१० प्रतिस्मरणाधिकरणम्

ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ

१०. प्रतिस्मरणाधिकरणम्

सूत्रभाष्यम्

ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ ॥ २२ ॥

न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ज्ञानयोगिनः कर्मयोगिनश्च ।

‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तत’

इत्यत्र योगीति विशेषणात्स्मरणनिमित्ते चैते गती ।

‘गत्यनुस्मरणाद्ब्रह्म चन्द्रं वा गच्छति ध्रुवम् ।

अननुस्मरतः काले स्मरणं प्राप्य वै गतिः’ इत्यध्यात्मे ॥ २२ ॥

॥ इति प्रतिस्मरणाधिकरणम् ॥ १० ॥

॥ इति श्री आनन्दतीर्थभगवत्पादाचार्य विरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ॥

तत्त्वप्रदीपिका

‘कालेऽनुगणे फलं किञ्चिद्विशिष्यत’ इत्यत्राह । पूर्वपक्षादि च विवक्षितम् । ‘अग्निर्ज्योतिरहः शुक्ल’ इत्यादौ कालादिकृते ब्रह्मचन्द्रगती प्रतीयेते । ‘यत्र काले त्वनावृत्तिम्’ इत्यादिनोपक्रमादित्यत आह– योगिनः प्रतिस्मर्येते स्मार्ते चैते ॥ न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते । अयमर्थः न केवलं ज्ञानं कर्म च विना तत्तत्कालमृतिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ज्ञानयोगिनो ब्रह्मगतिः कर्मयोगिनश्चन्द्रगतिः । अतः ‘‘गच्छन्ति ब्रह्म ब्रह्मविद’’ इत्यत्र ब्रह्मगतिर्ब्रह्मविद एवेति सिद्धत्वात् । उत्तरत्र योगीति विशेषणात् । योग उपायः पूर्वत्र ज्ञानमेव योग उत्तरत्र कर्मेति ज्ञापयितुं ज्ञानयोगिनः कर्मयोगिनश्चेत्याह । न चायोगिनामपि तत्तत्कालमृतिकृते । न हि ‘अग्निर्ज्योतिरहः शुक्ल’ इत्यादिनोत्क्रान्तिकालो विवक्षित इति शोभते । किन्तूत्क्रान्तस्य गतिमार्गः । अग्न्यादि-देवप्राप्तिपूर्वकत्वाद्ब्रह्मगतेः । तं चोत्तरपादे प्रपञ्चयिष्यति । ‘यत्र काले त्वनावृत्तिम्’ इत्यादेरर्थस्तु गीतातात्पर्य एव दर्शितः– ‘यत्र कालाभिमानिदेवतासु मृत्यनन्तरमेव प्रयाताः, अग्निर्ज्योतिर्धूमा-नामकालाभिमानित्वेऽपि कालप्राचुर्यात्काल इत्युच्यते । तत्कालमरणविवक्षायामग्निर्ज्योतिर्धूमा-नामयोग’ इत्यादि । न च केवलं तत्तत्कालादिदेवताप्रयाणकृते एव स्मर्येते । ज्ञानकर्मभ्यां विना तत्प्रयाणस्यैवाभावोक्तेः । किमर्थं मार्गोक्तिरित्यत आह– स्मरणनिमित्ते चैते गती इति ॥ तयोश्च ज्ञानकर्मयोगिनोर्यथोक्तमार्गविशेषस्मरणनिमित्ते चैते ब्रह्मचन्द्रगती । हन्तैवं ज्ञानिनोऽपि गतिप्रकार-मभावयतो गत्यभावात्समप्रयोजकत्वं ज्ञानगतिस्मृत्योरित्यत आह– ‘अननुस्मरतः काले स्मरणं प्राप्य वै गतिः’ इति । ब्रह्मविदः पूर्वं गतिप्रकारमभावयतोऽपि ज्ञातब्रह्मप्रसादादुत्क्रान्तिकाले स्मरणं प्राप्य गतिर्भवत्येव । अतो ज्ञानस्य प्राधान्यम् । एतदेव ह्याह– विद्याशेषगत्यनुस्मरणयोगाच्चेति । अतो न तयोः समत्वमाशङ्कनीयम् । विद्यासामर्थ्यादिति विद्याया एव प्राधान्योक्तेर्गत्यनुस्मरणस्य शेषत्वोक्तेश्च । अतश्च न ब्रह्मविदामुत्क्रान्तिकाले बुद्धिमोहो भ्रंशो वाऽऽशङ्कनीयः । प्रारब्धकर्मणा प्राप्तक्लेशस्यापि तावत्तत्काले स्मरणं प्राप्य गतिरिति वचनादेव ।

