०३ अध्यक्षाधिकरणम्

ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ

अध्यक्षाधिकरणम्

सूत्रभाष्यम्

ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ ॥ ४ ॥

स प्राणः परमात्मनि विलीयते । ‘सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः परमनुप्राणिति तस्मादाहुः प्राणस्य प्राण इति’ ‘प्राणः परस्यां देवतायाम्’ ।

‘मुक्ताः सन्तोऽग्निमाविश्य देवाः सर्वेऽपि भुञ्जते ।

अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोऽपि तु ।

आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् ॥

न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथञ्चन ।

किमु विष्णोः परानन्दो न ते विष्णाविति श्रुतेः ॥

प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् ।

सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम्’ इत्यादिश्रुतिस्मृतिभ्यः ॥ ४ ॥

॥ इति अध्यक्षाधिकरणम् ॥ ३ ॥

तत्त्वप्रदीपिका

‘‘इन्द्रश्च वायुमाविश्य’’ इति पूर्वोक्तसुपर्णीसुपर्णवाणीद्वारेणेति द्रष्टव्यम् । सावकाशानवकाशयोरनवकाशस्य बलवत्त्वात् ।

‘इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत्’ इति च ।

‘आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान्’ ॥

परमात्मस्वरूपानन्दादन्यमुक्तमानन्दाच्च बाह्यं स्वानन्दं भुङ्क्ते । निर्गतस्तु बाह्यविषयभोगानपि कांश्चित्स्वयोग्यान् भुङ्क्त इत्यर्थः । ‘प्राणस्तेजसि’ इत्यस्य गतिमाह–

‘प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम्’ इति ।

‘मुक्तावुमा तु वागाख्या रुद्रं याति मनोऽभिधम् ।

वायुं याति शिवश्चापि वायुस्तेजोऽभिधां श्रियम् ॥

वायुमादाय सा देवी याति विष्णुं परात्परम् ।

द्वारमात्रा तु सा देवी वायुप्राप्यो जनार्दनः ।

मुक्तिकाले च मुक्तौ च पुरुषा वायुमाप्नुयुः’ इति सत्तत्वे ॥

॥ इत्यध्यक्षाधिकरणम् ॥

तत्त्वप्रकाशिका

अत्र प्राणस्य मोक्षसिध्यर्थं परमात्मनि लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा कस्यापि मोक्षाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतः प्राणोऽत्र विषयः । किं परमात्मनि लीयते न वेति सन्देहः । पूर्वोक्तं सन्देहबीजम् । प्राणो न परमात्मनि लीयत इति पूर्वः पक्षः । तस्य तदधीनत्वा-निश्चयात् । न च वाच्यं ‘चक्षुरादिवत्’ (२-४-११) इत्यादौ तदुक्तमिति । तस्यानन्याधीनत्वेऽपि श्रुतिसद्भावात् । न च तस्या गत्यन्तरं चोक्तमिति वाच्यम् । अनन्याधीनत्वे प्राणस्य श्रुतिबाहुल्य-सद्भावात् । बाहुल्यस्य प्राबल्यहेतुत्वात् । न हि प्रबलस्य दुर्बलेन बाधः । वैपरीत्यस्यैवोचितत्वात् । महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्ति’ इति प्राणस्य लयाभावोक्तेश्च । अतः प्राणस्य परमात्मनि लयाभावेन कस्यापि मोक्षाभाव इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ स इति ॥ प्राणो हिरण्यगर्भः परमात्मनि लीयत एव तस्य तदधीनत्वात् । न च तदनिर्णयः । तदधीनत्वेऽपि श्रुत्यादिबाहुल्यसद्भावात् । न च साम्यम् । तदधीनत्वश्रुतीनां निरवकाशत्वात् । स्वातन्त्र्यश्रुतीनां तु ‘सर्वे प्राणमुपगच्छन्ति’ इति न्यायेन सावकाशत्वात् । सावकाशनिरवकाशयोश्च निरवकाशस्य प्राबल्यात् । अनद्यमान इति चान्यैरनद्यमान इत्यर्थोपपत्तेरिति भावः । बाह्यकानित्येतदेवोपपादयति ॥ न हीति ॥ ननु ‘प्राणस्तेजसि’ इति श्रुतेः प्राणस्य रमायां लयो न परमात्मनीत्यत आह ॥ प्राणस्येति ॥ चतुर्मुखस्य तेजसि लयो नाम तत्प्राप्तिमात्रं न तु तत्र देहलयः । तस्य साक्षात्परमात्मनि लययोग्यत्वादिति भावः । प्राणत्वेऽस्त्येव तेजसि लयः । अतो विरिञ्चस्य हरौ लयसद्भावाद्युक्तः सर्वज्ञानिनां मोक्ष इति सिद्धम् ॥

