०७ प्रायणाधिकरणम्

ॐ आ प्रायणात्तत्रापि हि दृष्टम् ॐ

७. प्रायणाधिकरणम्

सूत्रभाष्यम्

॥ ॐ आ प्रायणात्तत्रापि हि दृष्टम् ॐ ॥ १२ ॥

यावन्मोक्षस्तावदुपासनादि कार्यम् ।

‘स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत’ इति हि श्रुतिः ॥

‘सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपासत’ इति सौपर्णश्रुतिः ॥

‘श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तता ।

ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ॥

दृष्टतत्वस्य च ध्यानं यदा दृष्टिर्न विद्यते ।

भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ।

आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम्’ इति ब्रह्माण्डे ॥ १२ ॥

॥ इति प्रायणाधिकरणम् ॥ ७ ॥

तत्त्वप्रदीपिका

यावन्नारायणं प्रति प्रयाणात्मको मोक्षस् तावदुपासनार्चनादि कार्यम् । आदर्शनादिति वक्तव्ये आमोक्षादित्युक्तं दर्शनवतामपि यदा तद्विच्छेदस्तदाऽवश्योपास्तिकरणार्थम् । ‘स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयति’ इति प्रश्ने ‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ इत्यारभ्य तस्य परमध्यातुर्विरिञ्चलोकं नीतस्य ‘स एतस्माज्जीवघनात्’’ इत्यादेस्ततोऽप्युपदेशं प्राप्य पुनरभ्यस्यतः परं पश्यतोऽप्योङ्कारेणै-वायनेनान्वेति विद्वान् । ‘यत्तच्छान्तमजरममृतमभयं परं चे’ इत्यामोक्षादुपास्तिकर्तव्यतायां प्रमाणदर्शनात् ।

तत्त्वप्रकाशिका

अत्र भगवज्ज्ञानसाधनध्यानस्य प्रायणान्तत्वसमर्थनादस्ति शास्त्रसङ्गतिः । अन्यथा ज्ञानिनां ध्यानफलाभावप्रसङ्गेन मुक्तौ तारतम्याभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतं ध्यानमेव विषयः । किं ज्ञानपर्यन्तमेवावश्यकमुत मुक्तिपर्यन्तमपीति सन्देहः । ज्ञानसाधनत्वं ज्ञानिनामपि तद्दर्शनं सन्देहबीजम् । ज्ञानपर्यन्तमेवावश्यकमिति पूर्वः पक्षः । दर्शनार्थमेव श्रवणादिविधानात् । ज्ञानार्थं विहितस्य मुक्तिपर्यन्तमनुष्ठाने कारणाभावात् । न च ज्ञानसाधनस्यापि ध्यानस्य मोक्षोपयोगित्वा-त्तावदावश्यकत्वमिति वाच्यम् । ज्ञानमात्रस्यैव मोक्षे सामर्थ्यात् । न चानन्दातिशयार्थं ध्यान-नियतिः । आनन्दातिशयार्थं श्रवणादिसाधनान्तरस्यापि कर्तुं शक्यतया तन्नियमायोगात् । ज्ञान एव ध्यानस्य प्राबल्यात् । न ह्येकत्र यस्य प्राधान्यं तस्य सर्वत्रापीति । अतो यावन्मोक्षं ध्यानस्य कर्तव्यत्वाभावाज्ज्ञानिनां शुकादीनां तद्व्यर्थमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ आ प्रायणादिति ॥ मुमुक्षुणा मोक्षपर्यन्तं ध्यानमवश्यं कर्तव्यमेव । ध्यानं विनाऽपरोक्षज्ञानाभावेन तावज्ज्ञानपर्यन्तमावश्यकत्वादिति भावः । तथापि मुक्तिपर्यन्तं तदनुवृत्तिः कुत इत्यतो दृष्टं हीति सूचितश्रुतिं दर्शयति ॥ स इति ॥ एतदेतेषु । ॐकारो हरिः । कैमुत्येनापि ध्यानस्य मुक्तिपर्यन्तत्वं साधयन्नाह ॥ सर्वदेति ॥ ज्ञानात्पूर्वं श्रवणादियुतध्यानस्य कर्तव्यत्वाज्ज्ञानानन्तरं च सम्यग्ध्याना-लाभे श्रवणादित्यत उपासनादीत्यादिपदम् । उक्तं हि–

