०२ मनोऽधिकरणम्

ॐ तन्मनः प्राण उत्तरात् ॐ

२. मनोऽधिकरणम्

सूत्रभाष्यम्

ॐ तन्मनः प्राण उत्तरात् ॐ ॥ ३ ॥

‘मनः प्राण’ इत्युत्तराद्वचनान्मनोऽभिमानी रुद्रः प्राणे वायौ विलीयते ।

‘वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रेष्ठ’ इति च कौण्डिन्य-श्रुतिः ॥

॥ इति मनोऽधिकरणम् ॥ २ ॥

तत्त्वप्रदीपिका

अथापि कथं प्राक्तनरुद्रस्यानन्तस्य भारतीशब्दितायां ब्रह्माण्यां च लये वक्तव्ये तद्विलयस्थाने वाय्वाख्ये चतुर्मुखे लय उच्यते । नैष दोषः । सर्वशाखाप्रत्ययन्यायावतारात् । न ह्येकत्रानुक्तिरन्यत्रोक्तिं बाधते ।

‘तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ।

तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः’ इति च ॥

‘अशेषा’ इति कामादयस्तत्प्रतिबिम्बभूताः ॥

तत्त्वप्रकाशिका

अत्र मनसो ब्रह्मप्राप्त्यर्थं प्राणे लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा मोक्षाभाव-प्रसङ्गेनोक्तव्याहतिरेव स्यादित्यतः समर्थनीयमेतत् । प्रकृतं मन एव विषयः । प्राणे लीयते न वेति सन्देहः । तस्य प्राणोत्पन्नत्वं विशेषादर्शनं च सन्देहबीजम् । न प्राणे मनो लीयते इति पूर्वः पक्षः । मनसः प्राणादनूनत्वात् । सर्वप्रवृत्तिहेतुर्हि प्राणः । मनोऽपि प्रत्यक्षत एवान्वयव्यतिरेकाभ्यां सर्व-प्रवृत्तिकारणं दृश्यते । न च ‘इयदामननात्’ (३-३-३५) इति मनसः प्राणादूनत्वमुक्तमिति वाच्यम् । तत्र मनःशब्दस्यान्यपरत्वात् । न च स्मरशब्देन तद्ग्रहणम् । मनःप्राणयोरुक्तन्यायेन साम्यात् । तत्पदस्याप्यन्यपरत्वोपपत्तेः । न च मनसः प्राणोत्पन्नत्वात्तत्र लयः । ‘तत्प्राक् श्रुतेश्च’ (२-४-४) इति मनसो भगवदुत्पन्नत्वस्योक्तत्वात् । अतो मनसो लयाभावेन मोक्षाभावादनियम इत्युक्तहानिरिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ तदिति ॥ मनः प्राणे लीयत एव । ‘मनः प्राणे’ इति ‘वाङ्मनसि सम्पद्यते’ इति पूर्वोदाहृतोत्तरवाक्यसद्भावादिति भावः । अत्र प्राणपदेन चतुर्मुखः । तत्र च मनसो लयो वाणीद्वारा । ननु कथं प्राणादनुत्पन्नस्य मनसः प्राणे लय इत्यत आह ॥ वायोरिति ॥ न च भगवदुत्पन्नत्वोक्तिविरोधः । प्राणद्वारा तदुपपत्तेः । न च तयोश्चेष्टकत्वसाम्यम् । ‘मन उदक्रामन्मीलित इवाश्नन्पिबन्नास्तैव प्राण उदक्रामत्तत्प्राण उत्क्रान्तेऽपद्यत । मनः प्राविशदशयदेव । प्राणः प्राविशत्तत्प्राणे प्रपन्न उदतिष्ठत’ इत्यादेः । अतो मनसः प्राणे लयसद्भावादुक्तं युक्तमिति सिद्धम् ॥

