०१ वाङ्मनसाधिकरणम्

ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ

अथ चतुर्थाध्यायस्य द्वितीयः पादः

वाङ्मनसाधिकरणम्

ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ

सूत्रभाष्यं

देवानां मोक्ष उत्क्रान्तिश्चास्मिन्पाद उच्यते–

॥ ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ॥ १ ॥

वागभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते । वाचो मनोवशत्वदर्शनात् । ‘तस्य यावन्न वाङ्मनसि सम्पद्यत’ इति शब्दाच्च ।

‘उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः ।

तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद्विहीयते’ इति स्कान्दे ॥ १ ॥

तत्त्वप्रदीपिका

देवानां स्वपदगतानामुत्तरोत्तरप्रवेशात्मको मोक्षः, मानुषशरीरिणां ज्ञानिनां शरीरादुत्क्रान्ति-श्चास्मिन्पाद उच्यते । प्रागेव शरीरादुत्क्रान्तानां देवयानेन गतानामन्येषामपि देवमोक्षोक्तावेव मोक्षः सिद्धः । तत्प्रवेशात्मकत्वात्तस्य । अविभागो वचनादित्यन्तेन मोक्ष उच्यते । तत्परत उत्क्रान्तिः । आदितस्तु वागाद्यभिमानिनां देवानां मोक्षोक्तावेवोत्क्रमिष्यत्पुरुषशरीरगतानां वागादीनां लयक्रमोऽपि गम्यते ॥ वाङ्मनसि दर्शनाच्छब्दाच्च ॥ वाङ्मनसि लीयते । वागाभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते वाचो मनोवशत्वदर्शनात् । मनसा सङ्कल्पितं हि वाचा व्याहरति । ननु कथमेतदुपपद्यते, वागभिमानिन्युमा मनोभिमानिनि रुद्रे विलीयते । मनोभिमानी रुद्रः प्राणे वायौ विलीयत इत्यादि? ‘वह्नीन्द्रोपेन्द्रमित्रका’ इति हि भागवते वागाद्यभिमानिनोऽग्न्यादय उक्ताः । ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ इति च श्रूयते । ‘चन्द्रमा मनो भूत्वा’ इति च । क्वचिच्च स्कन्देन्द्रयोर्मनोऽभिमानित्वमुक्तम् । क्वचित्स्वाहापर्जन्ययोर्वाङ्मनसाभिमानित्वमिति । उच्यते । नायं दोषः । एकत्र बहूनामभिमानाविरोधात् ।

‘सर्वाभिमानिनो देवास्तत्रापि ह्युत्तरोत्तरम् ।

आधिक्यं वक्तुमेतेषां पृथक् स्थानमुदीर्यते ॥

आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते ।

स्थानेषु त्ववरेषां च परे सन्ति न चेतरत् ॥

तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते ।

अव्यक्तादिपदार्थानां सर्वे तदभिमानिनः’ इति हि ब्रह्मतर्के ॥

‘बहुवाचिनां च शब्दानां लिङ्गप्रकरणादिभिः ।

प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोऽर्थेषु गम्यते’ इति शब्दनिर्णये ॥

‘लिङ्गादिसाम्यं यत्र स्यात्प्रयोगाधिक्यमेव तु ।

नियामकं भवेत्तत्र तेन स्यात्सुबहुश्रुत’ इति च ब्रह्मतर्के ॥

अतोऽग्न्यादिभिरवरैरभिमन्यमानेष्वपि तेषूत्तमानामभिमानाविरोधः । महदभिमानिनस्तदल्पाभि-मानिनश्च भवन्ति । यथा विषयस्वामी ग्रामस्य । दर्शितश्चायं न्यायः सर्वश्रुतिस्मृत्यर्थ-ग्रथनात्मकेऽनुव्याख्याने ‘भूतेषु तच्छ्रुतेः’ इति सूत्रमधिकृत्य–

‘प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्तया ।

यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो यतो भूतमानी च सोऽपि ॥

महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सोऽपि ।

तस्मिंल्लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ’ इति ॥

अथापि कथमित्थमिह समुत्थितिरस्य भाष्यस्य, यावतोमारुद्रादीनां तद्देहपाते पुनः पदान्तरं प्राप्य ततो मोक्षोऽभिमतः । अत उमा रुद्रे विलीयत इति न मोक्षोक्तिरुपपद्यते । मैवम् । उमा-रुद्रादीनामेवोपरि वारुणीशेषादिभावात्तदानीमपि तेषु पूर्वप्रसिद्धनामप्रयोगाविरोधात् । अर्जुनादि-शरीरपातेऽपि स्वर्गारोहणिकेऽर्जुनादिशब्दप्रयोगवत् । उक्तं च गारुडे–

‘स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रुद्रपदं ततः ।

साङ्कर्षणं ततो मुक्तिमगाद्विष्णुप्रसादतः ॥’ इति ।

‘महादेव परे जन्मंस्तव मुक्तिर्निरूप्यत’ इति च नारदीये ॥

अनुव्याख्याने च—

‘उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति ।

अहीन्द्रपत्नीमहिपं विरिञ्चपत्नौ विरिञ्चं च विमुक्तिकाले ॥

त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ।

ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक् तादृशतामुपैती’ इति ॥

तत्त्वप्रकाशिका

एतत्पादार्थं दर्शयति ॥ देवानामिति ॥ ज्ञानभोगाभ्यां क्षीणकर्मणामत्र देहक्षयक्रमो वक्तव्यो भवति । स च द्विविधः । देवानां स्वोत्तमप्रवेशेन तत्र देहलयः । अन्येषां तु ब्रह्मनाड्या देहोत्क्रान्ति-रिति । तदुभयमस्मिन्पादेऽधिकार्याधिक्यक्रमेणैव निगद्यत इति भावः । न चैवं सति पादभेदप्रसङ्गः । उपासनावदेकस्यैवार्थस्याधिकारिभेदेन द्वैविध्यात् । तत्र यत्र देवतालये विवादस्स विचार्यते । अत्रादौ भगवत्प्राप्तिलक्षणमोक्षार्थं वाचो मनसि लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा मोक्षाभावप्रसङ्गेनोक्तविरोधः स्यादतः साधनीयमेतत् । प्रकृतज्ञानिनामन्तर्गता वाग्विषयः । मनसि लीयते न वेति सन्देहः । ‘तत्पूर्वकत्वात्’ इति मनोजातत्वोक्तिर्विशेषप्रमाणादर्शनं च सन्देहबीजम् । न वाङ्मनसि लीयत इति पूर्वः पक्षः ।

