०४ भूताधिकरणम्

ॐ भूतेषु तच्छ्रुतेः ॐ

४. भूताधिकरणम्

सूत्रभाष्यम्

॥ ॐ भूतेषु तच्छ्रुतेः ॐ ॥ ५ ॥

भूतेष्वन्येषां देवानां लयः । ‘भूतेषु देवा विलीयन्ते भूतानि परे न पर उदेति नास्तमेत्यकल एव मध्ये स्थाता’ इति बृहच्छ्रुतेः ॥

॥ इति भूताधिकरणम् ॥ ४ ॥

तत्त्वप्रदीपिका

अत्रोक्तेभ्योऽन्येषां देवानां भूतेषु लयः ।

तत्त्वप्रकाशिका

अत्र देवानां परमात्मप्राप्त्यर्थं समस्तभूतेषु लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अग्नावेव सर्वलये प्रागुक्तन्यायबाधः स्यादतः समर्थनीयमेतत् । ‘अग्नौ सर्वे देवा विलीयन्ते’ इत्युक्तदेवा विषयः । किमेकस्मिन्नग्नावेव लीयन्ते उत भूतान्तरेऽपीति सन्देहः । श्रुतिरन्याधीनत्वं च सन्देहबीजम् । अग्नावेव सर्वदेवानां लय इति पूर्वः पक्षः । ‘अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुतिर्विपर्यये प्रमाणा-भावाच्च । न चान्याधीनत्वादन्यत्र लयः । नियामकानां बाहुल्येन तस्यानिर्णायकत्वात् । अतोऽशेषदेवानामग्नावेव लयाद्यदुक्तमधमानामुत्तमेषु लय इति तदयुक्तमिति । सिद्धान्तयत्सूत्र-मुपन्यस्य व्याचष्टे ॥ भूतेष्विति ॥ येऽत्र विशिष्योक्तेभ्योऽन्ये देवास्तेषां पञ्चस्वपि भूतेषु लयो न त्वेकस्मिन्नग्नावेव । ‘भूतेषु देवा’ इति श्रुतेरेवेत्यर्थः । ‘अत्र भूतानि परे’ इति न साक्षात् । आकाशोर्व्योर्बृहस्पतिद्वारा । भूतवायोः प्रवहस्येन्द्रद्वारा । अपां सोमद्वारेऽपि अतः सर्वेषामग्नौ लयाभावादुक्तं युक्तमिति सिद्धम् ॥