भोक्तव्यकर्मण्यक्षीणे जपेन कथयापि वा ।

वर्तयन्ति महात्मानस्तन्निष्ठास्तत्परायणाः ॥ इति ।

ज्ञानपर्यन्तं श्रवणादियुक्तं ध्यानम् । ततः प्रायेण केवलं कर्तव्यमेवेत्यत्र स्मृतिं चाह ॥ श्रुणुयादिति ॥ ‘नेक्षा क्वचन बाध्यत’ इति ॥ कादाचित्क्यपि मोक्षसाधनं भवतीत्यर्थः । दृष्टतत्त्वस्य च ध्यानं निरवधिकम् । ज्ञानोत्तरमपि निरवधिकं ध्यानं किं विहितत्वात्क्रियतेऽन्यथा वा । नाद्यः । मोक्षविरोधात् । न द्वितीयः । करणानुपपत्तेरित्यत आह ॥ आविमुक्तेरिति ॥ स्वत एव स्वभावेनेत्यर्थः । न च वाच्यं ज्ञानोत्तरध्यानस्य फलाभावादकर्तव्यत्वमिति । आनन्दातिशय-फलत्वात् । न चोक्तदोषः । ‘योगारूढस्य तस्यैव शमः कारणमुच्यते’ इति वचनादानन्दवृद्धौ ध्यानस्यैव प्रधानसाधनत्वात् । अतो मोक्षपर्यन्तं ध्यानस्य कर्तव्यत्वेन ज्ञानिनामपि तद्विचित्रफलेन मुक्तौ तारतम्यसिद्धिरिति सिद्धम् ।

गुर्वर्थदीपिका

उक्तदोषः श्रवणादिसाधनान्तरस्यापि कर्तव्यत्वदोषः । शमः कारणमुच्यत इत्यत्र ‘शमो मन्निष्ठता बुद्धेः’ इति वचनाद्बुद्धेर्भगवन्निष्ठता ध्यानमिति यावत् । कारणं मुक्तावानन्दवृद्धेः कारणम् ॥

भावबोधः

अत्र भगवज्ज्ञानसाधनध्यानस्येति ॥ भगवज्ज्ञानसाधनत्वेन विहिते यस्मिन् ध्याने पूर्वाधि-करणे आसननियम उक्तस्तस्य ध्यानस्य ज्ञानिनामाप्रायणान्तत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ ध्यानफलाभावप्रसङ्गेनेति ॥ अपरोक्षज्ञानानन्तरकृतध्यानस्य आनन्दादिवृद्धिलक्षण-फलाभावप्रसङ्गेनेत्यर्थः ॥ किमित्यादि ॥ अत्र ध्यानं किं ज्ञानपर्यन्तमेव कर्तव्यमुत मुक्ति-पर्यन्तमपीति चिन्ता । तदर्थं ज्ञानिकृतध्यानस्य फलं नास्त्युतास्तीति । तदर्थं तत्फलत्वेनाभि-मतानन्दातिशयः किं श्रवणादिसाधनान्तरेणान्यथासिद्धो भवत्युत न भवतीति । यावन्मोक्ष-स्तावदुपासनादीति भाष्यनिवर्तनीयं पूर्वपक्षमाह– ज्ञानपर्यन्तमेवेत्यादिना । अन्यस्यापि साधनस्य कर्तुं शक्यत्वान्न यावन्मुक्ति ध्यानं कार्यमिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न चानन्दातिशयार्थमित्यादिना ॥ ननु श्रवणादित्रयस्य ज्ञानसाधनत्वेऽपि यथाध्यानमेव प्रबलं साधनं तद्वदत्रापि ध्यानस्य प्राबल्यं किं न स्यादित्यत आह– ज्ञान एवेति ॥ यावन्मुक्ति ध्यानं न कार्यमिति वदता किं मुक्तेः पूर्वं कदापि ध्यानं न कार्यमित्युच्यते, उतापरोक्षज्ञानानन्तरमेवेति विकल्पं हृदि निधायाद्यपक्षनिराकरणपरत्वेन ध्यानं विनाऽपरोक्षज्ञानाख्यविशेषकार्यानुपपत्तेरिति न्यायविवरणं व्याचष्टे– ध्यानं विनेति ॥