भावबोधः

मनसो ब्रह्मप्राप्त्यर्थमिति ॥ अत्र ‘वाङ्मनसि संपद्यते । मनः प्राणे । प्राणस्तेजसि । तेजः परस्यां देवतायाम्’ इति श्रुतिक्रमेणैवैषां त्रयाणामधिकरणानां प्रवृत्तत्वादनन्तरसङ्गतिः । तेजसो मार्गमात्रत्वस्य वक्ष्यमाणत्वेन ‘प्राणः परस्यां देवतायाम्’ इति श्रुतिसमाख्यया च प्राणस्यापि परमात्मन्येव लयसमर्थनादिति ज्ञातव्यम् । प्राणे लीयत इति । अत्र मनः किं प्राणे न लीयत उत लीयत इति चिन्ता । तदर्थं मनःप्राणयोरुभयोरपि सर्वचेष्टकत्वेनानूनत्वमुत तयोर्नियम्यनियामकभाव इति । तदर्थं मनसः किं भगवदुत्पन्नत्वं किं वा प्राणादुत्पन्नत्वमिति । तदर्थं मनसो भगव-दुत्पन्नत्वप्रतिपादिका ‘मनः सर्वेन्द्रियाणि च’ इति श्रुतिः किं निरवकाशोत सावकाशेति । तदर्थं मनसः प्राणोत्पन्नत्वे विशेषप्रमाणं नास्त्युतास्तीति ॥ विशेषादर्शनमिति ॥ भगवदुत्पन्नस्यापि मनसो भगवति लयाभाववत् प्राणोत्पन्नस्यापि तस्य तत्र देहलयाभावसम्भवेन प्राणोत्पन्नत्व-मनिर्णायकमिति भावः । मनःपूर्वकत्वनियमादशेषदृष्टव्यापाराणां तस्य प्राणादनूनतेति न्याय-विवरणोक्तपूर्वपक्षयुक्तिमाह– मनस इत्यादिना ॥ मनसः प्राणादूनत्वमुक्तमितीति । सङ्कल्पा-द्यशान्तोत्तमप्राणादूनत्वं सङ्कल्पाद्यवरमनसः कैमुत्यसिद्धमिति भावः । तत्र मनःशब्दस्यान्य-परत्वादिति । तत्र ‘मनो वाव वाचो भूयः’ इत्यत्र–

एवं तस्याभिमुक्तौ च पर्जन्यः सर्वतो वरः ।

मनोऽभिमानी स प्रोक्तः… … … ॥

इति छान्दोग्यभाष्योदाहृतप्रमाणानुसारेण मनःशब्दस्य पर्जन्यपरत्वादित्यर्थः । स्मरशब्देन तद्ग्रहणमिति । ‘स्मरो वाव आकाशाद् भूयान्’ इत्यत्र ‘‘तस्याश्चैव सदाशिवः स्थिरस्मृत्यभिमानी स सममेव रतेः स्मरः’’ इति छान्दोग्यभाष्योदाहृतप्रमाणानुसारेण स्मरशब्देन रुद्रग्रहणमित्यर्थः । तथा च तदुत्तमाशोत्तमप्राणोनत्वं रुद्रस्य सिद्ध्यतीति भावः ॥

ननु प्राणस्यास्मिन् जन्मनि मुक्त्यभावात् कथं मनःशब्दवाच्यशेषगरुडयोस्तत्र मुक्त्यर्थं देहलय उच्यत इत्यत आह– अत्र प्राणपदेन चतुर्मुख इति ॥ अत्र नियामकमनुव्याख्यानं प्रागेवो-दाहृतम्–

‘तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति’

इत्यनुव्याख्यानानुसारेणाह– तत्र मनस इति ॥ उदतिष्ठदित्यादेरिति ॥ आदिपदेन ‘इन्द्रियस्थैः स्वरूपैस्तु’ इत्यादिन्यायविवरणोदाहृतश्रुतिग्रहणम् ॥

