ॐ अविभागो वचनात् ॐ
८. अविभागाधिकरणम्
सूत्रभाष्यम्
ॐ अविभागो वचनात् ॐ ॥ १६ ॥
‘एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पा यथानिकाममन्तर्बहिः परिचरन्ति’ इति गौपवनश्रुतिः । तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम् । ‘कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योरिति वचनात् ।
‘मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु ।
कामानुकूलकामत्वं नान्यत्तेषां विधीयत’ इति ब्राह्मे ॥
॥ इति अविभागाधिकरणम् ॥ ८ ॥
तत्त्वप्रदीपिका
तेषां मुक्तानां वक्ष्यमाणस्यादुःखानन्दभोगविशेषस्योपपत्त्यर्थं सत्यकामत्वमभिस्पृहणीयम्, श्रूयते च, तथा च परमेशितुरन्येषां च सत्यकामत्वे विरोधप्राप्तिमाशङ्क्यमानां परिहर्तुमाह– अविभागो वचनात् ॥ परमेश्वरकामसङ्कल्पाविभागेनैव मुक्तानां सत्यकामत्वं सत्यसङ्कल्पत्वं च । विषय-भेदादविभाग उच्यते । यथा ह्यैकमत्यादिव्यवहारो लोके च । अत ईश्वरस्य यं यं प्रति यथा यथाऽभीष्टं भवति तस्य तस्य स्वात्मानमन्यं प्रति च तथा तथाऽभीष्टं भवतीत्येतत्सत्यकामत्वं मुक्तानामतो न विरोधः । ‘कामेन मे काम आगाद्धृयाद्धृदयं मृत्योः’ इति लुङर्थे लोटः प्रार्थनात्मकत्वात् । ‘यदमीषामदः प्रियम् । तदैतूपमामभि’ इति वाक्यशेषाच्च । यदमीषां सर्वसंहारकभगवत्प्रमुखानां देवानां प्रियं तन्मां प्रति प्रियमभ्युपैत्वित्यर्थः । न चात्र मुक्तानां परमाभेदोऽभिप्रेतः । प्रवेशवचनात् । न हि प्रविष्टः प्रवेशस्थानं भवति । न च मुक्तौ प्रवेश एवासिद्ध इति युक्तम् । बहुप्रमाणप्रसिद्धि-प्रतिपादनात् । वागादिशब्दानां चाभिमानिदेवेषु वेदव्यवहारतो मुख्यवृत्त्यभ्युपगमात् । अभिमानि-व्यपदेशस्त्विति प्रागेव प्रसाधितत्वाच्च । निर्विशेषब्रह्माभेदे मुच्यमानस्योत्क्रान्तिगत्युक्तिविरोधश्च । न च सा सगुणमुक्तिविषयेत्यादरणीया । निर्गुणमुक्तेस्तमोगतिव्यतिरेकेणाभावात् । ‘न तस्य प्राणा उत्क्रामन्ति’ इति प्रविष्टविषयम् । न च प्रवेशे दुःखाशङ्का । देहसम्बन्धादिहेतुकं दुःखलेशममृष्यतो मुक्तस्थानं चानुबुभूषतोऽपरोक्षीकृतस्वात्मभूतचिदानन्दात्मकदेहेन्द्रियादिमतस्तस्य चिच्छरीरेन्द्रिय-प्राणविलयस्य चिरात्प्रतीक्षितस्याहिनिलयनीनिरासवत्सुखरूपत्वात् ।
तत्त्वप्रकाशिका
