०५ अनेकलयाधिकरणम्

ॐ नैकस्मिन् दर्शयतो हि ॐ

५. अनेकलयाधिकरणम्

सूत्रभाष्यम्

ॐ नैकस्मिन् दर्शयतो हि ॐ ॥ ६ ॥

नैकस्मिन् भूते सर्वेषां देवानां लयः । ‘पृथिव्यामृभवो विलीयन्ते वरुणेऽश्विनावग्नावग्नयो वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते । मृत्यवः पृथिव्यां वरुण आपोऽग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्त’ इति महोपनिषच्चतुर्वेद-शिखा च दर्शयतः । अतोऽग्नौ देवा विलीयन्त इति तत्र निर्दिष्टानामेव ॥

॥ इति अनेकलयाधिकरणम् ॥ ५ ॥

तत्त्वप्रदीपिका

नैकस्मिन् भूते सर्वेषां देवानां लय इत्यस्य भाष्यस्यार्थ उच्यते । न तावदेकैकस्मिन् भूते सर्वेषां देवानां लयः । विरोधात् । न च कदाचिदेकस्मिन् कदाचिदन्यस्मिन्नित्यविरोधः । मुक्तौ प्रवेशप्रकारस्य श्रुतिषु नियतत्वात् ॥

‘उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ।

बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा’ इति च ॥

नाप्येकस्मिन् भूते देवानां लयः । तस्यान्यस्मिंस्तस्यान्यस्मिन्नित्यतो भूतेष्वित्युक्तिः । प्रमाणाभावात् । किन्तु केषाञ्चिद्देवानामेकस्मिन्नन्येषामन्यस्मिन्नित्येवं प्रकारेणाङ्गीकार्यः । अग्नयोऽग्निपुत्राः, ‘‘वायाविन्द्रः सोम आदित्यो बृहस्पतिरिति’’ति बृहस्पत्यादयः सर्वेऽपि देवा यथानुकूलं वायौ विलीयन्त इत्यर्थः । इतिशब्दस्याद्यार्थत्वात् ॥

‘आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ।

सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ तु वारुणीम् ॥

सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ।

सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ।

तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति’ इति च ॥

भूतवाय्वादयो मरुत इन्द्रादिद्वारेण मारुते ।

प्रयाति धर्मं निर्ऋतिस्तु शक्रं मरुद्गणाः पारषदास्तथैव ।

सर्वेऽनिरुद्धं पृतनाधिपाद्यास् तुरश्रुतिर्हीत्थमियं विमुक्तिरि’ति च ॥

न चेदं स्वमनीषितम् । ‘उक्तं समस्तं परमश्रुतौ हि’ इति ह्याह । अत एव च सर्वाण्यन्विति यथाश्रुत्यनुकूलं यथाबिम्बप्रतिबिम्बभावानुकूलं च सर्वाणि दैवानि विलीयन्त इति यः प्रतिज्ञातो लयः सः प्रणिगदितः प्राचुर्येणानुव्याख्यानिकानां श्लोकानां कियताञ्चिदुदाहरणेन । तदुपजीव-कत्वेऽप्यस्य ग्रन्थान्तरत्वान् न कृत्स्नोदाहरणम् । ग्रन्थबाहुल्यभयाच्च । अतोऽग्नौ देवा विलीयन्त इति तत्र निर्दिष्टानामेव । अयमर्थः । यत एते एवं दर्शयतः, अतो नैतदाशङ्कनीयं, ‘अग्नौ सर्वे देवा विलीयन्त’ इति वचनादेकस्मिन्नेवाग्निदेवे सर्वदेवानां लय इति । अनयोरुक्तानामग्निपुत्राणामेव तत्र लयः । विशेषश्रुतिबाहुल्यात् । सर्वशब्दस्य तदविरोधेन कृत्स्नाग्निपुत्रविषयत्वोपपत्तेः ॥

तत्त्वप्रकाशिका

अत्र पुनर्देवानां मुक्त्यर्थं सर्वभूतेषु लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोत्तमानामधमेषु लयप्रसङ्गात्समर्थनीयमेतत् । प्रकृतदेवा एवात्र विषयः । किं सर्वभूतेषु लीयन्ते उताग्नावेवेति सन्देहः । उक्तमेव सन्देहबीजम् । अग्नावेव सर्वेषां लय इति पूर्वः पक्षः । ‘अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुतेः । न च ‘भूतेषु देवा विलीयन्ते’ इति श्रुतिविरोधः । एकस्मिन्नग्नावेव सर्वदेवलयाङ्गीकारेऽपि तदुपपत्तेः । अस्ति तावद् भूतानामुत्पत्तिक्रमवैपरीत्येन लयः । उत्पत्तिश्चाकाशादिक्रमेण ‘आत्मन आकाशः’ इति श्रुतेः । मुक्तिश्च प्रलयविशेषः । तथा चाग्नावेव सर्वदेवानां लयाङ्गीकारेऽपि भूतेष्वित्युपपद्यते । अग्नेर्वायौ वायोराकाशे विलयात् । न च वाच्यं मुख्यार्थः किं न स्यादिति । ‘अग्नौ सर्वे देवा विलीयन्ते’ इत्येतच्छ्रुत्यन्यथानुपपत्तेर्निरवकाशत्वात् । न चात्र विशेषप्रमाणमस्ति । अतोऽग्नावेव सर्वदेवानां विलयादुक्तव्यवस्थानुपपत्तिरिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ नैकस्मिन्निति ॥ नैकस्मिन्नग्नावेव भूते सर्वदेवानां लयो वाच्यः । ‘पृथिव्यामृभव’ इत्यादिश्रुतिभ्यां प्रत्येकं भूतेषु देवतालयस्योक्तत्वात् । येषां देवानां यस्मिन्भूते लय उच्यते तत्तद्देवानां तत्तद्भूतोद्भूत-त्वाच्च । न चाश्विप्रभृतीनां वरुणाद्यनुत्पन्नत्वान्न तत्र लयोपपत्तिरिति वाच्यम् । तेषां तदुत्पन्नत्वाभावे विशेषवचनाभावे च स्वसमानाबादिदेवतालयस्थाने वरुणादौ लयोपपत्तेः । अतो यदन्यथाव्याख्यानं तदयुक्तमिति भावः । अत्र वायुमारुतपदाभ्यां हिरण्यगर्भ उच्यते । तत्रेन्द्रस्य लय उक्तक्रमेण सोमस्य चानिरुद्धकामवारुणीशेषवाणीद्वारेण सूर्यस्य बृहस्पतिशक्रसौपर्णीसुपर्णवाणीद्वारेण मरुतामपीन्द्रादि-द्वारा भूताभिमानिनां चान्योन्यलयाभावादन्यथाव्याख्यानमयुक्तम् । न चोत्पत्तिश्रुतिविरोधः । अत्र जडानां मुख्योत्पत्त्यभिधानात् । देवतानां त्वनुसर्गप्रतिपादनात् । ननु तर्हि ‘अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुतेः का गतिरित्यत आह ॥ अत इति ॥ यत एवं पृथक् प्रत्येकं भूतेषु लयः सिद्धोऽतो ‘अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुत्योदाहृतश्रुतावग्नौ विलीयमानत्वेन निर्दिष्टानामेव लयोऽभिधीयत इत्यङ्गीकार्यमिति भावः । उपलक्षणमेतत् । प्रायेणाधमानां सर्वेषां भूतान्तराप्रवेशिनां तत्रैव लयः । अतोऽग्नावेव सर्वेषां लयाभावादुक्तव्यवस्था युक्तेति सिद्धम् ॥

