ॐ समना चाऽसृत्युपक्रमादमृतत्वं चाऽनुपोष्य ॐ
६. समनाधिकरणम्
सूत्रभाष्यम्
॥ ॐ समना चाऽसृत्युपक्रमादमृतत्वं चाऽनुपोष्य ॐ ॥ ७ ॥
देशतः कालतश्च व्याप्त्या समो ना परमपुरुषो यस्याः सा समना । संसारानुपक्रमात्स्वत एवामृतत्वं तस्याः । बृहच्छ्रुतिश्च– ‘द्वौ वाव सृत्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ नित्यौ च सर्वगतौ चेतौ ज्ञात्वा विमुच्यत’ इति । नैतावता साम्यम् ॥
तत्त्वप्रदीपिका
‘तेजः परस्यां देवतायाम्’ इति श्रुतेः श्रीदेव्याश्चेतरदेववत् परमात्मप्रवेशात्मको मोक्षोऽस्तीत्या-शङ्कायां पुनः प्रत्यभिधत्ते । समना चेत्यादि सूत्रम् ॥ समनेति बहुव्रीहिसमासान् मुख्यार्थत्वान्न स्वरूपमात्रेण, देशतः कालतश्च व्याप्तिः, ज्ञानानन्दात्मभिर्देहेन्द्रियादिभिरपीत्यङ्गीकर्तव्यम् । प्रथमायाः षष्ठ्यर्थत्वेन तस्याः श्रीदेव्याः संसारानुपक्रमादित्यन्वयः । कदाचिदपि संसारो नासीदित्येतदर्थमनुपक्रमादिति भाष्यपदम् । न तु वयं कदाचिदपि सूत्रपदं व्याख्यातुमिच्छामः शक्नुमो वा । न हि देवजातिरपि कोऽपि वेदैकपतेः साक्षात्परमपुरुषस्य श्रीमद्बादरायणभगवतोऽनन्तसद्गुणस्य सकलविषयसततविकसितसुमतेर्मतिविलसितं समवगाहितुं शक्नुयात् । यस्यानन्तदेशकालव्यापिनि विज्ञाने बत परमाणुतामणति निखिलोऽपि निगमसमूहसम्भृतोऽर्थसार्थः । यत्तु खलु गिरिश-गरुडादिगुरवोऽप्यत्याश्चर्यमनुवर्णयाञ्चक्रुः–
‘वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ।
अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः ॥
उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ।
इति शङ्कापनोदार्थं स आह करुणाकरः ॥
अशक्योत्तारणत्वेऽपि ह्यागमापारवारिधेः ।
निर्णीयते मयैवायं रोमकूपलयोदिना ॥
यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानुषैः ।
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ॥
इति प्रकाशयन् वेदपतिराह प्रमेयताम् ।
निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ॥
को नाम गतिसामान्यमनन्तागमसम्पदः ।
ज्ञानसूर्यमृते ब्रूयात्तमेकं बादरायणम्’ इति ॥
तस्यैतस्य सर्वश्रुतीतिहासपुराणतन्त्रयुक्तिमूलं परमात्मतत्वविषयनिर्णयात्मकं सूत्रजातं जगति सुरवरपुरस्सरकविजनमनस्सरसिजसमूहसहस्रकिरणेभ्यो गुरुतमभाष्यकारभट्टारकेभ्य एभ्योऽपरः को व्याचक्षीत । किन्तु प्राज्ञतमानामेषामाज्ञाबलमवलम्ब्य आरूढप्रौढदुरधिगममार्गाः कतिचन भाष्य-पदानि व्याचिख्यासवस्सूत्रमिह गुरुभिरुदीरितमुदाहराम एव केवलम् । क्वापि च मुखतो विवृतमपि किमपि पदमभिमुखविकसितकरतलविलसितामलकवदविरतमनुवीक्ष्यमाणसूत्रार्थजातानां दुर्विगाहमतिमहासमुद्राणां मितपदं चेदं भाष्यं बह्वर्थमिह कुर्वतां कृपालूनामनुग्रहादर्थाक्षिप्तमर्थं प्रति-दर्शयाम इति । चशब्दोऽवधारणे । स्वत एवामृतत्वं तस्येति व्याख्यातत्वात् । उक्तन्यायेना-प्रलयाद्देव्याः ‘तेजः परस्यां देवतायाम्’ इति समीपस्थित्यर्थं योजयितव्यं गुरौ वसतीतिवत् । जगत्प्रवृत्त्यभावार्थं च व्याप्त्याद्यनुक्तविशेषान् सप्रमाणकं प्रमापयितुं चायं पुनरुपन्यासः ॥
तत्त्वप्रकाशिका
अत्र प्रकृतेर्विष्णौ लयाभावसमर्थनादस्ति शास्त्रादिसङ्गतिः । प्रकृतेर्भगवति लयेऽधिकारित्व-प्रसङ्गादुक्तबाध इत्युपपादनीयमेतत् । प्राणादुत्तमा प्रकृतिर्विषयः । परमात्मनि लीयते न वेति सन्देहः । भगवदधीनत्वं नित्यमुक्तत्वं च सन्देहबीजम् । लीयत इति पूर्वः पक्षः । भगवदधीनत्वात् । न च तदनिर्णायकम् । ‘तेजः परस्यां देवतायाम्’ इति विशेषश्रुतेश्च । अन्यथा वागादीनां मनः-प्रभृतिषूक्तलयोऽपि न स्यात् । न च प्रकृतेरसंसारित्वस्योक्तत्वाल्लयाभावः । असंसारित्वस्यैवानु-पपत्तेः । तथात्वे भगवता सर्वसाम्यापातात् । न च गुणान्तरवैषम्यम् । नित्यं संसारराहित्ये सर्वगुणोपपत्तेः । न च सर्वसाम्यमङ्गीकर्तुं शक्यम् । सिद्धान्तविरोधात् । अतस्तस्या-स्संसारित्वाद्भगवति लयसद्भावादधिकारित्वेनाधिकारिणां प्राणावसानत्वोक्तिरयुक्तेति । सिद्धान्त-यत्सूत्रमुपन्यस्य व्याचष्टे ॥ समनेति ॥ अत्राद्यश्चशब्दः पूर्वसूत्रान्नञोऽनुकर्षार्थः । न प्रकृतिर्लीयते । यतस्तस्या अनुपोष्यानुपास्य स्वत एवामृतत्वम् । न हि नित्यमुक्ताया लक्ष्म्या लयः सम्भवति । नित्यमुक्तत्वमेव तस्याः कुतः । कदापि संसारोपक्रमणाभावात् । तदपि कुतः । परमपुरुष-वन्नित्यत्वात्सर्वगतत्वाच्च । न हि संसारित्वे तदुपपत्तिरिति भावः । एतेन ‘तदधीनत्वात्’ इति प्रत्युक्तम् । न च श्रुतिविरोधः । अतिसामीप्यार्थतयोपपत्तेः । ‘हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः’ । इति वचनात् । यदुक्तं प्रकृतेरीश्वरवन्नित्यसर्वगतत्वेनानुपक्रान्तसंसारित्वान्नित्यमुक्तत्वं तत्कुत इत्यत आह ॥ बृहदिति ॥ नन्वेवं प्रकृतेरपि नित्यमुक्तत्वाङ्गीकारे भगवता सर्वसाम्यमापतितमित्यत आह ॥ नेति ॥
भावबोधः