द्वितीयमाशङ्क्य तन्निराकरणपरत्वेन स य इति भाष्यं व्याचष्टे– तथापीति ॥ कैमुत्ये-नापीति ॥ अनेन ‘तत्रापि’ इति सूत्रांशो विमुक्तावपीति, एतच्छ्रुत्युदाहरणेनोक्ततात्पर्यको भवतीति सूचितम् । भाष्योदाहृतश्रुतिद्वये उपासनामात्रस्य श्रुतत्वात् किमर्थं तत्पूर्वभाष्ये उपासनादि’’ इति ‘‘आदि’’पदप्रयोग इत्यत आह– ज्ञानात् पूर्वमिति ॥ ‘भक्तिश्चानन्तकालीना’ इति उत्तरार्धानु-सारेणाह– दृष्टतत्त्वस्य च ध्यानं निरवधिकमिति ॥ अनेन दृष्टतत्वस्य पुंसः परमे ब्रह्मणि विषये ध्यानं निरवधिकं स्फुटा भक्तिश्चानन्तकालीना । तत्र हेतुर्यदा यस्माद् दृष्टिः फलत्वेन न विद्यते सिद्धत्वादिति स्मृतियोजना सूचिता भवति ॥ मोक्षविरोधादिति ॥ ज्ञानोत्तरं निरवधिकध्यानस्य विहितत्वेन करणे मोक्षेऽपि तथाकरणापत्या विधिबन्धवर्जितत्वरूपमोक्षत्वविरोधादित्यर्थः ॥ करणानुपपत्तेरिति ॥ मोक्षात् पूर्वमित्यर्थः ॥ ध्यानस्यैवेति ॥ ‘‘शमः कारणम्’’ इत्यत्र शम-शब्देन ध्यानस्यैव विवक्षितत्वादिति भावः ।

भावदीपः

प्रायणांतत्वेति ॥ मोक्षपर्यन्तत्वेत्यर्थः । एतेन यस्मिन् ध्याने अविशेषाद्देशादिर्नादर्तव्य इत्युक्ततया तस्य ध्यानस्य मोक्षपर्यन्तकार्यत्वं नापेक्ष्यं मोक्षे तत्कृतविशेषाभावादिति शङ्कोदया-त्पूर्वसङ्गतिरपि सूचिता ॥ ज्ञानिनामिति ॥ अपरोक्षिणां शुकादीनां यद्ध्यानं तस्य मुक्ता-वानन्दाभिव्यक्तिरूपफलाभावापातेन मुक्तानां यावत्स्वरूपसुखाभिव्यक्तौ यावदधिकारमवस्थिति-रित्यादावुक्तशतगुणोद्रिक्तत्वादितारतम्यं न स्यात् क्लृप्तानन्दस्य मुक्तौ ह्रासादित्यर्थः । तद्दर्शनं ध्यानदर्शनम् । विश्वेदेवा उपासत इत्यादावित्यर्थः । अन्यस्यापि साधनस्य कर्तुं शक्यत्वान्न यावन्मुक्ति ध्यानं कार्यमित्यन्यत्रोक्तप्रतिज्ञाया ध्यानं च यावदीक्षेति सूचितं भावार्थमाह ॥ ज्ञानपर्यंतमेवेति ॥ शृृणुयादित्यादिस्मृतिसूचितहेतुमाह ॥ दर्शनार्थमिति ॥ द्रष्टव्यः श्रोतव्य इत्यादौ श्रवणमननयोरप्युक्तेः श्रवणादीत्युक्तम् । ध्यानस्य विधानादित्यर्थः । तस्यैव प्रकृतोप-योगादिति ज्ञेयम् । हेतोरप्रयोजकत्वं निराह ॥ ज्ञानार्थमिति ॥ कारणाभावासिद्धिमाशङ्क्य निराह ॥ न च ज्ञानेति ॥ ज्ञानमात्रस्यैवेति ॥ विद्यैव त्वित्यादौ तथैवोक्तेरिति भावः ।

ननु ध्यानस्य ज्ञानोपयोगित्ववचनवज् ज्ञानसमकक्ष्यतया कृत्स्नमोक्षोपयोगित्ववचनाभावेन तदभावेऽपि मोक्षैकदेशोपयोगोऽस्तु । ‘यावत्सेवा परे तत्वे तावत्सुखविशेषता’ इत्युक्तेः । ‘भावं तु बादरायणोऽस्ति हि’ इत्युक्तेश्च । तथा च ज्ञानिनामपि वस्वादीनां ध्यानादावधिकारोक्त्यैवाप्रायणं कर्तव्यत्वसिद्धेर्नात्र पूर्वपक्षोदय इति भावेनाशङ्क्य निराह ॥ न चेति ॥ कुत इत्यतः प्रागुक्त-न्यायविवरणस्थहेतुं योजयति ॥ आनन्देति ॥ ज्ञानार्थं विहितस्यापि यावत्सेवेत्यादिवचन-बलेनान्यार्थत्वमपि सम्भवतीति भावेनोक्तं साधनान्तरेति ॥ अत एव श्रवणादेरानन्दातिशयहेतुत्वे ज्ञानहेतुता नेति शङ्कानिरासाय प्राक् ध्यानविधानादिति वाच्ये श्रवणादीत्युक्तम् । तर्हि ज्ञानपर्यंतमपि नियमेन तन्न स्यादित्यत आह ॥ ज्ञान एवेति ॥ तन्निर्धारणार्थनियम इत्यादौ तथोक्तेरिति भावः । अस्तु मोक्षे आनन्दातिशयेऽपि प्राधान्यमित्यत आह ॥ न हीति ॥ कल्पकाभावादिति भावः ॥ अत इति ॥ ज्ञानार्थं विहितस्य यावन्मुक्तिकृतौ हेत्वभावान्मुक्ता-वानन्दातिशयस्यान्येनापि सिद्धत्वादित्यर्थः ॥ तद्व्यर्थमिति ॥ तथा च देवादीनां देवता-नयोक्ताधिकारो ध्यानादन्यश्रवणादावेव न ध्यान इत्युपासनापादे देवानामितरे त्वर्थसामान्यादित्यादौ ध्यानोक्तिरयुक्तेति भावः ।