॥ इति श्री त्रिविक्रमपण्डिताचार्य विरचित तत्वप्रदीपिकायां चतुर्थाध्यायस्य द्वितीयः पादः ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तौ गत्यनुस्मरणादेरावश्यकत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ज्ञानस्य मोक्षहेतुत्वाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृता गतिरेव विषयः । किं विद्यागतिस्मृतिसापेक्षा न वेति सन्देहः । पूर्वोक्तिः स्फुटप्रमाणादर्शनं च सन्देहबीजम् । न गत्यर्थं विद्यानुस्मृती अपेक्षिते इति पूर्वः पक्षः । ‘अग्निर्ज्योतिः’ इत्यादौ केवलकालाद्यधीनत्वस्मरणात् । न ह्यनयोः श्लोकयोर्ब्रह्म-चन्द्रगत्योः प्राप्तौ तत्तत्कालादिमरणं विनाऽन्यत्कारणमुच्यते । लोके फलानुस्मृतिमन्तरेणैव फलप्राप्तिदर्शनाच्च । न हि लोकाननुसार्यङ्गीकर्तुं शक्यते । न च स्मृतिविरोधः । तस्या लोकाननु-सारित्वेनार्थान्तरे योज्यत्वात् । लिङ्गस्यापि ज्ञानमात्राद्यर्थत्वोपपत्तेः । अतो गतेः कालादिकृतत्वान्न ज्ञानस्य सम्पूर्णमोक्षार्थतेति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ योगिन इति ॥ यदुक्तमग्निर्ज्योति-रित्यादिना ब्रह्मचन्द्रगती केवलकालादिकृते स्मर्येते अतो न गत्यर्थं विद्यानुस्मृती अपेक्षिते इति तन्न युक्तम् । यतोऽत्र विद्यादिकृते एव स्मर्येते न तु कालादिकृते इति भावः । कुत एतदित्यत आह ॥ अग्निरिति ॥ उपलक्षणमेतत् । ब्रह्मविद इति च ज्ञातव्यम् । कालमरणमत्र न विवक्षित-मिति सविस्तरमन्यत्रोक्तत्वादत्र नोक्तम् । अस्तु विद्यापेक्षा गतौ तदनुस्मृतिर्मास्त्वित्यत आह ॥ स्मरणेति ॥ कुत इत्यत आह ॥ गतीति ॥ न च लोकाननुसारिता । यथा खलु छेदनादौ न कर्षणाद्यावृत्तिरपि तु परशोरुद्यम्योद्यम्य दारुणि निपातावृत्तिः । कृष्यादौ तु नासौ किं तु कर्षणाद्यावृत्तिरेव । न तावता लोकाननुसारिता । अवान्तरविशेषाणां वैलक्षण्येऽप्यनुवृत्ति-मात्रस्योभयत्र साम्यात् । तथा प्रकृतेऽप्यवधारितक्रियामनोवृत्तित्वविशेषस्यानुवृत्तिमात्रस्य लौकिकवैदिकसाधनयोः साम्यात् । अतो विशिष्टोत्क्रमणस्य विद्यादिसापेक्षत्वाद्युक्तं ज्ञानस्य सम्पूर्णमोक्षसाधनत्वमिति सिद्धम् ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां चतुर्थाध्यायस्य द्वितीयः पादः ॥