प्रकृतेर्विष्णौ लयाभावसमर्थनादिति ॥ ननु श्रियो देहलयाभावप्रतिपादकस्या स्याधिकरणस्य कथमस्मिन् देहक्षयप्रतिपादकेऽन्तर्भाव इति चेदुच्यते सोऽध्यक्षे तदुपगमादिभ्य इत्यत्र साक्षा-च्चतुर्मुखस्य परमात्मन्येव लयोऽभिहितः । स न युक्तः । प्रमाणाभावात् । न च प्राणः परमुप-गच्छति इत्यादिश्रुतिरेव मानमिति वाच्यम् ‘प्राणस्तेजसि’ इति विशेषश्रुतिबलेन तेजोद्वारा परमात्मोपगमादिप्रतिपादकत्वेन तस्याः सावकाशत्वात् । न च ‘प्राणस्य तेजसि लयो मार्गमात्र-मुदाहृतम्’ इति स्मृत्या ‘प्राणस्तेजसि’ इति श्रुतेर्गतिरुक्तेति वाच्यम्; अनुपपत्त्यभावेन गतिकथन-स्याप्ययोगात् । न च तेजसि लये परमात्मनि लयाभावात् कथं मोक्ष इति वाच्यम्; चतुर्मुखस्य परमात्मनि लयेन चतुर्मुखे लीनानां देवानां मोक्षवत्तेजसोऽपि परमात्मनि लयेन तत्प्रलीनस्य चतुर्मुखस्य मोक्षोपपत्तेः । एवं चतुर्मुखस्य साक्षाद्विष्णौ देहलयस्य श्रियस्तत्र देहलयाभावसमर्थनं विनाऽसिद्धेस्तत्साधकत्वेन ‘हानौ तूपायनशब्दशेषत्वात्’ इत्यादिना उपासनापादान्तर्भाववदस्यापि सम्भवत्येवात्रान्तर्भावः । किं च ‘कामादितरत्र’ ‘तत्र चायतनादिभ्यः’ इत्याद्यधिकरणस्योपासने अधिकाराभावप्रतिपादकस्यापि उपासनापादेऽन्तर्भाववदस्याप्यत्रान्तर्भावोपपत्तिरिति । अत्र यदि तत्तद्देवानां तत्तद्भूतोद्भवत्वयुक्त्या ‘पृथिव्यामृभवो विलीयन्ते’ इत्यादिविशेषश्रुत्या ऋभ्वादीनां पृथिव्यादौ लयस्तर्हि लक्ष्म्या अपि पराधीनविशेषलाभवत्त्वेन परमात्मोद्भूतत्वात् ‘तेजः परस्यां देवतायाम्’ इति विशेषश्रुतेश्च परमात्मनि लयः स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति ॥ परमात्मनीति ॥ अत्र प्रकृतिः परमात्मनि लीयते उत न लीयत इति चिन्ता । तदर्थं ‘तेजः परस्यां देवतायाम्’ इति श्रुतिः परमात्माधीनत्वयुक्तिश्च किमबाधितविषयोत बाधितविषयेति । तदर्थं तद्बाधकं प्रकृतेर्नित्यमुक्तत्वादिकं नास्त्युतास्तीति । तदर्थं नित्यमुक्तत्वाद्यङ्गीकारे प्रकृतेः परमात्मना सर्वसाम्यमुत पारमेश्वरगुणान्तरराहित्येन किञ्चित्साम्यं वेति । तदर्थं प्रकृतेः किञ्चित्परमात्म-साम्याङ्गीकारे सर्वात्मनाऽसाम्यप्रतिपादिका ‘असमैव’ इति श्रुतिविरोधो भवत्युत न भवतीति । तदर्थं सा श्रुतिः प्रकृतिविषयोत जीवमात्रविषयेति । तदर्थं प्रकृतेः परमात्मना किञ्चित्साम्यादौ विशेषप्रमाणं नास्त्युतास्तीति ॥ अन्यथा वागादीनामीति ॥ एतच्छ्रुतियुक्तिभ्यामेव वागादीनां मनआदौ लयस्य साधितत्वादत्र तयोरसाधकत्वे तत्राप्यसाधकत्वप्रसङ्गादिति भावः ।
प्रकृतेः संसाराभावादिनेशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात्, सर्वसाम्यमेवेश्वरेण न चेत् संसारित्वमेवेति न्यायविवरणे न चेत्संसारित्वं प्रकृतेस् तर्हि संसाराभावादिनेश्वरेण सर्वसाम्य-मेवेत्यन्वयमभिप्रेत्य तद्भागं व्याचष्टे– तथात्व इति ॥ ईशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वादिति न्यायविवरणांशं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न च गुणान्तरवैषम्यमिति ॥ स्वातन्त्र्यादिगुणान्तरेण वैषम्यमित्यर्थः ॥ नित्यसंसारराहित्य इति ॥ अनेन संसाराभावादि-नेत्यस्येशेनेत्यत्रापि सम्बन्धप्रदर्शनपूर्वकम् ईशेनान्यथा स्वनियम्यत्वापूर्णत्वादेः कर्तुमशक्यत्वेन स्वातन्त्र्यस्य सुदृढत्वादिति न्यायविवरणांशो व्याख्यातो भवति । न चेत् सर्वसाम्यमेवेति न्यायविवरणांशस्य सम्बन्धमभिप्रेत्याह– न च सर्वसाम्यमित्यादिना ॥ तथा च सिद्धान्तविरोधात् सर्वसाम्यं न चेत् संसारित्वमिति व्याख्यातं भवति ॥ नित्यत्वाच्चेति ॥ देहतोऽपि नित्यत्वा-दित्यर्थः । अत एव परमेश्वरवदित्युक्तम् । तेन न जीवेषु व्यभिचार इति बोध्यम् । तदधीनत्वादिति ॥ प्रत्युक्तमिति ॥ उक्तयुक्तेः प्राबल्येन तया बाधितत्वादिति भावः ।
भावदीपः
लयाभावेति ॥ लयापवादस्यापि लयोक्तिपरपादादिसङ्गतत्वादिति भावः । सम्मत-मेतत्पूर्वतन्त्रादावपि । एतेन तदधीनत्वविशेषश्रुत्यादिरूपपूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेराप-वादिक्यनन्तरसङ्गतिरपि सूचिता ॥ उक्तेति ॥ कामादितरत्र तत्र चेत्यत्रोक्तोपासनानधिकारित्वबाध इत्यर्थः । यद्वा इयदित्यत्रोक्तेत्यर्थः । प्रकृतेरप्रकृतत्वशङ्कानिरासायाह ॥ प्राणादिति ॥ यद्वा परमात्मनि लीयते न वेत्येवंरूपसंदेहादिघटनायोक्तम् ॥ प्राणादिति ॥ कामादिति नयसिद्धत्वादाह ॥ भगवदित्यादि ॥ अस्य पूर्वापवादरूपत्वात्तदधीनत्वविशेषश्रुतिभ्यां पूर्वसिद्धान्तरीत्यैवेह पूर्वपक्षं भाष्यादौ कण्ठतोऽनुक्तमप्यर्थादुक्तप्रायं स्वयं व्यनक्ति ॥ लीयत इतीत्यादिना ॥ वागादिवदिति भावः । उक्तहेतोरप्रयोजकत्वं निराह ॥ अन्यथेति ॥ उक्तहेतुद्वयभावेऽपि लयाभाव इत्यर्थः । प्रागुक्तप्रयोगे संसारित्वमुपाधिस् तस्य च वागादौ साध्यव्यापकस्य साधनवतः पक्षाद्व्यावृत्तत्वेन लयरूपसाध्यस्यापि व्यावर्तकत्वादिति शङ्कते ॥ न चेति ॥ उक्तत्वात् कामादित्यत्रेति भावः ।
तदाक्षेपेण पूर्वपक्षप्रवृत्तिम् असृत्युपक्रमादिति सौत्रहेतुव्यावर्त्यमाह ॥ असंसारित्वस्यैवेति ॥ एतेन कामादित्यनेनागतार्थत्वं विभावितं ध्येयम् । कुतोऽनुपपत्तिरित्यतः संसाराभावादिना सर्वेषां साम्यमेवेश्वरेणेत्यन्यत्रोक्तं तदपीतेरिति सूत्रव्यावर्त्यं बाधकमुक्त्वा अनुपपत्तिं व्यनक्ति ॥ तथात्व इति ॥ सर्वपदतात्पर्यं शङ्कोत्तराभ्यां व्यनक्ति ॥ न चेत्यादिना ॥ असंसारित्वादन्यगुणै-र्वैषम्यमित्यर्थः । इष्टापादनत्वं निराह ॥ न चेति ॥ संसारित्वमिति न्यायविवरणांशतात्पर्यं विवृण्वन्नेव फलोक्त्योपसंहरति ॥ अत इति ॥ असंसारित्वे भगवता सर्वसाम्यापत्तिरूप-बाधकादित्यर्थः ॥ प्राणावसानत्वोक्तिरिति ॥ इयदामननादित्यत्रेति भावः । एतेनाधिकारिणां प्राणावधित्वनिर्णयात् श्रियोऽनधिकारित्वाल्लयायोग इति प्रत्युक्तम् । तस्यैवाक्षेपादिति ॥ अन्तिमचशब्दस्यावधारणार्थत्वं स्वत एवेति भाष्येण चशब्दोऽवधारण इति तत्वप्रदीपोक्त्या च व्यक्तमिति आद्यस्यार्थं स्वयमाह ॥ आद्य इति ॥ प्रकरणाल्लीयत इत्यन्वेति । प्राणादुत्तमत्वेन श्रौततेजःपदेन च प्रकृतिर्बुद्धौ सन्निधापितेति भावः । तत्र हेतुतया व्युत्क्रमेण सूत्रभाष्ये योजयति ॥ यत इत्यादिना ॥ आत उत्वं छान्दसमित्युपेत्याह ॥ अनुपास्येति ॥ एतस्य व्याख्यानं स्वत एवेत्येतदिति दर्शयति ॥ स्वत एवेति ॥ चशब्दार्थ एवेति भावः । हेतोरप्रयोजकत्वं निराह ॥ न हीति ॥ उपक्रमणं सम्बन्धः । तत्पदोक्तितात्पर्यं कदापीति । देशत इत्यादेर्भावार्थः परमेत्यादि । देहतोऽपि नित्यत्वाच्चेत्यर्थः । हेत्वोरसिद्धिरव्याप्तिश्च निरसिष्यत इति भावः । अप्रयोजकतां हेतोर्निराह ॥ न हीति ॥ प्रागुक्तलयानुमानविरोध इत्यत आह ॥ एतेनेति ॥ सर्वगत्वादिना लयप्रयोजकसंसाराभावकथनेनेत्यर्थः । प्रत्युक्तं सोपाधिकत्वेन निरस्तमित्यर्थः ॥ श्रुतीति ॥ तेजः परस्यामिति श्रुतीत्यर्थः ॥ अतिसामीप्येति ॥ गुरौ वसतीतिवदिति भावः । एकादशस्कन्धे चतुर्विंशाध्यायतात्पर्योक्तमाह ॥ हरेरिति ॥ नित्येति ॥ नित्यत्वेन सर्वगतत्वेन चेत्यर्थः । पूर्वसूत्रोक्तामृतत्वहेतोस्तर्कपराहतिनिरासकत्वेनोत्तरसूत्रसम्बन्धभाष्यमवतारयति ॥ नन्विति ॥ एवं नित्यसर्वगतत्वेनेत्यर्थः ।
अभिनवचन्द्रिका
अस्ति शास्त्रादिसङ्गतिरिति ॥ अस्याधिकरणस्य, शास्त्रेणाऽन्तर्भावलक्षणा सङ्गतिर् अध्यायपादाभ्यां प्रासङ्गिकी सङ्गतिरस्तीत्यर्थः । एतेन प्रकृतेर्विष्णौ लयाऽभावसाधनादस्ति शास्त्रादिसङ्गतिरित्ययुक्तम् । लयसमर्थनस्यैवान्तर्भावप्रयोजकत्वेन लयाभावसमर्थनस्य तद्विरोधित्वादिति परास्तम् ॥ उक्तबाध इति ॥ अधिकारिणां प्राणावसानत्वबाधः स्यादित्यर्थः ॥ भगवदधीनत्वं नित्यमुक्तत्वं चेति ॥ प्रकृतेस्तावान्नित्यमुक्तत्वं श्रूयते । नित्यमुक्तत्वं चोत्पत्ति लयादिविरोधि । तथा भगवदधीनत्वं श्रूयते । पराधीनस्य च लयो नियतः । एवं च नित्य मुक्तत्वं पराधीनत्वं च विरुद्धम् । किमत्र तत्वमिति न जानीम इति विमर्शवतः सन्देह उपजायते किं भगवदधीनत्वात्प्रकृतिर्लीयते इत्यभ्युपगन्तव्यम्, उत नित्यमुक्तत्वमिति । एतेन लयस्य मुक्त्यर्थत्वान् नित्यमुक्तत्वदर्शने च लयाभावनिर्णयात्सन्देहानुपपत्तिरिति परास्तम् । ननु कामस्य रुद्राधीनत्वेऽपि तत्र लयाऽभावेन व्यभिचारान्न तदधीनत्वं तत्र लये प्रमाणं, किंतु सम्भावकं, न च सम्भावकनिरूपणमात्रेणाऽर्थः सिध्यतीति प्रमाणं वाच्यम् । न चाऽत्र प्रमाणमस्ति । ततो न प्रकृतिः परमात्मनि लीयत इत्याशङ्क्य निषेधति – न चेति ॥ तेजः परस्यां देवतायामिति ॥ न वयं सम्भावकमात्रेणाऽर्थं साधयामः, किन्नामसम्भावनया श्रुत्या चेति भावः ॥ अन्यथेति ॥ श्रुत्यनादर इत्यर्थः । अत्र सूत्रे अनुपोष्याऽमृतत्वमुच्यते । न चैतावता लयाऽभावः सिध्यति । तन्मोक्षस्योपवासव्रतजन्यत्वनिषेधेऽपि श्रवणाद्युपासनासाध्यत्वाऽनिषेधाद् इत्याशङ्क्य परिहाराय ‘अनुपोष्य’ इति पदमनूद्य तल्लक्ष्यार्थमाह – अनुपोष्येति ॥ कदापि संसार इति ॥ कदापि संसारसम्बन्धाभावादित्यर्थः । संसारसम्बन्धाऽभावादित्येतावता पूर्णे यत् ‘कदापि’ इति वचनं तत् सीताद्यवतारेषु दुःखश्रवणात् तदा संसारोऽस्तीति भ्रमनिरासायेति बोध्यम् । एतेन संसारस्याऽनादित्वेन संसारोपक्रमस्य क्काप्यभावान् महालक्ष्म्यास्तदभावाऽभिधानमसङ्गतमिति परास्तम् ॥ परमपुरुषवत्सर्वगतत्वादिति ॥ परमपुरुषवदिति नित्यत्वविशेषणम् । यथा हि परमपुरुषस्य रामकृष्णादिसर्वरूपेण नित्यत्वम् । एवं महालक्ष्म्या अपि सीतारुक्मिण्यादिरूपेण नित्यत्वादसंसारः । न हि संसारिणो देवदत्तादेर् देवदत्तादिसंज्ञकदेहावच्छिन्नतया नित्यत्वं विद्यत इति भावः । एतेन नित्यानामेव जीवानां संसारदर्शनात्संसाराऽभावसिद्धये नित्यत्वाऽभिधानं न युक्तमिति परास्तम् ।
वाक्यार्थमुक्तावली
॥ शास्त्रादिसङ्गतिरिति ॥ नन्वत्र देहक्षयस्यानुक्तत्वात् कथम् अध्यायपादसङ्गतिरिति चेन्न । प्रकृतेः परमात्मनि देहक्षये प्राणस्य प्रकृतावेव देहक्षयस्योपपत्तेः ‘प्राणस्य तेजसि लयो मार्गमात्र-मुदाहृतम्’ इति प्रागुक्तस्यायोगात् सोऽध्यक्ष इत्येतदयुक्तमित्याक्षेपनिरासेन प्राणस्य परमात्मन्येव देहलयोपपादनाय प्रकृतेर्लयाभावसमर्थनपरस्याप्यस्याध्यायपादान्तर्भावसम्भवात् । विस्तरस्तु भावबोधे । यद्वा शास्त्रेणान्तर्भावलक्षणाध्यायपादाभ्यां प्रासङ्गिकी सङ्गतिरिति टीकार्थः । अत एव तत्वप्रदीपे ‘अवसितः प्रासङ्गिकः प्रकृतिस्वरूपनिरूपणाप्रकारः’ इति वक्ष्यतीति ज्ञेयम् ॥ उक्तबाध इति ॥ इयदामननादिति प्राणावसानत्वोक्तबाध इत्यर्थः । अत्र यदि तत्तद्देवानां तत्तद्भूताधीनत्वयुक्त्या पृथिव्यामृभव इत्यादिविशेषश्रुत्या च तत्तद्भूतेषु लयस्तर्हि महालक्ष्म्या अपि भगवदधीनत्वात् ‘तेजः परस्यां’ इति विशेषश्रुतेश्च परमात्मनि लयः स्यादन्यथा तदपि न स्यादित्याक्षेपेणोत्थाना-दनन्तरसङ्गतिः । प्राणादुत्तमेति सरस्वतीव्यावृत्तये । प्राणस्तेजसि तेजः परस्यामिति विषय-वाक्यसूचनाय च । प्रकृतिः परमात्मनि लीयते न वा इति चिन्ता । तदर्थं सा संसारिणी न वेति । तदर्थम् असंसारित्वे भगवत्साम्यं प्रसज्यते न वेति । पूर्वन्यायेन पूर्वपक्षयति ॥ भगवदिति ॥ न च तदिति ॥ शेषदेवाधीनाया अपि सौपर्ण्यास्तत्र लयाभावदर्शनादिति भावः । यद्वा मुक्तानां भगवदधीनानामपि लयाभावदर्शनादिति भावः ॥ अन्यथेति ॥ एतच्छ्रुतियुक्तिभ्यामेव वागादीनां मन आदौ लयस्य साधितत्वादत्र तयोर् असाधकत्वे तत्राप्यसाधकत्वप्रसङ्गादिति भावः । कामादितरत्रेत्यत्र नित्यमुक्तत्वस्य समर्थितत्वाद् गतार्थतेत्यत आह ॥ न चेति ॥ कुतो न वाच्यमित्यतो नैतावता साम्यं तदपीतेरिति सूत्रभाष्यनिरस्यं सुदार्ढ्यमिति न्यायं दर्शयति ॥ तथात्व इति ॥ संसाराभावे ईश्वरवत् तस्यापि सुदृढत्वाद् भगवता सर्वसाम्यापातादित्यर्थः ।