गुर्वर्थदीपिका

यदनन्नमत्तीत्यत्रानन्नमन्येषामनन्नमित्यर्थः ।

भावबोधः

अत्रानन्तरसङ्गतिः प्रागेवोक्ता ॥ कस्यापीति ॥ चतुर्मुखप्रवेशेनैव सर्वेषां मुक्तिरिति भावः ॥ किं परमात्मनीति ॥ अत्र प्राणः किं परमात्मनि न लीयत उत लीयत इति चिन्ता । तदर्थं प्राणः परमात्माधीनो न भवत्युत भवतीति । तदर्थम् ‘चक्षुरादिवत्’ इति प्रागुक्तं प्राणस्य परमात्माधीनत्वं प्राणस्य स्वातन्त्र्यादिप्रतिपादकबहुश्रुतिबाधितं भवत्युत न भवतीति । तदर्थं प्राणस्वातन्त्र्य-प्रतिपादकश्रुतिः किं निरवकाशोत सावकाशेति । तदर्थं प्राणस्य परमात्माधीनत्वे विशेषप्रमाणं नास्त्युतास्तीति ॥ पूर्वोक्तमेवेति ॥ प्राणस्य भगवदुत्पन्नत्वं विशेषादर्शनं चेत्यर्थः । एतदुपपादनं पूर्ववज्ज्ञातव्यम् । ‘सोऽध्यक्षः’ इत्यस्याप्येवमेव शङ्का । श्रुतिबाहुल्यमेव शङ्कायां विशेषहेतुरिति न्यायविवरणाभिप्रायमाह– तस्य तदधीनत्वेत्यादिना ॥ गत्यन्तरं चोक्तमिति ॥

‘अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात्’ इत्यादिना चक्षुरादिवद् इत्यत्रोक्तमित्यर्थः । लयाभावोक्तेश्चेति ॥ अनेन श्रुतिबाहुल्यमिति न्यायविवरणं लयाभावेऽपि श्रुतिबाहुल्यमिति व्याख्यातं भवति । तदधीनत्वेऽपि श्रुत्यादिबाहुल्यादिति । अनेन श्रुतिबाहुल्य एव परिहारे च विशेषहेतुरिति न्यायविवरणं व्याख्यातं भवति ॥ इति न्यायेनेति ॥ इत्युक्तन्यायेनेत्यर्थः । रुद्रादिसकलजीवप्राप्यत्वे तच्चेष्टकत्वादिना श्रुत्युक्तस्वातन्त्र्योपपत्तेरिति भावः ॥ अन्यैरनद्यमान इतीति ॥ अनेन श्रुतिबाहुल्यम् इति प्राणस्य विष्णुनाऽद्यमानत्वे श्रुतिबाहुल्यमित्यपि सिद्धान्ते व्याख्यातं भवति ॥ प्राणत्व इति ॥ प्राणस्य चतुर्मुखत्वेन पुनर्जननात् । विलीनो हि प्रकृतौ संसारमेति इति श्रुतेरिति भावः ॥