गुर्वर्थदीपिका

प्रकृतेऽप्यवधारितेत्यत्रावधीरणं नाम निराकरणमित्यर्थः साधनपदेन मुक्तेर्ग्रामस्य च प्राप्तिसाधनभूतौ लौकिकालौकिकमार्गौ गृह्येते । तत्र वारं वारं गमनेन क्रियानुवृत्तिर्लौकिके मार्गे । वारं वारं स्मरणेन मनोनुवृत्तिरलौकिके मार्गे । एवं च क्रियानुवृत्तिमनोनुवृत्तित्वरूपविशेषमादाय साम्याभावेऽप्यनुवृत्तित्वमात्रेण साम्यम् । कृषिकुठारयोरिवोक्तयोर्लौकिकालौकिकसाधनमार्गयो-रप्यस्ति । अतो न लौकिकाननुसारित्वम् । फलानुस्मृतिस्तु कृष्यादौ नास्ति । मध्ये वृष्ट्याद्यभाव-शङ्कया फलसन्देहात् । ज्ञानाख्यालौकिकसाधने तु फलस्य निश्चितत्वान् मार्गानुस्मृतिवत्फलं भवत्येवेत्यनुस्मृतिरपेक्षिता । इदमपि प्रागेव निर्णीतफलस्य नापितादेः शिरोमुण्डनाख्यकृषौ लावनादिकृषौ दृष्टत्वान्न लोकाननुसारीति भावः ।

॥ श्री वादिराजतीर्थविरचितायां गुर्वर्थदीपिकायां द्वितीयः पादः ॥

भावबोधः

गत्यनुस्मरणादेरिति । पूर्वाधिकरणे विद्यासामर्थ्याद्गत्यनुस्मरणयोगादिति पञ्चम्या गत्यनु-स्मरणादेर्ब्रह्मनाड््योत्क्रमणेनार्चिरादिगतौ हेतुत्वमित्युक्तम् । तस्यात्र समर्थनादनन्तरसङ्गतिरिति गावः ॥ किमिति ॥ अत्र गतिः किं विद्यागतिः स्मृतिसापेक्षा न भवत्युत भवतीति चिन्ता । तदर्थं सा किं केवलकालकृता भवत्युत न भवतीति । तदर्थं ‘अग्निर्ज्योतिः’ इति, गीतावाक्यं किं केवलकालपरम् उत देवतापरमिति । तदर्थं तत्र देवतापरत्वज्ञापकं नास्त्युतास्तीति । न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते इति भाष्योक्तयुक्तिमाह– अग्निर्ज्योतिरित्यादावित्यादिना ॥ कृष्यादिलौकिकसाधनस्य फलस्मरणानपेक्षत्वात्, स्वर्गमोक्षयोरपि तथात्वमिति न्यायविवरणं मनसि निधायाह– लोके फलानुस्मृतिमन्तरेणैवेति ॥ न च स्मृतिविरोध इति ॥ ‘यं यं वापि’ इति स्मृतिविरोध इत्यर्थः ॥ लिङ्गस्यापीति ॥ ‘आचार्यस्तु ते गतिं वक्ता’ इति यदाचार्योपदेशरूपं लिङ्गमुक्तं तस्यापीत्यर्थः । गतेः कालादिकृतत्वात्तन्न ज्ञानस्येति गत्यनुस्मरणस्य ज्ञानशेषत्व इव कालस्य ज्ञानशेषत्वे मानाभावादिति भावः । ननु ‘अग्निर्ज्योतिः’ इत्यत्र योगिपदाभावाद्योगीति विशेषणादिति कथमुक्तमित्यत आह– उपलक्षणमेतदिति । अन्यत्रेति । गीताभाष्यतत्तात्पर्ययो-रेतच्छ्लोकव्याख्यानावसर एवोक्तत्वादित्यर्थः ।

‘क्रियानुवृत्तिर्लौकिके साधने तु मनोनुवृत्तिर्वैदिके साधने स्यात् ।

फलं भवेत्सर्वथेत्येव तस्मात् स्मरेत्सदा निश्चितत्वेन विद्वान्’

