ॐ तानि परे तथा ह्याह ॐ
७. परा(लया)धिकरणम्
सूत्रभाष्यम्
ॐ तानि परे तथा ह्याह ॐ ॥ १५ ॥
प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विलीयन्ते । ‘सर्वे देवाः प्राणमाविश्य देवे मुक्ता लयं परमे यान्त्यचिन्त्य’ इति कौषारवश्रुतिः ॥
॥ परा(लया)धिकरणम् ॥ ७ ॥
तत्त्वप्रदीपिका
अवसितः प्रासङ्गिकः प्रकृतिस्वरूपनिरूपणाप्रकारः । सम्प्रति प्रस्तुतशेषमुपसंहरति– तानि परे तथा ह्याह ॥ तानि सर्वाणि दैवतानि श्रुत्यन्तरोदितद्वारान्तरप्रवेशपूर्वकं प्राणद्वारेण भूतवृत्त्या प्राणशब्दवाच्यविरिञ्चद्वारेण परमात्मनि लीयन्ते प्राणप्रवेशोऽप्यनन्तगरुडयोरन्यतरद्वारेणैवेति निर्णयः । सर्वाणि दैवानीति सम्यग्दर्शी देवभाग एव सङ्गृहीतो वेदितव्यः ।
‘वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काल’ इति च ॥
तत्त्वप्रकाशिका
अत्र चतुर्मुखेतरदेवानां मोक्षे भगवत्प्राप्तिसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ज्ञानिनां मोक्षाभावप्रसङ्गात्समर्थनीयमेतत् । ‘सर्वे देवा भूतेषु विशन्ति’ इत्युक्तं, ते देवा अत्र विषयः । भगवति लीयन्त उत नेति सन्देहः । उभयथापि सम्भवः सन्देहबीजम् । न देवानां हरौ लय इति पूर्वः पक्षः । ‘प्रतिबिम्बो हरेः प्राणः प्राणस्यान्याः कलाः क्रमात्’ इति वचनात्सर्वदेवानां क्रमेण प्राणप्रतिबिम्बत्वात्तस्यैकस्यैव परमात्मप्रतिबिम्बत्वात्प्रतिबिम्बस्यैव बिम्बे लयनियमात् । अतो वेदगर्भेतरदेवानां परमात्मनि लयाभावाज्ज्ञानिनामपि मोक्षाभाव इति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ तानीति ॥ येषां देवानां पूर्वं भूतप्रवेशो निगदितस्तानि सर्वाणि दैवतानि परमात्मनि विशन्त्येव । न च प्राणप्रतिबिम्बत्वविरोधः । तत्प्रतिबिम्बत्वेन तद्द्वारा परमात्मनि लयाङ्गीकारात् । न च देवानां तदभाव एव । सामान्यतोऽशेषजीवानां भगवत्प्रतिबिम्बत्वात् । विरिञ्चप्रविष्टानां विरिञ्चस्य चेश्वरप्रवेशे परमात्मप्रवेशस्यापरिहार्यत्वात् । न चात्र प्रमाणाभावः । ‘सर्वे देवाः’ इति विशेषश्रुतिसद्भावादेवेति भावः । अतो देवानां परमात्मनि लयसद्भावाद्युक्तमुक्तमिति सिद्धम् ॥
भावबोधः
चतुर्मुखेतरदेवानामिति ॥ पूर्वाधिकरणे तेजसः परमात्मनि लयाभावसमर्थनेन प्राणपदोदित-चतुर्मुखस्य साक्षात्परमात्मनि लये सिद्धे तत्र तदितरदेवानां परमात्मप्राप्त्यर्थं तद्द्वारा परमात्मनि लयसमर्थनादनन्तरसङ्गतिरिति भावः ॥ भगवतीति ॥ अत्र देवाः किं परमात्मनि न लीयन्त उत लीयन्त इति चिन्ता । तदर्थं तेषां भगवत्प्रतिबिम्बत्वं नास्त्युतास्तीति ॥ तदर्थं तेषां प्राण-प्रतिबिम्बत्वादिकं भगवत्प्रतिबिम्बत्वादिबाधकम् उत साधकमिति ॥ अन्यदेवानां प्राणाधीनत्वात् तत्प्राप्तिनियमात् । परप्राप्तिर्नास्त्येवेति न्यायविवरणोक्तयुक्तिमाह– ‘प्रतिबिम्बो हरेः प्राणः’ इत्यादिना । न च तदभाव एवेति । परमात्मनि लयाभाव एवास्त्वित्यर्थः । साधकाभावादिति भावः । ‘सर्वे देवाः’ इति विशेषश्रुतीति । उपलक्षणं चैतत् । ‘प्राणं प्राप्य’ इति न्याय-विवरणोक्तश्रुतिरपि ग्राह्या ।
भावदीपः
चतुर्मुखेत्यादि ॥ एतेन पूर्वत्र विलीनः परमे ह्यमृतत्वमेतीत्युक्तावस्तु तर्हि सोऽध्यक्ष इत्युक्तस्य प्राणस्य मोक्षः न तु भूतेष्वित्यादिनोक्तदेवानामिति शङ्कोदयात्पूर्वसङ्गतिरपि सूचिता । ज्ञानिनामित्यादि ॥ तथा चानियम इत्युक्तिरयुक्ता स्यादिति भावः ॥ उभयथापीति ॥ स्वोत्तमेषु लयस्य परंपरया हरौ प्रवेशेनाप्रवेशेन च सम्भव इत्यर्थः । अन्यदेवानां प्राणाधीनत्वात् । तत्प्राप्तिनियमात्परप्राप्तिर्नास्त्येवेत्यन्यत्रोक्तप्रतिज्ञाहेतू विवृणोति ॥ न देवानामिति ॥ प्रति-बिम्बत्वादिति ॥ प्राणाधीनत्वादित्यर्थः । किञ्चित्तत्सदृशत्वे सति तदधीनत्वस्यैव प्रतिबिम्ब-शब्दार्थत्वेनात एव चोपमेत्यत्र व्यक्तत्वात् हेतोरसिद्धिनिरासाय इति वचनादित्युक्तम् ॥ अत इति ॥ प्राण एव देवानां लयस्य न्यायप्राप्तत्वादित्यर्थः । सौत्रतच्छब्दार्थव्यक्तिपूर्वं सूत्राक्षरार्थतया भाष्यं व्याचष्टे ॥ येषामिति ॥ पूर्वं भूतेष्वित्यादौ । अत्र सर्वाणि दैवतानीत्युक्त्या सम्यग्दर्शित-दैवभागमात्रग्रहः । वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काल इत्युक्तेरित्युक्तं तत्वप्रदीपे । प्रागुक्तशङ्कानिरासकतया प्राणद्वारेणेत्येतद् व्यनक्ति ॥ न चेत्यादिना ॥ तद्द्वारेति ॥ भूतपूर्वगत्या प्राणशब्दितविरिञ्चद्वारेत्यर्थः । अत्र विरिञ्चप्रवेशोऽप्यनन्तगरुडयोरन्यतरद्वारा ज्ञेयः ॥ तदभाव एवेति ॥ भगवत्प्रवेशाभाव एवेत्यर्थः । हेत्वभावादिति भावः ॥ सामान्यत इत्यादि ॥ आभास एव चेत्यादौ तथोक्तेरिति भावः ॥ न चात्रेति ॥ प्राणद्वारा परानुप्रवेशे विशेषप्रमाणाभाव
इत्यर्थः ॥ अत इति ॥ युक्तिश्रुत्योर्भावादित्यर्थः ॥ उक्तमिति ॥ अनियमः सर्वेषामित्युक्तमित्यर्थः ॥
अभिनवचन्द्रिका