भावदीपः

प्राणस्येति ॥ एतेन श्रौतक्रमाद्वा पूर्वनयद्वयफलाक्षेपेण शङ्कनाद्वा पूर्वसङ्गतिरपि सूचिता । अत एवाह कस्यापि मोक्षासम्भवेति ॥ पूर्वोक्तमिति ॥ श्रेष्ठश्चेत्यत्रोक्तेश्वरजत्वं विशेषादृष्टि-श्चेत्यर्थः । सोऽध्यक्ष इत्येतद्व्यावर्त्यकोटिमाह ॥ प्राण इति ॥ सोऽध्यक्ष इत्यस्याप्येवमेवा-शङ्क्येत्यन्यत्रोक्तेः पूर्वोक्तमेव हेतुमाह ॥ तस्येति ॥ श्रुतिबाहुल्यमेव शङ्कायां विशेषहेतुरित्य-न्यत्रोक्तं व्यावर्त्यशङ्कापूर्वं व्यनक्ति ॥ न चेति ॥ इत्यादाविति ॥ श्रेष्ठश्च एतेन मातरिश्वा व्यतिहारो विशिंषन्ति इत्यादिपदार्थः ॥ श्रुतीति ॥ न प्राणः किञ्चिदाश्रित इति यस्मिन्निदं सर्वमध्यर्ध्नोत्प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितमित्यादिश्रुतीत्यर्थः ॥ गत्यन्तरं चोक्तमिति ॥ विष्ण्वन्येश्वरवर्जनपरत्वरूपं गत्यन्तरं चक्षुरादिवदित्यत्रैवोक्तमित्यर्थः । दुर्बलेन अनन्येश्वरपरता-वचनेनेत्यर्थः । छान्दोग्यचतुर्थाध्यायस्थविस्पष्टश्रुतिं चाह ॥ महान्तमिति ॥ अत इति ॥ अनन्याधीनत्वे श्रुतिबाहुल्याल्लयाभावे श्रुतेर्भावाच्चेत्यर्थः । स इत्यादिभाष्यं व्याचष्टे ॥ प्राण इति ॥ कुत इत्यतः सोऽध्यक्ष इत्यस्याप्येवमेव परिहार इत्यन्यत्रोक्तं हृदि कृत्वा पूर्वनयसिद्धान्तहेतु-मेवात्राप्याह ॥ तस्येति ॥ श्रुतिबाहुल्यमेव परिहारे च विशेषहेतुरित्यन्यत्रोक्तं शङ्कानिरासकत्वेन योजयति ॥ न चेत्यादिना ॥ सर्वे प्राणमित्यादिभाष्यं श्रुतिबाहुल्यस्य निरवकाशत्वोपपादकत्वेन योजयति ॥ न च साम्यमित्यादिना ॥ इति न्यायेनेति ॥ रुद्रादिसर्वोपजीव्यत्व-रूपश्रुत्युक्तन्यायेनेत्यर्थः । प्रागुक्तलयाभावश्रुतेर्गतिमाह ॥ अनद्यमान इति चेति ॥ प्राणत्व इति ॥ हिरण्यगर्भत्वात्पूर्वं प्राणत्वावस्थायां श्रीतत्वे देहलयोऽस्त्येव । पुनश्चतुर्मुखतया जननादिति भावः ॥ अत इति ॥ हरौ लीनत्वश्रुतिबाहुल्यादित्यर्थः ।