इति श्रुतेस्तदनुसार्यनुवृत्तेर्लौकिकवैदिकयोः साम्यादतोऽत्र फलानुस्मरणं लवनादिकृष्याद्यनु-वृत्तिवद् द्रष्टव्यम् । वचनप्रामाण्यादिति न्यायविवरणं हृदि निधायाह– यथा खल्वित्यादिना ॥ अत्राद्यमधिकरणपञ्चकं देवानां देहलयप्रतिपादकत्वेनैका पेटिका । तत्र ‘वाङ्मनसि’ इत्याद्येक-वाक्यगतलयप्रतिपादकतया आद्यमधिकरणत्रिकमेका पेटिका । तत्राद्ये वाचो मनसि लयसमर्थनम् । द्वितीये मनसः प्राणे लयसमर्थनम् । तृतीये तस्य प्राणस्य परमात्मनि लयसमर्थनमिति । देवानां भूतेषु लयप्रतिपादकत्वेन तदुत्तरमधिकरणद्वयमेका पेटिका । तत्राद्ये देवानां सामान्यतो भूतेषु लयप्रतिपादनम् । द्वितीये सर्वेषु विशेषतो लयसमर्थनमिति । षष्ठे प्रकृतेर्देहलयाभावप्रतिपादनम् । सप्तमे सर्वेषां देवानां परमात्मनि लयसमर्थनमिति । अष्टमे मुक्तानां भगवदधीनत्वसमर्थनम् । नवमदशमयोर् उत्क्रमणतदुपयुक्तप्रतिपादकत्वेन तदधिकरणद्वयमेका पेटिका । तत्राद्ये मनुष्याणां मोक्षार्थं देहोत्क्रान्तिसमर्थनम् । द्वितीये तदुपयुक्तगत्यनुस्मरणस्यावश्यकत्वसमर्थनमिति ॥

॥ इति श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिकृते श्रीमज्जयतीर्थपूज्यचरणविरचिततत्वप्रकाशिकाभावबोधे चतुर्थाध्यायस्य द्वितीयः पादः ॥

भावदीपः

गत्यनुस्मरणादेरिति ॥ विद्यासामर्थ्यमादिपदार्थः । एतेन पूर्वोक्तार्थसाधकतयाऽस्य तदानन्तर्यं सूचितम् ॥ प्रकृता गतिरिति ॥ स्वहृदयमारभ्य ब्रह्मपर्यन्ता या गतिः सेत्यर्थः । कृष्यादि-लौकिकसाधनस्य फलस्मरणानपेक्षत्वात्स्वर्गमोक्षयोरपि तथात्वमित्यन्यत्रोक्तप्रतिज्ञार्थं तावदाह ॥ न गत्यर्थमिति ॥ न केवलमित्यादिभाष्यसूचितहेतुमाह ॥ अग्निरिति ॥ कालादीत्यादिपदे-नाग्न्यादिप्रयाणग्रहः । कालमृत्यग्न्यादिप्रयाणाधीनत्वेत्यर्थः । अन्यत्रोक्तहेतुं चाह ॥ लोक इति ॥ न च स्मृतीति ॥ यं यं वापीति स्मृतीत्यर्थः ॥ लिङ्गस्यापीति ॥ आचार्यस्तु ते गतिं वक्तेत्युक्त-लिङ्गस्यापीत्यर्थः ॥ अत इति ॥ अग्निर्ज्योतिरित्यादिस्मृतिबलाल्लोकानुसाराद् यं यमित्यादि-स्मृतिलिङ्गयोः सावकाशत्वाच्चेत्यर्थः । न केवलमित्यादिभाष्यं व्याचष्टे ॥ यदुक्तमित्यादिना ॥ किं त्वित्यादि योजयति ॥ यत इति ॥ विद्यादीति ॥ कर्म आदिपदार्थः । न्यूनतामाशङ्क्याह ॥ उपलक्षणमिति ॥ एतद् योगीति विशेषणादिति भाषणम् । ब्रह्मविद इति विशेषणादित्यपि ज्ञेयमित्यर्थः । ननु गीतायामष्टमे

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥

इति पूर्वभाष्ये प्रतिज्ञायाग्निर्ज्योतिरित्यादेरुक्तत्वात्कालमृतिमात्रपरमेवैतत्कुतो नेत्यत आह ॥ कालमरणमिति ॥ अत्र स्मृतौ । अन्यत्र गीतातात्पर्ये । अष्टमेऽध्याये यत्र कालाभिमानिदेवतासु मृत्यनन्तरं प्रयाता इत्यादिनोक्तत्वादित्यर्थः । तत्तदनुसार्यनुवृत्तेर्लौकिकवैदिकयोः साम्यादित्य-न्यत्रोक्तं प्रागुक्तशङ्कानिवर्तकतया विवृणोति ॥ न च लोकेत्यादिना ॥ अवधारितेति ॥ तिरस्कृतक्रियात्वमनोवृत्तित्वविशेषस्येत्यर्थः ॥ साम्यादिति ॥ तथा च न गतिर्ज्ञानमात्रं किं तु तदनुस्मृतिरप्यपेक्षितैवेति भावः ॥ अत इति ॥ विद्यागतिस्मरणवत एव गतेः स्मृत्युक्तत्वा-दित्यर्थः ॥