भावदीपः

प्राणे लयेति ॥ एतेन वाङ्मनसि सम्पद्यते मनः प्राण इत्यादि श्रौतक्रमेण चिन्तनाद्वा पूर्वत्र प्रत्यक्षेण श्रौतयुक्त्या च वाचो मनोऽधीनत्वेन तस्यास्तत्र लयेऽपि इह मनसः प्राणवशत्वे माना-भावेन न तत्र तस्य लय इति शङ्कनाद्वा पूर्वसङ्गतिरपि सूचिता ॥ उक्तेति ॥ अनियम इत्युक्तव्याघात इत्यर्थः ॥ प्राणोत्पन्नत्वमिति ॥ वायोर्वाव रुद्र उदेतीति वा प्राणाच्छ्रद्धाम् । खं वायुर्ज्योतिरापः पृथिवीन्द्रियमनोऽन्नमिति वा श्रुतेः प्राणोत्पन्नत्वदर्शनं वाचो मनोवशत्व इव मनसः प्राणवशत्वे विशेषप्रमाणादृष्टिश्चेत्यर्थः । तत उत्पन्नत्वं च हरौ व्यभिचारीति न तत्र लये विशेषमानमिति भावः । मनः प्राण इति सूत्राद्युक्तकोटिव्यावर्त्यमाह ॥ नेति ॥ मनोऽभिमानी शेषः सुपर्णश्च प्राणे चतुर्मुख इत्यर्थः । कुत इत्यतस्तस्य प्राणादनूनतेत्यन्यत्रोक्तं हेतुत्वेन योजयति ॥ मनस इति ॥ तदेव कुत इत्यतः मनःपूर्वकत्वादिति नियमादशेषदृष्टादृष्टव्यापाराणा-मित्यन्यत्रोक्तहेतोरनूनतोपपादकत्वं विवृण्वानः प्राणेऽपि तदाह ॥ सर्वेति ॥ यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेदित्यादेः प्रकर्षेणानति चेष्टत इति व्युत्पत्तेश्च । यत्प्राप्तिर्यत्परित्याग इत्यादेश्चेति भावः ॥ प्रत्यक्षत एवेति ॥ तत्तदनुभवसिद्धाभ्यामन्वयव्यतिरेकाभ्यामित्यर्थः । अनूनत्वहेतोरसिद्धिमाशङ्क्य निराह ॥ न चेति ॥ उपासनापादे इयदिति नये च्छान्दोग्योक्तानां नामवाङ्मनस्सङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेजआकाशस्मराशाप्राणशब्दितानामुत्तरोत्तरातिशयेन प्राणस्य सर्वाधिकत्वोक्तेर् मनसः प्राणादूनत्वं सिद्धमिति भावः ॥ अन्येति ॥ पर्जन्यपरत्वेन छान्दोग्यभाष्योक्तेरिति भावः । एतेन तेन गतार्थत्वमस्य निरस्तम् । प्रकारान्तरेण गतार्थत्वं शङ्कते ॥ न चेति ॥ तद्ग्रहणमिति ॥ रुद्रग्रहणमित्यर्थः । नामादिप्राणान्तशब्दैर् उषास्वाहापर्जन्य-मित्राग्निवरुणविधुप्रवहानिरुद्धाहङ्कारिकप्राणेन्द्रोमारुद्रवाणीमारुतानामुक्तेरिति भावः ॥ उक्तेति ॥ सर्वप्रवृत्तिहेतुत्वरूपन्यायेनेत्यर्थः । प्रकारान्तरेणानूनत्वासिद्धिमाशङ्कते ॥ न चेति ॥ उक्तत्वादिति ॥ तथा च सूत्रकृदुक्तन्यायविरोधात्प्राणोत्पन्नत्वश्रुतिरमानमन्यथा वा नेयेति भावः ॥ अत इति ॥ प्राणादनूनत्वे प्राणे लयायोगादित्यर्थः ॥