गुर्वर्थदीपिका

अग्नावेव सर्वदेवानां लयाङ्गीकारेऽपीत्यत्र ‘देवाः सर्वेऽग्नावेव लीयन्ते’ स त्वग्निः स्वाभि-मन्यमानजडतेजोनाशक्रमाय वायुभूते आकाशभूते प्रविश्य गच्छतीत्यर्थोपपत्तेरिति शङ्कितुर्भावः । स्वसमानाबादिदेवतालयस्थान इत्यत्र ‘वरुण आप’ इति श्रुत्युक्तानामश्विनीसमानतयोक्त-शतस्थादभिमानिदेवतानां वरुणे लयोक्त्या वरुणादनुत्पन्नयोरप्यश्विनोस्तत्र लयसम्भवादित्यर्थः । ‘विष्वक्सेनोऽश्विनौ तौ गणपतिधनपावुक्तशेषाः शतस्था देवाश्च’ इति प्राचां वचनाच्छतस्थदेवा-नामश्विनोश्च साम्यादिति भावः । देवानां त्वनुसर्गेत्यत्रानुसर्गोऽवान्तरसृष्टिः । यद्यपि ‘भूतेषु देवा विलीयन्त’ इति पूर्वाधिकरणेऽपि देवानां भूतेषु लयस्समर्थितस् तथाऽप्यग्नौ सर्वदेवानां लयेऽपि तस्य वायौ वायोराकाश इत्यनेनाकारेण बहुवचनान्तभूतश्रुतेरपि सावकाशत्वात्पुनः ‘अग्नौ सर्वे देवा लीयन्त’ इत्यभ्यधिकाशङ्कयाऽधिकरणान्तरारम्भ इति ज्ञेयम् ॥

भावबोधः

अत्र पुनरिति ॥ यदुक्तं पूर्वाधिकरणेऽग्नावेव सर्वदेवलयाङ्गीकारे भूतेषु इति बहुवचनविरोध इति तदयुक्तम् । अग्नावेव सर्वदेवलयाङ्गीकारेऽपि अग्नेर् वायौ वायोश्चाकाशे लयेऽग्नौ लीनानां भूतेषु लयसम्भवेन बहुवचनोपपत्तिरिति आक्षेपोत्थानादन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र देवाः किमग्नावेव लीयन्ते उत पञ्चस्वपि भूतेष्विति चिन्ता । तदर्थमग्नावेव सर्वदेवलयाङ्गीकारे बाधकत्वे-नोक्तं भूतेषु इति बहुवचनं किममुख्यार्थमुत मुख्यार्थमिति चिन्ता । तदर्थम् अग्नौ सर्वे देवा इति श्रुतिर् निरवकाशोत सावकाशेति । तदर्थं पञ्चस्वपि भूतेषु देवानां प्रत्येके लये विशेषप्रमाणं नास्त्युतास्तीति । भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्तेर्मुक्तिलययोर्विशेषाभावाच्चैकस्मिन् भूते सर्वलयोऽर्थतः क्लृप्त इति पूर्वपक्षयुक्तिप्रदर्शकन्यायविवरणस्याकाङ्क्षाक्रमेण अन्वयप्रदर्शनपूर्वक-मभिप्रायमाह– एकस्मिन्नग्नावेवेत्यादिना । तत्र एकस्मिन्नग्नौ इत्यनेन एकस्मिन्नेव भूते सर्वेषां लयोऽर्थतः क्लृप्त इत्यंशस्य, अस्ति तावद्भूतानामित्यनेन भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्ते-रित्यंशस्य, मुक्तिश्च प्रलयविशेष इत्यनेन मुक्तिप्रलययोर्विशेषाभावाच्चेत्यंशस्य व्याख्यानं कृतम् ॥

ननु प्रलयकालीनभूतलयस्य उत्पत्तिक्रमविपरीतक्रमकत्वेऽपि मुक्तिकालीनदेवतालय प्रतिपादक-श्रुतिगतस्य भूतेषु इति बहुवचनस्योपपत्तिः कथमित्यत आह– मुक्तिश्च प्रलयविशेष इति ॥ मुख्यार्थ इति ॥ भूतेषु इति श्रुतेर्देवानां साक्षादेव भूतेषु लय इत्येवंरूपमुख्यार्थ इत्यर्थः । दर्शयतो हि इति सूत्रादिनिवर्तनीयपूर्वपक्षयुक्तिमाह– न चात्र विशेषप्रमाणमस्तीति ॥ पृथिव्यामृभव इत्यादिश्रुतिभ्यामिति ॥ अनेन विशेषश्रुतेश्चेति न्यायविवरणांशोऽपि व्याख्यातो भवति । तत्तद्भूतोद्भवत्वात् तत्तद्देवतानामिति न्यायविवरणं व्याचष्टे– येषां देवानामिति ॥ तत्समानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेरिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न चाश्विप्रभृतीनामिति । तदनुत्पन्नत्वेऽपि स्वसमानदेवतालयस्थानत्वेन यदि तत्र देवतानां लयस्तर्हि सौपर्ण्यादीनां स्वसमानवारुण्यादिलयस्थाने शेषादौ लयः स्यादित्यत उक्तम्– विशेषवचनाभावे चेति ॥ सौपर्ण्यादीनां विशिष्यलयस्योक्तत्वादिति भावः । अबादिदेवतेत्यत्र वरुणव्यतिरिक्तानां ग्रहणम् ॥ अन्यथाव्याख्यानमिति ॥ भूतेषु देवा इति श्रुतेरग्नेर्वायावित्यादिना कृतमित्यर्थः ॥ उक्तक्रमेणेति ॥ इन्द्र उमायामित्युक्तक्रमेणेत्यर्थः ।

सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् ।

सा शेषदेवं सगिरं च सैव वायुम्…. …. … ॥

इत्यनुव्याख्यानं मनसि निधायाह– सोमस्य चेति ॥

सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ।

तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ॥

इत्यनुव्याख्यानं हृदि कृत्वाऽऽह– सूर्यस्येति ॥ शक्रं मरुद्गणा इत्यनुव्याख्यानं हृदि कृत्वाऽऽह– मरुतामपीति ॥ आदिपदेन सौपर्णीसुपर्णवाण्यो ग्राह्याः । भूताभिमानिनां चान्योन्यं लयाभावादिति । तेजोवाय्वभिमानिनाग्निप्रवहादीनां वाय्वाकाशाभिमानिनोः प्रवहादिविनायकयो-र्लयाभावादित्यर्थः । पूर्वमन्यथाव्याख्यानं विशेषश्रुतिबलादिहेतुना निराकृतम् । अधुना अन्योन्य-लयाभावरूपहेतुनेति भावः । अत एव अन्योन्यलयाभावाच्चेति चशब्दसम्बन्धः । उत्पत्तिश्रुतिविरोध इति ॥ ‘आकाशाद्वायुर् वायोरग्निः’ इति श्रुतिविरोध इत्यर्थः । विपर्ययेणोत्क्रमोऽत उपपद्यते च इत्यत्र सर्वदेवानामुत्पत्तिक्रमवैपरीत्येन लयस्य निर्णीतत्वादिति भावः । ननु ‘भूतं भूताभिमानी च’ इत्यनुव्याख्याने आकाशदिपदैर्देवानामपि गृहीतत्वात् कथमेतदित्यत आह– अनुसर्गप्रतिपाद-नादिति ॥ आदिसर्गे वैपरीत्येनैव देवादीनां देहलय इति भावः । अग्नौ सर्वे देवा इति श्रुतिगतसर्वशब्दस्य ‘विशन्ति शिष्टा अपि हव्यवाहम्’ इत्यनुव्याख्यानानुसारेण विषयान्तरमाह– उपलक्षणमेतदिति ॥

भावदीपः

पुनर्देवानामिति ॥ एतेन प्रागुक्तप्रमेयस्यैतत्साधकश्रुत्यन्यथोपपत्त्याऽसिद्धिशङ्कायां विशेष-वचनबलेन समर्थनात्पूर्वसङ्गतिरपि सूचिता । प्राचीनरीत्यास्यापूर्वेणैकाधिकरण्येऽपि न्यायभेदे-नाधिकरणभेदोऽत्राश्रितः ॥ भूतेषु लय इति ॥ सामान्यतोऽनुक्तौ साक्षात्परम्परा-रूपविशेषचिन्तानवसरात् । अत एव प्राङ् न न्यायविवरणयोजना कृता ॥ अधमेषु लय इति ॥ तथा च प्राचीनाधिकरणेषूक्तस्वोत्तरेषु लयोऽयुक्तः स्यादिति भावः ॥ उक्तमेवेति ॥ श्रुति-रन्याधीनत्वं चेत्युक्तमेवेत्यर्थः । विशेषशङ्कोत्थापनाय प्रागुक्तहेतुमाह ॥ इति श्रुतेरिति ॥ पूर्वसिद्धान्तीयश्रुतिमाशङ्क्य तदन्यथासिद्धिरूपविशेषशङ्कामाह ॥ न चेत्यादिना ॥ कथं तदु-पपत्तिरित्यतः भूतानामुत्पत्तिवैपरीत्येन लयोक्तेर्मुक्तिलययोर्विशेषाभावाच्चेत्यन्यत्रोक्तं विवृण्वन् अन्यथोपपत्तिं व्यनक्ति ॥ अस्ति तावदिति ॥ विपर्ययेण तु क्रमोऽत इत्यत्र द्वितीये तथोक्तेरिति भावः ॥ तथा चेति ॥ उत्पत्तिक्रमवैपरीत्येन लये सति मुक्तिलययोरविशेषे च सतीत्यर्थः । कथमित्यतो व्यनक्ति ॥ अग्नेरिति ॥ एकस्मिन्नेव भूते सर्वेषां लयोऽर्थतः क्लृप्त इति न्याय-विवरणेऽर्थत इत्यस्यार्थापत्तितो ऽग्नौ सर्वे देवा इति श्रुत्यन्यथानुपपत्तित इत्यर्थमुपेत्य शङ्कानिवर्तकतया तद् व्यनक्ति ॥ न चेति ॥ मुख्यार्थः साक्षाल्लयरूपः ॥ निरवकाशत्वादिति ॥ अग्नितोऽन्यत्र लयरूपावकाशविरहादित्यर्थः ॥ न चात्रेति ॥ साक्षादेवाग्नौ लय इत्यर्थः । येनार्थापत्तिर्बाधिता स्यादिति भावः ॥ अत इति ॥ अग्नौ सर्व इति श्रुतेर्निरवकाशत्वाद्भूतेष्विति श्रुतेश्च सावकाशत्वादित्यर्थः ॥ उक्तेति ॥ स्वस्वोत्तमेषु लय इति व्यवस्थेत्यर्थः । भाष्यं व्याचष्टे ॥ नैकस्मिन्निति ॥ भूते भूतमानिनि ।