॥ इति श्रीमद्भाष्यटीकाभावदीपे श्रीराघवेन्द्रयतिकृते चतुर्थाध्यायस्य द्वितीयः पादः ॥

अभिनवचन्द्रिका

आवश्यकत्वसमर्थनादिति ॥ साधनत्वसमर्थनादित्यर्थः ॥ अन्यथेति ॥ कारणत्वसमर्थनाऽ-भावे अप्रामाणिकत्वाज् ज्ञानस्य गतिरूपमोक्षकारणत्वाप्रसङ्गादित्यर्थः । उपलक्षणमेतत् । ‘गत्यनुस्मृतेरपि गतिकारणत्वाभावप्रसङ्गात्’ इत्यपि ग्रह्यम् ‘गत्यनुस्मरणं नापेक्षितम्’ इति साध्यांशे, हेत्वन्तरमाह– लोक इति ॥ न च स्मृतिविरोध इति ॥ ‘यं यं वापि स्मरन्भावम्’ इति स्मृतिविरोध इत्यर्थः ॥ तस्यालोकाननुसारित्वेनेति ॥ यं यमन्नाद्यं कामयमानः प्राणी प्राणं त्यजति । तच्छ्राद्धादौ तत्तदन्नाद्यं ब्राह्मणेभ्यो देयं, तेन च संतुष्टो भवतीत्येवमर्थान्तरे योज्यं, सति चैवं लोकानुगुण्यं लभ्यते । लोके हि श्राद्धदिने भार्यां प्रति वक्तारो भवन्ति, इदमन्नाद्यं पितुः प्रियतरं, त्वं साधु कुर्विति, सा च तथैव करोतीति भावः ॥ लिङ्गस्यापीति ॥ ‘आचार्यस्तु ते गतिं वक्त’ इति लिङ्गस्येत्यर्थः । ‘न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते किं तु ज्ञानयोगिनः कर्मयोगिनश्च’ इति भाष्यं, गत्यर्थं विद्यानुस्मृती इव कालमरणमपि अपेक्षित-मित्यन्यथाप्रतीतिनिरासाय, अपेक्षिताऽध्याहारेण व्याचष्टे – यदुक्तमित्यादिना ॥ ‘अनेन ‘स्मर्येते’ इत्यतः परम्, ‘अतो न गत्यर्थं विद्यानुस्मृती अपोक्षिते इति यदुक्तं तदिति शेषः । तस्य च नञा सम्बन्धः । किंत्वितिशब्दो यत इत्यर्थे, ‘न कर्मयोगिनश्च’ इति चशब्द एवार्थ इत्युक्तं भवति । एतेन भाष्ये न केवलं कालादिकृते किंतु कालकृते इति निषेधात्, भाष्यटीकयोर्विरोध इति परास्तम् । ननु ‘धूमो रात्रिः’ इति श्लोके योगीतिपदवत् ‘अग्निर्ज्योतिः’ इति पूर्वश्लोके योगीतिपदाभावाद् योगीति विशेषणादिति भाष्यमयुक्तमित्यत आह – उपलक्षणमेतदिति ॥ योगीति विशेषणादित्युपलक्षणं, ब्रह्मविद इति विशेषणादित्यपि ग्राह्यमित्यर्थः ॥ अन्यत्रोक्तत्वादिति ॥ गीताभाष्यतात्पर्ययोर् एतच्छ्लोकव्याख्यानावसर इत्यर्थः ।

पूवर्पक्षस्तु न गत्यर्थं विद्यागत्यनुस्मृती अपेक्षिते । ‘अग्निर्ज्योतिः’ इति स्मृतौ केवलकालमरणभावेऽपि फलदर्शनेन तथैव इहापि कल्प्यत्वाच्च । ततश्च न ज्ञानं सम्पूर्णमोक्षसाधनमिति ।

सिद्धान्तस्तु स्मृत्युक्ते एते गती । ज्ञानकर्मयोगाभ्यामेव स्मर्येते । न कालमरणात् । ‘अग्निर्ज्योतिः’ इति श्लोके ब्रह्मविद इति विशेषणात् ‘धूमो रात्रिः’ इति श्लोके योगीतिविशेषणात् । न च लोकाननुसारिता । सर्वथा लोकानुसारित्वस्य छिदादावप्यभावेनाऽदोषत्वात् कथञ्चित्साम्यस्येहापि भावात् । अतो विशिष्टोत्क्रमणस्य विद्यादिसापेक्षत्वाद् युक्तं ज्ञानस्य संपूर्णमोक्षसाधनत्वमिति सिद्धम् ॥

