०९ हृदयाग्रज्वलना(तदोकोऽ)धिकरणम्

ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ॥ १७

९. हृदयाग्रज्वलना(तदोकोऽ)धिकरणम्

सूत्रभाष्यम्

ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ॥ १७ ॥

उत्क्रान्तिकाले हृदयस्याग्रे ज्वलनं भवति । ‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतत’ इति श्रुतेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।

‘यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।

तं तमेवैति कौन्तेय सदा तद्भावभावितः’ ॥

इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च ।

‘आचार्यस्तु ते गतिं वक्ता’ इति हि लिङ्गम् ।

‘हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु ।

उत्क्रान्तिर्ब्रह्मरन्ध्रेण तमेवोपासतो भवेत्’ इति चाध्यात्मे ।

‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति’ इति च ॥

तत्त्वप्रदीपिका

तदोकोऽग्रज्वलनमित्यादि सूत्रम् ॥ यदा वागादीनां लयस् तदोत्क्रान्तिकाले तस्य विदुषो जीवस्य हृदयाग्रज्वलनं भवति । ‘प्रद्योतः’ प्रभा प्रादुर्भवति । सर्वेषां च विदुषां भुवि जाता-नामुत्क्रान्तेः पश्चात्तनस्य मोक्षस्य तदपेक्षाभावात् तच्छब्देन परामर्शोपपत्तिः । अपि च देवता-नामुत्तरोत्तरविलयध्यानपूर्वकं तद्विलयपर्यवसानस्थानस्य परब्रह्मणो ध्यानमुत्क्रमिष्यतः कर्तव्यमिति श्रुतिस्मृतिगतिपर्यालोचनया गम्यते । गत्यनुस्मृतिवदेव गतेः पश्चाद्भाविनश्च मोक्षस्य स्वबिम्बभूत-देवतापरम्परापरस्परप्रवेशाविनाभूतत्वात् । तच्च नित्यं तत्प्रतिपत्त्यभ्यासवत एव सुकरतरं भवतीति तदर्थोऽभ्यासः कार्यः । तदर्थं तत्स्वरूपपरिज्ञानाय तद्विलयप्रकारपरीक्षा कर्तव्येति साऽत्र प्रकृता । तद्भावनावतस्तस्य तदोत्क्रान्तिकाल इति युक्त एव तच्छब्दः । अतो नैतदाशङ्कनीयम्, गतेः पश्चाद्भावित्वात्प्रवेशस्य गतिं भोगं चान्तरा वक्तव्यः प्रवेश इति । उक्तन्यायेनात्राभिधाने प्रयोजनप्रतिलम्भात् । तदिहोत्क्रान्तिः किमितरवदेव विदुषोऽप्यथवा विशिष्टेति संशये प्राप्ते प्रारब्धकर्मभोगान्तर्भूतत्वादुत्क्रान्तेः, तस्य गुरुणाऽज्ञानिष्विव ज्ञानिष्वप्यचाल्यत्वात्, स्वकीय-फलदाने तस्याविशेष एवान्येभ्य इति, अत आह । तस्य ज्ञानिन उत्क्रान्तिकाले हृदयाग्रज्वलनं भवतीति सप्रमाणकम् । न चाप्रारब्धकर्मनिवृत्तेर् ज्ञानफलोदयोपरोध इति वाच्यम् । जीवन्मुक्त्यवस्थाभावप्रसङ्गात् । उदयात्प्रभृत्येव फलदं ज्ञानं, तथा च ज्ञानसामर्थ्यमुक्तम् ॥

तत्त्वप्रकाशिका

अत्र देवानां मोक्षमुक्त्वा मनुष्याणां मुक्त्यर्थं देहोत्क्रमणस्याज्ञमरणविलक्षणत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ज्ञानस्यातिशयासिद्धेः साधनीयमेतत् । देवानामन्योन्यप्रवेशेन देहलयो भवतीत्युक्तं तेनेतरज्ञानिनां देहादुत्क्रमणं सिध्यति । तज्ज्ञानिनां देहादुत्क्रमणं विषयः । किं पृथग् जनमरणवदेव भवत्युत वैलक्षण्येनेति सन्देहः । मरणत्वं ज्ञानिसम्बन्धित्वं च सन्देहबीजम् । पृथग्जनमरणवदेवेति पूर्वः पक्षः । तस्याप्यन्यमरणवत्प्रारब्धनिबन्धनत्वात् । न च तदा प्रारब्धा-भावस् तस्य देहत्यागाद्यवसानत्वात् । न च सत्यपि प्रारब्धकर्मणि विलक्षणं ज्ञानिमरणं विशेष-कारणाभावात् । अतो ज्ञानिमरणस्यान्यमरणाविशिष्टत्वान्न ज्ञानस्य सामर्थ्यातिशय इति । सिद्धान्त-यत्सूत्रमुपन्यस्य व्याचष्टे ॥ तदिति ॥ न ज्ञानिमरणस्याज्ञमरणाविशिष्टता । अस्त्येव विशेषः । यत उत्क्रान्तिकाले भगवदोकसो हृदयस्याग्रं प्रकाशत इत्यर्थः । तत्कुत इत्यत आह ॥ तस्येति ॥ हृदयाग्रप्रकाशनेऽपि ज्ञान्युत्क्रमणस्यान्यमरणस्य को विशेष इत्यत आह ॥ तदिति ॥ यतो ज्ञानी तेन प्रकाशेन प्रकाशितनाडीद्वारः सन् देहान्निष्क्रामति न तु तथाऽज्ञानी । अतोऽस्ति विशेष इति भावः । ननु ज्ञानिनः प्रारब्धकर्मवतः कथमयं विशेष इत्यत आह ॥ विद्येति ॥ प्रारब्धकर्म-सद्भावेऽपि भगवत्साक्षात्कारसामर्थ्याद्विशिष्टोत्क्रान्तिर्ज्ञानिनो युज्यते । ज्ञानस्य स्वोदयमारभ्यैव फलप्रदत्वादिति भावः । तदुक्तम् ।