अभिनवचन्द्रिका

तस्य तदधीनत्वेति ॥ अत्र नञो बुद्ध्या विवेकेनाऽतदधीनत्वनिश्चयादिति सम्बन्धो बोध्यः । एतेन तदधीनत्वनिश्चयाभावे तत्र लयसंदेह एव स्यात्, न तु न तत्र लीयत इति पूर्वपक्षसिद्धिः स्यादिति परास्तम् । ‘चक्षुरादिवत्’ इति सूत्रे तदधीनत्वस्य निर्णीतत्वान् नाऽभावनिश्चय इत्याक्षिप्य निषेधति – न च वाच्यमिति ॥ तस्येति ॥ प्राणस्य परमात्मानधीनत्वेऽपि श्रुतिसद्भावात्, न प्राणस्याधीनत्वनिश्चय इति भावः ॥ गत्यन्तरमिति ॥ प्राणस्य अनन्याधीनताप्रतिपादकस्य ‘प्राणादिदमाविरासीत्, प्राणो धत्ते प्राणे लयमभ्युपैति, न प्राणः किंचिदाश्रितः, यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् । यथा प्राणस् तथा राजा सर्वस्यैकाश्रयो भवेत्’ इति वचनस्य ‘अनन्येश्वरताप्राणे तदन्येश्वरवर्जनात्’ इति गतिरुक्ता । ततश्च प्रतिप्रमाणस्य हीनबलत्वात् तदधीनतानिश्चयः सम्भवतीति न वाच्यमित्यर्थः ॥ वैपरीत्यस्यैवेति ॥ तदधीनताप्रतिपादकवचनस्य हीनबलत्वाद् बहुत्वेन प्रबलैरनधीनतावचनैरनधीनत्वनिश्चय इति भावः ॥ न च तदनिर्णय इति ॥ अनधीनताप्रतिपादकबहुप्रमाणविरुद्धेन तदधीनतावचनेन न तन्निर्णय इति न वाच्यमित्यर्थः । तत्किं ‘प्राणस्तेजसि’ इति श्रुतिः सर्वथा मुख्यार्थैवेति जिज्ञासायामाह – प्राणत्व इति । हिरण्यगर्भस्यैव प्राणत्वावस्थायां तेजसि लयोऽस्त्येवेति मुख्यार्थापि श्रुतिरिति भावः ।

पूर्वपक्षस्तु प्राणो न परमात्मनिलीयते । तस्याऽतदधीनत्वात् । न च वाच्यं ‘चक्षुरादिवत्’ इत्यादौ प्राणस्य तदधीनत्वमुक्तमिति । तस्यानन्याधीनत्वे बहुश्रुतिसद्भावात् । न च बहुबाधो युक्तः । वैपरीत्यस्यैवोचितत्वात् । ‘महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्ति’ इति लयाभावोक्तेश्च । अतः प्राणस्य लयाभावान् न कस्यापि मोक्ष इति ।

सिद्धान्तस्तु प्राणो हिरण्यगर्भः परमात्मनि लीयत एव । तस्य तदधीनत्वात् । न च तदनिर्णयः । निरवकाशबहुश्रुतिसद्भावात् । अनधीनत्वश्रुतीनां तु ईश्वरान्याधीनत्वाभावपरत्वेन सावकाशत्वात् । ननु ‘प्राणस्तेजसि’ इति श्रुतेः कथं परमात्मनि लय इति चेत् – न, तच्छ्रुते-स्तेजसो द्वारमात्रपरत्वेन तत्र लयपरत्वाभावात् । तदुक्तम् ‘प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम्’ इति । अतो विरिञ्चस्य लयसद्भावाद् युक्तः सर्वज्ञानिनां मोक्ष इति सिद्धम् ॥