तथा हि । तदधीनस्य तत्र लयो वक्तव्यः । न च वाङ्मनसयोर्नियम्यत्वादि निश्चेतुं शक्यते । ‘वाक् पूर्वरूपं मन उत्तररूपं’ ‘मनः पूर्वरूपं वागुत्तररूपम्’ इति व्यामिश्रत्वोक्तेः । न चान्यतरग्रहणं युक्तं वचनद्वयस्यापि साम्यात् । अतो वाचो मनसि लयाभावेन मोक्षाभावादनियम इत्युक्तव्याघात इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ वागिति ॥ अस्त्येव वाचो मनसि लयः प्रत्यक्षत एव वाचो मनोवशत्वदर्शनात् । न चोक्तेर्व्यामिश्रत्वेन मनः प्राधान्यानिश्चयः । अत्र खलु वाक् पूर्वरूपमित्यादिना वाङ्मनसयोः पूर्वोत्तरवर्णदेवतात्वे गुणप्रधानभावे च मुनिमतयोर्विवाद उच्यते । तत्र वर्णदेवतात्वविषये तूक्त्योः साम्यम् । अन्यतरपक्षे विशेषादर्शनात् । न च तत्र व्यामिश्रतापि । उभयोरपि ‘‘वर्णदेवतात्वोपपत्तेः । गुणप्रधानभावे तु साम्यमेव नास्ति । ‘मनसा वा अग्रे सङ्कल्प-यत्यथ वाचा व्याहरति’ इति युक्त्या मनःपूर्वकत्वस्य विशेषश्रवणात्प्रत्यक्षानुसारित्वाच्चेति भावः । न च वाचो मनोऽधीनत्वेऽपि देवतयोः कुतस्तदिति वाच्यम् । अचेतनस्यान्योन्यवशत्वस्य देवतानिमित्तत्वात् । अस्तु वाचो मनोऽधीनत्वं तथापि तत्र कुतो लयो नियामकानामनेकत्वेन निश्चयायोगादित्यत आह ॥ तस्येति ॥ नन्वेतच्छ्रुतिसूत्रगतौ वाङ्मनःशब्दावुमारुद्रपरौ कुत इत्यत आह ॥ उमेति ॥ अत्रोमापदेन वारुणी सुपर्णी चोच्येते । रुद्रपदेन च शेषसुपर्णाविति ज्ञातव्यम् ॥

गुर्वर्थदीपिका

गुणप्रधानभाव इत्यत्र वर्णदेवतात्वविषयकगुणप्रधानभावे । न तु स्वरूपयोर् गुणप्रधानभाव इत्यर्थः । अन्यथा वक्ष्यमाणसिद्धान्तविरोधः स्यात् । प्रत्यक्षानुसारित्वाच्चेत्यत्र मरणसमये प्राग्वाचः कुण्ठनेऽपि मनोव्यापारदर्शनेन वाचो मनसि लयस्य सर्वैर्दृश्यमानत्वादित्यर्थः ।