भाष्यं व्युत्क्रमेण विवृण्वन् सौत्रार्थमाह ॥ मन इति ॥ शेषः सुपर्णश्चेत्यर्थः । कस्मा-दुत्तरमित्यत उक्तं वागित्यादि ॥ प्राणस्य मुक्तिद्वारत्वाभावादाह ॥ अत्र प्राणेति ॥ ननु मनसो ब्रह्माण्याः श्रेष्ठत्वेन तत्रैव लये वाच्ये कथं भूतपूर्वगत्या प्राणाख्ये चतुर्मुखे साक्षाल्लयोक्तिरित्यतः सर्ववेदान्तप्रत्ययन्यायेनानुक्तस्थलेऽप्यन्यत्रोक्तविशेषस्य ग्राह्यतया

तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ।

तया पतिं प्राप्य सहैव तेन लयं हरौ यांति समस्तजीवा ॥

इत्युक्त्यनुरोधेनाह ॥ तत्र चेति ॥ सरस्वतीवत्पूर्वपक्षिणा प्राणादनूनत्वं प्राणवत्सर्वचेष्टकत्वेन प्राणादनुत्पन्नत्वेन चोपपादितम् । तत्र द्वितीयहेतुनिरासकतया वायोरिति भाष्यं व्याचष्टे ॥ नन्विति ॥ वियत्पादीयन्यायविवरणोक्तदिशा समाधिमाह ॥ प्राणद्वारेति ॥ आद्यहेतुमनूद्य सूत्रादौ प्रकृष्टाननवाचिप्राणपदप्रयोगलब्धसमाधिना निराह ॥ न च तयोरिति ॥ उदक्रामद् ब्रह्मणो देहादूर्ध्वमगमदित्यर्थः । आस्तैव ब्रह्मदेह इत्यर्थः । अशयद् अशेत । उदतिष्ठद् उदतिष्ठत । इत्यादेरैतरेयादौ श्रवणादसाधारण्येन प्राणस्यैव सर्वचेष्टकत्वेनाढ््यतावगमादित्यर्थः । यद्यपि प्राण-शब्दः पादांत्यप्राणनये प्राणस्तथानुगमादित्यत्र हरौ न्यायैरुपपादितः । तथापि प्राणान्तर्यामितयैव न तु मुख्यप्राणस्य त्याग इति भावः । अत एवैतरेयभाष्ये मुख्यवायुपरतयाऽपि व्याख्यातम् । फलोक्त्या सूत्रार्थमुपसंहरति ॥ अत इति ॥ मनः प्राण इति श्रुतिबलात्प्राणान्मनस ऊनत्वयुक्ति-बलाच्चेत्यर्थः । उक्तमनियम इत्युक्तमित्यर्थः ॥