॥ इति श्रीमत्सत्यनिधितीर्थ श्रीचरण चरणाराधक श्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्वप्राकाशिकाव्याख्याऽभिनवचन्द्रिकायां चतुर्थाऽध्यायस्य द्वितीयः पादः ॥

वाक्यार्थमुक्तावली

गत्यनुस्मरणादेरिति ॥ पूर्वाधिकरणे विद्यासामर्थ्याद्गत्यनुस्मृतियोगाच्चेति पञ्चम्या यद्गत्यनु-स्मरणादेर्ब्रह्मनाड्योत्क्रमणेनार्चिरादिगतिहेतुत्वमुक्तं तस्यात्र समर्थनादनन्तरसङ्गतिरिति भावः ॥ अन्यथाज्ञानस्येति ॥ विद्याशब्दोक्तापरोक्षस्य गत्यनुस्मरणस्य चेत्यर्थः ॥ किमिति ॥ अत्र गतिः किं विद्यागतिः स्मृतिनिरपेक्षोत सापेक्षेति चिन्ता । तदर्थं सा किं केवलकालकृता भवत्युत न भवतीति । तदर्थमग्निर्ज्योतिरिति गीतावाक्यं केवलकालपरमुत देवतापरमिति । न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते इति भाष्योक्तयुक्तिमाह ॥ अग्निरिति ॥ आदिपदेनाग्नि-ज्योतिषोर्ग्रहणम् । स्मरणनिमित्ते चैते गतीति भाष्ये अननुस्मरतः काल इति स्मृतौ च स्मरणलक्षणमनोवृत्तेः साधनत्वोक्त्या व्यवच्छेद्यं लोकोपमेत्युक्तपूर्वपक्षन्यायं व्यनक्ति ॥ लोकेति ॥ न च स्मृतीति ॥

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।

तं तमेवेति कौन्तेय सदा तद्भावभावितः ॥

इति स्मृतिविरोध इत्यर्थः ॥ अर्थान्तर इति ॥ अज्ञमरणविषयतया योज्यत्वादित्यर्थः ॥ लिङ्गस्यापीति ॥ आचार्यस्तु ते गतिं वक्तेति यदाचोर्योपदेशरूपं लिङ्गमुक्तं तस्यापीत्यर्थः ॥ गतेः कालादिकृतत्वादिति ॥ न च गत्यनुस्मरणस्य ज्ञानशेषत्वमिव कालादेस्तच्छेषत्वे ज्ञानस्य मोक्षहेतुत्वमुपपद्यत इति वाच्यम् । गत्यनुस्मरणस्य तच्छेषत्व इवात्र प्रमाणाभावादिति भावः । भाष्ये न केवलं कालादिकृत इति केवलशब्दात्कालविद्ययोरुभयोरपि हेतुत्वं प्रतीयते । तच्च सिद्धान्तविरुद्धमिति । मैवम् । केवलमित्यादेः पूर्वपक्षानुवादरूपत्वादित्यभिप्रायेण भाष्यं व्याचष्टे ॥ यदुक्तमित्यादिना ॥ एते ब्रह्मचन्द्रगती योगिनः प्रति ब्रह्मस्वर्गप्राप्त्युपायज्ञानकर्मवतः प्रतिस्मर्येते । कुतः ब्रह्मविदो योगीति विशेषणाद् इति सूत्रखण्डार्थं स्पष्टयति ॥ यत इत्यादिना ॥ अग्निर्ज्योतिरित्यत्र योगिपदाभावादुक्तमुपलक्षणमिति । ननु योगीत्यस्य कालस्मरणलक्षणोपाय-वानित्यर्थः किं न स्यादित्यत उक्तम् ॥ कालस्मरणमिति ॥ अन्यत्र गीतातात्पर्यनिर्णये ॥ विद्यापेक्षेति ॥ कर्मापेक्षेत्यपि द्रष्टव्यम् ॥ इत्यत इति ॥ इत्यतः शश्वदनुप्रवृत्तिरिति न्यायस्फोरकं स्मार्तेत्यंशं व्याचष्ट इत्यर्थः । स्मृतेरिमे स्मार्ते । मनोवृत्तिरूपस्मृतिनिमित्ते चेत्यर्थ इति भावः । कुत इत्यत आहेति । कुतः प्रमाणादित्याशङ्कायामेते गती स्मार्ते स्मरणनिमित्ते इत्यपि स्मर्येते स्मृत्योच्येत इत्येवंपरतया स्मर्येत इत्यंशं पुनर्व्याचष्ट इत्यर्थः । अननुस्मरत इत्यस्याज्ञानादिनाऽ-ननुस्मरतः कर्मयोगिनः जन्मान्तरे काले स्मरणं प्राप्यैव गतिः । न च ब्रह्मविदामुत्क्रान्तिकाले बुद्धिमोहो भ्रंशो वा शङ्कनीयः । प्रारब्धकर्मणा प्राप्तक्लेशस्यापि तत्काले स्मरणं प्राप्यैव गतिरिति वचनादेवेति तत्वप्रदीपेऽर्थ उक्तो ज्ञेयः ॥ पूर्वपक्षन्यायं प्रतिक्षिपन् सिद्धान्तन्यायं विशदयति ॥ न च लोकेति ॥ अवधारितक्रियेति ॥ तिरस्कृतक्रियानुवृत्तित्वादिविशेषवत इत्यर्थः ॥