भावबोधः

अत्र भाष्ये देवानामित्येतस्य मोक्षोत्क्रान्तिभ्यां सम्बन्धः प्रतीयते । स चायुक्तः । तथात्वे देवेभ्योऽन्येषां शरीरिणामेवावस्थानप्राप्तेः । अन्यत्र वा तच्छरीरपरित्यागप्रकारस्य चिन्तनीयत्वात् । अचिन्तने वा कारणस्य वाच्यत्वादित्यतः ‘‘उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः’’ इत्यनुव्याख्यानानुसारेण भाष्यं व्याचष्टे– स च द्विविध इत्यादिना ॥ अनेन भाष्ये देवानामित्यस्य मोक्ष इत्यनेनैवान्वयः । मोक्षश्च प्रकरणवशाद्देहादिति गम्यते । उत्क्रान्तिश्चेत्यस्यान्येषां देव-व्यतिरिक्तानामित्यध्याहृतेन सम्बन्ध इत्युक्तं भवति ॥ उपासनावदेकस्यैवार्थस्येति ॥ सकल-वेदोक्तगुणादेर्विशिष्योपासनं तावद्गुणानां विशिष्य क्रियायाश्च सामान्यत उपासनम् । बहुगुणोपासनं चतुर्गुणोपासनमिति चतुर्मुखाद्यधिकारिभेदेनावान्तरवैचित्र्ये विद्यमानेऽपि उपासनत्वेनैकीकृततत्प्रति-पादकत्वेन तत्पादस्यैकपादत्ववदत्रापि स्वोत्तमप्रवेश उत्क्रमणमिति, देवाद्यधिकारिभेदेनावान्तर-वैचित्र्ये विद्यमानेऽपि देहक्षयत्वेनैकीकृततत्प्रतिपादकत्वेन पादैक्यं सम्भवतीति भावः ॥ भगव-त्प्राप्तिलक्षणमोक्षार्थमिति ॥ पूर्वसूत्रे ‘अथ संपत्स्यते’ इत्युक्तभगवत्प्राप्तिलक्षणमोक्षार्थं वाचो मनसि लयसमर्थनादस्ति शास्त्रादिसङ्गतिरिति भावः ॥ मनसीति ॥ अत्र वाङ्मनसि न लीयते उत लीयत इति चिन्ता । तदर्थं तयोः किं नियम्यनियामकभावो नास्त्युतास्तीति । तदर्थं ‘वाक् पूर्वरूपम् मन उत्तररूपम्’ ‘मनः पूर्वरूपं वा वागुत्तररूपम्’ इत्युक्त्योर्व्यामिश्रत्वेन नियम्य-नियामकभावे विरोधित्वमस्त्युत नास्तीति । तदर्थं वाङ्मनसोर्नियम्यनियामकभावे प्रमाणं नास्त्युतास्तीति । विशेषप्रमाणादर्शनमिति । ‘तत्पूर्वकत्वाद्वाचः’ इत्यत्रोत्तरश्रुतेर् वक्ष्यमाणन्यायेन व्यामिश्रत्वान्न विशेषप्रमाणमिति भावः । ‘वाक् पूर्वरूपम् मन उत्तररूपम् मनः पूर्वरूपं वागुत्तररूपम्’ इत्युक्ते व्यामिश्रत्वादनिर्णय इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– तदधीनस्येत्यदिना ॥ प्रत्यक्षत एवेति ॥ अनेन सूत्रे दर्शनपदस्य श्रुतिपरत्वे शब्दाद् इत्येतत् पुनरुक्तं स्यादिति भाष्ये वाचां मनोवशत्वदर्शनादित्यनेन दर्शनाद् इति पदस्य प्रत्यक्षपरत्व-मेवोक्तमित्युक्तं भवति ॥ मुनिमतविवाद उच्यत इति ॥ ‘अथाध्यात्मं वाक् पूर्वरूपं मन उत्तररूपम् प्राणः संहिता’ इति शूरवीरो माण्डूकेयः । अथ हास्याह ज्येष्ठः ‘मनः पूर्वरूपं वागुत्तररूपम्’ इति शूरवीरमाण्डूकेयतज्ज्येष्ठपुत्राख्यमुनिमतविवाद उच्यत इत्यर्थः । ‘वाक् पूर्वरूपं मन उत्तररूपम्’ इति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनः पूर्वरूपम्’’ इत्यनेन साम्यमिति न्यायविवरणं व्याचष्टे– तत्रेति ॥ अन्यतरेति ॥ मतद्वयेऽपि विष्णुरूपयोरेव पूर्वोत्तरवर्णदेवता-त्वादिति भावः ॥ उभयोरपीति ॥ वाङ्मनोनामकयोरुभयोरपि विष्णुरूपयोः प्रत्येकं पूर्वोत्तरवर्ण-प्रतिपाद्यत्वेन पूर्वोत्तरवर्णदेवतात्वोपपत्तेरित्यर्थः । ‘मनसा वा अग्रे सङ्कल्पयति अथ वाचा व्यवहार इति युक्तितो विशेषो मनःपूर्वकत्वस्यैव श्रूयत इति प्राधान्यं मनस एव हि ज्ञायत इति न्यायविवरणार्थमाह– गुणप्रधानभावे त्वित्यादिना । युक्तिमात्रेण कथमुक्तेरर्थान्तरविषयत्वमित्यत आह– प्रत्यक्षेति ॥ वाचो मनोऽधीनत्वेऽपीति सङ्कल्पव्यवहरणे प्रति, अचेतनयोरेव कारणत्वमिति भावः ॥ अचेतनस्येति ॥ उपलक्षणमेतत् ।

सृष्टौ च विलये चैव सदा पूर्वप्रवर्तने ।

नियन्तृत्वे च वचसो मनोऽधीशं शिवो हि तत् ॥

इति न्यायविवरणोदाहृतश्रुतेश्चेत्यपि ग्राह्यम् ।

ननु उमायास्तस्मिन् जन्मनि मोक्षाभावाद्रुद्रस्य च मोक्षमार्गत्वाभावात् कथं तस्यास्तत्र मोक्षार्थं देहलय इत्यतः–

‘उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति ।

अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले’ ॥

इत्यनुव्याख्यानं मनसि निधायाह– अत्रोमापदेनेति ॥

भावदीपः

एतदित्यादि पूर्ववद्व्याख्येयम् । पादार्थदर्शनं च वृत्तवर्तिष्यमाणयोः सङ्गतिसूचनायेति भावेनाह ॥ ज्ञानेति ॥ भाष्यदिशा पादैक्याप्राप्तेराह ॥ देहक्षयेति ॥ तर्हि भाष्ये देहक्षय इत्येव कुतो नोक्तमित्यत आह ॥ स चेति ॥ मोक्षशब्दार्थस्तत्र देहलय इति । उत्क्रान्तावपि देवकर्तृकत्व-भ्रमनिरासायाह ॥ अन्येषामिति ॥ निगद्यते अविभागो वचनादित्यतः प्राग्देहलयस् ततः परमुत्क्रान्तिरिति भावः । भाष्येऽविभागेनोक्तिर्देवानामित्यधिकार्युक्तिश्च पादभेदशङ्काव्युदासायेति भावेन शङ्कापूर्वं भाष्यभावं व्यनक्ति ॥ न चैवमिति ॥ उपासनावदिति ॥ यथा ‘सच्चिदानन्द आत्मेति मानुषैः’ इत्यादि सङ्क्षेपभाष्यदिशा चतुर्गुणबहुगुणाखिलगुणोपासनेत्यधिकारिभेदे-नोपासनावान्तरभेदेऽपि उपासनात्वेनैकार्थ्यात्पादैक्यं तथेति भावः ।

ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ॥ १ ॥ तर्हि वादिलयविचारे को हेतुरित्यत आह ॥ तत्रेति ॥ देहलयप्रकारेऽवश्यवक्तव्ये सतीत्यर्थः । श्रुतौ वाचः प्रथमं श्रवणादाह ॥ अत्रादाविति ॥ भवदिति शास्त्रे मोक्षार्थमित्यध्याये लयेति पादे सङ्गतिरुपपादिता । एवमग्रेऽपि ॥ अन्यथेति ॥ देहलयाभाव इत्यर्थः ॥ उक्तेति ॥ अनियम इत्युक्तविरोध इत्यर्थः । वागादेर्ज्ञानित्वेन सामान्यतः प्रकृतत्वमाह ॥ प्रकृतेति ॥ वाक् उमादेवी । मनसि रुद्रे । एते च भूतपूर्वगत्या तयोर्नामनी । वर्तमाने तु वारुणीशेषावित्यग्रे व्यक्तम् ॥ तदिति ॥ तत्पूर्वकत्वाद्वाच इति सूत्र इत्यर्थः ॥ विशेषेति ॥ वाङ्मनसि संपद्यत इति श्रुतेर् इतः पूर्वं क्वापि सूत्रकृदनुक्तेरदर्शनमित्युक्तम् । यद्वा वाचो मनोजातत्वे विशेषप्रमाणादृष्टिरित्यर्थः । मनः पूर्वरूपमिति तु सामान्यमिति भावः । सूत्रभाष्यव्यावर्त्यकोटिमाह ॥ न वागिति ॥ कुत इत्यतः वाक्पूर्वरूपं मन उत्तररूपं, मनः पूर्वरूपं वागुत्तररूपमित्युक्तेर्व्यामिश्रत्वादनिर्णीतिरेवेत्यन्यत्रोक्तं परिष्कृत्य हेतुत्वेन योजयति ॥ तदधीनेति ॥ विपर्ययेण तु क्रमोऽत उपपद्यते चेत्यत्र तथोक्तेः । ‘स्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लय’ इत्याद्यनुभाष्योक्तेश्चेति भावः । अचतुरेत्यादिना निपातनाद्वाङ्मनसयोरित्युक्तिः । पूर्वरूपं कारणम् उत्तररूपं कार्यमिति शङ्कितुराशयः । उक्तेरप्रयोजकत्वं निराह ॥ न चेति ॥ अत इति ॥ व्यामिश्रत्वोक्त्या वाचो मनोवशत्वानिर्णयात्तद्वश एव तत्र लीयत इति वाच्यत्वादित्यर्थः ।

भाष्यं व्याचष्टे ॥ अस्त्येवेति ॥ अनिर्णयनिरासायैवकारः ॥ प्रत्यक्षत इति ॥ मनः प्रवृत्त्यनन्तरमेव वाक्प्रवृत्तेः सर्वानुभवसिद्धत्वादित्यर्थः । वाक्पूर्वरूपं मन उत्तररूपमिति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनः पूर्वरूपमित्यनेन साम्यमित्यन्यत्रोक्तं प्रागुक्तशङ्कोत्तरत्वेन परिष्कारपूर्वं व्यनक्ति ॥ न चेत्यादिना ॥ अत्र ऐतरेयश्रुतौ । वाङ्मनसयोः ‘वक्तृत्वाच्चैव वाङ्नामा मनोमंत्तृत्वहेतुतः’ इति तद्भाष्योक्त्या वाङ्मनोनामकभगवद्रूपयोर्विष्णुनामगतपूर्वोत्तरवर्णदेवतात्व इत्यर्थः । निर्देशमात्रेणेति मात्रपदव्यावर्त्यायाह ॥ गुणेति ॥ वाङ्मनोनामकभगवद्रूपोपासनायां स्थानभूतयोर्वाङ्मनोऽभिधयोस्तदभिमानिदेवतयोर्गुणप्रधानभावेनेत्यर्थः । एतेन श्रुतौ पूर्वरूपोत्तर-रूपशब्दौ प्रधानाप्रधानपरावित्यपि व्याख्या सूचिता । मुनिमतयोर् माण्डूकेयतज्ज्येष्ठपुत्रमतयोर्विवाद उच्यत इत्यर्थः ।

तथा हि श्रूयते । ‘अथातः संहिताया उपनिषत्’ इत्युपक्रम्य ‘वाक्पूर्वरूपं मन उत्तररूपं’ प्राणस्त्वेव संहितेत्यादि । एवं परिष्कृत्य पूर्ववर्णेत्यादि व्याचष्टे ॥ तत्रेति ॥ देवतात्व-गुणादिभावरूपार्थद्वयमध्ये इत्यर्थः । नन्वेवमुक्त्योः साम्ये देवतात्वानिर्णयादुपासनायोगादित्यतः साम्यपदभावमाह ॥ न चेति ॥ किं चेति चार्थः ॥ उभयोरिति ॥ रूपयोरेकैक-वर्णदेवतात्वोपपत्तेरित्यर्थः । न चैवमैतरेयभाष्ये अत्र प्राणाख्यस्य प्राणे स्थितस्य विष्णोः संहितानामत्वे पितापुत्रयोः साम्यमेव अन्यत्र तु पुत्रपक्ष एव बलीयान् । युक्तिमत्त्वादित्युक्तिविरोध इति चेन्न । अन्यत्र तु गुणप्रधानभावे इत्यर्थोपपत्तेरिति भावेनाह ॥ गुणेति ॥ कुत इत्यतो न्यायविवरणशेषोक्तं हेतुमाह ॥ मनसेति ॥ प्रत्यक्षेति ॥ वाचो मनोवशत्वस्यानुभाविकत्वादित्यर्थः । जडं मत्वा शङ्कते ॥ न चेति ॥ देवतेति ॥ अभिमानिनयन्यायादिति भावः ॥ अनेकत्वेनेति ॥ छान्दोग्ये सप्तमे कुमारनारदसंवादे वाचः स्वाहात्वं मनसः पर्जन्यत्वं भाष्यते । अग्निर्वाग्भूत्वेति श्रुतेर्वाचोऽग्नित्वं क्वचिदुच्यते । स्कन्देन्द्रादीनां मनस्त्वं क्वचिदुच्यते । वह्नींद्रोपेंद्रमित्रका इति भागवते वाचो वह्न्यादित्वमुच्यते । क्वचिच्च वाग्रसः वागष्टमी ब्रह्मणी संविदानेत्यादौ वाचो वाणीत्वमुच्यत इति वाङ्मनसाभिमानिनामनेकत्वाद्वागुत्तमदेवस्य कथं मनसि लय इति सन्देहाव-स्कन्दनेनानिर्णयादित्यर्थः ॥ इत्यत आहेति ॥ अभिमानिनामनेकत्वेऽपि बह्वीनामेकमानेन त्वेकं नाम च युज्यत इति ऋग्भाष्योक्त्या एकवस्त्वभिमानिनां वागादीनामनेकत्वेऽपि इह वाचो मनसि लयोक्त्या वाङ्मनसपदाभ्यामुमारुद्रयोरेव ग्रहणमिति भावः ॥ कुत इत्यत आहेति ॥ वाङ्मनसयोः सूत्रादौ सहनिर्देशाल्लिङ्गात्स्मृतौ दम्पतित्वेन सहभूततयोक्तावुमारुद्रावेव सूत्रादावभिमतौ ।