ननु नित्यमुक्तत्वेऽपि न सर्वसाम्यमीश्वरस्य परतत्वादिति सूत्रखण्डे ईश्वरेच्छानुसारेणेति भाष्ये चोक्तत्वादित्याशङ्क्य निषेधति ॥ न चेति ॥ कुतो नेत्यतो न्यायं प्रकारान्तरेण व्यनक्ति ॥ नित्यमिति ॥ नित्यं संसारराहित्ये अत एवेशेनापि अन्यथाकर्तुमशक्यत्वेन सुदृढत्वात्सर्व-गुणोपपत्तेरित्यर्थः ॥ आद्य इति ॥ द्वितीयस्तु एवार्थः । अनुपोष्यैवेति सम्बध्यते । यत इति हेत्वर्थे च । बृहच्छ्रुतिसमुच्चायकेति भावः ॥ प्रकृतिरिति ॥ समनेति हेतुगर्भविशेषणस्येदं विशेष्य-मध्याह्रीयत इति भावः । समनाया इति षष्ठ्यंततया विपरिणाममङ्गीकृत्योक्तं तस्या इति । उक्तं च तत्वप्रदीपे । चशब्दोऽवधारणे । स्वत एवामृतत्वं तस्या इति व्याख्यातत्वात् । प्रथमायाः षष्ट्यर्थत्वेन तस्या देव्याः संसारानुपक्रमादित्यन्वय इति । असृत्युपक्रमादित्यत्रा सृतेरिति वाच्ये उपक्रमादित्युक्तिस्तु उपक्रम उपगमनम् उपसंक्रमणं सम्बन्ध इति यावत् । तथा च कदापि संसारसम्बन्धाभावद्योतनायेति भावेनोक्तं कदापि संसारोपसंक्रमणाभावादिति ।
उक्तं च तत्वप्रदीपे । कदापि संसारो नासीदित्येतदर्थम् अनुपक्रमादिति भाष्यपदं न तु वयं कदाचित्सूत्रपदं व्याख्यातुमिच्छाम इति । समनेति हेतुगर्भं विशेषणं व्यावर्त्यपूर्वं व्याचष्टे ॥ तदपीति ॥ नित्यत्वादिति ॥ देहतोऽपि नित्यत्वादित्यर्थः ॥ न हीति ॥ संसारित्वे शरीरा-वच्छेदस्य देहनाशस्य च वाच्यत्वात्सर्वगतत्वनित्यत्वयोरयोग इति भावः । तथा च समनाया ईश्वरेण देशतः कालतश्च व्याप्त्या ईश्वरसमतया नित्याया देव्या असृत्युपक्रमात् कदापि संसार-सम्बन्धाभावात् । अनुपोष्यानुपास्यैवामृतत्वमतस्समना प्रकृतिरध्यक्षे न लीयत इति सूत्रार्थः । ननूपस्थितेस्तद्वचनादित्यत्रैव प्रकृतेर्नित्यत्वेन संसाराभाव उपपादित इति चेदत्रोक्तं तत्वप्रदीपे । व्याप्त्याद्यनुक्तविशेषवर्णनात् सप्रमाणकं प्रमापयितुं चायं पुनरुपन्यास इति ॥ अतिसामीप्येति ॥ उपलक्षणमेतत् । जगत्प्रवृत्त्यभावार्थतयेत्यपि द्रष्टव्यम् । सुप्तिश्च प्रकृतेः प्रोक्ता अतीव भगवद्रतिः । अनास्थाऽन्यत्र च प्रोक्तेति । तत्वप्रदीपे च तेजः परस्यां देवतायामिति समीपस्थित्यर्थं योजयितव्या गुरौ च वसतीतिवज् जगत्प्रवृत्त्यभावार्थं चेति ।
तत्त्वसुबोधिनी
प्रकृतेर् विष्णौ लयाभावसमर्थनादिति ॥ न च श्रियो लयाभावप्रतिपादकस्यास्य कथमत्र पादेऽन्तर्भाव इति वाच्यम् । सोऽध्यक्षे इत्यत्र साक्षाच्चतुर्मुखस्य परमात्मन्येव लयोऽभिहितः स न युक्तः । प्रमाणाभावात् । न च प्राणः परमुपगच्छतीति श्रुतिः प्रमाणं प्राणस्तेजसीति विशेषबलेन तस्याः सावकाशत्वात् । न च प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतमित्यनेन तस्या गतिरुक्तेति वाच्यम् । अनुपपत्यभावेन गतिकथनायोगात् । न च तेजसि लये परमात्मनि तदभावादयं मोक्ष इति वाच्यम् । चतुर्मुखस्य परमात्मनि तदभावात् कथं मोक्ष इति वाच्यम् । चतुर्मुखस्य परमात्मनि लयेन चतुर्मुखे लीनानां मोक्षवत् तेजसोऽपि परमात्मनि लयेन तत्रालीनस्य चतुर्मुखस्य मोक्षोपपत्तेः । एवं चतुर्मुखस्य साक्षाद्विष्णौ देहलयस्याश्रयत्वं तत्र देहलयाभावसमर्थनं विनासिद्धेस् तत्साधनत्वेन हानौ त्वित्यादीनामुपासनापादान्तर्भाववदस्यापि सम्भवत्येवान्तर्भावः । किं च कामादितरत्र चाय-तनादिभ्य इत्यस्योपासने अधिकाराभावप्रतिपादकस्याप्युपासनापादान्तर्भाववदस्यापि अन्तर्भावो-पपत्तेरिति ध्येयम् । अत्र यदि तत्तद्देवानां तत्तद्भूतोद्भवत्वयुक्त्या पृथिव्यामृभव इत्यादिविशेषश्रुत्या च ऋभ्वादीनां पृथिव्यादौ लयस् तर्हि लक्ष्म्या अपि पराधीनत्वविशेषलाभवत्वेन परमात्मोदितत्वात्तेजः परस्यां देवतायामिति विशेषश्रुतेश्च परमात्मनि लयः स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ अन्यथा वागादीनामिति ॥ एतच्छ्रुतियुक्तिभ्यामेव वागादीनां मन आदौ लयस्य साधितत्वात् ॥ अत्र तयोर् असाधकत्वेन तत्राप्यसाधकत्वप्रसङ्गादिति भावः ॥ न च गुणान्तर-वैषम्यमिति ॥ स्वातन्त्र्यादिगुणान्तरवैषम्यमित्यर्थः ॥ नित्यत्वाच्चेति ॥ देहतोऽपि नित्यत्वा-दित्यर्थः । अत एव परमेश्वरवदित्युक्तम् । तेन न जीवेषु व्यभिचार इति बोद्धव्यम् । एतेन तदधीनत्वादिति प्रत्युक्तमिति । नित्यमुक्तत्वात्तेन संसारित्वाख्योक्तयुक्तेः प्राबल्यात्तया-बाधितत्वादित्यर्थः ।
वाक्यार्थविवरणम्
उक्तबाध इति ॥ इयदामननादित्यनेनाधिकारिणां प्राणावसानत्वोक्तिबाधादित्यर्थः ॥ अनुपपत्तेरिति ॥ सीतादिरूपेण संसारदर्शनादित्यर्थः ॥ एतेनेति ॥ परमपुरुषवत् सर्वगतत्व-नित्यत्ववचनेनेत्यर्थः ॥ प्रत्युक्तमिति ॥ भगवदधीनत्वमात्रस्य लयाप्रयोजकत्वादिति भावः । श्रुतीति ॥ तेजः परस्यामिति श्रुतीत्यर्थः ।
वाक्यार्थमञ्जरी
उक्तेति ॥ इयदामननादित्यत्रोक्तस्याधिकारिणां प्राणावसानत्वस्य बाध इत्यर्थः ॥ तेज इति ॥ तेजोऽभिमानिनी रमा परस्यां देवतायां परमात्मनि संपद्यत इत्यर्थः ॥ अन्यथेति ॥ एतच्छ्रुतियुक्तिभ्यामेव वागादीनां मनआदौ लयस्य साधितत्वाद् अत्र तयोरसाधकत्वे तत्राप्य-साधकत्वप्रसङ्गादिति भावः ॥ उक्तत्वादिति ॥ कामादितरत्रेत्यर्थः ॥ गुणान्तरेति ॥ स्वातन्त्र्या-दीत्यर्थः ॥ सर्वगुणेति ॥ संसाराभावे ईशनियम्यत्वाभावेन स्वातन्त्र्यादेरपि सम्भवादिति भावः ॥ ॐ समना चाऽसृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ॥ समो देशकालाभ्यां व्याप्त्या समो ना परमपुरुषो यस्याः सा समना रमा हरौ न लीयते कुतः यतोऽस्या अनुपोष्य चानुपास्यैवामृतत्वं मुक्तत्वं तदेव कुतो ऽसृत्युपक्रमात् सृतिः संसारः कदापि संसारोपक्रमणाभावात्तदपि कुत इत्यतः समानेति हेतुगर्भं विशेषणम् उपक्रमणं सम्बन्धः ॥ प्रत्युक्तमिति ॥ उक्तयुक्तेः प्राबल्येन तथाऽधीनत्वयुक्तेर्बाधितत्वादिति भावः । वचनादेकादशतात्पर्ये अत्र रमाया अत्यन्तसामीप्यं नाम जगद्व्यापारत्यागेन वटजलाभरणरूपेण केवलहरिसेवारतत्वं बोध्यम् ।