गुर्वर्थदीपिका

येऽत्र विशिष्योक्तेभ्य इत्यस्याग्नावग्नय इति विशिष्योक्तेभ्य इत्यर्थः ।

भावबोधः

अग्नावेव सर्वलये प्रागुक्तन्यायबाधः स्यादिति । पूर्वाधिकरणेषु वागादीनां मनआदिषु लये तन्नियामकतया ततोऽधमत्वं यद्धेतुतयोक्तम्, तन्न युक्तम् । अग्नौ सर्वे देवा विलीयन्त इत्यग्न्युत्त-मानामप्यग्नौ लयस्य श्रुतत्वेन व्यभिचारादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ केचिद्देवा अग्नौ केचिद्भूतान्तरेऽपीत्यर्थः । अत्र सर्वे देवाः किमेकस्मिन्नग्नावेव लीयन्ते उत सर्वेष्वपि भूतेषु लीयन्त इति चिन्ता । तदर्थम् अग्नौ सर्वे देवा विलीयन्ते इति श्रुतिः किम-सङ्कुचितार्थोत सङ्कुचितार्थेति । तदर्थं सर्वेष्वपि भूतेषु देवानां लये विशेषप्रमाणं नास्त्युतास्तीति ॥ अन्याधीनत्वमिति ॥ इन्द्राश्विन्यादीनां वायुवरुणादिभूतान्तराधीनत्वमित्यर्थः ॥ विपर्यय इति ॥ भूतान्तरे लय इत्यर्थः ॥ नियामकानां बाहुल्येनेति ॥ अश्विनिप्रभृतिनियामकानां वायुवरुणादि-भूतानां च बाहुल्यमित्यर्थः ॥ अत्र ये विशिष्योक्तेभ्य इति ॥ ‘वाङ्मनसि’ इत्याद्यधिकरणत्रये शेषसुपर्णचतुर्मुखपरमात्मसु लीयमानत्वेनोक्तेभ्यो वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्य इत्यर्थः । तेषां विशिष्य लयोक्तेरुक्तसन्देहाविषयत्वादिति भावः । यद्यपि वारुण्यादिचतुर्णामिन्द्रादिवदस्ति वायौ देहलयः, तथापि न भूताभिमानित्वं तद्देहलयाधिकरणतावच्छेदकं, किं तु प्राणत्वमेव । इन्द्रादि-देहलयाधिकरणतावच्छेदकं तु, भूताभिमानित्वम् । ‘वायाविन्द्र इति’ तत्प्रतिपादकश्रुतौ इन्द्रादीनां ग्रहणाद्वारुण्यादीनामग्रहणादिति द्रष्टव्यम् । भूतेषु देवा इति श्रुतेरेवेति । तथा च विपर्यये प्रमाणाभावः सिद्ध इत्यर्थः । न चाग्नौ सर्वे देवा इति श्रुतिविरोधः, भूतेषु इति बहुवचनस्य निरवकाशत्वेन तच्छ्रुतेर्बाधितत्वात् । तस्याश्च सावकाशत्वस्य वक्ष्यमाणत्वात् । न च नियामक-बाहुल्येनानिर्णय इति वाच्यम् । वक्ष्यमाणश्रुत्यनुसारेण निर्णयोपपत्तेरिति भावः । तदिदमुक्तं श्रुतेरेवेति एवकारेण । ‘आकाश उर्वी च गुरुं प्रविश्य’ इत्यनुव्याख्यानं मनसि निधायाह– आकाशोर्व्योर् बृहस्पतिद्वारेति ॥ ‘‘शक्रं मरुद्गणाः’’ इत्यनुव्याख्यानं मनसि निधायाह– भूतवायोरिति ॥ ‘सोमस्तु वारीशयुतः’ इत्यनुव्याख्यानं मनसि निधायाह– अपां सोमद्वारेति ॥ अस्मिन्नधिकरणे ‘भूतेषु तच्छ्रुतेः’ ‘नैकस्मिन् दर्शयतो हि’ इत्यनयोरधिकरणयोरनतिभिन्नार्थ-कत्वात् पृथङ्न्यायविवरणाभावः । अत एव न्यायविवरणे ‘तन्मनः प्राण उत्तरात्’ इत्यधिकरण-सम्बन्धित्वेन अनुव्याख्यानोक्तकार्यकारणतादार्ढ्यलक्षणपूर्वोत्तरपक्षयुक्त्योः ‘सोऽध्यक्षे तदुपगमा-दिभ्यः’ इत्यस्मिन्नधिकरणे ‘सोऽध्यक्षे’ इत्यस्याप्येवमेवाशङ्कापरिहारश्चेत्यतिदेशवदत्र युक्त्यतिदेशो न कृतः ।

भावदीपः

समस्तभूतेष्विति ॥ तत्र तत्र लये तत्तदधीनत्वस्यातन्त्रतया अग्नावेव लयद इति शङ्का-प्राप्ताविति भावः । तेन तदुपगमादिभ्य इत्यनेन प्रागुक्ततदधीनत्वहेतुना तत्र लय इत्युक्तस्याक्षेपा-त्पूर्वसङ्गतिरपि सूचिता । अत एवाह ॥ प्रागुक्तन्यायबाध इति ॥ अग्नौ अग्न्यभिमानिनि ॥ भूतान्तरेऽपि भूतान्तराभिमानिन्यपीत्यर्थः ॥ श्रुतिरिति ॥ ‘अग्नौ सर्वे देवा’ इति श्रुतिः । अन्याधीनत्वं देवान्तराधीनत्वम् । विपर्यय इति देवान्तरे लय इत्यत्रेत्यर्थः । प्रागुक्तहेतुमेव प्रमाणत्वेनाशङ्क्य निराह ॥ न चान्येति ॥ बाहुल्येनेति ॥ साक्षात्स्वनियामकमारभ्याध्यक्षपर्यन्तं नियामकानां बहुत्वेनेत्यर्थः । भाष्यं व्याचष्टे ॥ अत्रेति ॥ वाङ्मनसीति श्रुतौ विशिष्योक्तेभ्यो वागादिभ्य इत्यर्थः । भूतेषु स्वजनकभूतमानिष्वित्यर्थः । नियामकबहुत्वेऽपि यतो यस्योद्भवस्तत्र तस्य लय इति निर्णयोपपत्तेरिति भावः । भूतानां साक्षात्परे लयाभावात् । आकाश उर्वीच गुरुं प्रविश्येति शक्रं मरुद्गणा इति सोमस्तु वारीशयुतोऽनिरुद्धमित्यनुभाष्योक्तरीत्याऽऽह ॥ अत्रेति ॥ अत इति ॥ पञ्चस्वपि भूतेषु लयश्रवणादित्यर्थः ॥