बहुवाचिनां च शब्दानां लिङ्गप्रकरणादिभिः ।

प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोऽर्थेषु गम्यते ।

इति तृतीये गीतातात्पर्योक्तेरिति भावः ।

यद्वा

लिङ्गादिसाम्यं यत्र स्यात्प्रायो नाधिक्यमेव तु ।

नियामकं भवेत्तत्र तेन स्यात्स बहुश्रुतः ॥

इति तत्रैवोक्तदिशा स्मृतौ समुद्दिष्टेति प्रयोगाधिक्यात्तयोरेवात्र ग्रहणमिति भावः । ननु षष्ठे गीताभाष्ये ‘स्थितप्रज्ञोऽपि यस्तूर्ध्वं प्राप्य रुद्रपदं ततः ॥ साङ्कर्षणं ततो मुक्तिमगाद्विष्णुप्रसादत’ इति गारुडे । महादेव परे जन्मंस्तव मुक्तिर्निरूप्यत इति च नारदीये इत्युक्त्या देहानंतरमेव न मुक्तिरतः कथमेवमुक्तिरित्यत आह ॥ अत्रेति ॥ स्मृत्यादौ । अर्जुनादिदेहपातेऽपि स्वर्गारोहण-कालेऽर्जुनादिशब्दप्रयोगवद्भूतपूर्वगत्या वारुण्यादावुमादिपदप्रयोग इति भावः । एतच्च समान-देवतयोरप्युपलक्षणं मत्वाऽऽह ॥ शेषसुपर्णाविति ॥

उमागिरीशाविति भारतीराविति स्म वाग्वेदगता ब्रवीति ।

अहीन्द्रपत्नीमहिपं विरिंचपत्नीं विरिंचिं च विमुक्तिकाले ॥

इत्यनुभाष्योक्तेरिति भावः ॥

अभिनवचन्द्रिका

एतत्पादार्थं दर्शयतीति ॥ अध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः फलेऽप्यवान्तरभेदेन पादभेद उपपन्न इति भावेनेति वर्तते । तस्यानेन सम्बन्धः ॥ उपासनावदिति ॥ उपासनस्य बहुगुणत्वेन चतुर्गुणत्वेनेत्यधिकारिभेदेनाऽनेकप्रकारत्वेऽपि उपासनत्वेनैक्यसद्भावाद् उपासनापादस्यार्थैक्यवद् इहापि ‘स्वोत्तमप्रवेश उत्क्रमणम्’ इत्यवान्तरभेदसद्भावेऽवि देहक्षयत्वेनैक्यसद्भावेन एकार्थत्वसम्भवान् न पादभेद इति भावः ॥ तत्पूर्वकादिति ॥ वाचो मनोजन्यत्वोक्तिस् तत्र लयसम्भावकत्वात्सन्देहबीजम् । एवमुत्तराधिकरणेष्वपि द्रष्टव्यम् । अनियम इत्युक्तेति ॥

केषाञ्चिज्ज्ञानिनां मोक्षः केषाञ्चिन्नेति नियममपहाय ज्ञानिमात्रस्य मोक्ष इत्युक्तनियमव्याघात इत्यर्थः । अत्र खल्विति ॥ अत्र मनः पूर्वरूपं वागुत्तररूपं, वाक्पूर्वरूपं मन उत्तररूपम्’ इति श्रुतिभ्यां न किञ्चिदुच्यते किन्तु मुनिमतविवाद एवोच्यते । तथा च श्रुत्योर्व्यामिश्रत्वमिति भावः । प्रसङ्गादृषिमतयोः किं वरमिति जिज्ञासायासाह– तत्रेति ॥ वर्णदेवतात्वविषये ऋष्युक्त्योः साम्यमित्यर्थः । हेतुमाह – अन्यतरेति ॥ अन्यतरपक्षस्वीकाराय श्रुत्या विशेषाऽनभिधाना-दित्यर्थः । ननु द्वयोरपि ऋषिवचनयोर्वर्णदेवताविषये साम्योक्तिरनुपपन्ना विरुद्धवादित्वेन अन्यतराऽप्रामाण्याऽवश्यं भावादित्याशङ्क््य निषेधति – न चेति ॥ तत्र वर्णदेवताविषये । ऋषि वचनयोर् व्यामिश्रता विरुद्धार्थभाषिता नेत्यर्थः । गुणप्रधानभावविषये तु पुत्रवचनमेव ग्राह्मं न तु नामतः शूरवीरस्य माण्डूकेयस्य वचनं ग्राह्यमिति भावेनाह – गुणप्रधानभावे त्विति ॥ पितापुत्रवचनयोः साम्यमेव नास्ति किमत्र तत्वमिति कुतः संदेहः स्यादिति भावः । कुतः पुत्रमतस्य विशिष्टत्वमित्यत आह – मनसा वा अग्रे सङ्कल्पयतीति ॥ अस्तु वाच इति ॥ अस्तु वाचो मनोवशत्वं तथापि वाचो मनसि लयः कुतः प्रमाणादङ्गीकर्तव्यः । उपन्यस्तस्य तद्वशत्वस्य सम्भावकत्वमात्रेण । तेन तन्निश्चयायोगादित्यर्थः । तद्वशत्वस्य सम्भावकत्वमेव कुत इत्यत उक्तं – नियामकानामिति ॥ देवानामित्यर्थः । इदमुक्तं भवति वाचो मनसि लयं प्रतिज्ञाय तत्सिद्धये वाचो मनोवशत्वमुक्तम् । न चेदं तन्निश्चायकं, वाचो मनोवशत्वमिव नियामकानां बहुत्वेन अन्यवशतापि विद्यते । मनोवशत्वेन मनसि लयसाधनेऽन्यवशत्वेनाऽन्यत्रापि लयसिद्धिप्रसङ्गात् । ततोऽकामेनापि नेदं प्रमाणम् अपि तु सम्भावकमात्रमिति वक्तव्यम् । न च सम्भावनामात्रेणार्थः सिध्यतीति प्रमाणस्याऽऽवश्यकत्वात् किं तत्प्रमाणं, कुतो वाचो मनसि लयः प्रतिपत्तव्य इति ।