ॐ तदपीतेः संसारव्यपदेशात् ॐ
सूत्रभाष्यम्
ॐ तदपीतेः संसारव्यपदेशात् ॐ ॥ ८ ॥
‘समावेतौ प्रकृतिश्च परमश्च नित्यौ सर्वगतौ नित्यमुक्तावसमावेतौ प्रकृतिश्च परमश्च विलीनो हि प्रकृतौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’ इति सौपर्णश्रुतेः ॥
तत्त्वप्रदीपिका
कतिपयैर्धर्मैरेव साम्यं बहुभिर्वैलक्षण्यमित्याह– नैतावता साम्यमिति सम्बन्धभाष्येण ॥ तदापीतेः संसारव्यपदेशात् ॥ आ समन्तादपीतेरित्यविज्ञातत्वात्प्रवेशस्योक्तम् । ‘अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यत’ इति वचनस्य ‘अप्ययोऽयं समुद्दिष्टस्तदन्येषामदर्शनम्’ इति वचनात्सावकाशत्वं स्यादिति तदापीतेरित्युक्तम् । स्वस्याप्यविज्ञात एव तदा प्रकृतौ प्रवेश इत्यर्थः । यद्यप्यमुच्यमानानामपि विष्णौ प्रवेशः । स स्वस्याप्यविज्ञातस्तथाऽपि प्रकृतिबन्धनिमग्नत्वात्प्रकृताविति युज्यते । अतो ‘विलीनः परमे ह्यमृतत्वमेति’ इति वचनं तत्वज्ञानिविषयमिति गम्यते ॥
तत्त्वप्रकाशिका
नित्यमुक्तत्वाद्यस्तीत्येतावता न प्रकृतिपुरुषयोः सर्वसाम्यमित्येतत्कुत इति । तत्र हेतुतया सूत्रं पठित्वा तदुपात्तश्रुतिमेवोदाहरति ॥ तदिति ॥ प्रकृतिपुरुषयोर्नित्यत्वादिना साम्यमेव न तु सर्वसाम्यम् । प्रकृतौ विलयस्य संसारहेतुत्वेनेश्वरे लयस्य मुक्तिहेतुत्वेन श्रुतिसिद्धत्वात् । मोचकत्वा-मोचकत्ववतोः सर्वसाम्यायोगादिति भावः ॥
भावबोधः
नित्यत्वादिना साम्यमेवेति ॥ नित्यत्वादिनैवेत्येवकारसम्बन्धः । अनेन ‘समावेतौ’ इत्यादि-नित्यमुक्तावित्येतच्छ्रुत्युदाहरणस्य प्रयोजनमुक्तं भवति ॥ प्रकृताविति ॥ अनेन सूत्रे तस्मादपीति-स्तदपीतिस्तदपीतेरिति च हेतौ पञ्चमीत्युक्तं भवति । साम्याभावलक्षणसाध्येन हेतोः सामानाधि-करण्यायाह– मोचकत्वामोचकत्ववतोरिति ॥
भावदीपः
भाष्यं विवृण्वन्नेवोत्तरवाक्यमवतारयति ॥ नित्येति ॥ हेतुहेतुमद्भावं पूर्वोत्तरभाष्यार्थयोर्व्यनक्ति ॥ प्रकृतीति ॥ भाष्ये साम्यपदं सर्वसाम्यपरमित्युपेत्य सर्वपदव्यावर्त्यं व्यनक्ति ॥ नित्यत्वेत्यादि ॥ श्रुत्युक्तनित्यसर्वगतत्वनित्यमुक्तत्वसाम्यमेवेत्यर्थः । प्रकृतावित्यादिना सूत्रस्येहेश्वरापीतेर्मुक्ति-व्यपदेशादित्यस्यापि उपलक्षकत्वमुपेत्य तदक्षरार्थोऽप्युक्तो भवति । तत्वप्रदीपे तु तदापीतेरिति पाठमुपेत्यापीतिर्नाम स्वाप्ययोऽयं समुद्दिष्टस्तदन्येषामदर्शनमित्युक्त्या अन्यैरज्ञातप्रवेशः । नैतावानेव किन्तु आसमन्तादपीतिः । स्वस्याप्यविज्ञातप्रवेशस्तस्यामिति वक्तुं तदापीतेरित्युक्तमिति व्याख्यातम् । हेतोरप्रयोजकत्वं निराह ॥ मोचकत्वेति ॥
वाक्यार्थमुक्तावली
सूत्रे तदपीतेरिति पञ्चमी । सूत्रस्य सम्बन्धभाष्येणान्वय इत्यभिप्रेत्य महिमेत्युक्तन्यायं प्रदर्शयन् सूत्रार्थमाह ॥ प्रकृतीति ॥ अत्र तदापीतेस्संसारेति तत्वप्रदीपे सूत्रेपाठः । केचित्प्राचीना भाष्यव्याख्यातारस्तदापीते संसारेति सप्तम्यंततया पठित्वा व्याचक्षते । तत्प्रकारश्चान्यत्र प्रदर्शितः ।
तत्त्वसुबोधिनी
नित्यत्वादिना साम्यमेवेति ॥ नित्यत्वादिनैवेत्येवकारसम्बन्धः । अनेन समावेतावित्यादि नित्यमुक्तावित्येतच्छ्रुत्युदाहरणस्य प्रयोजनमुक्तं भवति । अनेन स्मृतिसूत्रे तस्याम् अपीतिस्तदपीते-रिति हेतौ पञ्चमीत्युक्तं भवति । आसमन्तात्तदपीतेर् इत्यविज्ञातत्वात्प्रवेशस्योक्तम् अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यत इति वचनस्य स्वाप्ययोऽयं समुद्दिष्टस् तदन्येषामदर्शनमिति वचनात् सावकाशत्वशङ्का स्यादित्यतस् तदापीतेरित्युक्तं स्वस्याप्यविज्ञात एव । तदा प्रकृतौ प्रवेश इत्यर्थः । साम्याभावलक्षणसाध्येन हेतोः सामानाधिकरण्यमाह ॥ मोचकत्वामोचकत्ववतोरिति ॥
वाक्यार्थविवरणम्
सूत्रे तदापीतेरिति आ अपीतेर् इति पदच्छेदः ॥ तस्यां सम्यगपीति मत इत्यर्थः । तस्याः परमात्मनः सकाशाद् अबन्धः बन्धाभावः । ऊष्मावत्वं सामर्थ्यविशेषवत्त्वम् । बाधः सङ्कोचः ।
वाक्यार्थमञ्जरी
तदपीतेस् तस्यां रमायामपीतेर्लयस्य संसारव्यपदेशाद् विलीनो हीति श्रुतौ संसारकारण-त्वेनोक्तेरित्यर्थः ॥
ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॐ
सूत्रभाष्यम्
ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॐ ॥ ९ ॥
सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादिप्रमाणाधिक्यं च ।
‘सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः ।
ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येऽधिकाः प्रभोः’ इति च तुरश्रुतिः ॥
तत्त्वप्रकाशिका
हेत्वन्तरेण प्रकृतिपुरुषयोः सर्वसाम्यं प्रतिषेधयत्सूत्रं पठित्वा व्याचष्टे ॥ सूक्ष्ममिति ॥ ‘प्रकृतेरपि ब्रह्म सूक्ष्मं ज्ञानानन्दादिगुणपरिमाणेन चाधिकं सर्वतः’ इति श्रुतेः । ततोऽपि न सर्वसाम्यमिति भावः ॥
भावबोधः
प्रकृतेरपि ब्रह्म सूक्ष्ममित्यादिना ईश्वरस्य महामहिमत्वादिति न्यायविवणांशोऽप्युक्तार्थ इति तात्पर्यम् । गुणपरिमाणेन चाधिकमिति । अनेन सूत्रभाष्ययोः ‘‘प्रमाण’’शब्दः ‘‘परिमाण’’ वाचकः । सूत्रे चाधिकमिति शेष इत्युक्तं भवति ।
भावदीपः
सूत्रे चशब्दादाह ॥ हेत्वंतरेणेति ॥ न केवलं तदुभयामप्यस्य बन्धमुक्तिव्यपदेशबलात् । किंतु परमसूक्ष्मत्वादिहेतुनापीत्यर्थः । भाष्यसूत्राविसंवादाय सूत्राक्षराणि योजयति ॥ प्रकृतेरपीति ॥ अधिकमिति शेषं मत्वाऽऽह ॥ अधिकमिति ॥ उपलब्धेरित्यस्यार्थः । सर्वत इति श्रुतेरिति । पूर्वसाध्यानुषङ्गमुपेत्याह ॥ ततोऽपीति ॥