अभिनवचन्द्रिका

प्रागुक्तन्यायबाधः स्यादिति ॥ ‘अग्नौ सर्वे देवा विलीयन्त’ इति उत्तमानामपि अग्नौ लयश्रवणात् तत्र लये ‘तदधीनत्वमेव प्रयोजकम्’ इत्युक्तन्यायबाधप्रसङ्गात् समर्थनीयमेतदित्यर्थः । किमिति ॥ केचिदग्नौ, केचिद्भूतान्तरे, उत सर्वे अग्नावेव लीयन्त इति संदेह इत्यर्थः । विपर्यय इति ॥ भूतान्तरेऽपि लय इत्यर्थः । येऽत्र विशिष्योक्तेभ्य इति । वाङ्मनसि’ इत्याद्यधिकरणत्रयोक्तेभ्यः वारुणीशेषसौपर्णीसुपर्णचतुर्मुखेभ्योऽन्ये ये देवास् तेषां यथायोगं पञ्चस्वपि भूतेषु लयः, न तु अग्नावेवेति नियम इत्यर्थः । यद्यपि वारुण्यादिचतुर्णाम् इन्द्रादिवदस्ति वायौ देहलय इति, उक्तेभ्योऽन्येषां भूतेषु लय इति न वक्तव्यम्, तथापि न भूताभिमानित्वं तद्देहलयप्रयोजकं, किन्तु प्राणत्वमेव । भूतेषु लयप्रतिपादक ‘वरुणोश्विनौ’ इत्यादिश्रुतौ ‘वायाविन्द्र’ इति विशिष्योक्तः । अन्यथा वायाविन्द्रादय इत्यवक्ष्यद् इति भावेन विशिष्योक्तेभ्योऽन्य इत्युक्तम् ।

पूर्वपक्षस्तु अग्नावेव सर्वेषां देवानां लयो न तु ऋभूणां पृथिव्याम्, अग्नीनामग्नौ, अश्विनोर्वरुणे, वायाविन्द्रस्य, साध्यानामाकाश इति सिद्धान्त्यभिमतो विभागेन भूतेषु लयः । ‘अग्नौ सर्वे देवा विलीयन्त’ इति श्रुतेः । विपर्यये च प्रमाणाभावात् । अतोऽशेषदेवानामग्नौ लयादुक्तमयुक्तमिति ।

सिद्धान्तस्तु नाऽग्नावेव सर्वेषां लयः विशिष्योक्तेभ्योऽन्येषां योग्यतानुसारेण तत्तद्भूतेषु लयः । ‘भूतेषु देवा विलीयन्ते’ इति श्रुतेः । न च ‘अग्नौ सर्वे देवा’ इति श्रुतिविरोधः । ‘भूतेषु’ इति निरवकाशबहुवचनश्रवणबलेन पूर्वश्रुतेः सङ्कोचनीयत्वात् । अतः सर्वेषामग्नौ लयाभावादुक्तं युक्तमिति सिद्धम् ।