वाक्यार्थमुक्तावली

एतत्पादेति ॥ अध्यायस्यैकार्थत्वात् पादभेदः किंनिबन्धन इत्यतः फलेऽप्यवान्तरभेदा-दित्याशयेन एतत्पादार्थं दर्शयतीत्यर्थः । पूर्वपादेनास्य पादस्यानन्तरसङ्गतिमाह ॥ ज्ञानेति ॥ ज्ञानेन क्षीणप्रारब्धकर्मणामस्मिन्पादे चरमशरीरक्षयो वक्तव्यो भवति । तदारम्भकप्रारब्धक्षये तदवस्थानायोगादनन्तरसङ्गतिरिति भावः । भाष्ये देवानामित्येतद्यदि मोक्षोत्क्रान्तिभ्यां सम्बध्यते तदा देवेभ्योऽन्येषां चरमदेहविसर्गक्रमोऽत्र न चिन्तितः स्यादिति न्यूनता । यदि च मोक्षेणैव सम्बध्यते तदा देवानां मोक्ष इतरेषामुत्क्रान्तिश्चेत्युक्तं भवति । मोक्षश्च प्रकरणभेदाद् देहादिति गम्यते । देहक्षय इति वोत्क्रान्तिरिति वाऽस्मिन्पादे उच्यत इति सामान्येन वक्तव्यं किमनेन विभागेनेत्यतः ‘उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः’’ इत्यनुव्याख्यानुसारेण भाष्यं व्याचष्टे ॥ स चेति ॥ उपासनावदिति ॥ सर्वगुणोपासनं ब्रह्मणः बहुगुणोपासनं देवानां चतुर्गुणोपासनमेव मनुष्याणामित्यधिकारिभेदेन वैचित्र्यसद्भावेऽपि यथोपासनत्वे प्रतिपाद्यप्रमेयस्यैकत्वान्न पादभेद-स्तथाऽत्रापि स्वोत्तमप्रवेशेन तत्रैव देहक्षयो देवानामितरेषामुत्क्रमणमित्यधिकारिभेदेनावान्तरवैचित्र्ये विद्यमानेऽपि देहलयत्वेनैकीकृत्य तत्प्रतिपादकपादैक्यं सम्भवतीति भावः ।