अभिनवचन्द्रिका

तन्मनोग्रहणं शक्यमकर्तुं पूर्वसूत्रादनुवृत्तमनःशब्देनैवऽन्वयसम्भवात् । ननु तद्वै सप्तमीनिर्दिष्टं प्रथमानिर्दिष्टेन चेहार्थः । मैवम् । अर्थाद्विभक्तिविपरिणामसम्भवात् । तद्यथा ‘उच्चानि देवदत्तस्य गृहाणि आमन्त्रयस्व’ इत्युक्ते एनमिति गम्यते । तथा इहापि ‘वाङ्मनसि दर्शनाच्छब्दाच्च’ इत्युक्ता ‘प्राण उत्तरादित्युक्ते मनः प्राणे लीयत इति गम्यत एवेति चेत् सत्यम्, इहानुवृत्तिः सम्भवति, तथापि मनोग्रहणं तावत्कर्तव्यम् । अन्यथा मनसीति सप्तम्यन्तमनुवृत्य प्राण इति प्रथमान्तं कृत्वा मनसि प्राणो लीयते उत्तरात् ‘मनः प्राण’ इत्येतस्मादप्युत्तराद् अपवादतया तदूर्ध्वं पठितत्वेन प्रबलात् ‘प्राणस्तेजसि’ इति वाक्यात् ‘तैजसानींद्रियाण्याहुः’ इति तेजः शब्दवाच्ये मनसि प्राणस्य लयाभिधानाद् इति भ्रमः स्यात् । मनःशब्दे पुनः क्रियमाणे न दोषो भवति तद्ग्रहणमपि कर्तव्यम् । अन्यथा रुद्रस्यापि मनःशब्दवाच्यत्वाद् रुद्रस्य प्राणे लयो विज्ञायेत । तद्ग्रहणे पुनः क्रियमाणे न दोषो भवति’ ‘वाङ्मनसि’ इति पूर्वसूत्रे वाचो लयाधिकरणत्वेन यौ गरुडशेषौ प्रकृतौ तयोरेवेह ग्रहणमित्यवगमात् ॥ मनःशब्दस्याऽन्य-परत्वादिति ॥ ‘मनो वाव वाचो भूय’ इत्यत्र मनःशब्दस्य ‘एवं तस्याविमुक्तौ च पर्जन्यः सर्वतो वरः । मनोभिमानी संप्रोक्त’ इति प्रमाणानुसारेण पर्जन्यपरत्वादित्यर्थः ॥ न च स्मरशब्देनेति ॥ ‘स्मरो वावा काशाद्भूयान्’ इत्यत्र स्मरशब्देन रुद्रग्रहणमिति न वाच्यमित्यर्थः ॥ न च मनस इति ॥ अस्तु तयोः साम्यं तथापि मनसः प्राणे लयो युज्यते । तत्र लये तदुत्पन्नत्वस्यैव प्रयोजकत्वेन तदवरत्वस्याप्रयोजकत्वादिति न च वाच्यमित्यर्थः । कुतो न वाच्यमित्यत आह – तत्प्रागिति ॥ अत इति ॥ मनसो भगवति लयस्य त्वयाऽनङ्गीकारात् । अङ्गीकृतस्य प्राणे लयस्याऽनुपपन्नत्वात्, ‘अनियम’ इत्युक्तहानिरित्यर्थः । एतेन प्राणसमत्वात् प्राणे लयाऽसम्भवेऽपि प्राणवद्भगवति लयसम्भवाद् उपपन्नोऽमोक्ष इति परास्तम् । प्राणस्य जन्मान्तरसद्भावान् मुच्यमानस्य तत्र लयकथनमयुक्तमित्यत आह – अत्र प्राणपदेनेति ॥ नाऽत्र चतुर्मुखग्रहणं सम्भवति । ‘प्राणस्तेजसि’ इति प्रकृतौ लयश्रवणात् प्रकृतिलीनस्य च संसारावश्यम्भावादिति चेत्, न ‘प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम्’ इति औपचारिक-लयाऽङ्गीकारात् । तस्य च संसारानापादकत्वादिति ।

पूर्वपक्षस्तु न प्राणे मनो लीयते । तत्समत्वात् । दृश्यते हि प्राणस्येव मनसोऽपि प्रवर्तकत्वम् । न च तदुत्पन्नत्वात्तत्र लयः । तस्य भगवदुत्पन्नत्वश्रवणात् । ततश्च भगवति लयस्य त्वयाऽ-नङ्गीकारात्, अङ्गीकृतस्य प्राणे लयस्यानुपपन्नत्वात्, न मोक्ष इत्युक्तमयुक्तमिति ॥

सिद्धान्तस्तु लीयत एव मनः प्राणे । ‘मनः प्राण’ इति श्रवणात् । न च समत्वात्तत्र लयोऽनुपपन्न इति वाच्यम् । ‘मन उदक्रामदित्यादिना नीचोच्चभावश्रवणात् । न च तदनुत्पन्नत्वात्तत्र लयाऽसम्भवः । ‘वायोर्वाव रुद्र उदेति’ इति तस्य तस्मादुत्पत्तिश्रवणात् । न च भगव-दुत्पन्नत्वोक्तिविरोधः । प्राणद्वारा भगवदुत्पन्नत्वार्थकत्वात् । अतो मनसः प्राणे लयसद्भावादुक्तं युक्तमिति सिद्धम् ॥