अत्र देवानां मुक्तौ भगवदधीनत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा भगवतः सर्वोत्तमत्वहानिप्रसङ्गात्समर्थनीयमेतत् । देवा एव प्रकृता विषयः । किं मुक्तौ स्वतन्त्रा वर्तन्त उतास्वतन्त्रा इति सन्देहः । मुक्तत्वं स्वातन्त्र्यस्य भगवद्धर्मत्वं च सन्देहबीजम् । स्वतन्त्रा एव वर्तन्त इति पूर्वः पक्षः । मुक्तत्वादेव । अस्वातन्त्र्ये संसारिवद्दुःखादिप्राप्तेः । ‘एते देवाः’ इति सायुज्यं प्राप्तानां देवानां सत्यकामत्वादिश्रुतेश्च । न हि परतन्त्रेषु सत्यकामत्वादि सम्भवति । अतो मुक्तानामपि स्वातन्त्र्यात्परमात्मनः सर्वोत्तमत्वोक्तिर्विरुद्धेति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ अविभाग इति ॥ परमात्माधीना एव मुक्ता न तु स्वतन्त्राः । न चैवं श्रुत्यादिविरोधः । श्रुतिर्यत्सत्यकामत्वं वक्ति तत्तेषां सत्यकामत्वं परमेश्वरेच्छानुसारेणैवेत्यङ्गीकारात् । अत एव न दुःखादिप्राप्तिः । यदा खलु भगवदिच्छाननुसारेणेच्छति तदा तदलाभेन दुःखादि स्यात् । मुक्तास्तु भगवत्कामानुसारेणैव कामयन्तेऽतो भगवत्कामनिमित्तेन मुक्तकामानन्तरमेव कामितप्राप्तेर-स्वतन्त्राणामपि सत्यकामत्वाददुःखित्वाद्युपपन्नमिति भावः । सत्या नित्याः । सत्यकामत्वश्रुतेः कुतोऽमुख्यार्थतेत्यत आह ॥ कामेनेति ॥ मृत्योः कामेनेच्छया मे कामः कामितमागात् । आगतं तदिच्छानन्तरप्राप्तत्वात् । कथमीश्वरेच्छया ममेच्छा भगवदिच्छानुसारिणीत्यर्थः । अत्र स्मृतिं चाह ॥ मुक्तानामिति ॥ सामर्थ्यं चेश्वराधीनमिति शेषः । अतो मुक्तानामस्वातन्त्र्याद्विष्णोरेव सर्वोत्तमत्वमिति सिद्धम् ॥
भावबोधः
भगवदधीनत्वसमर्थनादिति । यदुक्तं पूर्वाधिकरणे भगवत्प्रतिबिम्बत्वेन देवानां भगवति लय इति तदयुक्तम्, तेषां मुक्तत्वादिना स्वतन्त्रत्वात्तदधीनत्वरूपतत्प्रतिबिम्बत्वस्यैव अयोगादित्याक्षेपो-त्थानादनन्तरसङ्गतिरिति भावः । अत एवोपासनासम्बन्ध्यर्थप्रतिपादकानां ‘‘व्यतिहारो विशिंषन्ति हीतरवत्’’ इत्यादीनाम् उपासनापादेऽन्तर्भाववत्, भगवल्लीनदेवानां भगवदधीनत्वप्रतिपादकस्याप्यस्य पादेऽन्तर्भावो युक्त एव । अत एव वक्ष्यति– देवा एव प्रकृता इति ॥ किमिति ॥ अत्र भगवल्लीनत्वेन प्रकृता देवाः किं मुक्तौ स्वतन्त्रा उत भगवदधीना इति चिन्ता । तदर्थं तेषां मुक्तत्वसत्यकामत्वादिकं स्वातन्त्र्यसाधकं भवत्युत न भवतीति । तदर्थं सत्यकामत्वादिकं किमीश्वर इव मुख्यम् उत ईश्वरकामाद्यनुसारित्वादिरूपममुख्यमिति । तदर्थं तेषां विवक्षितसत्यकामत्वे दुःखप्राप्तिर्न भवत्युत भवतीति ॥ मुक्तत्वादेवेति ॥ अनेन सत्यसङ्कल्पादेरिति न्यायविवरणे आदिपदेन मुक्तत्वं ग्राह्यमित्युक्तं भवति ॥ अस्वातन्त्र्य इति ॥ अनेन संसारसमानर्धमत्वं मुक्तेर् इति न्यायविवरणांशो व्याख्यातः ॥ सत्यकामत्वादिश्रुतेश्चेति ॥ अनेन सत्यसङ्कल्पत्वादेरिति न्यायविवरणोक्तसत्यसङ्कल्पत्वहेतोरसिद्धिः परिहृता भवति । श्रुतिर्यत्सत्यकामत्वं वक्तीति । ‘तत्’ इत्यतः पूर्वं भाष्ये शेषोक्तिरियम् । तत्परमेश्वरकामाद्यविभागेनेति भाष्यव्याख्यानपरेणानेन सत्य-सङ्कल्पत्वादेर् ईश्वरसङ्कल्पाद्यनुसारित्वनियम इति न्यायविवरणांशस्यापि तात्पर्यमुक्तं भवति । नन्वेवं सत्यस्वातन्त्र्यापातेन दुःखादिप्राप्त्या संसारसमानधर्मत्वं मुक्तेरिति न्यायविवरणेऽभिहितमित्यत आह– अत एवेति ॥ सत्यसङ्कल्पत्वादेर् ईश्वरसङ्कल्पाद्यनुसारित्वनियमादेवेत्यर्थः । कृतार्थत्वेनैव विशेषोपपत्तेरिति न्यायविवरणं विवृण्वन्, अत एवेत्युक्तमेव दर्शयति– यदा खल्वित्यादिना ॥ मुक्तास्त्वित्यादिना कृतार्थत्वेनेत्येतन् मुक्तत्वेनेति अस्वतन्त्राणामपीत्यनेन अवधारणं, स्वातन्त्र्यादिव्यावर्तकमिति अदुःखित्वाद्युपपन्नमित्यनेन विशेषोपपत्तेरित्येतद् दुःखाभाव-सत्यसङ्कल्पत्वादिविशेषोपपत्तेरिति व्याख्यातं भवति । स्वकामितागमनमीश्वरेच्छया कथमित्यत आह– तदिच्छानन्तरमिति ॥ स्वकामितागमने स्वेच्छाया एव कारणत्वादीश्वरेच्छायाः कथं कारणत्वमित्याक्षिपति– कथमिति ॥ तदुत्तरत्वेन हृदयाद्धृदयं मृत्योरित्येतद्व्याख्याति – ईश्वरेच्छया ममेच्छेति । तात्पर्यमाह– भगवदिच्छानुसारिणीति ॥
भावदीपः
भगवदित्यादि ॥ एतेन पूर्वत्रोक्ततदधीनत्वरूपभगवत्प्रतिबिम्बत्वाक्षेपसमाधिरूपत्वादस्य पूर्वानन्तर्यमिति सूचितम् ॥ सर्वोत्तमत्वेति ॥ तथा च व्यतिहारादिनयोक्तार्थो न युक्त इति भावः ॥ भगवद्धर्मत्वं चेति ॥ तदनन्यत्वादिनयसिद्धत्वात्तस्येति भावः । मुक्तानामिति भाष्य-सूचितहेतुमाह ॥ मुक्तत्वादिति ॥ हेतोरप्रयोजकत्वनिरासार्थं सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पानु-सारित्वनियमे संसारसमानधर्मत्वं मुक्तेरित्यन्यत्रोक्तं तात्पर्यतो विपक्षबाधकत्वेन विवृणोति ॥ अस्वातन्त्र्य इति ॥ हेतूच्छित्तिरेव बाधिकेत्यर्थः । एत इत्यादिभाष्यसूचितहेत्वन्तरमाह ॥ एत इति ॥ भाष्योक्तश्रुतेश्चेत्यर्थः । हेतोरप्रयोजकत्वं निराह ॥ न हीति ॥ अत इति ॥ मुक्तत्वा-त्सत्यकामत्वादिमत्त्वाच्चेत्यर्थः । सङ्गतत्वलाभाय प्रागुक्तश्रुतियुक्तिनिरासकतया सूत्रभाष्ये व्याकुर्वन् फलितार्थं तावदाह ॥ परमात्मेति ॥ श्रुत्यादीत्यादिपदेन मुक्तत्वयुक्तिः । श्रुतिर् एत इत्यादि-श्रुतिः । भाष्यं योजयति ॥ श्रुतिर्यदित्यादिना ॥ प्रागुक्तविपक्षबाधकमपि निराह ॥ अत एवेति ॥ एतदेव व्यनक्ति ॥ यदेत्यादिना ॥ अमुख्यार्थतेति ॥ भगवत्कामनिमित्तेन मुक्तकामानंतरमेव कामितप्राप्तिमत्त्वादिरूपामुख्यार्थतेत्यर्थः । हृदयादिश्रुतिशेषमवतार्य व्याचष्टे ॥ कथमिति ॥ फलितार्थमाह ॥ भगवदिति ॥ अत्रेति ॥ सत्यकामत्वश्रुतेरमुख्यार्थत्व इत्यर्थः ॥ अत इति ॥ श्रुतियुक्त्योरन्यथोपपत्त्या पारतन्त्र्याविरोधकत्वादित्यर्थः ।
अभिनवचन्द्रिका