वाक्यार्थमुक्तावली
पूर्वसूत्रात्तदिति विभज्यानुवर्तते आवर्तते च । आद्यं पञ्चम्यन्तम् । तस्याः प्रकृतेरित्यर्थकम् । द्वितीयमध्यक्षशब्देन प्रकृतब्रह्मपरामर्शकं प्रमाणत इत्यतः परमधिकमिति शेषः । अत इति च शेषः । नैतावता साम्यमिति सम्बन्धभाष्येणान्वय इति व्याचष्टे ॥ प्रकृतेरपीति ॥ गुण-परिमाणेनेति ॥ अनेन सूत्रभाष्ययोः प्रमाणशब्दः परिमाणवाचक इत्युक्तं भवति ।
तत्त्वसुबोधिनी
गुणपरिमाणेन चाधिकमिति । अनेन सूत्रभाष्ययोः प्रमाणशब्दः परिमाणार्थः । सूत्रे चाधिकमिति शेष इत्युक्तं भवति ।
वाक्यार्थमञ्जरी
ब्रह्म रमापेक्षयाऽतिसूक्ष्मं प्रमाणतो गुणपरिमाणतश्च ततोऽधिकं कुतस् तथोपलब्धेः सर्वतः प्रकृतिरिति श्रुतौ तथा दर्शनादित्यर्थः ।
ॐ नोपमर्देनातः ॐ
सूत्रभाष्यम्
ॐ नोपमर्देनातः ॐ ॥ १० ॥
अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।
‘देशतः कालतश्चैव समा प्रकृतिरीश्वरे ।
उभयोरप्यबद्धत्वं तदबन्धः परात्मनः ।
स्वत एव परेशस्य सा चोपास्ते सदा हरिम् ॥
प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ।
नियता नैव केनापि नियता हि हरेर्गुणा’ इति भविष्यत्पर्वणि ॥
तत्त्वप्रकाशिका
यदि प्रकृतेर्न पुरुषेण सर्वसाम्यं तर्हि नित्यमुक्तत्वादिसाम्यमपि न स्याद् ब्रह्मादिवत् । तथा च लयसद्भाव इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ नेति ॥ अतः साम्यतदभावयोरेवं साधितत्वाद्ये परमेश्वरस्यासाधारणगुणाः स्वातन्त्र्यादयस्तेषामसाधारण्यमनुपमृद्यास्त्येव प्रकृतेः पुरुषेण नित्यमुक्तत्वादिसाम्यमिति भावः । यदि नित्यमुक्तत्वादिसाम्यं तर्ह्यस्त्येव विशेषगुणोपमर्दः । नित्यमुक्तत्वे प्रकृतेः स्वातन्त्र्यादेरप्यापातादित्यत आह ॥ देशत इति ॥ ईश्वरे ईश्वरेण । एवं नित्यमुक्तत्वादिसाम्येऽपि न स्वातन्त्र्यादिप्रकृतेरित्येतदुच्यते ॥ तदबन्ध इति ॥
भावबोधः
असाधारण्यमनुपमृद्येति ॥ लक्ष्म्या अपि स्वातन्त्र्यादौ न विष्णौ तद्गुणोपमर्दः । किं तु तेषां विष्णुमात्रनिष्ठत्वलक्षणासाधारण्योपमर्द एवेत्यभिप्रेत्य भाष्ये तेषामित्युक्तमिति भावेनासाधारण्यं पूरितमिति अवधेयम् । एवं नित्यमुक्तत्वादिसाम्येऽपीति । अनेन नित्यमसंसारित्वस्य नित्यतदनु-ग्रहणोपपत्तेरित्यादिन्यायविवरणांशोऽप्युक्तार्थो भवति ।
भावदीपः
पूर्वयोगद्वयोक्तार्थे बाधकनिरासकत्वेनोत्तरयोगमवतारयति ॥ यदीति ॥ भाष्यं व्याचष्टे ॥ अत इति ॥ श्रियः सर्वसाम्येऽपि नेशगुणोपमर्द इत्यतोऽसाधारण्यमनुपमृद्येत्युक्तम् ॥ विशेषगुणेति ॥ विशेषगुणासाधारण्योपमर्द इत्यर्थः । समानार्थकयोगे तृतीयोक्तेराह ॥ ईश्वरेणेति ॥ स्मृतिशेषोक्ते-रुपयोगमाह ॥ एवमिति ॥
अभिनवचन्द्रिका
ननु अनेन वचनेन प्रकृतेः स्वातन्त्र्यपरिहारो नोपलक्ष्यते । ततश्च देशतः कालतश्च’ इति प्रमाणोदाहरणमयुक्तमित्यत आह – एवं नित्यमुक्तत्वादिसाम्येऽपीति ॥ भाष्ये द्विधा हीदमवदृश्यत इति ॥
वाक्यार्थमुक्तावली
पूर्वसूत्रे स्वातन्त्र्यादिगुणानामसाधारण्यस्योक्तत्वात् स्वातन्त्र्यगुणसाधारण्यस्येति लभ्यते साम्यमिति शेषः । तथा च अतः स्वातन्त्र्यदिगुणासाधारण्यानुपमर्देनैव तस्याः प्रकृतेस्तेन साम्य-मिति सूत्रार्थं सिद्धवत्कृत्य व्याचष्टे ॥ नेति ॥ लक्ष्म्याः स्वातन्त्र्यादिमत्वेऽपि न विष्णौ गुणोप-मर्दः किं तु तेषामसाधारण्यस्यैवेति भावेनोक्तम् असाधारण्यमिति ॥ स्मृतौ तद असम्बन्धस्तस्या असम्बन्धः परमात्मनः सकाशादित्यर्थः । परेशस्य तु, स चासावसम्बन्धश्च तदसम्बन्धः स्वत एवेति योज्यम् । तदुपपादनं प्रकृतेः प्राकृतस्यापीति । प्राकृतं ब्रह्मादि । अबद्धत्वे उपासना-वैय्यर्थ्यमित्यत उपासनं स्वभावान्न फलेच्छयेत्युक्तं सा चेति ।
तत्त्वसुबोधिनी
असाधारण्यमनुपमृद्येति ॥ लक्ष्म्या अपि स्वातन्त्र्यादौ विष्णौ न तद्रूपोपमर्दः । किं तु तेषां विष्णुमात्रनिष्ठत्वलक्षणसाधारण्योपमर्दक एवेत्यभिप्रेत्य तेषामित्युक्तमिति भावेनासाधारण्यं पूरित-मित्यवधेयम् । तदबन्धः परात्मन इत्यस्य परमात्मनः सकाशात्तस्याः प्रकृतेरबन्ध इत्यर्थः ।
वाक्यार्थमञ्जरी
अतः साम्यतदभावयोरेवं साधितत्वान् नोपमर्देनासाधारणगुणानुपमर्देनैव साम्यमित्यर्थः ।
ॐ अस्यैव चोपपत्तेरूष्मा ॐ
सूत्रभाष्यम्
ॐ अस्यैव चोपपत्तेरूष्मा ॐ ॥ ११ ॥
‘द्विधा हीदमवदृश्यते ऊष्मावदनूष्मावच्च । तत्रोष्मावत्परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृृण्वन्ति न विजानन्ति । अथानूष्मावत्प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृृण्वन्ति शृृण्वन्ति च यन्न जानन्ति जानन्ति च’ इति सौपर्णश्रुतेः किञ्चित्साम्योपपत्तेः ॥
तत्त्वप्रदीपिका
वदति च सौपर्णश्रुतिरूष्मादिकम् । ऊष्मावत्परं ब्रह्मान्यदनूष्मावदिति वैलक्षण्य-मुक्त्वाऽदृश्यत्वादिकमेव उक्त्वा प्रकृत्यादेर्दृश्यत्वादिकमदृश्यत्वादिकं च वक्ति । तच्च वचनं देवदेव्योः किञ्चित्साम्योपपत्तेरेव ।
तत्त्वप्रकाशिका
युक्त्यन्तरेण किंचित्साम्यं समर्थयत्सूत्रं पठित्वा व्याचष्टे ॥ अस्यैवेति ॥ ईश्वरस्योष्मावत्त्वं प्रकृतेरूष्मावत्त्वमनूष्मवत्त्वं च वदन्ती श्रुतिरस्यैवार्थस्य किंचित्साम्यस्योपपत्तेरर्थे भवत्युपपादिका भवति । अतोऽप्यस्ति किंचित्साम्यमिति भावः ॥
गुर्वर्थदीपिका