प्रारब्धकर्मशेषस्तु विरजातरणावधिः ।

स्वोदयात्फलदं ज्ञानमादेहं कर्म वा रवेः ॥ इति ।

यदि ज्ञानसामर्थ्यादेवमुत्क्रमणं भवति तर्हि ज्ञानिनः प्रथममरण एवैवं किं न स्यादित्यत आह ॥ यं यमिति ॥ न केवलं ज्ञानसामर्थ्येनैवंविधोत्क्रमणं येनातिप्रसङ्गः किं नाम स्वहृदयमारभ्य या ब्रह्मपर्यन्ता गतिस्तस्याः शरीरत्यागकालेऽनुस्मरणाच्च । न चैवं सति ज्ञानिनामुत्क्रमणं ज्ञानफलं न भवति । गत्यनुस्मरणस्य ज्ञानशेषत्वात् । न हीति कर्तव्यतामपेक्षमाणो हेतुरहेतुर्भवति । गत्यनुस्मृतिश्च कर्मावसानसमय एव न मरणान्तरे ।

ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा ।

विष्णुमाया तदा तेषां मनो बाह्यं करोति हि ॥ इति स्मृतेः ।

गत्यनुस्मरणं तत्प्राप्तिकारणमित्येव कुतः । ‘यं यं वापि’ इति स्मृतेरेवेति भावः । ननु तथाऽपि गत्यनुस्मरणं तत्प्राप्तिकारणमिति न विशेषप्रमाणमित्यत आह ॥ आचार्यस्त्विति ॥ यदि गतिस्मरणमन्तरेणैव तत्प्राप्तिः स्यात्तर्ह्याचार्यस्तु ते गतिं वक्तेति स्मरणार्थं गतिश्रवणं व्यर्थं स्यात् । अतः स्मरणार्थं गतिश्रवणलिङ्गेनास्ति गतिस्मरणस्य तत्प्राप्त्यर्थत्वमिति ज्ञायत इति भावः । ननु किं ज्ञानसामर्थ्येन गत्यनुस्मरणयुक्तेन स्वतन्त्रेणैवमुत्क्रमणं भवति । नेति ब्रूमः । किं तर्हि ज्ञानादिना प्रसन्नस्य भगवतोऽनुग्रहेणैवेत्याह ॥ हृदीति ॥ हरिणा सह प्रकाशितनाडीद्वारो निष्क्रामतीत्युक्तम् । तत्र नाड्यामपि विशेषोऽस्तीति भावेनाह ॥ शतमिति ॥ विष्वगुत्क्रमणे लोकान्तरगमनार्थम् ॥

गुर्वर्थदीपिका

तस्य देहत्यागाद्यवसानत्वादित्यत्र आदिपदेनार्चिरादिमार्गेण गमनं विरजायां लिङ्गभङ्गश्च सङ्गृह्यते । विरजानद्यवगाहनविरहितानामधमजीवानां प्रारब्धकर्मावसाने सति लिङ्गदेहभङ्गस्तु स्वपरिपाकदशायामहेस्त्वगिव स्वस्वसाधनपरिपूर्तौ स्वत एव निवर्तत इति विवेको द्रष्टव्यः । प्रथम-मरण एवेत्यत्र यस्मिञ्जन्मनि ज्ञानोदयस्तस्मिन्नेव जन्मनि मरणे जन्मान्तरेषु मरणेऽपि विष्ण्विच्छया मनोव्याक्षेपे सत्यर्चिरादिस्मरणाभावान्नार्चिरादिमार्गेण गमनम् । न वा ब्रह्मलोकः । किं त्वन्तरिक्षे स्वर्गादिलोकेष्वपि वा प्रारब्धकर्मानुभवन्तस्तिष्ठन्ति । यदा तु प्रारब्धकर्मणां परिपाककालस्तदा हर्यनुग्रहेण मार्गस्मरणसद्भावाद्ब्रह्मनाड्योत्क्रम्यार्चिरादिमार्गेण गत्वा किञ्चित्कालं चतुर्मुखलोके विष्णुलोके वा स्थित्वा परान्तकाले ब्रह्मणा सह मुक्तिं प्राप्नुवन्ति । अतः प्रथममरणेऽर्चिरादि-गमनाभावं मनसि निधायाऽऽक्षेप इति ज्ञेयम् । विष्वगुत्क्रमणे लोकान्तरगमनार्थमित्यस्यान्या नाड्यः विष्वक् परित उत्क्रमणे सति लोकान्तरगमनार्थं भवन्तीति श्रौतकर्तृपदेन श्रौतक्रियया च योजना ।