वाक्यार्थमुक्तावली

अत्र वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामिति श्रुत्युक्तक्रमेणैषां त्रयाणामधिकरणानां प्रवृत्तत्वादनन्तरसङ्गतिः । सोऽध्यक्ष इत्यत्र प्राणस्य परमात्मनि लयोक्त्या श्रुतिक्रमोल्लङ्घनं तु तेजसो मार्गमात्रत्वेन प्राणस्य तद्द्वारा परमात्मन्येव देहलयादिति बोध्यम् । अत्र मनः प्राणे न लीयत उत लीयत इति चिन्ता । तदर्थं किं तयोस्साम्यमुत नियम्यनियामकभावेन प्राणस्योत्तमत्त्वमिति । तदर्थं प्राणान्मनस उत्पत्तिर्नास्त्युतास्तीति । तदर्थमेतस्माज्जायते प्राणो मन इति मनसो भगवदुत्पन्नत्वपरवाक्यं प्रबलमुत वायोर्वाव रुद्र उदेतीति वाक्यं प्रबलमिति । प्राणोत्पन्नत्वमिति ॥ वायोर्वाव रुद्र उदेतीत्युक्तं प्राणोत्पन्नत्वमित्यर्थः ॥ विशेषेति ॥ भगवदुत्पन्नस्यापि मनसो भगवति लयाभाववत्प्राणोत्पन्नस्यापि तस्य तत्र देहलयाभावसम्भवेन प्राणोत्पन्नत्वमनिर्णायकं विशेषप्रमाणाभावादिति भावः । तस्मादाहुर्वायुर्देवानां श्रेष्ठ इति । सिद्धान्तश्रुतिव्यावर्त्ययुक्तिमाह ॥ मनसः प्राणादनूनत्वादिति ॥ तदुपपादकत्वेन कार्यकरत्व-मित्युक्तन्यायं व्यनक्ति ॥ सर्वेति ॥ प्रत्यक्षत इति ॥ साक्षिप्रत्यक्षत इत्यर्थः ।

ननु कार्यकारणभावस्यातीन्द्रियत्वात् कथं मनसः कारणत्वं प्रत्यक्षेण दृश्यत इत्यतोऽन्वय-व्यतिरेकसचिवस्यास्ति शक्तिरिति भावेनोक्तम् ॥ अन्वयेति ॥ इयदामननादिति ॥ नामवाङ्मनः-सङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेज आकाशस्मराशाप्राणशब्दितानामुत्तरोत्तराधिक्येन प्राणस्य सर्वाधिक्यस्योक्तत्वात् । सङ्कल्पावरमनसः प्राणादूनत्वं कैमुत्यसिद्धमिति भावः । अन्यपरत्वा-दिति । ‘एवं तस्याविमुक्तौ च पर्जन्यः सर्वतो वरः । मनोऽभिमानी सः प्रोक्तः’ इति छान्दोग्य-भाष्योदाहृतप्रमाणानुसारेण पर्जन्यपरत्वान्न प्राणोनत्वं रुद्रस्य सिध्यतीति भावः ॥ तद्ग्रहणमिति ॥ मनोऽधमरुद्रग्रहणमित्यर्थः ॥ तत्पदस्येति ॥ स्मरपदस्य प्रसिद्धमन्मथपरत्वोपपत्तेरित्यर्थः । तस्याश्चैव सदा शिवः । स्मरः स्मृत्यभिमानी सः सममेव रतेः स्मर इति छान्दोगप्रमाणं तु रूढिबाधेऽनादरणीयमिति भावः । सूत्रे शब्दादित्यनुवर्तते । तत् तस्माद्वाङ्मनसि सम्पद्यत इत्यस्मादुत्तराच्छब्दान् मनः प्राण इत्युत्तराद्वचनान्मनोभिमानी शेषः सुपर्णश्च वाणीद्वारा प्राणे चतुर्मुखे लीयत इति सूत्रार्थमभिप्रेत्याह ॥ मन इति ॥ यद्वा तदिति मनोविशेषणम् । वागादिसर्वप्रवृत्तिकारणत्वेन वाङ्मनसीति श्रुतिसूत्रयोर्भगवज्जातत्वेन तत्प्राक्श्रुतेश्च एतस्माज्जायते प्राणो मनश्चेति श्रुतिसूत्रयोरुक्तमपि मन इति शङ्कासूचनार्थम् । यद्वा सङ्कल्पावरं मनो न किंतु यद् वाङ्मनसि ‘उमा वै वाक्समुद्दिष्टा मनो रुद्र उदाहृतः’ इति श्रुत्युक्तं रुद्राख्यमेव मनः । अत इयदामननादित्यत्र छान्दोग्ये मनःशब्दस्यान्यपरत्वेऽपि स्मरशब्दस्यान्यथासिद्धिशङ्कायामप्युत्तर-वचनाद्रुद्राख्यमनसो न प्राणे लयाभावसिद्धिरिति पूर्वपक्षप्रतिक्षेपाय विशेषणम् ॥ वाणीद्वारेति ॥ तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्यत एव यातीत्यनुव्याख्यानोक्तेरिति भावः ॥ इत्यत आहेति ॥ शब्दादित्यस्योत्तरादित्येतद्विशेषणत्वं विनाऽर्थान्तरमाहेत्यर्थः ॥ प्राणद्वारेति ॥ सावकाशा श्रुतिरिति भावः । आढ्यतेत्युक्तसिद्धान्तन्यायं व्यनक्तुम् इति च श्रुतिरिति भाष्ये चशब्दगृहीतां श्रुतिमुदाहरति ॥ मन उदक्रामदिति ॥ इत्यादेरित्यादिपदेनेन्द्रियस्थैः स्वरूपै-रित्यादिन्यायविवरणोदाहृतश्रुतिर्गृह्यते ॥