वाक्यार्थमुक्तावली

कस्यापीति ॥ चतुर्मुखप्रवेशेनैव सर्वेषामुक्तेरिति भावः ॥ किमिति ॥ प्राणः परमात्मनि लीयते उत न लीयत इति चिन्ता । तदर्थं प्राणः परमात्मानधीन उताधीन इति ॥ पूर्वोक्तमिति ॥ एतस्माज्जायते प्राण इति भगवदुत्पन्नत्वं विशेषप्रमाणादर्शनं चेत्यर्थः । ननु पूर्वसूत्रे उत्तरा-दित्युत्तरवचनमुदाहरता प्राणस्य तेजोद्वारा परमात्मनि लयस्योपपादितप्रायत्वाद्व्यर्थमिदमधिकरण-मिति चेन्न । तद्वचनानुसारेण तेजस्येव लयाङ्गीकर्तव्यत्वात्तस्य च सिद्धान्तिनोऽनिष्टत्वात् । तेजसो द्वारमात्रत्वेन विष्णौ लय इत्यत्र विशेषप्रमाणाभावादित्याक्षेपेणास्य प्रवृत्तेरिति बोध्यम् । अत्र न्यायविवरणे सोऽध्यक्ष इत्यस्याप्येवमेवाशङ्कापरिहारश्चेति कार्यकरत्वमाढ्यतेत्युक्तावेव पूर्वोत्तरपक्ष-न्यायावेवानुसन्धेयावित्यतिदिश्य तर्हि तन्न्यायेन गतार्थत्वमित्याशङ्क्य श्रुतिबाहुल्यमेवाशङ्कायां परिहारे च विशेषहेतुरित्युक्तम् । अत एव सूत्रे तदुपगमादिभ्य इति श्रुतिबाहुल्यं सिद्धान्ते वक्ष्यत इत्याशयेन पूर्वन्यायेन तावत्पूर्वपक्षमाह ॥ तस्येति ॥ मन आदिसर्वकार्यपरत्वेनेश्वरतुल्यस्येत्यर्थः । चक्षुरादिवदित्यादिपदेन श्रेष्ठश्चेत्यादिर्गृह्यते ॥ अनन्याधीनत्वेऽपीति ॥ न प्राणः किंचिदाश्रित इति श्रुतिसद्भावादित्यर्थः ॥ गत्यन्तरं चेति ॥ चक्षुरादिवदित्यत्रैवानन्येश्वरता प्राणे तदन्येश्वर-वर्जनादित्यादिना गत्यन्तरमित्यर्थः । कुतो न वाच्यमित्यतो न्यायविवरणानुसारेण श्रुतिबाहुल्ये-नाभ्यधिकाशङ्कामाह ॥ अनन्येति ॥ प्राणादिदमाविरासीत् प्राणो धत्ते । ‘प्राणस्यैतद्वशे सर्वम् । यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेदित्यादि श्रुतिबाहुल्यसद्भावात्’ इत्यर्थः ।