अन्यथेति ॥ अथ सम्पत्स्यत इति पूर्वाधिकरणोक्तमोक्षाभावप्रसङ्गादनन्तरसङ्गतिरिति भावः ॥ मनसीति ॥ वाङ्मनसि न लीयत उत लीयत एवेति चिन्ता । तदर्थं वाचो मनोनियम्यत्वनिश्चयो न सम्भवत्युत सम्भवतीति ॥ मनोजातत्वोक्तिरिति ॥ तज्जन्यत्वे तत्र लयस्य सम्भावितत्वादिति भावः । एवमुत्तरत्रापि । वाचो मनोवशत्वदर्शनादिति भाष्यनिरस्यं व्यामिश्रतेत्युक्तन्यायं व्यनक्ति ॥ न चेति ॥ पूर्वरूपं कारणम् । अत एव प्रधानं च । उत्तरं रूपं कार्यम् अप्रधानं च ॥ प्रत्यक्षत एवेति ॥ मनोऽनुसारेणैव वाक्प्रवृत्तेः सर्वानुभवसिद्धत्वादिति भावः । नन्वथाध्यात्मं वाक्पूर्वरूपं मन उत्तररूपं प्राणस्संहितेति सूरवीरो माण्डूकेयः । अथास्य पुत्र आह ज्येष्ठः । मनः पूर्वरूपं वागुत्तररूपमिति स्मृत्योर्व्यामिश्रत्वात् प्राधान्यानिश्चय इत्युक्तमित्याशङ्क्य विशेषसाम्यश्रुतिरित्युक्त-सिद्धान्तन्यायं व्यञ्जयन्प्रतिषेधति ॥ न चेति ॥ अत्र खल्विति ॥ अत्र खलु वाक्पूर्वरूप-मित्यादिना वाङ्मनसोर्विष्णुनामि्न, पूर्वोत्तरदेवतात्वविषये तु मुनिमतयोर्माण्डूकेयतज्जेष्ठपुत्रमतयोरेको विवाद उच्यते । गुणप्रधानभावे च पूर्वोत्तरवर्णदेवताभूतवाङ्मनोनामकभगवद्रूपोपासनायां प्रतिमा-भूतयोर्वाङ्मनोनियामकयोर्देवतयोर्गुणप्रधानभावविषये चापरोऽपि विवाद उच्यत इति योज्यम् ॥ उभयोरिति ॥ वाङ्मनोनामकयोरुभयोरपि विष्णुरूपयोः प्रत्येकं वर्णदेवतात्वोपपत्तेरित्यर्थः । एवं विशेषसाम्यश्रुतिरित्यत्र साम्यश्रुतिरित्यंशं व्याख्याय विशेषश्रुतिरित्यंशस्फोरकत्वेन वाचो मनोवशत्वदर्शनादिति भाष्यं युक्त्या प्रत्यक्षेण च दर्शनादिति भावेन व्याचष्टे ॥ गुणेति ॥ साम्यमिति ॥ उक्त्योरित्यनुवर्तते ॥ व्याहरतीति ॥ युक्त्येति ॥ व्याहरति यस्मात्तस्मान्मन एव पूर्वरूपमिति पुत्रोक्तयुक्तिवचनं न वाङ्मनःपूर्वकत्वस्य वाचो मनःकारणकत्वेऽस्य वाक्पक्षस्य मनःपक्षविवक्षया दौर्बल्यं मनस एव प्रधानत्वमिति मनःपक्षस्य ज्यायस्त्वश्रवणाद्वाचो मनोवशत्व-ग्राहकसाक्षिप्रत्यक्षानुसारित्वाच्चेत्यर्थः ॥ देवतानिमित्तत्वादिति ॥ उभयोरचेतनत्वेन साम्या-दन्यस्यान्यवशत्वायोगाद्देवताकारितत्वादित्यर्थः ॥ नियामकानामिति ॥ नियामकदेवताना-मित्यर्थः । तथा च मनोधीनत्वमात्रस्याप्रयोजकत्वात् कुतः प्रमाणान्मनस्सिद्धिरिति भावः ॥ तस्य यावदिति ॥ जीवमरणकाले देवताप्रवेशस्य देवतालयक्रमानुसारित्वान्नैतदुदाहरणमसङ्गतम् । तदुक्तम् अनुव्याख्याने–

तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।

उच्यते देहगानां च वृत्तीनामेवमेव तु ॥ इति ।

ननूमायास्तस्मिञ्जन्मनि मोक्षाभावाद्रुद्रस्य च संसारिणो मोक्षमार्गत्वाभावात्कथं तस्यास्तत्र मोक्षार्थं देहलय इत्यत आह ॥ अत्रेति ॥ उमादिशब्दानां वारुण्यादौ वृत्तौ किं निमित्तमिति चेदत्रोक्तं सुधायाम् । उमात्वादीनां वारुणीत्वादीनां चैकद्रव्यसम्बन्धो लक्षणाबीजमिति । अत एवानुव्याख्याने त एव मरुत्पदमाप्नुवन्तीत्युक्तम् । उमादिपदेन सौपर्ण्यादिलक्षणायां तु पदसादृश्यं प्रवृत्तिनिमित्तमित्युक्तं ज्ञेयम् ।

तत्त्वसुबोधिनी

अत्र यथा भाष्ये देवानामित्यस्य भोगोत्क्रान्तिभ्यां सम्बन्धः प्रतीयते स चायुक्तः । तथात्वे देवस्यान्येषां सशरीरिणामेवावस्थानप्राप्तेः । अन्यत्र तच्छरीरपरित्यागप्रकारस्य चिन्तनीयत्वात् । अचिन्तने वा कारणस्य वाच्यत्वान् मन इत्यतो उत्क्रान्तिमार्गौ देवानामित्यनुव्याख्यानानुसारेण भाष्यार्थमाह ॥ स च द्विविध इति ॥ अनेन भाष्ये देवानामित्यस्य मोक्ष इत्यनेनान्वयः । मोक्षस्य प्रकरणवशाद्देहादिति गम्यते उत्क्रान्तिश्चेत्यस्यान्येषां देवव्यतिरिक्तानाम् इत्यध्याहृतेन सम्बन्ध इत्युक्तं भवति ॥ उपासनावदेकस्यैवार्थस्येति ॥ सकलवेदोक्तगुणादविशिष्योपासनं तावद्गुणानां विशिष्य क्रियायाश्च सामान्यत उपासनं, बहुगुणोपासनं, चतुर्गुणोपासनमिति चतुर्मुखाद्यधिकारिभेदेना-वान्तरवैचित्र्ये विद्यमानेऽपि उपासनात्वेन एकीकृततत्प्रतिपादकत्वेन तत्पादस्यैकपादत्ववदत्रापि स्वोत्तमप्रवेश उत्क्रमणमिति देवाधिकारिभेदेनावान्तरवैचित्र्ये विद्यमानेऽपि देहक्षयत्वेनैकीकृत-तत्प्रतिपादकत्वेन पादैक्यं सम्भवतीति भावः । भगवता पूर्वसूत्रे ‘अथ संपत्स्यते इत्युक्तभगव-त्प्राप्तिलक्षणमोक्षार्थं वाचो मनसि लयसमर्थनाद् अनन्तरसङ्गतिरिति भावः । उक्तविरोधः स्यादित्यर्थः ॥ विशेषप्रमाणादर्शनमिति ॥ तत्पूर्वकत्वाद् इत्युक्तश्रुतेर् वक्ष्यमाणन्यायेन व्यामिश्रितत्वान्न विशेषप्रमाणत्वमिति भावः ॥ प्रत्यक्षत एवेति ॥ अनेन सूत्रे दर्शनपदस्य श्रुतिपरत्वे शब्दादित्येतत्पुनरुक्तं स्याद् इति भाष्ये वाचो मनोवशत्वदर्शनादित्यनेन दर्शनादिति पदस्य प्रत्यक्षपरत्वमेवोक्तमित्युक्तं भवति । मुनिमतयोर् विवाद उच्यते इति । अथात्मा वाक् पूर्वरूपं मन उत्तररूपं प्राणः संहिते शूरवीरोमाण्डूकेथा हास्य पुत्र आह ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपम् इति शूरवीरमाण्डूकेयतज्ज्येष्ठपुत्राख्यमुनिमतविवाद उच्यते इत्यर्थः ॥ अन्यतरेति ॥ मतद्वयेऽपि विष्णुरूपयोरेव पूर्वोत्तरवर्णदेवतात्वादिति भावः ॥ उभयोरपीति ॥ वाङ्मनोनामकयोर् उभयोरपि विष्णुरूपयोः प्रत्येकं पूर्वोत्तरवर्णप्रतिपाद्यत्वेन पूर्वोत्तरवर्णदेवतात्वोपपत्तिरित्यर्थः । युक्तिमात्रेण कथं युक्तेरर्थान्तरविषयत्वमित्यत आह ॥ प्रत्यक्षेति ॥ वाचो मनोऽधीनत्वेऽपीति । सङ्कल्पव्यवहरणे सत्यचेतनयोरेव कारणत्वमिति भावः । ननूमायाः स्वस्मिञ्जन्मनि मोक्षभावेन रुद्रस्य च मोक्षमार्गाभावात् कथं तस्या मोक्षार्थं देहलय इत्यत आह ॥ अत्रोमापदेनेति ॥ उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति । अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चेत्यनुव्याख्यानोक्तेरिति भावः ।