॥ इति श्रीमद्विठ्ठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन विरचितायां श्रीमत्तत्त्वप्रकाशिकावाक्यार्थमुक्तावल्यां चतुर्थाध्यायस्य द्वितीयः पादः समाप्तः ॥

तत्त्वसुबोधिनी

गत्यनुस्मरणादेरिति । पूर्वाधिकरणे विद्यासामर्थ्याद् गत्यनुस्मरणयोगादितिपञ्चम्या यद्गत्यनु-स्मरणादेर् नाड्योत्क्रमणेनार्चिरादिगतौ हेतुत्वमित्युक्तम् । तस्यात्र समर्थनादनन्तरसङ्गतिरिति भावः । न केवलं कालादिकृते ब्रह्मचंद्रगती स्मर्येते इति भाष्योक्तां युक्तिमाह ॥ अग्निर्जोतिरिति ॥ लोक इति ॥ कृष्यादिलौकिकसाधन इत्यर्थः । ननु लोके यथा तथाऽस्तु प्रकृते तु ब्रह्मादिप्राप्तेर् अनुस्मृत्यधीनत्वमस्त्वित्यत आह ॥ न हीति ॥ न च स्मृतिविरोध इति ॥ यं यं वापीति स्मृतिविरोध इत्यर्थः ॥ लिङ्गस्यापीति ॥ आचार्यस्तु ते गतिं वक्तेति यदाचार्योपदेशरूपलिङ्गमुक्तं तस्यापीत्यर्थः । गतेः कालादिकृतत्वात्तत्र ज्ञानस्येति गत्यनुस्मरणस्य ज्ञानशेषत्वे कालस्य ज्ञानशेषत्वे मानाभावादिति भावः । ननु अग्निर्जोतिरित्यत्र योगिपदाभावाद् योगीति विशेषणादिति कथमुक्तमित्यत आह ॥ उपलक्षणमेतदिति ॥ अन्यत्रेति ॥ गीताभाष्यतात्पर्ययोर् एतच्छ्लोक-व्याख्यानावसरे एव उक्तत्वादित्यर्थः ॥ तथा प्रकृतेऽपीति ॥ अवधारितः परितः परित्यक्तः क्रियावृत्तित्वमनोवृत्तित्वरूपविशेषो यस्येति विग्रहः ।