ननु सर्वं ह्येवैतत्परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च । ‘सर्वकर्तापि सन्प्राणः परमाधारतः स्थितः । नान्यदतोऽस्ति द्रष्ट्रित्यादिवचनयुक्तयः’ । आदिशब्दोक्ता इति तत्रैव सिद्धान्त-श्रुतिबाहुल्यनिरवकाशत्वयोः पूर्वपक्षश्रुतेस्सावकाशत्वेन दौर्बल्यस्य चोक्तत्वान्न पुनः शङ्कावकाश इत्यत आह ॥ महान्तमिति ॥ स्वयं कैरप्यनद्यमानो ऽनन्नं लोकविलक्षणमन्नमत्तीति प्राणस्य लयाभावोक्तेः ॥ नैष प्राण उदेति ॥ यत्प्राप्तिर्यत्परित्याग इत्यादिश्रुतिबाहुल्यस्य विप्रतिपन्ने लयाभावेऽपि साक्षाद्विद्यमानत्वादुत्पत्तिश्रुतीनां कृष्णस्य वासुदेवादिवदवतारमात्रपरत्वासम्भवादिति भावः । अनन्याधीनत्वेन लयशून्यत्वेन श्रुतिशतसमधिगतोऽपि हिरण्यगर्भो ऽध्यक्षे अधिपतौ स्वबिम्बभूते परमात्मनि लीयते । कुतस् तदुपगमादिभ्यस् तदुपगमस्तस्मिन् प्राणे देवानामुपगमस् तस्य प्राणस्य अध्यक्षे उपगमः । आदिपदेन सर्वेषां प्राणानामनुप्राणनम् । तत्र लयश्च प्राणस्याध्यक्ष अनुप्राणनं तत्र लयो भोग उच्यते । तेन च तत्प्रतिपादकश्रुतिस्मृतयो गृह्यन्ते । तथा च तेभ्यः प्रमाणेभ्य इति भावेन व्याचष्टे ॥ प्राण इति ॥ सर्वे प्राणमुपगच्छन्तीति न्यायेनेति । प्राणः परमुपगच्छतीत्युत्तरवाक्याद्यथा सर्वे प्राणमित्यत्र परमात्मातिरिक्तसर्वप्राप्यत्वं तथा परमात्मातिरिक्त-देवापेक्षया स्वातन्त्र्यं वाक्यान्तरबलादिति भावः । भावबोधे तु प्राणमुपगच्छन्तीति न्यायेनेति इत्युक्तन्यायेनेत्यर्थः । रुद्रादिसकलजीवप्राप्यत्वतच्चेष्टकत्वादिना श्रुत्युक्तस्वातन्त्र्योपपत्तेरिति भाव इत्युक्तम् । न केवलं सर्वे प्राणमुपमगच्छन्ति प्राणमितरा देवता अप्युपगच्छन्तीत्यर्थः । अनुप्राणन्ति अनुसृत्य चेष्टां कुर्वन्ति । प्राणः परस्यामिति वाक्यान्तरम् ॥ मुक्ताः सन्त इति ॥ मुक्तौ भोगार्थं प्रवेशक्रमस्य लये प्रवेशक्रमस्य च समनियतत्वान्न प्रकृतासाङ्गत्यम् । मुक्तौ लये यद्वदित्यनु-व्याख्यानोक्तेरिति भावः । नन्वेवमनन्याधीनत्वश्रुतीनां सावकाशत्वेऽप्यनद्यमानः नैषः प्राण उदेति नास्तमेतीत्यादिश्रुतीनामसावकाशत्वात् प्रकृतासिद्धिरित्यत आह ॥ अनद्यमान इति ॥ नन्वन्यैर-नद्यमानत्वमित्युक्तं प्राणस्तेजसीति तेजोऽभिधायाः श्रियस्तददनोक्तेरिति भावेनाशङ्क्य निषेधति ॥ नन्विति ॥ तस्य साक्षादिति ॥ विलीनो हि प्रकृतौ संसारमेति’ इति श्रुतेर्मुक्तस्य ब्रह्मणः परमात्मन्येव लययोग्यत्वादित्यर्थः ॥ प्राणत्वे त्विति ॥ प्राणत्वावस्थायां तु तस्यैव चतुर्मुखत्वेन पुनर्जननादस्त्येव तेजसि शरीरलय इति तद्विवक्षायां प्राणस्तेजसीति श्रुतिर्न मार्गमात्रतया व्याख्येयेति भावः । तथा च ‘तेजोभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्र तयै(थै)व वायुः । प्राप्तः प्रसूतः पुनरेव विष्णुमित्यनुव्याख्यानविरोधेनेति भावः । तदुक्तं सुधायाम् । इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् । हिरण्यगर्भवाचित्वपक्षे भाष्योक्तं द्रष्टव्यमिति ॥

तत्त्वसुबोधिनी

अत्रानन्तरसङ्गतिः प्रागेवोक्ता । कस्यापीतीति । चतुर्मुखप्रवेशेनैव सर्वेषां मुक्तेरिति भावः ॥ पूर्वोक्तमेवेति ॥ प्राणस्य भगवदुत्पन्नत्वं विशेषादर्शनं चेत्यर्थः । गत्यन्तरं चोक्तमिति ॥ ‘अनन्येश्वरता प्राणे तदन्येश्वरवर्जनम्’ इत्यादिना चक्षुरादिवदित्यत्रोक्तमित्यर्थः । तर्हि प्राणस्य स्वातन्त्र्यप्रतिपादकश्रुतेः का गतिरित्यत आह ॥ स्वातन्त्र्यश्रुतीनामिति ॥ इति न्यायेनेति ॥ इत्युक्तन्यायेनेत्यर्थः । रुद्रादिसकलजीवप्राप्यत्ववत्तच्चेष्टकत्वादिना श्रुत्युक्तस्वातन्त्र्योपपत्तेरिति भावः । न ह्यनद्यमान इत्यस्य का गतिरित्यत आह ॥ अनद्यमान इति चेति ॥ प्राणत्व इति ॥ प्राणस्य चतुर्मुखत्वेन पुनः जननाद्विलीनो हि प्रकृतौ संसारमेतीति श्रुतेः ।