भावबोधः

अनन्तरसङ्गतिं दर्शयन् विषयमाह– देवानामन्योन्येति । किमिति । अत्र ज्ञानिनां मोक्षार्थं देहादुत्क्रमणमज्ञमरणसदृशमुत तद्विलक्षणमिति चिन्ता । तदर्थमपरोक्षज्ञानं गत्यनुस्मृतिसहकृतं हृदिस्थहर्यनुग्रहद्वारा हृदयाग्रज्वलनादिजनकतया विशिष्टोत्क्रमणहेतुर्न भवत्युत भवतीति । तदर्थं रश्मीनां सहकारित्वं न सम्भवत्युत सम्भवतीति । तदर्थं रात्रौ पर्यवसितकर्मणां रात्रौ रश्म्यभावेन विशिष्टोत्क्रमणाभावान्मोक्षाभावः । तदुत्क्रमणस्य वैलक्षण्यं वेति मोक्षाभाववैलक्षण्यापत्तिः प्राप्नोत्युत न प्राप्नोतीति । तदर्थं दिवैवादित्यरश्मिग्राहकप्रत्यक्षानुसारेण नाडीनामहन्येवादित्यरश्मि-सम्बन्धोऽङ्गीकार्य उत ‘संसृष्टा वा एते रश्मयश्च नाड्यश्च’ इति श्रुत्यनुसारेण रात्रौ बाह्यादित्य-रश्म्यभावेऽपि अन्तर्गतादित्यरश्मिभिर् नाडीनां सम्बन्धमादाय यावद्देहमहोरात्रं नाड्यादित्यर-श्मिसम्बन्धोऽङ्गीकार्य इति । तदर्थं ज्ञानिनां मोक्षार्थमुत्क्रमणं रात्रौ नास्त्युतास्तीति । तदर्थं ‘दक्षिणे मरणाद्याति’ इति स्मृतेः कालविशेषपरत्वमुत दक्षिणायनादिसंज्ञकरश्मिविशेषपरत्वमिति । तदर्थं तत्र विशेषप्रमाणं नास्त्युतास्तीति । विशेषप्रमाणाभावे स्मृतेः कालपरत्वेन प्रमाणाभावेन च ज्ञानिनां मोक्षार्थं रात्रावुत्क्रमणासिद्धेर् दिवैवादित्यरश्मिविषयकप्रत्यक्षानुसारेण दिवस एव नाडीरश्मिसम्बन्धस्याङ्गीकार्यत्वे रात्रौ पर्यवसितकर्मणां मोक्षाभावतदुत्क्रमणावैलक्षण्यान्यतरप्राप्त्या रश्मीनां सहकारित्वासम्भवे हृदयाग्रज्वलनादिजनकतयाऽपरोक्षज्ञानस्य विशिष्टोत्क्रमणहेतुत्वासम्भव इति पूर्वपक्षे फलफलिभावः ।

‘उत्तरं दक्षिणमिति त एव तु निगद्यते’ ॥ इति विशेषप्रमाणसद्भावे तु ‘दक्षिणे मरणात्’ इत्यादिस्मृतेस् तत्संज्ञकरश्मिविशेषपरत्वेन तद्विरोधाभावात्, ‘न तु कालविशेषोऽस्ति ज्ञानिनाम्’ इति प्रमाणबलेन ज्ञानिनां रात्रावप्युत्क्रमणसिद्धौ मोक्षार्थं ज्ञान्युत्क्रमणस्य रश्म्यनुसारित्व-ग्राहकमहर्लोकादिगन्तारः (रात्रावप्युत्क्रमणे) ‘उत्तरायणरश्मिभिः’ इति प्रमाणबलेन ‘संसृष्टा वा’ इति श्रुत्यनुसारेण रात्रावपि नाडीनामन्तर्गतादित्यरश्मिसम्बन्धस्य यावद्देहमहोरात्रमङ्गीकार्यत्वे, रात्रौ पर्यवसितकर्मणामपि मोक्षार्थमुत्क्रमणस्य रश्म्यनुसारित्वे सिद्धे तेषां मोक्षाभावतदुत्क्रमणा-वैलक्षण्यान्यतरप्राप्त्यभावेन रश्मीनां सहकारित्वसम्भवे युक्तमेवापरोक्षज्ञानस्य हृदयाग्र-ज्वलनादिजनकतया विशिष्टोत्क्रमणहेतुत्वमिति सिद्धान्ते फलफलिभावः । प्रारब्धकर्मशेषत्वाद् उत्क्रान्तावविशेषो ज्ञानिन इति न्यायविवरणोक्तयुक्तिमाह– तस्याप्यन्यमरणवदित्यादिना ।

ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुकृतेरिति न्यायविवरणानुसारेण विद्यासामर्थ्यादिति भाष्यं व्याचष्टे– प्रारब्धकर्मसद्भावेऽपीत्यादिना ॥ स्वोदयमारभ्यैवेति । न तु लिङ्गभङ्गादिमात्र-फलकमित्यर्थः । ननु किं प्रारब्धकर्मसद्भावमङ्गीकृत्य ज्ञानसामर्थ्येनैव विशिष्टोत्क्रमणोपपादानेन सञ्चितस्येव प्रारब्धस्यापि ज्ञानेनेव विनाशमङ्गीकृत्य ज्ञानसामर्थ्येनैव विशिष्टोत्क्रमणं कुतो नोपपद्यत इत्याशङ्कां परिहरन् ज्ञानस्य स्वोदयमारभ्य फलदत्वे न्यायविवरणोदाहृतं प्रमाणमाह– तदुक्त-मिति ॥ कर्मदेहमारभ्य फलदमिति सम्बन्धः । स्वोदयादिति ल्यब्लोपनिमित्ता पञ्चमी । स्वोदय-मारभ्येत्यर्थः । अधिकारिभेदेन व्यवस्थितविकल्पोऽयम् । अत्र प्रारब्धकर्मणः फलदत्वोक्त्या ज्ञानिनामपि तत्सद्भावोऽवगम्यते । ननु यदि कर्म आ देहमा रवेर्वा फलदं तर्हि तदनन्तरमेव लिङ्गभङ्ग स्यात् । न चैवम् । ‘ब्रह्मणा सह भिधत्ते’ इति प्रमाणबलेन तदनीं लिङ्गभङ्गाभावादित्यत उक्तम्– प्रारब्धकर्मशेषस्त्विति । सूर्यादौ निःशेषतया कर्मनाशाङ्गीकारान्नोक्तदोष इति भावः ॥ हरिणा सहेति ॥ तस्यैवानुग्रहेणेत्युक्तत्वान्न तृतीयायाः करणार्थत्वमिति भावः ।