नन्वेवं स्वस्वजनके लयस्यासिद्धिप्रसङ्ग इत्यतस्तद्भूतोद्भवत्वात्तत्तद्देवानामित्यन्यत्रोक्तहेतुं चाह ॥ येषामिति ॥ तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेरित्यन्यत्रोक्त-युक्तिं हेत्वसिद्धिनिरासकतया योजयति ॥ न चेत्यादिना ॥ इन्द्रादावप्येवं स्यादित्यत आह ॥ विशेषेति ॥ इन्द्र उमायामुमा रुद्र इत्यादिविशेषवचनाभाव इत्यर्थः ॥ अत इति ॥ विशेष-प्रमाणाभावादित्यर्थः ॥ अन्यथाव्याख्यानमिति ॥ अग्नेर्वायौ वायोराकाशे इत्युक्तं भूतेष्विति श्रुतेरन्यथाव्याख्यानमित्यर्थः । सर्ववेदान्तनयन्यायेन श्रुत्यन्तरोक्तक्रमोऽत्र ग्राह्य इति भावेनाह ॥ इन्द्रस्येति ॥ इन्द्र उमायामित्यादिश्रुत्युक्तक्रमेणेत्यर्थः । सोमस्तु वारीशयुत इत्याद्यनुभाष्य-दिशाऽऽह ॥ सोमस्येत्यादि ॥ इन्द्रादीत्यादिपदेन प्रागुक्तसौपर्णीसुपर्णवाणीग्रहः । एवं देवा-नामन्योन्यद्वारा लयोक्तौ प्रकृते किमायातमित्यतो भावमाह ॥ भूतेति ॥ अन्यथेति ॥ अग्नेर्वायावित्यादिनोक्तेत्यर्थः । अस्ति तावदित्यादिनोक्तचोद्यमनूद्य निराह ॥ न चोत्पत्तीति ॥ जडानामिति ॥ तेषां च वारिणा हृतगन्धा भूः सलिलत्वाय कल्पत इत्याद्येकादशस्कन्धो-क्त्योत्पत्तिक्रमवैपरीत्येनैव लयोपगमादिति भावः । वियत्पादे आकाशादेरभिमानिदेवतापरत्व-मप्यङ्गीकृतत्वादाह ॥ देवानां त्विति ॥ आदिसर्गोऽत्र नोच्यते किंत्वनुसर्गः । आदिसृष्टौ तु येन क्रमेणोत्पत्तिस्तद्वैपरीत्यक्रमेणैव देवानां लयोंऽगीक्रियत एव । अत आत्मन आकाश इति श्रौत-क्रमवैपरीत्येन लयाङ्गीकारेऽपि न दोष इति भावः ॥ सिद्ध इति ॥ उदाहृतश्रुतिभ्यामित्यर्थः । तत्रेत्यस्यार्थ उदाहृतश्रुताविति । अग्नावग्नय इति श्रुतौ निर्दिष्टानां कृत्स्नाग्निपुत्राणामेवेत्यर्थः ॥ एतदिति ॥ तत्र निर्दिष्टानामेवेत्यर्थः । विशंति शिष्टा अपि हव्यवाहम्’ इत्यनुभाष्योक्त्याऽग्नि-पुत्रेभ्योऽन्येषामपि सर्वे देवा इत्यत्र सर्वशब्देन ग्राह्यत्वादिति भावः ॥ अत इति ॥ प्रत्येकं भूतेषु लयकथनादित्यर्थः ॥ उक्तेति ॥ स्वस्वनियामके लय इत्युक्तव्यवस्थेत्यर्थः ।

अभिनवचन्द्रिका

अत्र पुनरिति ॥ भवेदेवाग्नावेव सर्वदेवानां लयः । अग्नेर्भूतवायौ, भूतवायोश्चाकाशे लयाङ्गीकाराद् इत्यभ्यधिकाशङ्कापरिहाराय पुनः समर्थ्यत इति भावः । न चाऽश्विप्रभृतीनामिति ॥ ‘वरुणेऽश्विनौ’ इत्युक्तावपि नाऽश्विप्रभृतीनां वरुणादौ लयः । तेषां वरुणाद्युत्पन्नत्वाभावात् । किन्तु वरुणादिशब्द एव तदुत्पत्तिस्थानस्य लक्षक इति न वाच्यमित्यर्थः ॥ तेषामिति ॥ अश्विप्रभृतीनां वरुणाद्युत्पन्नत्वाभावेऽपि वरुणादीनां स्वसमानाबादिदेवतालयस्थानत्वादुत्तमत्वेन लयाऽसम्भवाभावात् । ‘वरुणेऽश्विनौ’ इत्यादिविशेषश्रुतेश्च विशेषवचनाभावेऽपवादकाभावे यथाश्रुतस्यैव ग्राह्यत्वेन लक्षणास्वीकारायोगादिति भावः । एतेन ‘वरुणेऽश्विनौ’ इति विशेषवचन-बलादेवाऽश्विप्रभृतीनां स्वसमानाबादिलयस्थाने वरुणादौ लय इति वक्तव्यत्वेन विशेषवचनाभावे लय इति कथनमयुक्तमिति परास्तम् । विशेषवचनाऽभाव इत्यनेनाऽपवादाऽभावे श्रौतार्थो न त्याज्य इत्यर्थस्य विवक्षितत्वात् ॥ अन्यथाव्याख्यानमिति ॥ ‘भूतेषु देवा विलीयन्त’ इति श्रुतेः । ‘अग्नेर्वायौ’ इत्यादिना कृतमित्यर्थः । मुक्तिप्रकरणत्वात्पूर्वश्रुतौ वायुग्रहणम्, उत्तरश्रुतौ मारुतग्रहणं चाऽयुक्तमित्यत आह ॥ अत्र वायुमारुतपदाभ्यामिति ॥ उक्तक्रमेणेति ॥ ‘इन्द्रस्य सौपर्ण्यां, सौपर्ण्याः सुपर्णे, सुपर्णस्य वाण्यां, वाण्या ब्रह्मणि, इत्युक्तक्रमेणेत्यर्थः । अत्र श्रुतौ सोम आदित्ये, बृहस्पतिर्वायौ, लीयत इत्यर्थोऽभिमतः । तद्धटनाय सोमस्य शेषमार्गस्थत्वात्सोमस्य वायौ लये द्वाराण्याह – सोमस्येति ॥ सूर्यस्य गरुडमार्गस्थत्वाद् द्वाराण्याह – सूर्यस्येति ॥ ‘मरुतो मारुत’ इत्येतद्धटयति ॥ मरुतामिति ॥ इन्द्रसौपर्णी सुपर्णवाणीद्वारेत्यर्थः । अनुसर्गप्रतिपादनादिति ॥ ‘अनन्तरभाविसर्गोऽनुसर्गः । स एव ‘आकाशाद्वायुः’ इत्यत्र देवानामुच्यते न तु प्राथमिको मुख्यसर्गः । स एव लयप्रयोजको नाऽनुसर्ग इति भावः । निर्दिष्टानामेवेति ॥ ‘अग्नावग्नय’ इत्यत्र निर्दिष्टानामग्नीनामेवेत्यर्थः ।

ननु अत्र निर्दिष्टानामेव ‘अग्नौ सर्वे देवा विलीयन्त’ इत्यनेन लय उच्यत इत्यनुपपन्नं, तथात्वे विशिष्याऽनुक्तानां लयाऽभावेन मोक्षो न स्यादित्यत आह ॥ उपलक्षणमेतदिति ॥ ‘अग्नावग्नय’ इति श्रुतिगतमग्नय इति पदं देवान्तरोपलक्षणमित्यर्थः । ‘अग्नावग्नय’ इति श्रुतेरुपलक्षणतया सर्वसङ्ग्राहकत्वेन एतच्छ्रुत्युक्तानामेव ‘अग्नौ सर्वे देवा विलीयन्त’ इत्यत्र लयः प्रतिपाद्यत इत्युक्तिरुपपन्नेति भावः ।