शास्त्रादिसङ्गतिरिति ॥ शास्त्रेणाऽन्तर्भावलक्षणा, अध्यायपादाभ्यां प्रासङ्गिकी सङ्गतिरित्यर्थः ॥ किं मुक्तौ स्वतन्त्रा इति ॥ यद्यपि मुक्तानां श्रूयमाणं सत्यकामत्वं किं मुख्यं, अथ भगवत्कामानुसारित्वादमुख्यमिति संदेहः । मुख्यमेवेति पूर्वःपक्ष इत्यादिवक्तव्यम्, सूत्रे ‘अविभाग’ इति तस्यैव साध्यत्वोक्तेः, भाष्ये ‘परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम्’ इत्युक्तेश्च, तथापि स्वतः सत्यकामत्वं स्वातन्त्र्यमेव नान्यदिति द्योतनाय स्वतन्त्रा इत्याद्युक्तम् । श्रुतिं चाह – एते देवा इति ॥ सत्यकामत्वस्वातन्त्र्ययोरभेदात्स्वातन्त्र्यसिद्धये सत्यकामत्वश्रुत्युदाहरणं युक्तमिति बोध्यम् । संसारिष्वविद्यामानानियमेन भगवदिच्छया कामितप्राप्तिः कथं मुक्तानां स्यात् । भगवत्सङ्कल्पवैपरीत्येन कामनासम्भवादित्याक्षिपति – कथमिति ॥ उक्ताऽऽशङ्कानिवर्तकत्वेन ‘हृदयाद्धृदयं मृत्योः’ इत्यंशं व्याचष्टे – ईश्वरेच्छाया इति ॥
पूर्वपक्षस्तु मुक्ताः स्वतन्त्रा न पराधीना मुक्तत्वात् । ‘एते देवा’ इति सायुज्यभाजां सत्यकामत्वश्रुतेश्च । अतो मुक्तानां स्वातन्त्र्यात्, परमेश्वरस्य सर्वोत्तमत्वोक्तिर्विरुद्धेति ।
सिद्धान्तस्तु परतन्त्रा एव मुक्ताः । मुक्तत्वात् । न हि स्वतन्त्रस्य संसारो युज्यते । यतो मुक्तिर्नाम स्यात् । नापि मुक्तौ स्वातन्त्र्ये मुक्तिर्नाम घटते । न हि प्रेक्षापूर्वकारिणो निगडबद्धं स्वाधीनं सन्तं मुक्तौ स्वातन्त्र्यसम्भवे मोचयन्ति । अपि तु मुक्तावपि स्वाधीनमेव । येनेह मुक्तौ स्वतन्त्रान् प्रेक्षापूर्वकारी परमेश्वरो मोचयतीति प्रतिपद्येमहि । न च श्रुतिविरोधः । श्रुत्या परमेश्वर-कामानुसारिकामित्वरूपपारिभाषिकसत्यकामत्वस्यैवाऽभिधानात् ‘कामेन मे काम आगात्’ इति श्रुतेः । ‘मुक्तानां सत्यकामत्वम्’ इति स्मृतेश्च । अतो मुक्तानां स्वातन्त्र्याभावात्परमेश्वरस्यैव सर्वोत्तमत्वमिति सिद्धम् ॥
वाक्यार्थमुक्तावली
भगवदधीनत्वसमर्थनादिति ॥ यदुक्तं पूर्वाधिकरणे भगवत्प्रतिबिम्बत्वेन देवानां तत्र लय इति तदयुक्तम् । तेषां मुक्तत्वादिना स्वतन्त्रत्वात्तदधीनत्वरूपतत्प्रतिबिम्बत्वस्यैवायोगादित्याक्षेपोत्थाना-दनन्तरसङ्गतिरिति भावः । न चात्र लयानिरूपणात् पादानन्तर्भाव इति वाच्यम् । लयाक्षेप-समाधानार्थत्वेन पादप्रवेशसम्भवात् । उपासनासम्बन्ध्यर्थानां व्यतिहारो विशिंषन्तीत्यादीना-मुपासनापादेऽन्तर्भाववद्भगवति लयाक्षेपसमाधायकस्याप्यत्रान्तर्भाव एवेति । यद्वा तेषां मुक्तानां वक्ष्यमाणस्यानन्दविशेषभोगस्योपपत्यर्थं सत्यकामत्वमुच्यमानमाशङ्क्य परिहर्तुमाहेति तत्व-प्रदीपोक्तेः । सत्यकामत्वादिकं मुक्तानां किं स्वतन्त्रमुत भगवदिच्छापरतन्त्रमिति प्रसङ्गाच्चिन्त्यत इति न्यायभास्करोक्तेश्च प्रासङ्गिकमिदमधिकरणम् ॥ किमिति ॥ देवाः किं मुक्तौ स्वतन्त्रा उत परतन्त्रा इति चिन्ता । तदर्थं परतन्त्रत्वे श्रुतं सत्यकामत्वादि न सम्भवत्युत सम्भवति । मुक्तत्व-मप्रयोजकमित्याशङ्क्य सिद्धान्ते मुक्तानां भगवदिच्छानुसारेणेच्छोक्त्याऽवच्छेद्यं समानधर्म इत्युक्त-न्यायं व्यनक्ति ॥ अस्वातन्त्र्य इति ॥ अविभाग इति सूत्रनिरस्यं तमेव न्यायं प्रकारान्तरेण व्यनक्ति ॥ एते देवा इति ॥ तथा च सत्यकामत्वादिना भगवत्समानधर्मत्वान्न पारतन्त्र्यमिति भावः ॥ श्रुत्यादिविरोध इति ॥ भाष्योदाहृतश्रुतिविरोधः । आदिपदेन मुक्तत्वहेतुविरोध-स्तदनुग्राहकदुःखादिप्राप्तिरूपतर्कविरोधश्चेत्यर्थः । भाष्ये गौपवनश्रुतिरित्यनन्तरं तदित्यतः पूर्वमध्याहरति श्रुतिर्यत्सत्यकामत्वं वक्तीति । श्रुतिरित्यतः परं यत्सत्यकामत्वं वक्तीत्यध्याहार इत्यर्थः । भाष्ये परमेश्वरकामादीत्यादिपदेन सङ्कल्पपरिग्रहः । सत्यकामत्वमिति सत्यसङ्कल्प-स्याप्युपलक्षणम् । अविभागेनेत्यस्य तात्पर्यमनुसारेणेति ॥ अत एवेति ॥ परमेश्वरेच्छानुसारेणैव मुक्तानामिच्छातश्च फलाव्यभिचार इत्यङ्गीकारादेवेत्यर्थः । अदुःखित्वादीत्यादिपदेन मुक्तत्वं गृह्यते ॥ अस्वतन्त्राणामपीति ॥ मुक्ता इति ॥ एतेन कृतार्थतेति न्यायोऽप्यविभागोपपादकत्वेन विवृतो भवति । अस्वतन्त्राणामपि सत्यकामत्वसम्भवेन मुक्तत्वमप्रयोजकमिति भावः । सूत्रे पूर्वपक्षिणा स्वातन्त्र्योपपादकसत्यकामत्वे एते देवाः सत्यकामा इति श्रुत्युदाहरणाद् बुध्द्युपस्थापितत्त्वात् प्रस्तुतदेवादिमुक्तानां सत्यकामादेरिति सम्बध्यते । तथा च मुक्तानां सत्यकामादेरीशेच्छादितोऽ-विभागः विभागो व्यभिचारो ऽविभागोऽव्यभिचार ईशेच्छां विनाऽभाव इति यावत् ।
यद्वा विभागो विसंवादो ऽविभागोऽविसंवादः । तत्काम्यकामितेति यावत् । यद्वाऽविभागोऽ-भेदस्तादात्म्यं बाधितमिति विषयैक्यं लक्ष्यते न काम्यकामितेति यावत् । तदुक्तं न्यायभास्करे । यदि भगवन्मुक्तयोरन्यतरकामेनान्यतरकामो विभागेन विसंवादेन स्यात्तर्ह्यविभाग इति । तत्त्वप्रदीपे च परमेश्वरकामसङ्कल्पाविभागेनैव मुक्तानां सत्यकामत्वं सत्यसङ्कल्पत्वं च विषयाभेदादविभाग उच्यत इति । आद्योऽर्थस्तु टीकातः स्पष्टं ज्ञायते ॥ अमुख्यार्थतेति ॥ अस्वातन्त्र्येण सत्य-कामत्वरूपामुख्यार्थतेत्यर्थः ॥ त्वदिच्छेति ॥ कामितस्य तवेच्छानन्तरं प्राप्तत्वात् कथमीश्वरे-च्छयाऽऽगतमिति त्वयोच्यत इति प्रश्नाभिप्रायः । तत्परिहाराय हृदयात् हृदयमित्येतद्व्याचष्टे ॥ ममेच्छा भगवदिच्छानुसारिणीति ॥ इच्छानुसारित्वमिच्छासमानविषयत्वं चेह विवक्षितम् । तदिच्छेति क्वचित्पाठः । तत्रैवं योज्यम् । मृत्योः कामनाऽऽगतत्वमित्येतत्कुत इत्यत आह ॥ तदिच्छेति ॥ स्वकामितागमने स्वकामस्यैव हेतुत्वात् कथमीश्वरेच्छायाः कारणत्वमित्याक्षिप्य कथमिति तदुत्तरत्वेन हृदयात् हृदयमित्येतद् व्याख्याति ॥ ईश्वरेच्छा ममेच्छेति ॥ तात्पर्यार्थमाह ॥ भगवदिति ॥