भावदीपः

अत्रेति ॥ समर्थनादित्यनेनान्वयः । पूर्वतनलयपेटिकयाऽस्यानन्तरसङ्गतिमाह ॥ देवानां मोक्षमुक्त्वेति ॥ मुक्त्यर्थमिति ॥ भगवत्प्राप्तिरूपमोक्षार्थमित्यर्थः । तेन शास्त्रसङ्गत्युपपादनं बोध्यम् । ननु देवेभ्योऽन्येषामुत्क्रमणमस्तीत्येतदविचार्य तस्येतरवैलक्षण्यरूपधर्मचिन्तनम् अभित्ति-चित्रायत इत्यत आह ॥ देवानामिति ॥ उक्तमिति ॥ वाङ्मनसीत्यादिना इतरज्ञानिनामिति ॥ एतच्च बाहुल्याभिप्रायम् । प्रत्यक्षोपदेशादित्यत्र भाष्ये केचिदत्रैव मुच्यन्ते नोत्क्रामन्तीति वक्ष्यमाणत्वात् ॥ तदिति ॥ एवमर्थात्सिद्धमित्यर्थः ॥ पृथग्जनेति ॥ पामरेत्यर्थः । पामरस्तु पृथग्जन इत्यमरोक्तेः । प्रारब्धकर्मशेषवत्त्वादुत्क्रान्तावविशेषो ज्ञानिन इत्यन्यत्रोक्तप्रतिज्ञाहेतू व्यनक्ति ॥ पृथग्जनमरणवदेवेति ॥ पृथग्जनानामिव ज्ञानिनामपि मरणमित्यर्थः । शेषपदतात्पर्यं व्यनक्ति ॥ न चेत्यादिना ॥ देहत्यागादीत्यादिपदेन रविमण्डलप्राप्त्यादिग्रहः । विद्यासामर्थ्या-दित्येतद्व्यावर्त्यं शङ्कापूर्वं व्यनक्ति ॥ न च सत्यपीत्यादिना ॥ अत इति ॥ प्रारब्धनिमित्त-कत्वाद्विशेषकारणाभावाच्चेत्यर्थः ।

न चाविशेष इत्यन्यत्रोक्तप्रतिज्ञामेवोक्त्वा तत्र हेतुत्वेन भाष्यं योजयति ॥ न ज्ञानीति ॥ फलितार्थमाह ॥ अस्त्येवेति ॥ तदोकत इत्यस्य हृदयस्येति फलितार्थोक्तिपरमिति भावेनाह ॥ भगवदिति ॥ उत्क्रान्तिकाल इत्यत्र लब्धस्योक्तिरिति भावः । तत्वप्रदीपे तु तदेत्यपि विच्छेदोप-गमेनोत्क्रान्तिकाल इत्यर्थोक्तिः । न चैवं तदोकोग्रेत्यादिनिर्देशापत्तिरिति शङ्का । ओमाङोश्चेति चकारेणान्यत्रापि पररूपत्वोपगमादित्याहुः ॥ कुत इति ॥ हृदयाग्रज्वलनं कुतो मानादित्यर्थः । प्रागुक्तशङ्कानिरासकतया हेत्वंशं व्याचष्टे ॥ नन्वित्यादिना ॥ ननु सति प्रारब्धकर्मणि कथं विद्यासामर्थ्यं कार्यकारीत्यतो ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुवृत्तेरित्यन्यत्रोक्तभावमाह ॥ ज्ञानस्येति ॥ तदिति ॥ प्रारब्धकर्मशेषसत्त्वं तथापि ज्ञानस्य फलदत्वमित्येतदुक्तम् । न्यायविवरणोक्तश्रुतावित्यर्थः । कर्म आदेहम् आरवेर्वा फलदमित्यर्थः । स तेजसि सूर्ये सम्पन्न इत्यादेः । योगाच्चेति चशब्दार्थं व्यञ्जयन् व्युत्क्रमेण भाष्यं व्याचष्टे ॥ न केवलमिति ॥ एवंविधेति ॥ प्रकाशितनाडीद्वारतयोत्क्रमणमित्यर्थः ॥ ज्ञानशेषत्वादिति ॥ ज्ञानेन फलजननेऽपि अस्योपकारकत्वरूपतदितिकर्तव्यतारूपत्वाद्दर्शपूर्णमासादिना फले जनयितव्ये प्रयाजादिरिवेत्यर्थः । अस्तु गतिस्मृतिरप्याद्यमृतावित्यत आह ॥ गतीति ॥ इति स्मृतेरिति ॥ द्वितीये गीताभाष्योक्त-गारुडस्मृतेरित्यर्थः । तत्र बाह्यमित्यस्येश्वरान्यविषयमित्यर्थत्वेऽपि गतेरीश्वरपर्यन्तत्वाद्भवतीय-मुक्तार्थसंवादिनीति भावः ॥ स्मृतेरेवेति ॥ सा चाष्टमे गीताभाष्य एव व्याख्यातेति भावः । आचार्यस्तु सत्यकामस्तु । ते उपकोसलायेत्यग्नीनां वाक्यं व्यक्तमेतदन्तर उपपत्तेरित्येतद्विषयवाक्ये । हरिणेति सहयोगे तृतीया । तेन तस्यैवानुग्रहेणेत्यपुनरुक्तिरिति भावेनाह ॥ हरिणा सहेति ॥ नाड््यामपि विशेषोऽस्तीति ॥ अत्रावान्तरविशेषस्तु षष्ठे बृहद्भाष्ये चतुर्थब्राह्मणे

देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति ।

स तु तद्देवताद्वारेणोत्क्रामति न संशयः ॥

विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु ।

तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः ॥ इत्युक्तेर्बोध्यः ।

अभिनवचन्द्रिका

मुक्त्यर्थमिति ॥ मनुष्याणां मुक्त्यर्थं जायमानस्य देहोत्क्रामस्याऽपरोक्षज्ञानाऽतिशय-सिद्धयेऽज्ञमरणविलक्षणत्वसमर्थनादित्यर्थः ॥ अन्योन्यप्रवेशेनेति ॥ उत्तमोत्तमप्रवेशेनेत्यर्थः ॥ देहादुत्क्रमणं विषय इति ॥ चरमोत्क्रमणं विषय इत्यर्थः ॥ तस्यापीति ॥ चरममरणस्यापि ज्ञानिसम्बन्धिमरणान्तरवत्प्रारब्धनिबन्धनत्वादित्यर्थः । इदमुक्तं भवति । ज्ञानिनस्तावन्नैकमेव मरणं किन्तु बहूनि मरणानि । तत्र चरममरणव्यतिरिक्तानि मरणानि अज्ञमरणव्यतिरिक्तानि मरणानि । अज्ञमरणवदेव भवन्ति । तत्र च ज्ञानिप्राचीनमरणवद् अज्ञमरणवदेव प्रतिपत्तव्यमिति ॥ न च सत्यपीति ॥ चरममरणदशायां ज्ञानिपूर्वमरणदशायामिव प्रारब्धकर्मणि सत्यपि अज्ञमरणाद्विलक्षणमेव ज्ञानिचरममरणं, न तु पूर्वमरणवदज्ञमरणसदृशमिति न वाच्यमित्यर्थः ॥ विशेषकारणेति ॥ पूर्वं मरणाच्चरममरणस्य विशेषे कारणाऽभावात्कार्यवैलक्षण्यमनुपपन्नमिति भावः ॥ तत्कुत इति ॥ कुतः प्रमाणादित्यर्थः । तर्हि विरजातरणात्प्राक् ज्ञानं सर्वथा फलप्रदं न भवतीत्यागतमित्यत आह – स्वोदयादिति ॥ स्वोदयमारभ्यैव ज्ञानं फलप्रदं न तु प्रारब्धकर्मणा प्रतिबद्धं सत् सर्वथा कार्याक्षममित्यर्थः । तर्हि ज्ञानेन प्रतिबद्धं कर्म सर्वथा न कार्यक्षममिति प्राप्तमित्यतो नेत्याह – आदेहमिति ॥ प्रारब्धकर्म केषाञ्चिदादेहं फलप्रदं केषाञ्चिद्रविप्राप्तिपर्यन्तम् । उपलक्षणमेतत् । केषाञ्चिद्वैश्वानरपर्यन्तम्, अन्येषां द्युनदीपर्यन्तम् । एषु स्थानेषु अधिकारिभेदेन सर्वं दुष्कर्म क्षीयते । ततःपरं केवलपुण्यप्रारब्धयुक्तस्य शिंशुमारप्राप्तिरिति ज्ञेयम् ॥ लोकन्तर-गमनार्थमिति ॥ देवलोके चिरं रत्वा यस्तु मुच्यते तस्य नाड्यन्तरेणोत्क्रमणमिति भावः । तदुक्तं ‘देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति । स तु तद्देवताद्वारेणोत्क्रामति न संशयः ॥ विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु । तथैव ब्रह्मणो लोकं सुषुम्नायाविभेदतः’ इति । नाड्यन्तस्तमसैव गमनं स्यादिति । ततश्चातिवैलक्षण्यापादकत्वलक्षणं महामाहात्म्यं न स्यादिति शेषः । एतेन नाड्यन्तस्तमसैव गमनं नाऽनिष्टं, द्वारमारभ्य प्रकाशसद्भावेन ज्ञानिमरणस्य वैलक्षण्यसम्भवेन तदविघातकत्वादिति निरस्तम् । यदनन्तकालसम्बद्धं तदुच्यते – सर्वदेति ॥ यथाऽऽकाशः सर्वदा, वेदाः सर्वदेति । यदसार्वकालिकमपि कालीवशेषे नियमेनास्ति तदप्युच्यते – सर्वदेति ॥ तद्यथा शुश्रूषमाणं विनीतं शिष्यमाह, अलं सेवया भुङ्क्ष्वेति ॥ स गुरुमाह मम भोजनं सर्वदाऽस्ति भवत्सेवैव दुर्लभेति । यदपि यावद्देहभावि तदप्युच्यते – सर्वदेति ॥ तद्यथा सर्वदा अयं साधुरिति । एवं च ‘सर्वदा सम्बन्धात्’ इति भाष्यस्य त्रेधाऽप्यर्थसम्भवं मनसि कृत्वा पृच्छति – नाडीरश्मिसम्बन्ध इति ॥ एतेन देहपातपूर्वकालीन इति द्वितीयकल्पाऽ-प्रसक्तिरिति निरस्तम् ॥