उभयथासम्भव इति ॥ तथा हि देवानां भूतेषु लयः । देवविशिष्टानां भूतानां प्राणे, सर्वदेवविशिष्टस्य प्राणस्येश्वरे लय इत्येकः प्रकारः । अस्मिंस्तु पक्षे भूतेषु लीनानां देवानां परमात्मनि लयसम्भवः । अपरस्तु केषाञ्चित्साक्षात्, अन्येषां तु परंपरयेति सर्वेषां प्राणे लयः । प्राणस्तु स्वस्मिन् लीनान् देवान् बहिर्निष्कास्य स्वयमेक एव परमात्मनि लीनो भवति । तद्यथा अमात्यो गजतुरगपदातिभिर्युक्तो राजद्वारपर्यन्तमागत्य तान् बहिः प्रस्थाप्य स्वयमेक एव राजद्वारमाविशतीति । अस्मिंस्तु कल्पे न देवानां परमात्मनि लय इति भूतेषु लयोक्तेरुभयथासम्भवः सन्देहबीजमित्यर्थः ॥ न देवानामिति ॥ न देवानां प्राणेन सह परमात्मनि लयः । अपि तु वाण्याः प्राणे लयपर्यन्तमेव सर्वदेवाऽनुवृत्तिः । प्राणलयावसरे तु अमात्यभृत्यन्यायेन बहिर्भाव इत्यर्थः । स्वोत्तमेषु लीनानां वाणीलयपर्यन्तमनुवृत्तौ हेतुं, तथा प्राणलयकाले बहिर्भावे च हेतुं, प्रमाणोदाहरणपूर्वकमाह– प्रतिबिम्बो हरिरिति ॥ अमात्यभृत्यन्यायेन प्रवृत्तं पूर्वपक्षं निषेधति– न चेति ॥
पूर्वपक्षस्तु न देवा परमात्मनि लीयन्ते । तत्प्रतिबिम्बत्वशून्यत्वात् । किंतु प्राणे । तत्प्रतिबिम्बत्वात् । श्रूयते हि देवानां प्राणप्रतिबिम्बत्वं, परमात्मप्रतिबिम्बत्वाभावश्च । ‘प्रतिबिम्बो हरेः प्राणः प्राणस्याऽन्याः कला’ इत्यादिना । अतो हिरण्यगर्भेतरदेवानां हिरण्यगर्भं प्रविष्टानाममात्यभृत्यन्यायेन हिरण्यगर्भलयकाले बहिर्भावं कृत्वा तस्यैकस्यैव परमात्मनि लयात्, न देवानां मोक्ष इति ।
सिद्धान्तस्तु देवाः प्राणद्वारा परमात्मनि लीयन्त एव । तत्प्रतिबिम्बत्वात् । ‘सर्वे देवाः प्राणमाविश्य’ इति श्रुतेश्च । अतो देवानां परमात्मनि लयसद्भावादुक्तं युक्तमिति सिद्धमिति ॥
वाक्यार्थमुक्तावली
सर्वे देवा भूतेषु विशन्तीतित्युक्तं ते देवात्र विषय इति ॥ एतेनैकस्मिन्निति सूत्रे प्रकृतदेवानामत्र हरौ लयविचारादनन्तरसङ्गतिरिति भावः । समानाधिकरणं तु प्रासङ्गिकमित्युक्त-मेव । अवसितः प्रासङ्गिकः प्रकृतिस्वरूपनिरूपणाप्रकारः सम्प्रति प्रस्तुतमुपसंहरतीति तत्वप्रदीप-वचनात् । देवा भगवति न लीयन्त उत लीयन्त इति चिन्ता । तदर्थं सर्वेषां भगवत्प्रतिबिम्बत्वं नास्त्युतास्तीति । नन्वत्र भगवति शरीरलयोऽस्ति न वेति न सन्देहावकाशः सिद्धान्तेऽपि भगवति शरीरलयाभावात् । न चान्ततः प्रविशन्ति न वेति सन्देह इति वाच्यम् । किं साक्षात्प्रवि-शन्ति न वेति उत प्राणद्वारेति । नाद्यः सिद्धान्तिनाऽनङ्गीकारात् । द्वितीये पूर्वपक्षिणाप्यङ्गी-कार्यत्वात् । सोऽध्यक्ष इति सर्वदेवगर्भितस्य भगवति प्रवेशस्योक्तत्वात् । अत एव चतुर्मुखेतर-देवानामित्युक्तत्वादिति चेदत्रोच्यते । स्वस्वोत्तमेषूक्तक्रमेण शरीरलयवतां स्वस्वोत्तमान्तर्गततया हिरण्यगर्भं प्रविष्टानां हिरण्यगर्भस्य परमात्मनि