श्रुतौ विद्यमानमनूष्मावत्पदं ‘न जिघ्रन्ति जिघ्रन्ति’ इत्यादिद्विविधफलपर्यालोचन योष्मावत्वस्याप्युपलक्षणमिति भावेनोक्तं प्रकृतेरूष्मावत्त्वमनूष्मावत्त्वं चेति । प्रकृतेरित्युपलक्षणं प्राकृतस्यापीति ग्राह्यम् । उष्मावत्वं च ‘उष दाह’ इति धातोः पराभितापनसामर्थ्यविशेषवत्त्वम् ॥ तच्च परमात्मनि । ‘भासस्तवोग्राः प्रतपन्ति विष्णौ’ इति वचनात्स्वभावतस्सर्वदा विद्यते । अतोऽसौ महास्वतन्त्रः । कदाचित्तद्दयया अङ्घ्य्रा घ्राणदर्शनादिकं न त्वनूष्मावत्त्वस्यापि सत्वा-दिति भावेन ‘यन्न जिघ्रन्ति न पश्यन्ति’ इत्याद्युक्तम् । लक्ष्म्यादीनां तु हरिं प्रति सा शक्तिरेव नास्ति । अन्यत्रास्ति च । अत ईषत्स्वातन्त्र्यमेव । न तु तद्वन्महास्वातन्त्र्यमिति भावः । इति सौपर्णश्रुतेश्चेति वदता भाष्यकारेणोष्मेति सौत्रपदस्योष्मावत्त्वप्रतिपादकश्रुतेरित्यर्थ उक्तो भवति । एवं च भगवत ऊष्मावत्त्वप्रतिपादकश्रुतिबलादस्यैव किञ्चित्साम्यस्यैवोपपत्तेरुपपन्नत्वादिति सूत्रवाक्ययोजनापि सूचिता ।
भावबोधः
अत्र सूत्रे ‘ऊष्मा’ इति पदं तत्पदोपेतश्रुतिसूचकमित्यभिप्रेत्याह– ईश्वरस्यैवेति ॥
भावदीपः
सूत्रे चशब्दादाह ॥ युक्तयन्तरेणेति ॥ न केवलमतीतयोगैरुक्तसाम्यं तदभावान्यथानुपपत्त्या । किन्तु धर्मान्तरवैलक्षण्ययुक्त्याऽपीत्यर्थः । सूत्रे ऊष्मपदमूष्मपदघटितश्रुतिपरमिति ज्ञानपादे समन्वारम्भणादित्यत्रैवोक्तं मत्वा सूत्राक्षरार्थमाह ॥ ईश्वरस्येति ॥
अभिनवचन्द्रिका
इदम् परब्रह्म, प्रकृतिशब्दितं चेति वस्तुद्वयम् । द्विधा दृश्यते कथम् – ऊष्मावदनूष्मावत् । तत्रैकं परेन्द्रियाऽभिभवशक्तिमत् । अन्यत्तु ऊष्मावच्चाऽनूष्मावच्च दृश्यते । तत्रोष्मावत्परं ब्रह्म । तत्र हेतुमाह – यन्न जिघ्रन्तीत्यादिना ॥ अत्र प्रकृतिर् महा लक्ष्मीः । प्राकृतं सीतारुक्मिण्यादि । अनूष्मावद् ईश्वरेन्द्रियाऽभिभवशक्तिविधुरम् । उपलक्षणमेतत् । तदन्येन्द्रियाऽभिभवशक्तियुक्तं च । उभयत्र हेतुमाह – यन्न जिघ्रन्ति जिघ्रन्तीत्यादिना ॥ तत्रेश्वरः स्वातन्त्र्येण तदाघ्राणादिकं करोति । ऋजवस्तु तदनुग्रह एव साकल्येन जिघ्रन्ति । तदन्ये तु महालक्ष्म्याऽपहृतेन्द्रियशक्तयः साकल्येन न जिघ्रन्तीत्यर्थः ।
पूर्वपक्षस्तु प्रकृतिः परमात्मनि लीयते । ‘तेजः परस्यां देवतायाम्’ इति श्रुतेः । न च असम्भावितत्वात् ‘उत्ताना वै देवगवा वहन्ति’ इति श्रुत्या देवगवानामुत्तानानां वहनाऽसिद्धिवत् प्रकृतेर्लयश्रवणेऽपि तदसिद्धिरिति वाच्यम् । तदधीनत्वे सम्भावितत्वात् । ततश्च भगवति लयसद्भावाद् अधिकारिणां प्राणावसानत्वोक्तिरयुक्तेति ।
सिद्धान्तस्तु न प्रकृतिर्विलीयते । नित्यमुक्तत्वात्, कुतो नित्यमुक्तत्वं, संसारसम्बन्धाभावात् । तदपि कुतः विभुत्वात् । परमात्मवत्सीतारुक्मिण्यादिरूपेणाऽपि नित्यत्वाच्च । न हि मूलरूप-वत्सीताद्यवताराणामपि नित्यत्वे गर्भवासादिरूपः संसारसम्बन्धः सम्भवति । न च एतावता साम्यम् । प्रकृतौ लीनस्य संसाराऽभिधानात् परमात्मनि लीनस्य मुक्तत्वाभिधानात् प्रकृतेरपि परमात्मनः सूक्ष्मत्वस्य, ज्ञानानन्दादिपरिमाणाधिक्यस्य चाऽभिधानाच्च । न च प्रकृतिपरमात्मनोः साम्यवचनान्यपि दृश्यन्ते । असाम्यवचनान्यपि दृश्यन्ते । ततो न किंचिदपि सिध्यतीति वाच्यम् । ये तस्य विशेषगुणा ज्ञानानन्दादिपरिमाणाधिक्यादय स्तेषामनुपमर्देन नित्यमुक्तत्वादिना साम्याङ्गीकारे बाधकाभावात् । ‘द्विधा हीदमवदृश्यत ऊष्मावदनूष्मावच्च’ इत्यादिना किञ्चित्साम्योक्तेश्च । ‘असमो वा एष पर’ इति साम्यप्रतिषेधान् न प्रकृतेस्तत्साम्यमिति चेत्, न शारीरादेवात्र साम्यस्य प्रतिषिद्धत्वात् ‘प्रकृतिर्वाव समाऽसमा’ इति स्पष्टमाध्यन्दिनायनश्रुतेश्च । ‘मत्स्यकूर्मवराहाद्या’ इति स्मृतेश्च । अतः प्रकृतेर्नित्यमुक्तत्वादिना लयाऽभावाद् युक्तं प्राणावसानत्वमधिकारिणामिति सिद्धम् ॥
वाक्यार्थमुक्तावली
अत्र सूत्रे ऊष्मेति पदं तत्पदोपेतश्रुतिसूचकमिति भावेन व्याचष्टे ॥ ईश्वरस्येति ॥ श्रुतावूष्मशब्देन सामर्थ्यमुच्यते । ऊष्मनामा स भगवान् समर्थत्वात् प्रकीर्तित इत्यैतरेयभाष्ये । अत एव तद्गन्धादेर् घ्राणाद्यविषयत्वम् । ब्रह्ममीमांसान्यायभास्करे तु । अत्रोष्मवत्वं नाम यूपाहवनीयादि- पदवद्वैदिकव्युत्पत्या घ्राणाद्यविषयत्वं श्रियोऽनूष्मावत्वमूष्मावत्वं चास्ति । स्वतोवेद्यत्वेऽपि तदभि-मन्यमानाचेतनस्य घ्राणादिवेद्यत्वादनूष्मावत्वम् । ईश्वरस्यानभिमानिनस्तन्नास्तीत्यूष्मावत्वमेवेति प्राचीनैरेवोक्तम् । अस्मदुक्तार्थोपपादनमन्यत्र बोध्यम् ।
तत्त्वसुबोधिनी
अत्र सूत्रे ऊष्मेति पदं तत्पदोपेतश्रुतिसूचकमित्यभिप्रेत्याऽह । ईश्वरस्येति ॥
वाक्यार्थमञ्जरी
ऊष्मा ऊष्मपदोपेतश्रुतिः । अस्यैव किंचित्साम्यस्यैवोपपत्तेर् उपपत्त्यर्थं भवतीत्यर्थः ॥ ऊष्मा-वत्वं नाम परेन्द्रियशक्तितिरोधायकत्वमूष्मसूर्यमण्डलादिसाधारणं विवक्षितम् । अत एवेश्वरस्य सर्वेन्द्रियागोचरत्वोक्त्या तदुपपद्यत इति बोध्यम् ॥ उपपत्तेरिति षष्ठ्या अपेक्षितं पूरयितुमर्थमाह ॥ उपपादकेति ॥
ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ
सूत्रभाष्यम्
ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ॥ १२ ॥
‘असमो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्येतेऽणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति । अथ परो न जायते न म्रियते पूर्णश्चैष भवति’ इति चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेन्न । शारीराद्धि साम्यं प्रतिषिध्यते ।
तत्त्वप्रदीपिका
‘सर्वे ह्येतेऽणवो जायन्ते च म्रियन्ते च’ इत्यादौ देशव्याप्त्यादिप्रतिषेधात् । परमव्यतिरिक्तानां सर्वेषामविशेषेण विवक्षितसाम्यमपि नास्तीति चेन्न । शारीराद्धि साम्यं तत्र प्रतिषिध्यते । न प्रकृतेः । तस्य ह्यणुत्वादि प्रसिद्धम् ॥
