ्गतिमाह ॥ अत्रेति ॥

॥ ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ अनन्तरसङ्गतिं सूचयति ॥ मार्गानिर्णय इति ॥ तथा च पूर्वाक्षेपेणास्य प्रवृत्तेरनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ किमर्चिरादिरेवोत वाय्वादि-रपीत्यर्थः । तथा च किमर्चिरादिवाय्वादिश्चोतार्चिरादिरेवेति चिन्तेति योजना । तदर्थं ब्रह्मप्राप्ति-मार्गेऽधिकारिभेदेनोभयोरपि प्राथम्यमुपपद्यत उत नोपपद्यत इति । तदर्थं तेऽर्चिषमभिसम्भवन्ति वायुमागच्छतीति श्रुतिद्वयस्यापि निरवकाशत्वमुत विशेषप्रमाणेन स वायुमागच्छतीति श्रुतेः सावकाशत्वमिति ॥ भाष्येऽर्चिषः प्राथम्यं श्रूयते वायोः प्राथम्यं श्रूयत इति तुल्यबल-श्रुत्युदाहरणात्सूचितं सुक्रम इत्युक्तन्यायं व्यञ्जयन् पूर्वपक्षमाह ॥ श्रुतिद्वयस्यापीत्यादिना ॥ अधिकारिभेदेन मार्गद्वये सुष्ठु क्रमणस्य गमनस्योपपत्तेरित्यर्थः । उभयप्राथम्यं च इतोऽर्चिः-प्राथम्यस्याविरुद्धत्वादर्चिरादिनेति सावधारणं विवक्षितमिति भावेन प्रवृत्तं तत्रार्चिर्वाय्वोर्मध्येऽर्चिषः प्राप्तिरेव प्रथमेति भाष्यं व्याचष्टे ॥ न मार्गभेदेनेति ॥ सूत्रे योगीत्यनुवर्तते । गच्छतीति लभ्यते । तथा च सर्वोऽपि ज्ञानी अर्चिरादिमार्गेणैव गच्छति । तत्प्रथितेस्तस्य मार्गस्यार्चिरादित्वस्य श्रुतिस्मृतिप्रसिद्धत्वादिति सूत्रार्थः । तत्प्रथितेरिति सूत्रखण्डं तस्यार्चिष एव द्विरूपत्वस्य प्रथितेः स्मृतिप्रसिद्धत्वादिति प्रकारान्तरेण व्याकुर्वद्भाष्यमवतार्य व्याचष्टे ॥ नन्वित्यादिना ॥ अग्निपुत्रोऽग्निरेकस्मिन्नग्निर्ज्योतिरिति रूपद्वयेन वर्तते । रूपद्वयं च ज्ञानिनां क्रमेण प्राप्यमतोऽर्चिषः प्राथम्योक्तिविरोधः । नापि पृथगुक्तिविरोधः लोकस्यैकत्वात् । नापि सोमं वैश्वानरमिति वक्ष्यमाणविरोधः । अस्य वैश्वानरपुत्रत्वादिति समुदायार्थः विशेषसम्प्राप्तिरित्युक्तन्यायं घटयितु-माशङ्क्य निषेधति ॥ न चेति ॥ स्मृतिसाहित्येन प्रबला या तेऽर्चिषमभिसम्भवन्तीति श्रुतिस्तदनुसारेणार्चिरनन्तरं प्राथम्याभिप्रायेण सावकाशत्वोक्तेरित्यर्थः । एतेन विशिष्यत इति विशेषश्रुतिः स्मृतिसहायेन प्रबला श्रुतिस्तदनुसारेणेत्यर्थः । यद्वा सर्वे वा एत उत्क्रमन्ति तेऽर्चिषमेवातियन्ति ततो वायुमिति स्पष्टनिरवकाशश्रुत्यनुसारेणेत्यर्थः ।