वाक्यार्थमुक्तावली

प्रागुक्तन्यायबाध इति । योऽधमस्स उत्तमे लीयत इति न्यायबाधः । अधमेऽप्युत्तमलय-प्राप्तेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र सर्वे देवाः किमग्नावेव लीयन्त उत सर्वेष्विति चिन्ता । तदर्थमग्नौ सर्वे देवा विलीयन्त इति श्रुतेः सङ्कोचकल्पकं विशेषप्रमाणं नास्त्युतास्तीति ॥ अन्याधीनत्वमिति ॥ इन्द्रादीनां वायुवरुणरूपभूतान्तराधीनत्वमित्यर्थः । नन्वग्नौ सर्वे देवा इति सर्वशब्दस्य सङ्कोचः किं न स्यादसंकुचितार्थत्वं कुत इत्यतस्तच्छ्रुतेरिति सूत्रनिरस्यमर्थक्लृप्तिरित्युक्तन्यायं प्रदर्शयितुमाह ॥ विपर्यय इति ॥ केषाञ्चिद् भूतान्तरे लय इत्यत्र विशेषप्रमाणाभावेन निर्बाधयाऽनयैव श्रुत्या सर्वदेवानामग्नौ लय इत्यसङ्कुचितार्थक्लृप्त्युपपत्तेरिति भावः । युक्तिरूपं विपर्ययबोधकं प्रमाणमाशङ्क्यापाकरोति ॥ न चेति ॥ अश्विप्रभृतीनां वरुणा-द्यधीनत्वादित्यर्थः ॥ नियामकानामिति ॥ अश्विप्रभृतिनियामकानां वायुवरुणादिभूतानां बाहुल्येनेत्यर्थः । अत एव च सर्वाणीति सूत्रात्सर्वाणीत्यनुवर्तते । तथा च देवा इति लभ्यते । पूर्वविरोधपरिहाराय पूर्वोक्तेभ्योऽन्य इत्युपस्कर्तव्यम् । तथा च वाङ्मनसीत्याद्यधिकरणत्रये शेष-सुपर्णचतुर्मुखपरमात्मसु लीयमानत्वेनोक्तेभ्यो वारुणीसुपर्णीशेषसुपर्णचतुर्मुखेभ्योऽन्ये देवा भूतेषु भूताभिमानिषु लीयन्ते । न त्वेकस्मिन्नग्नावेव । कुतस् तच्छ्रुतेर् भूतेषु देवानां लयस्य श्रवणादिति भावेन व्याचष्टे ॥ येऽत्रेति ॥ अनेन समानलोप इत्युक्तसिद्धान्तन्यायोऽपि भूतेषु देवा इति मानसाहित्यात्पञ्चस्वपि भूतेषु लोपो लयः न त्वग्नाविति सूत्रारूढो भवति । यद्यपि न्यायविवरणे-नैतौ पूर्वोत्तरपक्षन्यायावेतदधिकरणत्वेन योजितौ तथापि सम्बन्धदीपिकायां शङ्कराचार्यैरे-तदधिकरणेऽप्येतयोर्न्याययोर्व्याख्यातत्वादत्राप्यनुसन्धेयौ । तर्हि सोऽध्यक्ष इत्यत्राप्येवमेव शङ्का-परिहारश्चेति न्यायविवरणे पूर्वातिदेशवदत्रोत्तरानुकर्षो व्याख्येयः । प्रथमातिक्रमे कारणाभावश्चेति चेन्न । अस्याधिकरणस्य सामान्यतः भूतेषु देवा विलीयन्त इति सामान्यप्रमाणप्रदर्शकतया प्रष्टव्यत्वादुत्तरस्याभ्यधिकाशङ्कायां विशेषप्रमाणोपन्यासेन तत्परिहाराय प्रवृत्तत्वात्तस्य प्राधान्य-विवक्षायां तद्भेदाधिकरणत्वविजिज्ञापयिषया च न्यायविवरणे तत्रैव न्यायस्य विवृतत्वेऽप्यत्र तदनुकर्षाविरोधात् । स्पष्टं चैतत्सर्वं शङ्कराचार्यकृतसम्बन्धदीपिकायाम् । आकाश उर्वी च गुरुं प्रविश्य । शक्रं मरुद्गणः । सोमस्तु वारीशयुतोऽनिरुद्धमित्यनुव्याख्यानवचनानि मनसि निधायाह ॥ आकाशोर्व्योरित्यादिना ॥