वाक्यार्थमुक्तावली

मुक्त्यर्थं देहोत्क्रमणस्येति ॥ चरमदेहोत्क्रमणस्येत्यर्थः ॥ अज्ञमरणेति ॥ शरीरान्तरा-रम्भककर्मक्षयरहिता अज्ञा ज्ञानपरिपाकाभावात् तन्मरणविलक्षणत्वसमर्थनादित्यर्थः । एवमुत्तरत्र ज्ञान्यज्ञानिशब्दार्थो विवक्षणीयः ॥ अन्यथेति ॥ चरममरणस्याप्यन्यमरणविलक्षणत्वाभावे विशिष्टोत्क्रान्त्यहेतुत्वेन ज्ञानस्यातिशयासिद्धेरित्यर्थः । ज्ञानिनां देहानुत्क्रमणस्य पूर्वमप्रस्तुतत्वा-त्तस्य कथमन्यमरणवैलक्षण्यविचारावसर इत्यत आह ॥ देवानामिति ॥ पूर्वाधिकरणद्वये मुक्तौ ब्रह्मप्रवेशित्वेनेश्वराधीनसत्यकामत्वेन मानुषाणामपि प्रकृतत्वात्तेषामेवेह चरमोत्क्रान्तिविचारा-दनन्तरसङ्गतिः । उक्तं च तत्वप्रदीपे । सर्वाणि दैवतानीति । समग्रदेवताभाग एव सङ्गृहीतो वेदितव्यः । वर्णाश्रमाचाररुता मनुष्या धर्मं मनुं सोऽपि समेति काले इति चेति ॥ किमिति ॥ चरमशरीरोत्क्रमणं किं तत्पूर्वशरीरोत्क्रमणवदेव भवत्युत वैलक्षण्येनेति चिन्ता । तदर्थं सत्यपि प्रारब्धकर्मशेषे चरममरणस्येतरमरणवैलक्षण्ये विशेषकारणं नास्त्युतास्तीति ॥ विद्यासामर्थ्यादिति सूत्रखण्डव्यावर्त्यं कृतशेषतेत्युक्तन्यायं दर्शयन् पूर्वपक्षयति ॥ तस्यापीत्यादिना ॥ सूत्रे तदिति भिन्नं समस्तं च पदम् । आद्ये उत्क्रान्तिकाल इति भाष्यं ज्ञापकम् । द्वितीये हार्दानुगृहीतः हृदयस्थेन हरिणेति सूत्रस्मृती ज्ञापिके इति भावेन व्याचष्टे ॥ उत्क्रान्तीति ॥ तानि पर इति भगवतः प्रस्तुतत्वात्तच्छब्देन परामर्श इति भावः । ननु प्रारब्धकर्मसद्भावात्कथं विशिष्टोत्क्रान्तिरित्यतो शश्वदनुप्रवृत्तिरित्युक्तन्यायं प्रदर्शयन् तात्पर्यमाह ॥ ज्ञानस्येति ॥ अन्यथा जीवन्मुक्त्यवस्था-भावप्रसङ्ग इति भावः । प्रारब्धसद्भावे तस्य विशिष्टोत्क्रान्त्यप्रतिबन्धकत्वे च प्रमाणमाह ॥ तदुक्तमिति ॥ प्रारब्धकर्मशेषस्त्वित्यस्यायमर्थः । लिङ्गशरीरापादकप्रारब्धकर्मशेषः विरजानदी-तरणावधिर् वैकुण्ठपरिखारूपलक्ष्म्यात्मकविरजाया गुणत्रयात् परतो गमने सति तत्र तरणे स्नानावधिकः ज्ञानम् अपरोक्षाख्यं स्वोदयमारभ्य कर्मक्षयादिफलप्रदं कर्मलिङ्गदेहापादकातिरिक्तं जन्ममरणदुःखादिहेतुभूतं प्रारब्धं कर्म भोगोपमर्दाभ्यामवशिष्टम् । आदेहं चरमदेहपर्यन्तम् आरवेः रविमण्डलपर्यन्तं वा । अधमानामादेहं, उत्तमानामारवेरिति योज्यम् । उपलक्षणमेतत् ।

वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ।

विधूय सर्वपापानि याति किंस्तुघ्न केशवम् ॥

इति भागवततात्पर्योक्तमप्युत्तमाधिकारानुसारेणेति ज्ञेयम् । न चावश्यभोक्तव्यत्वाद्विरोधः । ‘आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोः’ इत्युक्तत्वादास्तां विस्तरः ॥ अनुस्मरणाच्चेति ॥ अनुस्मृत्याख्योपायादिति सूत्रखण्डार्थ इति भावः ॥ कर्मावसानसमय एवेति ॥ चरमशरीरा-रम्भककर्मावसानसमय एवेत्यर्थः ॥ तत्प्राप्तिसमय एवेति ॥ हृदयमारभ्य ब्रह्मपर्यन्तमनुस्मृत-गतिप्राप्तिकारणमित्येतत्कुतः प्रमाणादित्यर्थः । ननु किं ज्ञानसामर्थ्येनेति गत्यनुस्मरणयुक्तेनापरोक्ष-ज्ञानसामर्थ्येनैवोत्क्रमणं भवत्युत ज्ञानमनपेक्ष्य स्वातन्त्र्येण हरिणैवमुत्क्रमणं भवतीति शङ्काभि-प्रायः । पक्षद्वयमपि नेत्याह ॥ नेति ब्रूम इति ॥ सहयोगे तृतीयेत्याह ॥ हरिणा सहेति ॥ एतेन हार्दानुगृहीत इत्यस्य हार्देन साकं हार्देनानुगृहीत इत्यर्थ उक्तो भवति ॥ नाड्यामपि विशेष इति ॥ एकशतनाडीषु शताधिकया सुषुम्नयेति सूत्रखण्डार्थ इति भावः ॥ लोकान्तरेति ॥