तत्त्वसुबोधिनी
भगवदधीनत्वसमर्थनादिति । यदुक्तं पूर्वाधिकरणे भगवत्प्रतिबिंबत्वेन देवानां भगवति लय इति तदयुक्तम् । तेषां मुक्तत्वादिना तदधीनत्वरूपतत्प्रतिबिंबत्वस्यैवायोगादिति आक्षेपोत्थाना-दनन्तरसङ्गतिरिति भावः । अत एवोपाधिसम्बन्ध्यर्थप्रतिपादकानामुपासनेऽन्तर्भाववद् भगवल्लीन-देवानां भगवदधीनत्वप्रतिपादकस्याप्यस्यात्र पादेऽन्तर्भावो युक्त एवेति ध्येयम् । श्रुतिर्यत्सत्यकामत्वं वक्तीति तदित्यतः पूर्वं भाष्ये शेषोक्तिरियम् । नन्वेवं च स्वातत्र्यापातेन दुःखादिप्राप्त्या संसार-समानधर्मत्वं मुक्तेरित्युक्तमित्यत आह ॥ अत एवेति ॥ तस्य सङ्कल्पत्वादेरीश्वरसङ्कल्पाद्यनु-सारित्वनियमादेवेत्यर्थः । अत इति भगवत्कामलक्षणनिमित्तेन मुक्तकामानन्तरमेवेत्यर्थः । स्वकामितागमनमीश्वरेच्छया कथमित्यत आह ॥ तदिच्छानन्तरप्राप्तत्वादिति ॥ स्वकामितागमने स्वेच्छाया एव कारणत्वादीश्वरेच्छयाः कथं कारणत्वमित्याक्षिपति ॥ कथमिति ॥ तदुत्तरत्वेन हृदयाद् हृदयं मृत्योरित्येतद्व्याख्याति । ईश्वरेच्छया ममेच्छेति ॥ तात्पर्यमाह ॥ भगवदिच्छानु-
सारिणीति ॥ स्मृतिस्थसामर्थ्यं चेत्यस्यानन्वयात् तदर्थं शेषं पूरयति ॥ सामर्थ्यं चेश्वराधीनमिति ॥
वाक्यार्थविवरणम्
मृत्योः । मारकस्य भगवतः । स्वकामितागमनं कथमीश्वरेच्छयेत्यत आह ॥ तदिच्छानन्तर-मिति ॥ ईश्वरेच्छायाः कारणत्वमाक्षिपति ॥ कथमिति ॥ तदुत्तरत्वेन ‘हृदयाद्धृदयं मृत्योः’ इत्येदद्व्याख्याति ॥ ईश्वरेच्छया ममेच्छेति ॥ तत्तात्पर्यमाह ॥ भगवदिति ॥
वाक्यार्थमञ्जरी
मुक्तानां सत्यकामत्वादेरीशेच्छातोऽविभागोऽपृथक्त्वं तदनुसारित्वमिति यावत् कुतः । ‘कामेन मे काम आगात्’ इति वचनादित्यर्थः ॥ अत एवेति ॥ सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पानुसारित्व-नियमादेवेत्यर्थः । तदेव विवृणोति यदेति ॥ सत्या नित्या इति ॥ सदातनं सत्यमिति नित्यमे-वोच्यते बुधैरित्युक्तेरित्यर्थः । स्वकामितागमनमीश्वरेच्छया कथमित्यत आह ॥ तदिच्छानन्तर-मिति ॥ स्वकामितागमने स्वेच्छाया एव कारणत्वादीश्वरेच्छायाः कथं कारणत्वमित्याक्षिपति ॥ कथमिति ॥ तदुत्तरत्वेन हृदयाद्धृदयं मृत्योरित्येतद्व्याख्याति ॥ ईश्वरेच्छाया इति ॥ तात्पर्यमाह ॥ भगवदिच्छेति ॥
॥ इति अविभागाधिकरणम् ॥ ८ ॥