वाक्यार्थविवरणम्

उपासनावदिति ॥ मनुष्योत्तममारभ्य ब्रह्मपर्यन्तमुपासनायाधिकारिभेदे विद्यमानेऽपि उपा-सनात्वेनैकीकृतोपासनाप्रतिपादकत्वेनैकपादत्वम् । एवमत्रापि देवाद्यधिकारिभेदे विद्यमानेऽपि स्वोत्तमप्रवेशोत्क्रमणयोर्देहक्षयत्वेनैकत्वाद्देहक्षयरूपैकार्थप्रतिपादकत्वेन पादैक्यं युक्तमिति भावः । ‘इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी । उक्ता सुपर्णश्च गिरीशनाम्ना’ इत्यनु-व्याख्यानं मनसि निधायाह ॥ उमारुद्रपदाभ्यामिति ॥ वारुणीशेषयोर्ग्रहणे गरुडमार्गस्थस्येन्द्रस्य वारुण्यां लयाभावादिति भावः ।

वाक्यार्थमञ्जरी

तत्रोत्तमेषु ॥ उपासनावदिति ॥ चतुर्मुखाद्यधिकारिभेदेन सकलगुणोपासनं चतुर्गुणोपासन-मित्याद्यवान्तरवैचित्र्ये विद्यमानेऽप्युपासनात्वेनैकीकृततत्तत्प्रतिपादकत्वेन तस्य पादैक्यवदत्रापि देहक्षयत्वेन एकीकृततत्प्रतिपादकत्वेन पादैक्यं सम्भवतीति भावः ॥ उक्तेति ॥ अनियम इत्युक्तेत्यर्थः । वागिति ॥ वाङ्नामा भगवान् विष्णुनामि्न पूर्वरूपे पूर्ववर्णदेवता मनः मनोनामा उत्तरवर्णदेवता तथा वाक् वागिन्द्रियं पूर्वरूपं पूर्वभाविव्यापारत्वेन प्रधानं मनः मनोरूपेन्द्रियम् उत्तररूपं पश्चाद्भाविव्यापारत्वेन अप्रधानमित्यर्थः । एवमुत्तरवाक्यमपि द्वेधा व्याख्येयम् ॥ व्यामिश्रेति ॥ विरुद्धेत्यर्थः ॥ ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ॥ वागभिमानी वाणी सौपर्णी च मनसि मनोभिमानिनि शेषे गरुडे च विलीयते कुतः दर्शनाद् वाचो मनोवशत्वस्य प्रत्यक्षत एव दर्शनात्तस्य न यावदिति शब्दाच्छ्रुतेश्चेत्यर्थः ॥ मुनिमतविवाद इति ॥ अथाध्यात्मं वाक् पूर्वरूपं मन उत्तररूपं प्राणःसंहितेति शूरवीरो माण्डूकेयोऽथाहास्य पुत्र ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपम् इति शूरवीरो माण्डूकेय तज्ज्येष्ठपुत्राख्यमुनिमतविवाद उच्यत इत्यर्थः ॥ अन्यतरेति ॥ मतद्वयेऽपि विष्णुरूपयोरेव पूर्वोत्तरवर्णदेवतात्वमिति भावः ॥ उभयोरपि ॥ वाङ्मनसनामकयोरुभयोरपि विष्णुरूपयोः प्रत्येकं पूर्वोत्तरवर्णप्रतिपाद्यत्वेन पूर्वोत्तरवर्णदेवतात्वमिति भावः ॥ युक्तेति ॥ मनसा सङ्कल्पितस्यैव वाचा व्यवहरणरूपयुक्त्येत्यर्थः । युक्तिमात्रेण कथं श्रुतेरर्थान्तरविषयत्वमित्यत आह ॥ प्रत्यक्षेति ॥ वाचो मनोऽधीनत्वेऽपीति ॥ सङ्कल्पव्याहरणे प्रति चेतनयोरेव कारणत्वमिति भावः ॥ अनेकत्वेनेति ॥ ब्रह्मादेरपि तन्नियामकत्वादिति भावः । ननूमायास्तस्मिन् जन्मनि मोक्षाभावाद्रुद्रस्य मोक्षमार्गत्वाभावात्कथं तस्यास्तत्र मोक्षार्थं देहलय इत्यत आह ॥ अत्रोमापदेनेति ॥