प्रवेशानन्तरं मुक्तौ ब्रह्मविदाप्नोति परमित्युक्तब्रह्म-प्राप्तिरूपः साक्षाद्धरिप्रवेशोऽस्ति न वेति विचार्यते । अत एव श्रुतौ प्राणमाविश्य देवे मुक्तौ लयं परमे यान्त्यचिन्त्य इति तथोक्तिरिति ध्येयम् । उक्तं चैतद्ब्रह्ममीमांसान्यायभास्करे । सूत्रे परमात्मनि उत्तमे प्रत्यक्चैतन्ये बिम्बभूते हरौ लयं यान्तीत्युक्तव्यवच्छेद्यं परतन्त्रेत्युक्तन्यायं विशदयति ॥ प्रतिबिम्ब इति ॥ क्रमेणेति ॥ तथा च स्वबिम्बपरतन्त्राणां तान्यतिहायान्यत्र प्रवेशो न सम्भवति । न ह्यन्यत्राविष्टस्यान्यत्र प्रवेश इति भावः ॥ तत्प्रतिबिम्बत्वेनेति ॥ भगवत्प्रतिबिम्ब-त्वेनेत्यर्थः ॥ तदभाव एवेति ॥ परमात्मप्रतिबिम्बत्वाभावस्तत्र लयाभावश्चेत्यर्थः ॥ सामान्यत इति ॥ आभास एव च । रूपं रूपं प्रतिरूपो बभूवेत्यादेर्ज्ञानानन्दादिसादृश्यमात्रेण स्वहृदि स्थितभगवत्प्रतिबिम्बत्वादित्यर्थः ॥ अपरिहार्यत्वादिति ॥ अन्यथा ब्रह्मविदाप्नोति परमिति श्रुतब्रह्मप्राप्तिरूपमोक्षविरोधादिति भावः । विशेष इत्युक्तसिद्धान्तन्यायप्रदर्शकत्वेन सर्वे देवा इति विशेषप्रमाणसूचकं तथा ह्याहेत्यंशं व्याचष्टे ॥ न चेति ॥
तत्त्वसुबोधिनी
चतुर्मुखेतरदेवानामिति ॥ पूर्वाधिकरणे तेजसः परमात्मनि लयाभावसमर्थनेन प्राणपदोदित-चतुर्मुखस्य साक्षात्परमात्मनि लयु सिद्धेस् तदितरदेवानां परमात्मप्राप्त्यर्थं तद्द्वारा परमात्मनि लयसमर्थनादनन्तरसङ्गतिरिति भावः ॥ प्रतिबिम्बस्यैवेति ॥ तथा च प्रतिबिंबत्वान्न तेषां तत्र लय
इति भावः । न च तदभाव एवेति परमात्मनि लयाभाव एवास्तु इत्यर्थः । साधकाभावादिति भावः ।
वाक्यार्थविवरणम्
मोक्षाभाव इति ॥ भगवत्प्रवेशस्यैव मोक्षत्वादिति भावः ॥ तदभाव एवेति ॥ साधक-प्रमाणाभावात् परमात्मनि लयाभाव एवास्त्वित्यर्थः । प्रतिबिम्बत्वयुक्तिरेव साधिकाऽस्तीत्याह ॥ सामान्यत इति ॥
वाक्यार्थमञ्जरी
ज्ञानिनामिति ॥ देवानामित्यर्थः । तथा चानियम इत्युक्तव्याघात इति भावः । अन्या रुद्रादिदेवताः कलाः प्रतिबिंबांशाः क्रमात् प्राणस्य रुद्रस्तस्येन्द्र इत्यादिक्रमात् ॥ ॐ तानि परे तथा ह्याह ॐ ॥ तानीतरदैवतानि परे परमात्मनि विरिंचिद्वारा लीयन्ते कुतः हि यस्मात्सर्वे देवा इति श्रुतिस्तथाऽऽहेत्यर्थः । पूर्वं भूतेषु तच्छ्रुतेरित्यत्र तदभाव एवेति परमात्मनि लयाभाव एवास्त्वित्यर्थः । साधकाभावादिति भावः ॥ भगवत्प्रतिबिंत्वादिति ॥ तथा च साधका-भावोऽसिद्ध इति भावः । विरिंचे लयाङ्गीकारात्कथं भगवति लय इत्यत आह ॥ विरिञ्च-प्रविष्टानामिति ॥
॥ इति परा(लया)धिकरणम् ॥ ७ ॥