तत्त्वसुबोधिनी

मनसो ब्रह्मप्राप्त्यर्थमिति ॥ वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इति श्रुतिक्रमेणैवेषामष्टानामधिकरणानां क्रमप्रवृत्तत्वादनंतरसङ्गतिः । तेजसो मार्गमात्रपरत्वस्य वक्ष्यमाणत्वेन प्राणः परस्यां देवतायामिति श्रुतिसमाख्या च प्राणस्यापि परमात्मन्येव लयसमर्थ-नादिति ज्ञातव्यम् । उक्तव्याहतिर् अनियम इत्युक्तव्याहतिः ॥ विशेषादर्शनमिति ॥ भगवदुत्पन्नस्यापि मनसः भगवति लयाभाववत् प्राणोत्पन्नस्यापि तस्य तत्र देहलयासम्भवेन प्राणोत्पन्नेन लयनिर्णायकमिति भावः । अनूनत्वमेव प्रकटयति ॥ सर्वृप्रवृत्तीति ॥ मनसः प्राणादूनत्वमुक्तमिति ॥ तत्र सङ्कल्पाद्याशोत्तमप्राणादूनत्वं सङ्कल्पाद्यवरमनसः कैमुत्यसिद्धमिति भावः ॥ तत्र मनःशब्दस्येति ॥ तत्र मनो वाव वाचो भूय इत्यत्र एव तस्या विमुक्तौ च पर्जन्यः सर्वतो वरः । मनोऽभिमानी सम्प्रोक्ता इति प्रमाणानुसारेण मनःशब्दस्य पर्जन्यपरत्वादिति भावः । स्मरशब्देन तद्ग्रहणमिति भावः । स्मरो वाव आकाशाद्भूयानित्यत्र तस्याश्चैव सदाशिवः । स्थिरस्मृत्यभिमानी स सममेव रतेः स्मर इति प्रमाणानुसारेण स्मरशब्देन रुद्रग्रहणमित्यर्थः । तथा च तदुत्तमाशोत्तामप्राणोनत्वं रुद्रस्य सिद्ध्यतीति भावः । ननु प्राणस्यास्मिन् जन्मनि मुक्तयभावात् कथं मनःशब्दवाच्यशेषगरुडयोस् तत्र मुक्त्यर्थं देहलय उच्यते इत्यत आह ॥ ताविति ॥ स्म वाक् विरिञ्चपत्नीं विरिञ्चं च काले इत्यनुव्याख्यानं मनसि निधायाह । अत्र प्राणपदेनेति ॥ इत्यादेरित्यत्रादिपदेन इन्द्रियस्थैः स्वरूपैस्त्वित्यादिश्रुतिग्रहणम् ।