देवलोके चिरं रत्वा यस्तु मुक्तिं गमिष्यति ।

स तु तद्देवताद्वारेणोत्क्रामति न संशयः ॥

इति वचनात्तेषां नाड्यन्तरेणोत्क्रमणमिति भावः । सूत्रार्थस्त्वतिरोहितः ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं दर्शयन् विषयमाह ॥ देवानामन्योन्येति ॥ तदा मरणकाले । विद्या-सामर्थ्यादिति भाष्यं व्याचष्टे । प्रारब्धकर्मसद्भावमङ्गीकृत्य ज्ञानसामर्थ्येनैव विशिष्टोपक्रमण-प्रतिपादनेन संचितस्य प्रारब्धस्यापि ज्ञानेन विनाशमङ्गीकृत्य विशिष्टोपक्रमणं तु तान्नोपपद्यते इत्याशङ्कां परिहरन् ज्ञानस्य स्वोदयमारभ्य फलदत्वे न्यायविवरणोदाहृतप्रमाणमाह ॥ तदुक्त-मिति ॥ स्वोदयादिति ल्यब्लोपनिमित्ता पञ्चमी । स्वोदयमारभ्येत्यर्थः । कर्म प्रारब्धम् आदेहं वा आरवेर्वा फलदमित्यर्थः । एतद्देहशतपर्यन्तं वा रविलोकप्राप्तिपर्यन्तं वेत्यर्थः । अधिकारिभेदेन व्यवस्थितविकल्पोऽयम् । उपलक्षणमेतत् । वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ॥ विधूय सर्वपापानि इत्यादिप्रमाणोक्तमपि ग्राह्यम् । अत्र प्रारब्धकर्मणः फलदत्वोक्त्या ज्ञानिनामपि तत्सद्भावोऽवगम्यते । ननु यदि कर्म आदेहमारवेर्वा फलदं तर्हि तदनन्तरमेव लिङ्गभङ्गः स्यात् । न चैवं ब्रह्मणा सह भिद्यते इति वक्ष्यमाणत्वेन तदा लिङ्गभङ्गाभावादित्यत उक्तम् । प्रारब्ध-कर्मशेषस्त्विति ॥ न वयं सूर्यादौ निःशेषप्रारब्धविनाशं ब्रूमः । येन प्रमाणविरोधः स्यात् । किं तु सविशेषमेव । तच्छेषस्तु विरजातरणावधिः । तत्र लिङ्गभङ्गस्तु विद्यत एव । अन्यथा शरीराव-स्थानस्य निर्भिन्नबन्धनत्वापत्तेः । ननु गत्यनुस्मृतिसापेक्षत्वाज् ज्ञानस्य न विशिष्टोपक्रमणार्थत्व-मित्यत आह ॥ न हीति ॥ हरिणा सहेति ॥ तस्यैवानुग्रहेणेत्युक्तत्वात् । न तृतीयायाः करणार्थत्वमिति भावः ।

वाक्यार्थविवरणम्

पृथग्जनः मूर्खजनः ॥ विशिष्टेति ॥ विलक्षणेत्यर्थः ॥ प्रथममरणमिति ॥ यस्मिन् जन्मन्य-परोक्षज्ञानमुत्पन्नं तद्देहपातरूपं तत् प्रथममरणमेवेत्यर्थः ॥ एवमेवेति ॥ तदोकोऽग्रज्वलन-मित्युक्तप्रकारेणेत्यर्थः । ज्ञानफलं न भवतीति । किन्तु गत्यनुस्मरणफलमेवेत्यर्थः । उत्तरमाह ॥ गत्यनुस्मरणस्येति ॥ ज्ञानशेषत्वात् ॥ ज्ञानसहकारित्वात् ॥ कारणमिति ॥ कारणमित्यत्र उत्तरवाक्यमवतारयति ॥ प्रकाशितेति ॥

वाक्यार्थमञ्जरी

पृथग्जनेति ॥ अज्ञजनेत्यर्थः ॥ उत्क्रान्तिकाले तदोकसः भगवद्गेहरूपस्य हृदयस्याग्रे ज्वलनं प्रभा प्रादुर्भवति ततोऽधिकारी तत्प्रकाशितद्वारस्तेन प्रकाशेन प्रकाशितनाडीद्वारवान् हार्देन हृद्गतेन परमात्मनाऽनुगृहीतोऽनुगृहवानेव विद्यासामर्थ्यादपरोक्षज्ञानशक्त्या तच्छेषगत्यनुस्मृतियोगात्तस्या विद्यायाः शेषाङ्गभूताया हृदयमारभ्य ब्रह्मप्राप्तिपर्यन्ताया गतेर् अनुस्मृतिरनुस्मरणं तद्योगा-त्तत्साहित्यात् शताधिकया शतनाडीतो अधिकया सुषुम्नाख्यनाड्या देहान्निर्यातीत्यर्थः ॥ स्वोदय-मारभ्यैवेति ॥ न तु लिङ्गदेहभङ्गमारभ्यैवेत्यर्थः । कर्म प्रारब्धम्, आदेहमारवेर्वा फलदमिति सम्बन्धः ॥ ज्ञानफलं न भवतीति ॥ गत्यनुस्मरणफलत्वादिति भावः । इति स्मृतेर् गीताभाष्यो-दाहृतायाः ॥ न विशेषप्रमाणमिति ॥ उदाहृतस्मृतौ गतिवाचकशब्दाभावादिति भावः ॥