॥ इति श्रीतत्वप्रकाशिकाविवृतौ तत्वसुबोधिन्यां पाण्डुरङ्गि

आनन्दाचार्यसूनु श्रीनिवासाचार्यकृतायां चतुर्थाध्यायस्य द्वितीयः पादः ॥

वाक्यार्थविवरणम्

मोक्षेति ॥ पूर्वपक्षोपसंहारे स्पष्टम् ॥ स्मृतिविरोध इति ॥ ‘यं यं वाऽपि’ इति स्मृतिविरोध इत्यर्थः ॥ लिङ्गस्यापीति ॥ आचार्यस्तु ते गतिं वक्तेति आचार्यकर्तृकमार्गोपदेशरूपलिङ्गस्या-पीत्यर्थः ॥ ज्ञानमात्रार्थत्वेति ॥ न तु मार्गस्मरणार्थत्वमित्यर्थः ॥ सम्पूर्णेति ॥ मार्गस्यापि मोक्षत्वादिति भावः ॥ अनुस्मृतिः ॥ मार्गानुस्मृतिः । सूत्रस्थं योगिन इति पदं ज्ञानयोगिनः कर्मयोगिनश्चेति व्याख्यातम् । द्वितीयाबहुवचनमेतत् । तथा च एते ब्रह्मचन्द्रगती योगिनः ज्ञानयोगिनः कर्मयोगिनश्च प्रति विद्यागत्यनुस्मरणकृते एव स्मर्येते स्मृत्युक्ते । न तु कालादिकृते इति सूत्रार्थः । ‘धूम’ इति श्लोके योगीति विज्ञेषणसद्भावेऽपि ‘अग्निः’ इति श्लोके योगीति विशेषणाभावादाह ॥ उपलक्षणमेतदिति ॥ तदनुस्मृतिर् गत्यनुस्मृतिः ॥ स्मार्ते इत्यस्य व्याख्यानं स्मरणनिमित्ते इति ॥ लोकाननुसारितेति ॥ लोके फलादिस्मृतिमन्तरेणैव प्राप्तिदर्शनादित्यर्थः । ‘क्रियानुवृत्तिर्लौकिके साधने तु मनोऽनुवृत्तिर्वैदिके साधने स्यात्’ इत्यादिन्यायविवरणं मनसि निधाय लोकाननुसारित्वमत्र गुण एवेत्याह ॥ यथा खल्वित्यादिना ॥ नासाविति ॥ निपातावृत्तिरित्यर्थः ॥ तावतेति ॥ निपातावृत्तिकर्षणावृत्त्योर्वैलक्षण्यमात्रेणेत्यर्थः ॥ अवधी-रितेति ॥ धृञ् अनादर इति धातोः । अवधीरितौ अनादृतौ यौ क्रियावृत्तिमनोवृत्तित्वरूपौ विशेषौ तद्वतोऽनुवृत्तिमात्रस्येत्यर्थः । एताववान्तरविशेषौ विहायानुवृत्तिमात्रमेव ग्राह्यम् । तदस्ति प्रकृते । वारं वारं मनोवृत्तेरेव स्मरणत्वादिति ज्ञेयम् । विद्यादीत्यादिपदेन गत्यनुस्मरणं ग्राह्यम् ॥ सम्पूर्णमोक्षेति ॥ कर्मक्षयोत्क्रान्तिमार्गभोगरूपचतुर्विधमोक्षेत्यर्थः ।

॥ इति तत्वप्रकाशिकावाक्यार्थविवरणे श्रीनिवासतीर्थकृते चतुर्थाध्यायस्य द्वितीयः पादः ॥

वाक्यार्थमञ्जरी

एते ब्रह्मचन्द्रगती योगिनः प्रति स्मर्येते अग्निर्ज्योतिरिति धूमो रात्रिरिति च स्मृतावुच्येते ज्ञानादिसाध्यतया स्मर्येते इति यावत् । न केवलं ज्ञानसाध्ये किं तु स्मार्ते च स्मृतेरिमे स्मार्ते गत्यनुस्मृतिसाध्ये स्मर्येते इत्यर्थः । योगिन इति द्वितीया । नन्वग्निर्ज्योतिरित्यत्र योगिपदाभावात्कथं योगीति विशेषणादित्युक्तमित्यत आह ॥ उपलक्षणमिति ॥ अत्र स्मृतौ अत्रेति गीतातात्पर्य-श्लोकव्याख्यानावसरे एवोक्तत्वादित्यर्थः । लौकिकसाधने क्रियानुवृत्तिर् अलौकिकसाधने मनोवृत्तिरिति विवेकः ॥

॥ इति श्रीमत्तत्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्करा श्रीनिवासविरचितायां

चतुर्थाध्यायस्य द्वितीयपादः समाप्तः ॥

॥ इति प्रतिस्मरणाधिकरणम् ॥ १० ॥