तत्त्वसुबोधिनी

ब्रह्मनाड्योत्क्रान्तानामिति ॥ अनेन पूर्वपादेनास्य सङ्गतिरुक्ता भवति ॥ तेन पथा गतानामिति ॥ उपलक्षणं चैतत् । देहलयवतामित्यपि ग्राह्यम् ॥ अनन्तरसङ्गतिं दर्शयन् विषयं दर्शयति ॥ गत्यनुस्मरणमिति ॥ पूर्वपक्षमुपपादयति श्रुतिद्वयस्यापीति ॥ स्मृतौ प्रसिद्धत्वादेवेति । उपलक्षणं चैतत् । एष एव ब्रह्मपथः । द्वे सृती पुनरावृत्तिन इति श्रुतिस्मृतिषु इत्यपि द्रष्टव्यम् । अनेन सूत्रे प्रथितेरित्यत्र श्रुतौ स्मृतौ च प्रसिद्धेरित्यर्थ इत्युक्तं भवति ॥ अग्निरिति ॥ तथा चार्चिषो लोकस्य द्वेधा प्रतिष्टितेर् उक्तत्वेन अर्चिषः प्राप्तिरित्युक्ते अग्निज्योतिषोर् उभयोरपि प्राप्तिर्न भवतीति न तद्विरोध इति भावः । पृथक् किं नोच्यते इत्यर्थः ॥ एकस्मिन्नितीति ॥ तथा च एकस्मिन् पुरे द्विरूपस्य सत्वादेव लोकविवक्षया पृथग्वचनाभाव इति भावः ॥ सोमादनन्तर-मिति ॥ सोमं वैश्वानरमिति प्रमाणबलादिति भावः ॥ अग्नेरितीति ॥ तथा चाग्निसुतस्य रूपद्वयेनापि तस्यैवादौ प्राप्तिर् न तु सोमादनन्तरं श्रुतस्य वैश्वानरस्येति भावः ॥ प्रबलश्रुत्यनु-सारेणेति ॥ उदाहृतश्रुतिस्मृतिसाहित्येन तेऽर्चिषम् अभिसम्भवन्ति इति प्रबलश्रुत्यनुसारेणेत्यर्थः । अथवा सर्वे वा एते उत्क्रामन्ति ते अर्चिषमेवाभियान्ति ततो वायुं ततोऽहः पूर्वपक्ष इत्येष एव ब्रह्मपथ इति श्रुतेस्तेऽर्चिषमेवेत्यवधारणयुक्तत्वेन ततो वायुमिति वायोर् द्वितीयगम्यत्वप्रतिपादकत्वेन एष एवेति ज्ञानिमार्गैक्यप्रतिपादकत्वे च प्राबल्यात्तदनुसारेणेत्यर्थः ।

वाक्यार्थविवरणम्

अर्चिरादित्वेति ॥ तस्मिन् मार्गेऽर्चिषः प्रथमप्राप्यत्वेत्यर्थः ॥ अग्निर्ज्योतिरिति ॥ स्मृताविति । ‘अग्निर्ज्योतिरहश्शुक्लम्’ इति गीतायामित्यर्थः ॥ पृथगिति ॥ तेऽग्निमभिसम्भवन्ति । अग्नेर्ज्योतिरिति पृथगित्यर्थः ॥ एकस्मिन्नितीति ॥ तयोर्लोकभेदाभावादग्नेर्ज्योतिरिति नोक्तम् । एकस्मिन् पुरे लोके आदावग्निं गत्वा पश्चात्प्रदेशान्तरस्थं ज्योतिर्गच्छतीति भावः ॥ सोमा-दनन्तरमिति ॥ सोमं वैश्वानरमिति वक्ष्यमाणत्वादिति भावः । एतदिति प्रथमप्राप्यत्वमित्यर्थः ॥ अग्नेः सुत इति ॥ तथा च सोमादनन्तरं प्राप्यतयोक्तो वैश्वानरशब्दवाच्योऽग्निः प्रधानाग्निरेव । अत्र प्रथमप्राप्यतयोक्तो द्विरूपो अर्चिश्शब्दवाच्योऽग्निस्तु प्रधानाग्निपुत्र एवेति न दोष इति भावः ।

वाक्यार्थमञ्जरी

अर्चिरेवादिर्यस्य तेन मार्गेण गच्छति कुतः, तत्प्रथितेस् तस्योक्तमार्गस्य तेऽर्चिषमिति श्रुतौ प्रसिद्धेरित्यर्थः ॥ अयोगेति ॥ स्वगन्तव्यमार्गनिर्णयादिति भावः ॥ सोमादनन्तरमिति ॥ सोमं वैश्वानरं चेन्द्रमित्युक्तेरिति भावः ॥ प्रबलश्रुत्यनुसारेणेति ॥ उदाहृतश्रुतिस्मृतिसाहित्येन तेऽर्चिष-मभिसंविशन्तीति प्रबलश्रुत्यनुसारेणेत्यर्थः ।

॥ इति अर्चिराद्याधिकरणम् ॥ १ ॥