पूर्वपक्षस्तु अग्नावेव सर्वेषां देवानां लयः ‘अग्नौ सर्वे देवा विलीयन्त’ इति श्रुतेः । न च भूतेषु देवा विलीयन्त’ इति श्रुतिविरोधः । सर्वेषां देवानामग्नौ, अग्नेर्वायौ, वायोराकाशे लयाङ्गी-कारेण भूतेषु लयस्याङ्गीकृतत्वाद् अतोऽग्नावेव सर्वेषां देवानां लय इति अधमानामुत्तमेषु लय इत्युक्तव्यवस्थानुपपत्तिरिति ॥

सिद्धान्तस्तु एकस्मिन्नग्नावेव भूते सर्वदेवानां लयो न वाच्यः । ‘पृथिव्यामृभवो विलीयन्ते, आकाश एव साध्या विलीयन्त’ इति श्रुतिभ्यां पञ्चस्वपि भूतेषु लयाभिधानात्, का तर्हि ‘अग्नौ सर्वे देवा विलीयन्त’ इति श्रुतेर्गतिरिति चेद् एतच्छ्रुतिबलेन सर्वशब्दं सङ्कुच्य अग्नौ लययोग्यानामेव देवानां लयपरत्वमिति ब्रूमः । अतोऽग्नावेव सर्वेषां लयाभावादुक्तव्यवस्था युक्तेति सिद्धम् ॥

वाक्यार्थमुक्तावली

अत्र पुनरिति ॥ यदुक्तं भूतेषु देवा लीयन्त इति बहुवचनश्रुतेर्नाग्नौ देवतालय इति तन्न । सर्वदेवानां साक्षादग्निप्रवेशेऽप्यग्नेर्वायौ वायोराकाशे प्रवेशेन भूतेष्विति बहुवचनसम्भवादित्य-भ्यधिकाशङ्कया प्रवृत्तेरनन्तरसङ्गतिरिति भावः । नन्वेवं पूर्वसूत्रोपात्तश्रुतेस्सावकाशत्वाशङ्कया प्रवृत्तमुत्तरं गुणसूत्रमेव स्यान्नाधिकरणान्तरम् । तथात्वे गुणसूत्रमात्रोच्छेदप्रसङ्गः । विषयसंशय-पूर्वपक्षादिभेदाभावात् । पूर्वसूत्रप्रकृतशङ्कापरिहारस्य गुणसूत्रेषु सर्वत्र नियतत्वात् । न्यायविवरणे अधिकरणभेदज्ञापकाभावात् । प्रत्युत सन्न्यायरत्नावल्यामेकाधिकरणत्वेन व्याख्यातत्वात् । प्राचीनैरेवं कृतायामुपन्यासमुखभाष्यतात्पर्यप्रकाशिकायां न्यायरत्नावल्यामेकाधिकरणत्वेन व्याख्या-तत्वादिति चेन्न । अर्थक्लृप्तिसमानलोपन्याययोः शब्दसाम्येऽप्यर्थभेदेन न्यायान्तरत्वमापन्नयोः शङ्कराचार्यैस् तदधिकरणेऽपि योजितत्वेन पृथगधिकरणत्वस्योपपादित्वात् । अन्तर्भेदाधिकरणत्व-विवक्षया टीकाप्रवृत्त्युपपत्तेरिति ज्ञेयम् । अत एव सर्वाण्यन्विति प्रतिज्ञातस्य प्रपन्नमिति न गतार्थता । तदुक्तं तत्वप्रदीपे । अत एव च सर्वाणीति यथाश्रुतानुकूलं यथाबिम्बं प्रतिबिम्ब-भावानुकूलं च सर्वे देवा विलीयन्त इति यः प्रतिज्ञातो लयः सः प्रणिगदित इति ॥ किमिति ॥ अत्र देवाः किमग्नावेव लीयन्त उत पञ्चस्वपि भूतेष्विति चिन्ता । तदर्थमग्नावेव लयाङ्गीकारे बाधकत्वेनोक्तं भूतेष्विति बहुवचनं किं पारम्पर्यविवक्षयाऽमुख्यार्थतया सावकाशमुत साक्षाद्विवक्षया मुख्यार्थतया निरवकाशमिति गतार्थतामाशङ्क्य निषेधति ॥ न चेति ॥

कुतो न वाच्यमित्यतो नैकस्मिन्निति सूत्रखण्डव्यवच्छेद्यमर्थक्लृप्तिरित्युक्तपूर्वपक्षन्यायं व्यनक्ति ॥ एकस्मिन्निति ॥ तदुपपत्तेरिति ॥ भूतेष्विति बहुवचनोपपत्तिरित्यर्थः । कथमुपपत्तिरित्यत आह ॥ अस्तीति ॥ एतच्च वायाविन्द्रस्सोम आदित्यो बृहस्पतिरित्यत्र वारीशलयाधिकरणसोमस्य अग्निलयाधिकरणेन्द्रस्य आकाशोर्वीलयाधिकरणस्य बृहस्पतेश्च वायावेव लयोक्त्या मुक्त्यर्थं लये आदिसृष्टौ चाकाशादिक्रमेणोत्पत्तेस्तद्वैपरीत्येन लयस्य निषेधितत्वात्तद्व्यवच्छेद्यमिति ज्ञेयम् ।