वायुर्याति शिवं चापि वायुस्तेजोभिधा श्रियम् ।

वायुमादाय सा देवी याति विष्णुं परात्परम् ॥

इत्यादि सत्तत्ववचनाच्चेति भावः ।

वाक्यार्थविवरणम्

पूर्वोक्तमिति ॥ स प्राणमसृजत’ इति प्राणस्य भगवदुत्पन्नत्वं विशेषादर्शनं चेत्यर्थः । ननु कथमत्र विशेषादर्शनम् । प्राणस्य भगवति लयस्यैव विशेषप्रमाणत्वादिति चेन्न । यथा मनसो भगवदुत्पन्नत्वेन श्रुतत्वेऽपि तस्य प्राणद्वारमङ्गीकृत्य अन्यत्र लयमुक्त्वा भगवदुत्पन्नत्वमप्रयोजकी-कृतम् । एवमिहापीति हृदयम् ॥ श्रुतिसद्भावादिति ॥ ‘न प्राणः किञ्चिदाश्रित’ इति श्रुतिसद्भावादित्यर्थः ॥ गत्यन्तरमिति ॥

अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् ।

अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ॥

इत्येवं तस्यानन्येश्वरत्ववचनस्य गत्यन्तरमुक्तमित्यर्थः ॥ इति न्यायेनेति ॥ इत्युक्त-न्यायेनेत्यर्थः ॥ सावकाशत्वादिति ॥ रुद्रादिसकलजीवप्राप्यत्वे तच्चेष्टकत्वेन श्रुत्युक्तस्वातन्त्र्यो-पपत्तेरिति भावः । अन्यैः स्वाधमैः ॥

वाक्यार्थमञ्जरी

कस्यापीति ॥ सर्वेषां प्राणद्वारा मोक्षनियमादिति भावः ॥ पूर्वोक्तमेवेति ॥ प्राणस्य भगव-दुत्पन्नत्वं विशेषप्रमाणादर्शनं चेत्यर्थः ॥ श्रुतिसद्भावादिति ॥ न प्राणः किञ्चिदाश्रित इत्यादि-श्रुतिसद्भावादित्यर्थः ॥ उक्तमिति ॥ अनन्येश्वरता प्राणे तदन्येश्वरवर्जनमितीश्वरेतरानधीनत्वं तच्छ्रुत्यर्थ इति चक्षुरादिवदित्यत्रोक्तमित्यर्थः ॥ महान्तमिति ॥ अस्य प्राणस्य महिमानं महान्तमाहुः कुतः यद्यस्मात्स्वयमन्यैरनद्यमानो ऽभक्ष्यमाण एवान्नमत्तीत्यर्थः ॥ ॐ सोऽध्यक्षे तदुपगमादिभ्य ॐ ॥ स प्राणोऽध्यक्षे परमात्मनि विलीयते कुतस् तदुपगमादिभ्यस् तस्य परमात्मन उपगमः प्राप्तिर् आदिपदेन तदनुप्राणनतत्प्रवेशादितत्प्रतिपादकश्रुतिसद्भावादित्यर्थः ॥ इति न्यायेनेति ॥ इत्युक्तन्यायेनेत्यर्थः । रुद्रादिसकलजीवप्राप्यत्ववत्तच्चेष्टकत्वादिना श्रुत्युक्तस्वातन्त्र्यो-पपत्तिरिति भावः । अन्यैर् ईशात् ॥ प्राणत्व इति ॥ वायुत्वावस्थायामित्यर्थः । तस्य चतुर्मुखत्वेन पुनर्जननाद् विलीनो हि प्रकृतौ संसारमेतीति श्रुतिरिति भावः ॥

॥ इति अध्यक्षाधिकरणम् ॥ ३ ॥