ॐ रश्म्यनुसारी ॐ

सूत्रभाष्यम्

ॐ रश्म्यनुसारी ॐ ॥ १८ ॥

निष्क्रामति । ‘सहस्रं वा आदित्यस्य रश्मय आसु नाडीष्वाततास्तत्र श्वेतः सुषुम्नो ब्रह्मयानः सुषुम्नायामाततस्तत्प्रकाशेनैव निर्गच्छति’ इति पौत्रायणश्रुतिः ॥

तत्त्वप्रदीपिका

योऽयं प्रद्योतस् तं सुषुम्नाख्यं रश्मिमनुसरन् सुषुम्नया निष्क्रामति ॥

तत्त्वप्रकाशिका

ननु यदि प्रकाशितनाडीद्वारो निष्क्रामति तर्ह्यज्ञवन्नाड्यन्तस्तमसैव गमनं स्यात् । यद्यन्तरेऽ-प्यस्ति प्रकाशस्तर्हि द्वारपदवैयर्थ्यमित्याशङ्कां परिहरत्सूत्रं पठित्वा तच्छेषमेव पूरयति ॥ रश्मीति ॥ न ज्ञानिनो नाड्यन्तस्तमसोत्क्रमणं येनाज्ञमरणसाम्यं स्यात् । नाड्यन्तरा ततसौररश्म्यनुसारे-णोत्क्रमणात् । अत एव नाड्यन्तर्गतस्य प्रकाशान्तरत्वाद् द्वारपदावैयर्थ्यमिति भावः । तदुक्तम् ।

तदा विष्णोः स्वतेजसा ।

द्योतते हृदयाग्रं च तेन द्वारेण केशवः ।

निष्क्रामे ज्जीवमादाय प्राण एनमनुव्रजेत् । इति ।

नाड्यन्तराततसौररश्म्यनुसारेणोत्क्रामतीत्येतत्कुत इत्यत आह ॥ सहस्रमिति ॥

गुर्वर्थदीपिका

नाड्यन्तर्गतस्य प्रकाशान्तरत्वादित्यत्र नाड्यन्तस्थसौरप्रकाशः जीवमादाय हरौ मूर्धद्वारसमीपं प्रति गते सत्यधस्थात् पीठभूतार्कस्यैव विलोपाद् वायुभिः सह नष्ट एव भवति । तस्माद्द्वारप्रदर्शनाय हरिप्रकाश एवापेक्षित इति भावः ।

भावदीपः

अज्ञमृतिसाम्यनिरासकतया पूर्वोक्तेर्द्वारपदसार्थक्योपपादकतया चोत्तरयोगमवतारयति ॥ नन्विति ॥ उक्तशङ्कानिवर्तकतया भाष्यं तात्पर्यतो व्याचष्टे ॥ न ज्ञानिन इत्यादिना ॥ अत एव सौरालोकत्वादेवेत्यर्थः । नन्वत्र भाष्यानुक्तोऽपि द्वारप्रकाशो वैष्णवो न सौर इति कुतो ज्ञायत इत्यतः षष्ठे बृहद्भाष्योक्तमित्याह ॥ तदुक्तमिति ॥ जीवमादायेत्युक्त्या ज्ञानिनो निष्क्रामन्तीति यदत्रोक्तं तद्बृहद्भाष्यविरुद्धमिति प्रत्युक्तम् । पराधीनगतिमादाय जीवो निष्क्रामतीत्ये-तद्ग्रन्थोक्त्युपपत्तेरिति ॥

वाक्यार्थमुक्तावली

यदि प्रकाशितनाडीद्वार इति ॥ ब्रह्मरंध्ररूपनाड्यग्रद्वार इत्यर्थः ॥ सौररश्म्यनुसारेणेति ॥ तन्त्रसारे हृत्पद्मकीर्णकाप्रदेशे सूर्यमण्डलोक्तेरिति भावः ॥ प्रकाशान्तरत्वादिति ॥ द्वारस्थ-भगवत्प्रकाशापेक्षया प्रकाशान्तरत्वादित्यर्थः । आसु नाडीषु सहस्रनाडीषु । श्वेतः सुषुम्नो ब्रह्मयान इति रश्मिविशेषस्य विशेषणम् । श्वेतो वर्णतः । सुषुम्नो नामतः । ब्रह्मयानो ब्रह्मयापक इति क्रियातः ॥

तत्त्वसुबोधिनी

अत एवेत्यस्य विवरणं नाड्यन्तर्गतस्य प्रकाशान्तरत्वादिति ॥

वाक्यार्थविवरणं

द्वारपदवैय्यर्थ्यमिति ॥ नाडीद्वारप्रकाशो विष्णुतेजसा विष्णुप्रकाशेनैव भवति । अतो द्वारपदम् । नाड्यन्तर्विद्यमानप्रकाशस्तु सौररश्मिप्रकाश इति प्रकाशयोर्भेदोऽस्तीति भावः ॥ सहस्रमिति ॥ तथा च तत्र रश्मिषु श्वेतः सुषुम्नो ब्रह्मयानस् तन्नामक आदित्यरश्मिः सुषुम्ना-नाड्यन्तरातत इत्यर्थो द्रष्टव्यः ।

वाक्यार्थमञ्जरी

ज्ञानी नाड्यन्तर्गतव्याप्तरश्म्यनुसारी निर्यातीत्यर्थः ॥