ननु प्रलयकालीनभूतलयस्योत्पत्तिक्रमविपरीतक्रमत्वेऽपि मुक्तिकालीनदेवतालयप्रतिपादक-श्रुतिगतस्य भूतेष्विति बहुवचनस्य कथमुपपत्तिरित्यत आह ॥ मुक्तिश्च प्रलयविशेष इति ॥ मुख्यार्थ इति ॥ अग्नौ देहक्षयेऽप्यग्निद्वारा भूतेषु प्रवेशमात्रमित्यनुव्याख्यानार्थमपहाय साक्षादेव भूतेषु देहलय इति मुख्यार्थः किं न स्यादित्यर्थः ॥ अग्नौ लीयन्त इति ॥ तत्र निर्दिष्टानामे-वेत्युत्तरभाष्ये सर्वशब्दस्य सावकाशत्वोक्तेस्तद्व्यवच्छेद्यं मुख्यार्थानुपपत्तावमुख्यार्थक्लृप्तौ च बीजमर्थापत्तेर्निरवकाशत्वमाह ॥ अग्नाविति ॥ अग्नौ सर्व इति सर्वशब्दः सङ्कोच्यतामित्यतो दर्शयत इति सूत्रखण्डनिवर्तनीययुक्तिमाह ॥ न चात्रेति ॥ भूतेष्वित्यतो वचनव्यत्ययेन भूते इत्यनुवर्तते । देवानां लय इति लभ्यते । हि यस्मात्तथा महोपनिषच्चतुर्वेदशिखे दर्शयत इति सूत्रार्थं स्पष्टयति ॥ नैकस्मिन्निति ॥ दर्शयतीत्यनेनोक्तं समानलोप इति न्यायं भूतेषु देवानां देहलोपः समानो, मानाभ्यां सहित इत्यर्थत्वेन विवृणोति ॥ पृथिव्यामृभव इत्यादिश्रुतिभ्यामिति ॥ उक्तं च न्यायविवरणे विशेषश्रुतेश्चेति । तदनुत्पन्नानां कथं तत्र लय इत्यत आह ॥ येषामिति ॥ साक्षात्परंपरया वा तत्तद्भूतोत्पन्नत्वादित्यर्थः । तत्र वायाविन्द्र इत्यादीनां मरुतां च परम्परयेति वक्ष्यति । साक्षादुत्पन्नतयोक्तेष्वग्निवरुणाकाशपुत्रेषु न विवादः पुत्रत्वादेव । तज्जन्यत्वाश्विनोः साध्यादीनां च कथं वरुणाकाशादिजन्यत्वं विशेषप्रमाणाभावादित्याशङ्क्य वरुणेऽश्विनौ वरुणे आप आकाशे साध्या आकाशे विनायका इति समानलोपश्रुतिसूचितं समानलोप इत्युक्तन्यायं व्यञ्जयन् प्रतिक्षिपति ॥ न चेति ॥ विशेषवचनाभावेऽत एव तदुत्पन्नत्वाभावे चाश्विन्यादि-समानाबाह्यावान्तराभिमानिलयस्थाने वरुणादौ लयोपपत्तेरित्यर्थः । ननु तदुत्पन्नत्वेऽपि स्वसमान-देवतालयस्थाने लयाङ्गीकारे सौपर्ण्यादीनां शेषादौ लयः स्यादित्यतो वोक्तम् ॥ विशेषवचनाभावे चेति ॥ तत्र सुपर्णादौ लये विशेषवचनमस्तीति भावः ।

यद्वा यथाश्विप्रभृतीनां वरुणाद्युत्पन्नत्वे लयवाक्यातिरिक्तं विशेषप्रमाणं नास्ति तथा तेषां तदुत्पन्नत्वाभावेऽपि विशेषप्रमाणाभावे स्वसमानोत्पत्तिस्थानमेव स्वोत्पत्तिस्थानमिति समानाबादि-देवतालयस्थाने वरुणादौ लयस्योत्पत्तेरित्यर्थः । न च न सोश्च नासत्यदस्रौ क्रमशः प्रसूता इत्यादिकमेतदुत्पन्नत्वाभावे विशेषप्रमाणमिति वाच्यम् । तत्र वरुणादुत्पत्त्यनिषेधात् । ‘स्रष्टुस्तु ग्रासभूतस्तु देहस्तत्र लयं व्रजेत्’ इति स्रष्ट्रर्येव देहलय इति नियमग्राहकप्रमाणेन वरुणेऽश्विना-वित्यनेनैव तस्मादुत्पत्तिसिद्धश्चेति स्वरसोऽयमर्थः । तदुक्तं न्यायविवरणे तत्तद्भूतोत्पन्नत्वात्तत्तद्देवानां तत्तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोत्पत्तेरिति । अत्र तत्समानां चेति देहिलीदीपन्यायेनोभयत्र सम्बध्यते ॥ अन्यथाव्याख्यानमिति ॥ भूतेषु देवा इति श्रुतेर् अग्नेर्वाया-वित्यादिनाग्नावेव देहलयस्सर्वेषां भूतेषु तु तद्द्वारा प्रवेशमात्रमित्यन्यथाव्याख्यानमित्यर्थः ॥ उक्त-क्रमेणेति ॥ इन्द्र उमायामिति श्रुत्युक्तक्रमेणेत्यर्थः । ‘सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ

काममसौ सुपर्णम् । सा शेषदेवं सगिरं च सैव वायु’ इत्यनुव्याख्यां मनसि निधायाह ॥ सोमस्येति ॥

सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ।

तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ॥

इत्यनुव्याख्यां मनसि निधायाह ॥ सूर्यस्येति ॥ शक्रं मरुद्गण इत्येतत् हृदि कृत्वाऽऽह ॥ मरुतामपीति ॥ एवमग्नौ सर्वदेवतालयो ऽग्न्यादिभूतानां चोत्तरोत्तरं देहलय इति व्याख्यानमयुक्तं महोपनिषच्चतुर्वेदशिखाविरोधादिति विशेषप्रमाणेन निराकृत्य प्रमाणाभावेन च निराकरोति ॥ भूताभिमानिनामिति ॥ न चोत्पत्तीति ॥ आकाशाद्वायुरिति श्रुतौ अन्योन्योत्पत्तिश्रवणाद्विपर्ययेण तु क्रम इति सूत्रे तद्विपर्ययेण लयोक्तेश्च तद्विरोध इत्यर्थः ॥ तत्र जडानामिति ॥ आकाशादीनां प्रधानोत्पत्त्यभिधानादित्यर्थः । ननु भूतं भूताभिमानी चेति देवानां च गृहीतत्वादित्यत आह ॥ देवानामिति ॥ यद्यपि ‘महदाद्यण्डपर्यन्तं सवर्गोऽण्डे ब्रह्मणस्तु यः । अनुसर्ग इति प्रोक्तः’ इति वचनादयं सर्ग एव नानुसर्गः । तथापि जडविवक्षया सर्गत्वं, देवताविवक्षयाऽनुसर्गत्वमेव । सूक्ष्म-सृष्टेरेवादिसर्गत्वात् । तद्वैपरीत्येनैव देवतालयस्वीकारात् । अत एव जडानां मुख्योत्पत्त्यभिधाना-दित्युक्तमिति भावः । निर्दिष्टानामेव । अग्नावग्नय इति निर्दिष्टानामेवेत्यर्थः । तदुक्तं तत्वप्रदीपे । सर्वशब्दस्य कृत्स्नाग्निपुत्रविषयत्वोपपत्तेरिति भाव इति । ‘विशन्ति शिष्टा अपि हव्यवाहम्’ इत्यनुव्याख्यानं मनसि निधाय सर्वशब्दस्यार्थान्तरमाह ॥ उपलक्षणमिति ॥ अनुव्याख्याने वर्णाश्रमाचारयुता मनुष्या धर्ममिति शिष्टा इत्युक्तनियमन्यायोदितत्वात् प्रायेणेत्युक्तम् ।