तत्त्वसुबोधिनी

अग्नावेव सर्वलय इति ॥ पूर्वाधिकरणेषु वागादीनां मन आदिषु लये तन्नियम्य न्यायतोऽ-धमत्वं यद्धेतुतयोक्तं तन्न युक्तम् । अग्नौ सर्वे देवा विलीयन्ते इति अग्न्युत्तमानामप्यग्नौ लयस्य श्रुतत्वेन व्यभिचारादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ केचिद् देवा अग्नौ केचिद् भूतान्तरेऽपीत्यर्थः । अन्याधीनत्वमिति ॥ इन्द्राश्विन्यादीनां वायुवरुणरूपभूतान्तरा-धीनत्वमित्यर्थः ॥ विपर्यय इति ॥ भूतान्तरे लय इत्यर्थः ॥ नियामकानां बाहुल्येनेति ॥ अश्विनिप्रभृतिनियामकानां वायुवरुणादिभूतानां च बाहुल्यमित्यर्थः । अत्र विशिष्योक्तेभ्यः वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्य इत्यर्थः । तेषां विशिष्यलयोक्तेरुक्तसंदेहाविषयत्वादिति भावः । तथापि न भूताभिमानित्वं तद्देहलयाधिकरणतावच्छेदकं किं तु प्राणत्वमेव । इन्द्रादिदेहलयाधि-करणतावच्छेदकं तु भूताभिमानित्वम् । वायाविति तत्प्रतिपादकश्रुतौ इन्द्रियकानां ग्रहणाद् वारुण्यादीनामग्रहणादिति द्रष्टव्यम् ॥ भूतेषु देवा इति ॥ तथा च विपर्यये प्रमाणाभावोऽसिद्ध इत्यर्थः । न चाग्नौ सर्वे देवा इति श्रुतिविरोधः । भूतेष्विति बहुवचनस्य निरवकाशत्वेन श्रुतिबाधितत्वात् । वक्ष्यमाणश्रुत्यनुसारेण निर्णयोपपत्या नियामकबाहुल्येनातिनिर्णयोऽपि चेति भावः । आकाशत्वेन आकाश उर्वीं च गुरुं प्रविश्य इत्यनुव्याख्यानं मनसि निधायाह ॥ आकाशोर्व्योरिति ॥ भूतवाय्वोरिति ॥ शक्रं मरुद्गणा इत्यन्यत्रोक्तेरिति भावः ॥

वाक्यार्थविवरणम्

प्रागुक्तेति ॥ अधमानामुत्तमेषु लयो नोत्तमानामधमेष्विति पूर्वोक्तन्यायबाधः स्यादित्यर्थः । ‘आकाश उर्वीं च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम्’ इत्युक्तं मनसि निधायाह ॥ आकाशोर्व्योरिति ॥ विघ्नेशभूदेव्योरित्यर्थः ॥ बृहस्पतिद्वारेति ॥ बृहस्पतिशक्रसौपर्णी-सुपर्णसरस्वतीद्वारा परे लय इत्यर्थः । शक्रं मरुद्गणा इत्युक्तिं हृदि निधायाह ॥ भूतवाय्वोरिति ॥ इन्द्रद्वारेति ॥ इन्द्रसौपर्णीसुपर्णवाणीचतुर्मुखद्वारा परे लय इत्यर्थः ॥ अपां सोमद्वारेति ॥ वरुणस्य सोमानिरुद्धकामवारुणीशेषवाणीचतुर्मुखद्वारा परे लय इत्यर्थः ।

वाक्यार्थमञ्जरी

प्रागुक्तेति ॥ अत एव च सर्वाण्यनु इत्युक्तस्याधमानामुत्तमेषु लयस्य बाध इत्यर्थः ॥ अन्याधीनत्वमिति ॥ इन्द्राश्विन्यादीनां वायुवरुणरूपभूतान्तराधीनत्वमित्यर्थः ॥ विपर्यय इति ॥ भूतान्तरलय इत्यर्थः । नियामकबाहुल्येनेति ॥ अश्विनीप्रभृतिनियामकानां वायुवरुणरूपभूतानां बाहुल्येनेत्यर्थः ॥ ॐ भूतेषु तच्छ्रुतेः ॐ ॥ प्रागुक्तेभ्योऽन्ये देवा भूतेषु पञ्चसु देहाभिमानिषु लीयन्ते न त्वेकस्मिन्नग्नौ कुतस् तच्छ्रुतेस् तस्य भूतेषु देवलयस्य भूतेषु देवा इति श्रवणादित्यर्थः ॥ अत्र विशेष्योक्तेभ्य इति ॥ वाङ्मनसीत्याद्यधिकरणत्रये शेषसुपर्णचतुर्मुखपरमात्मसु क्रमेण लीयमानत्वेनोक्तेभ्यो वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्य इत्यर्थः । तेषां विशिष्यलयोक्तेरुक्त-सन्देहाविषयत्वादिति भावः ॥

॥ इति भूताधिकरणम् ॥ ४ ॥