तत्त्वप्रकाशिका
किंचित्साम्यमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद् व्याचष्टे ॥ प्रतिषेधादिति ॥ न च प्रकृतिपुरुषयोर्देशकालव्याप्त्यादिनापि साम्यम् । ‘असमो वा एष परमः’ इति श्रुतौ परमेश्वरस्यैव नित्यसर्वगतत्वादि । अन्येषां तदभावमुक्त्वा प्रतिषिद्धत्वात् । अतोऽस्ति प्रकृतेर्लय इति भावः । छिद्रा दोषिणः । पूर्णः सर्वगतः । चशब्दाददोषश्च । परिहारांशं व्याचष्टे ॥ नेति ॥ भवेदेत-द्यद्येतस्यां श्रुतौ प्रकृतेर्भगवत्साम्यप्रतिषेधो भवेत् । नैतदस्ति । किं तर्हि शरीरेणैव साम्यमीश्वरस्य प्रतिषिध्यते । तस्य शरीरत्वेन नित्यसर्वगतत्वाद्ययोगादिति भावः ॥
भावबोधः
तदभावमुक्त्वा प्रतिषिद्धत्वादिति । ‘सर्वे ह्येतेऽणवः’ इत्यादिना तदभावमुक्त्वा ‘असमो वा’ इति प्रतिषिद्धत्वादित्यर्थः । अत्राद्ये– प्रकृतेर्लयाभावसाधकनित्यमुक्तत्वे सर्वगतत्वादिहेतूक्तिः । द्वितीये– तस्यामुक्तत्वाङ्गीकारे परमात्मना सर्वसाम्यं स्यादित्याशङ्कानिरासाय तस्या अमोच-कत्वोक्तिः । तृतीये– ब्रह्मणः सूक्ष्मत्वे ज्ञानानन्दादिगुणाधिक्ये च प्रमाणोक्तिः । प्रकृतेः सर्व-साम्याभावे नित्यमुक्तत्वादिकमपि न स्यादित्याशङ्कापरिहाराय, चतुर्थे– पूर्वसूत्रसिद्धहेतुना किञ्चि-त्साम्यसाधनम् । पञ्चमे– किञ्चित्साम्य एव श्रुतिरूपप्रमाणोक्तिः । षष्ठे– प्रकृतेः परमात्मना किञ्चित्साम्यस्य ‘असमो वा’ इति श्रुतिविरोधमाशङ्क्य तच्छ्रुतेर्जीवविषयत्वोक्त्या तद्विरोध-परिहारः । सप्तमे– सामान्यश्रुतेर् जीवविषयत्वसिद्धये ईश्वरेण प्रकृतेः किञ्चित्साम्ये जीवानाम-त्यन्तासाम्यश्रुतिरूपप्रमाणोक्तिः । अष्टमे– तत्रैव विशेषस्मृतिरूपप्रमाणोक्तिरिति सूत्रक्रमः ॥
भावदीपः
साध्यार्पकतया किञ्चित्साम्यमिति पदमनुवर्त्य नञध्याहारेणान्वयमुपेत्य भाष्यं व्याचष्टे ॥ न च प्रकृतीति ॥ इति चतुर्वेदशिखायामित्यस्यार्थ इति श्रुताविति । साम्येत्यतः प्राक् भाष्ये शेषमाह ॥ परमेत्यादि ॥ सर्वे हीत्यादिनोक्त्वाऽसमो वेत्यादिपूर्वांशेन प्रतिषिद्धत्वात्साम्यस्येत्यर्थः । नेत्यादिभाष्यं व्याचष्टे ॥ भवेदित्यादिना ॥ शारीरपदोक्तिसूचितयुक्तिमाह ॥ तस्येति ॥
वाक्यार्थमुक्तावली
अस्येत्यनुवर्तते । नेत्यावर्तते । अस्य किञ्चित्साम्यस्य प्रतिषेधादिदं देशकालादिना किञ्चि-त्साम्यं नेति चेन्न । शारीराज्जीवात्साम्यस्यास्यां श्रुतौ प्रतिषेधादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ नेत्यादिना ॥ तदभावमिति ॥ सर्वे ह्येतेऽणव इत्यादिना तदभावमुक्त्वा असमो वेति प्रतिषिद्धत्वादित्यर्थः । जीवादित्यनुक्त्वा शारीरादित्युक्तेर्भावमाह ॥ तस्य शरीरत्वेनेति ॥ शरीराभिमानित्वेनोत्पत्तेस्तत्परित्यागेन मरणात् । शरीरावच्छेदेनावस्थानेन महत्वाभावात् । शरीरत्वादेव दुःखादित्युक्तत्वाच्चेति भावः ।
तत्त्वसुबोधिनी
तदभावमुक्त्वा प्रतिषिद्धत्वादिति ॥ ‘सर्वे ह्येते अणव’ इत्यादिना तदभावमुक्त्वा असमो वेति प्रतिषिद्धत्वादित्यर्थः ।
वाक्यार्थमञ्जरी
सर्वे ह्येत इति श्रुतावीशान्येषु देशकालव्याप्त्यादिनापि साम्यस्य प्रतिषेधान्न रमायाः किञ्चित्साम्यमपीति चेन्न । तत्र शरीरिणो जीवादेवेशस्य देशादिव्याप्तिसाम्यप्रतिषेधादित्यर्थः ॥ तदभावमुक्त्वा प्रतिषिद्धत्वादिति ॥ सर्वे ह्यवरा इत्यादिना तदभावमुक्त्वाऽसमो वेति प्रतिषिद्धत्वादित्यर्थः ॥ शरीरत्वेनेति ॥ अनित्यदेहपरिच्छिन्नत्वेनेत्यर्थः ।
ॐ स्पष्टो ह्येकेषाम् ॐ
सूत्रभाष्यम्
कुतः
ॐ स्पष्टो ह्येकेषाम् ॐ ॥ १३ ॥
‘अथातः समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिर्लयो नियतिरायतिश्चैकं ह्येवैतद्भवत्यथासमा ब्रह्मेन्द्रो रुद्रः प्रजापतिर्बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पितरोऽसुरा यत्किञ्चेदं चरमचरं चाथ समाऽसमा प्रकृतिर्वाव समाऽसमा सैषा हि नित्याऽजरा तद्वशा च’ इति स्पष्टो हि माध्यन्दिनायनानां समादिवादः ॥
तत्त्वप्रदीपिका
‘छिद्रा ह्येते भवन्ति’ इत्युक्तमपूर्णत्वं न जीवानामेवेति चेत्, अत एव देव्याः समासमत्वमस्यां श्रुतावस्पष्टमिति स्पष्टो हि माध्यन्दिनायनानां समादिवाद इत्याह । समवादोऽसमवादः समासमवादश्चेत्यर्थः ।
तत्त्वप्रकाशिका
नन्वस्याः श्रुतेः सामान्यरूपत्वादत्र शारीरेण साम्यं प्रतिषिध्यते परमात्मनो न प्रकृतेरिति कुत इत्याक्षिपति ॥ कुत इति ॥ तत्परिहाराय सूत्रं पठित्वा व्याचष्टे ॥ स्पष्ट इति ॥ सत्यमियं सामान्यश्रुतिरिति तथाप्युक्तं युज्यते । यतः स्पष्टश्रुतौ जीवानामेवासमत्वमुक्त्वा प्रकृतेः समासमत्वमुच्यते । विशेषश्रुत्या च सामान्यश्रुतेर्बाधोपपत्तेरिति भावः । आयतिः प्रवृत्तिः । प्रजापतिर्दक्षः ॥
भावदीपः
सूत्रादौ हिर्हेतावित्युपेत्य साध्यमध्याहृत्य भाष्यं योजयति ॥ सत्यमित्यादिना ॥ समादिवाद इत्यस्यार्थमाह ॥ असमत्वमुक्त्वेत्यादि ॥
वाक्यार्थमुक्तावली
हिशब्दो हेतौ । समादिवाद इति शेषः । अतश्शरीरादेव साम्यप्रतिषेधात् श्रिया साम्यप्रतिषेध इति नेति पूर्वेणान्वय इति भावेनाह ॥ तथापीति ॥ ये के च देवा इत्यस्य येऽन्ये देवा इत्यर्थः ।
तत्त्वसुबोधिनी
अस्तु समासमत्ववचनं प्रकृतेस् ततः किमित्यत आह ॥ विशेषश्रुत्या चेति ॥ नियतिरित्यनेन पौनरुक्त्या आह ॥ आयतिः प्रवृत्तिरिति ॥ ब्रह्मेत्यनेन पौनरुक्त्या आह ॥ प्रजापतिर्दक्ष इति ॥
वाक्यार्थमञ्जरी
एकेषां माध्यन्दिनानामथासमा इति श्रुतौ जीवानामसमत्वादिवादः स्पष्टोऽस्ति हि यस्मा-त्तच्छरीरादेवासमत्वोक्तिरित्यर्थः ।