तत्त्वसुबोधिनी

अत्र पुनरिति ॥ यदुक्तं पूर्वाधिकरणे अग्नावेव सर्वदेवलयाङ्गीकारे भूतेष्विति बहुवचनविरोध इति तदग्नावेव सर्वदेवलयाङ्गीकारेऽपि अग्नेर् वायौ वायोश्चाकाशे लये अग्नौ लीनानां तेषु लय-सम्भवेन बहुवचनोपपत्तेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ उक्तमेवेति ॥ श्रुतिर् अन्याधीनत्वं चेत्यर्थः । बहुवचननोपपत्तिमेव दर्शयति ॥ अस्ति तावदिति ॥ ‘विपर्ययेण तु क्रमोऽत उपपद्यते च’ इत्युक्तेरिति भावः । ननु प्रलयकालीनभूतलयस्योत्पत्तिक्रमविपरीतक्रमत्वेऽपि मुक्तिकालीनदेवतालयप्रतिपादकश्रुतिगस्येति भूतेष्विति बहुवचनस्योपपत्तिः कथमित्यत आह ॥ मुक्तिश्च प्रलयविशेष इति । तावता बहुवचनोपपत्तिः कथमितित्यत आह ॥ अग्नेरिति ॥ मुख्यार्थ इति ॥ भूतेष्विति श्रुतेर् देवानां साक्षादेव भूतेषु लय इत्येवंरूपमुख्यार्थ इत्यर्थः । दर्शयतो हि इत्यनेन निवर्तनीयपूर्वपक्षमाह ॥ न चात्रेति ॥ द्रष्टव्यः ॥ तेषामिति ॥ तदनुत्पन्नत्वे समान-देवतापरस्वतत्वेन यदि तत्र देवतानां लयस् तर्हि सौपर्ण्यादीनां स्वसमानवारुण्यादिलयस्थाने शेषादौ लयः स्यादित्यत उक्तं विशेषवचनाभावेऽपीति । सौपर्ण्यादीनां विशिष्य गरुडादौ लयस्य उक्त-त्वादिति भावः । अबादिदेवतेत्यत्र वरुणव्यतिरिक्तानां ग्रहणम् ॥ अन्यथाव्याख्यानमिति ॥ भूतेषु देवा इति श्रुतेर् अग्निर् वायौ इत्यादिना कृतमित्यर्थः ॥ उक्तक्रमेणेति ॥ इन्द्र उमायामिति श्रुत्युक्तक्रमेणेत्यर्थः । अग्नावग्नय इति भाष्ये सोमस्य चेति अग्नय इत्यग्निपुत्रा इत्यस्तु वारीशयुतोऽनिरुद्धमित्यनुव्याख्यानोक्तेरिति भावः ॥ सूर्यस्येति ॥ सूर्योऽग्नियुक्तो गुरुमित्यन्यत्रोक्तेर् इति भावः । अत्रादिपदेन सौपर्णीसुपर्णवाण्यो ग्राह्याः ॥ भूताभिमानिनां चेति ॥ तेजोवाय्वाभिमानिनामग्निप्रवहादीनां वाय्वाद्याकाशमानिनोः प्रवहादिविनायकयोर् लयाभावादित्यर्थः ॥ उत्पत्तिश्रुतिविरोध इति ॥ आकाशाद्वायुर् वायोरग्निरिति श्रुतिविरोध इत्यर्थः । विपर्ययेण तु इत्यत्र सर्वदेवानामुक्तोत्पत्तिक्रमवैपरीत्येन लयस्य निर्णीतत्वादिति भावः । ननु भूताभिमानीत्यत्रा-काशादिपदैर् देवानामपि गृहीतत्वात् कथमेतद् इत्यत आह ॥ अनुसर्गप्रतिपादनादिति ॥ विशन्ति शिष्टा अपि हव्यवाहमित्यन्यत्रोक्तेरिति भावः ।

वाक्यार्थविवरणम्

मुख्यार्थ इति ॥ भूतेषु देवा इति श्रुतेर् देवानां भूतेषु लयरूपमुख्यार्थ इत्यर्थः ॥ एतच्छ्रुत्यन्यथानुपपत्तेरिति ॥ अग्नौ सर्वदेवलयानङ्गीकारे ‘अग्नौ सर्वे देवा’ इति श्रुतिरनुपपन्ना स्यादित्यर्थः ॥ अत्रेति ॥ अग्नौ सर्वदेवानां लयो नास्तीत्यत्र विशेषप्रमाणं नास्तीत्यर्थः ॥ उक्तव्यवस्थेति ॥ ‘वाङ्मनसि, तन्मनः प्राणे, सोऽध्यक्ष’ इत्युक्तव्यवस्थेत्यर्थः ॥ अत्रेति ॥ ‘पृथिव्यामृभवो विलीयन्त ऋभवः पृथिव्यामिति श्रुतिद्वय इत्यर्थः । अश्विप्रभृतीनामित्यत्र प्रभृतिशब्देनोक्तशेषशतस्थदेवान्तर्गतानां केषाञ्चिद्ग्रहणम् ॥ न तत्रेति ॥ तथा च वरुणेऽश्विनाविति उक्तमनुपपन्नमित्यर्थः ॥ स्वसमानाबादिदेवतेति ॥

ननु अब्देवताया वरुणस्याश्विनोः सकाशादत्युत्तमत्वेन कथमश्विसमानत्वमिति चेन्न । अतद्गुणसंविज्ञानबहुव्रीहिणा अब्देवतां वरुणं विहायाकाशाभिमानिगणपतेर्विष्वक्सेनस्य वा कुबेरस्य वा ग्रहणम् । ‘विष्वक्सेनोऽश्विनौ तौ गणपतिधनपा’ इत्युक्तत्वेन गणपत्यादीनामश्विसमानत्वात् । तथा चायं विवेकः । ‘आकाशमुर्वीं च गुरुं प्रविश्य’ इत्युक्तत्वादश्विनोः समानाकाशाभिमानिगण-पतिलयस्थाने बृहस्पतौ लयोपपत्तेरित्यर्थः । अथवा अनिरुद्धं पृतनाधिपाद्या इत्युक्तत्वादश्विनोः स्वसमानपृतनाधिपशब्दवाच्यविष्वक्सेनलयस्थाने अनिरुद्धे लयोपपत्तेरिति । यद्वा । ‘सुरानुगाः सर्वे कुबेरं स च सोममेव’ इत्युक्तत्वादश्विनोः स्वसमानकुबेरस्थाने सोमे लयोपपत्तेरित्यर्थः । तथा च वरुणादावित्यत्र वरुणेऽश्विनावित्यत्र वरुणशब्देन जहत्स्वार्थलक्षणया बृहस्पतेरनिरुद्धस्य सोमस्य वा ग्रहणम् इति ज्ञातव्यमिति महान् सम्प्रदायः ॥ उक्तक्रमेणेति ॥ सौपर्णी सुपर्णवाणी-द्वारा हिरण्यगर्भे विलीयत इत्यर्थः । शक्रं मरुद्गणा इत्युक्तत्वादाह ॥ मरुतामपीति ॥ इन्द्रादि-द्वारेति ॥ इन्द्रसौपर्णीसुपर्णवाणीद्वारा हिरण्यगर्भे लय इत्यर्थः । ‘भूतेषु देवा लीयन्त’ इति श्रुतिरुपपद्यते । ‘अग्नेर्वायौ वायोरकाशे विलयात्’ इत्यन्यथाव्याख्यानं विशेषश्रुतिद्वयबलहेतुना निराकृत्याधुनाऽ-न्योऽन्यलयाभावरूपहेतुना पराचष्टे ॥ भूताभिमानी चेति ॥ तेजोऽभिमानिनोऽग्नेर्भूतवाय्वभिमानिनि प्रवहे वाय्वभिमानिनः प्रवहस्याकाशाभिमानिन विनायके लयाभावादिति भावः ।