वाक्यार्थविवरणं

दृश्यत इति ॥ तथा चोभयोः साम्यमिति भावः । ऊनत्वं नीचत्वम् । तथा च प्राणे लयो युक्त इति भावः ॥ अन्यपरत्वादिति ॥ पर्जन्यपरत्वेन रुद्रपरत्वादिति भावः । तथा च रुद्रस्य न प्राणादूनत्वमिति भावः ॥ तद्ग्रहणमिति ॥ रुद्रग्रहणमित्यर्थः । तथा च तदुत्तमाशोत्तमप्राणादूनत्वं सिध्यतीति भावः ॥ उक्तन्यायेनेति ॥ उभयोरपि सर्वप्रवृत्तिकारणत्वेन साम्यात् स्मरशब्देन रुद्रग्रहणे तदुत्तमत्वायोगेन तत्पदस्य स्मरपदस्य कामदेवपरत्वोपपत्तेः । तत्र चतुर्मुखे मनसः शेषस्य इत्यादेरिति । तथा च न साम्यमिति भावः ।

वाक्यार्थमञ्जरी

उक्तेति ॥ अनियम इत्युक्तेत्यर्थः ॥ ऊनत्वमुक्तमिति ॥ सङ्कल्पाद्याशोत्तमप्राणादूनत्वं सङ्कल्पाद्यवरमनसः कैमुत्यसिद्धमित्यर्थः ॥ तत्रेति ॥ मनो वाव वाचो भूय इत्यत्र मनःशब्दस्य पर्जन्यपरत्वादित्यर्थः । पर्जन्यः सर्वतोवरः मनोऽभिमानी सम्प्रोक्त इति स्मरणादिति भावः ॥ स्मरशब्देन तद्ग्रहणमिति ॥ स्मरो वावाकाशाद्भूयानित्यत्र तस्याश्चैव सदाशिवः । स्थिरस्मृत्यभि-मानी स सममेव रतेः स्मर इति स्मरणात्स्मरशब्देन रुद्रग्रहणमित्यर्थः । तथा च तदुत्तमाशोत्तम-प्राणोनत्वं रुद्रस्य सिध्यतीति भावः ॥ ॐ तन्मनः प्राण उत्तरात् ॐ ॥ तद्वाङि्नयामकत्वेन मनः मनोऽभिमानी शेषः सुपर्णश्च प्राणे चतुर्मुखे वाणीद्वारा विलीयते कुत उत्तराद् वाङ्मनसीति पूर्वोदाहृतवाक्यापेक्षयोत्तरान्मनः प्राण इति वाक्यादित्यर्थः ॥ चतुर्मुख इति ॥ वायोरेतज्जन्मनि मुक्त्यभावेन तत्र मनसो मुक्त्यर्थं देहलयासम्भवादिति भावः ॥ मन उदक्रामदिति ॥ सर्वदेवनिर्गमानन्तरं मनो रुद्र उदक्रामद् ब्रह्मदेहादूर्ध्वमगमत् तदासौ देहो निमीलितनयन इवाश्नन्पिबन्नास्तैव न पपातेत्यर्थः । अथ प्राण उदक्रामत्तस्मिन्प्राण उत्क्रान्ते सत्य पद्यत एव ततः पुनः सर्वदेवप्रवेशानन्तरं मन अपि प्राविशत् तदाऽशयदेव नोत्थितः प्राणः प्राविशत् तस्मिन्प्राणे प्राप्ते सत्युदतिष्ठद् उत्थित इत्यर्थः ॥

॥ इति मनोऽधिकरणम् ॥ २ ॥