उत्पत्तिश्रुतिविरोध इति ॥ आकाशाद्वायुरित्यादि, उत्पत्तिश्रुतिस्तावदस्ति । तथा च तद्विपरीतक्रमेणैव लयो वक्तव्यः । अन्यथोत्पत्तिश्रुतिवैय्यर्थ्यापत्तेरिति भावः ॥ अत्रेति ॥ आकाशाद्वायुरित्यादिश्रुतौ ॥ अनुसर्गेति ॥ ब्रह्माण्डान्तरुत्पत्तिरित्यर्थः । तथा चादिसृष्टि-वैपरीत्येनैव देवानां देहलयः । आदिसृष्टिस्तु नैवमिति भाव इति श्रुत्या लयोऽभिधीयत इति । सम्बन्धः केषामित्यत उक्तम् ॥ उदाहृतश्रुताविति ॥ ‘पृथिव्यामृभव’ इत्यादिश्रुतावित्यर्थः ॥ निर्दिष्टानाम् ॥ ‘आग्नावग्नयो,’ ‘अग्नयस्तेजसि’ इति निर्दिष्टानाम् । तथा च ‘अग्नौ सर्वे देवा’ इत्यत्र सर्वदेवशब्देन ‘अग्नावग्नयोऽग्नयस्तेजसि’ इति प्रधानाग्नौ लीयमानत्वेन निर्दिष्टाः । ये एकोन-चत्वारिंशदग्नयस् त एव ग्राह्या इत्यर्थः । अत एव प्रधानाग्नेरनलकुलेन्द्रत्वप्रसिद्धिरित्यवगन्तव्यम् । ‘अग्नौ सर्वे देवा इत्यस्य ‘विशन्ति शिष्टा अपि हव्यवाहम्’ इत्यनुव्याख्यानानुसारेण विषयान्तरमाह ॥ उपलक्षणमेतदिति ॥ अनुव्याख्यानोक्तशिष्टपदार्थमाह ॥ प्रायेणाधमानामिति ॥ व्यवस्थेति ॥ ‘वाङ्मनसि, तन्मनः प्राण’ इत्यादिनोक्ता व्यवस्थेत्यर्थः । श्रुतौ ‘आकाशे विनायका विलीयन्त’ इत्यत्र पूर्वश्रुत्यनुसारेण विनायका इत्यस्य साध्या इत्यर्थो ज्ञातव्यः । अथवा एतच्छ्रुत्यनुसारेण ‘साध्या’ इत्यस्य ‘विनायका’ इत्यर्थो द्रष्टव्यः । तथा च विनायकाः क्षुद्रविघ्नाभिमानिनो देवा आकाशे विघ्नेशे विलीयन्त इत्यर्थो द्रष्टव्यः ।

वाक्यार्थमञ्जरी

तदेवोपपादयति ॥ अस्तीत्यादिना ॥ ननु प्रलयकालीनभूतलयस्योत्पत्तिक्रम विपरीत-क्रमवत्त्वेऽपि मुक्तिकालीनदेवतालयप्रतिपादकश्रुतिगतस्य भूतेषु देवा इति बहुवचनस्योपपत्तिः कथमित्यत आह ॥ मुक्तिश्चेति ॥ मुख्यार्थ इति ॥ भूतेष्विति श्रुतेर्देवानां साक्षादेव भूतेषु लय इत्येवंरूपं मुख्यार्थ इत्यर्थः । अत्र उक्तमुख्यार्थे ॥ ॐ नैकस्मिन् दर्शयतो हि ॐ ॥ एकस्मिन्नग्नावेव सर्वदेवानां लयः कुतो हि यस्मात्पृथिव्यामृभव इति ऋभवः पृथिव्यामिति श्रुती प्रत्येकं भूतेषु दर्शयतो इत्यर्थः । युक्तिं चाह ॥ येषामिति ॥ ननु यदि तदनुत्पन्नत्वेऽपि स्वसमानदेवतालयस्थानत्वेन तत्र देवानां लयस्तर्हि सौपर्ण्यादीनां स्वसमानवारुण्यादिलयस्थाने शेषादौ लयः स्यादित्यत उक्तम् ॥ विशेषवचनाभावे चेति ॥ सौपर्ण्यादीनां तु विशिष्य गरुडादौ लयस्योक्तत्वादिति भावः ॥ अन्यथाव्याख्यानमिति ॥ भूतेषु देवा इति श्रुतेरग्नेर्वायावित्यादिना कृतमित्यर्थः ॥ उक्तक्रमेणेति ॥ इन्द्र उमायामिति श्रुत्युक्तक्रमेणेत्यर्थः । युक्त्यन्तरेणा-न्यथाव्याख्यानं निराकरोति ॥ भूताभिमानिनामिति ॥ तेजोवाय्वभिमानिनामग्निप्रवहादीनां वाय्वाकाशाभिमानिनोः प्रवहविनायकयोर्लयाभावादित्यर्थः । लयाभावाच्चेति सम्बन्धः ॥ उत्पत्तिश्रुतिविरोध इति ॥ आकाशाद्वायुर्वायोरग्निरिति श्रुतिविरोध इत्यर्थः । विपर्ययेण तु क्रमोऽत उपपद्यते चेत्यत्र सर्वदेवानामुत्पत्तिक्रमवैपरीत्येन लयस्य निर्णीतत्वादिति भावः । ननु भूतं भूताभि-मानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाशशब्दोक्त इत्यनुव्याख्याने आकाशादिशब्दैर्देवानामपि गृहीतत्वात्कथं जडमात्रग्रहणमित्यत आह ॥ देवानां त्विति ॥ आदिसर्गान्तर्भावी अनुसर्ग आदिसर्गवैपरित्येनैव देवानां लय इति भावः ॥

॥ इति अनेकलयाधिकरणम् ॥ ५ ॥