ननु सम्भवाच्च प्रकाशस्य परमेकमृते हरिमित्युक्त्या ज्ञानेऽतिशयार्थमपि ध्यानस्यावश्यकतया यावत्स्वयोग्यज्ञानपूर्तेर्ध्यानस्य कर्तव्यत्वात्तस्याश्चामुक्तेर्व्यक्त्यतिशयोपेतमित्युक्त्या मुक्तिपर्यन्तत्वा-ज्ज्ञानार्थमप्यामुक्तिकर्तव्यत्वं सिद्धमिति चेन् न । स्वयोग्यज्ञानपूर्त्यनन्तरमपि कियत्काल-मवस्थितिसम्भवात् कादाचित्कज्ञानस्यापि मुक्त्यव्यभिचारेण ज्ञानातिशयस्यापि व्यर्थत्वमिति वा शङ्काभिप्रायात् । ज्ञानार्थं कर्तव्यत्वेऽपि सुखातिशयार्थं मास्त्विति शङ्कायां सुखातिशयेऽपि ध्यानस्य प्राधान्यं वक्तुं वाऽस्यारम्भात् । वक्ष्यति चानन्दवृद्धौ ध्यानस्येत्यादीति ॥ कर्त्रुक्तिपूर्वं भाष्यं व्याचष्टे ॥ मुमुक्षुणेति ॥ भाष्ये आदिपदोक्तावप्यन्यत्रोक्त्यनुरोधेन ध्यानस्यैवेह प्राधान्यसूचनाय तन्मात्रोक्तिः । तदर्थोऽग्रे व्यक्तः । कुतः कार्यमित्यतो ध्यानं विना परोक्षज्ञानस्य विशेषकार्यानु-पपत्तेरित्यन्यत्रोक्तहेतुमाह ॥ ध्यानं विनेति ॥ यावत्स्वयोग्याज्ञानमित्यर्थः । प्रकृतानुपयोगात्कुत एतदुक्तिरित्यत आह ॥ तावज्ज्ञानपर्यंतमिति ॥ मुक्तिपर्यन्तमावश्यकत्वे हेतुं वक्ष्याम इत्यर्थः । एतच्च पूर्वोक्तप्रमेयस्मरणार्थमेवोक्तम् । न तु ज्ञानपर्यंतमपि न कर्तव्यमिति शङ्कानिरासार्थम् । तस्य प्रागेवावृत्तिनयसिद्धत्वेनात्र तथा शङ्काया एवानुदयादिति भावः । अत एव मुक्तिपर्यन्तं कार्यत्वे आवृत्तिनयसिद्धं ज्ञानपर्यन्तकार्यत्वं नेत्यपि भ्रांतिरपोढा । तथापि ज्ञानपर्यन्तं कार्यत्वेऽपीत्यर्थः । ॐमित्याक्रियते इत्योङ्कार इत्युपेत्याह । ॐकारो हरिरिति ॥ षट्प्रश्ने व्याख्यातैषा श्रुतिः ॥ कैमुत्येनेति ॥ मुक्ता अप्युपासते किमु प्राक् सर्वदा ज्ञानोत्तरमपीति कैमुत्येनेत्यर्थः । श्रुतौ स्मृतौ चाभिध्यायीत दृष्टतत्वस्य च ध्यानमिति ध्यानस्यैवोक्तेर् भाष्ये कथमुपासनादीत्यादिपदेन श्रवणादे-रप्युक्तिरित्यतः प्रायिकत्वेन ध्यानवदावश्यकत्वाभावात् श्रुत्यादौ तन्मात्रोक्तिरिति भावेनादि-पदार्थमाह ॥ ज्ञानादिति ॥ इत्येतस्मात्कारणादित्यर्थः । कुत एवं तत्वप्रदीपरीत्या अर्चनादि-रेवादिपदार्थोऽस्त्वित्यत आह ॥ उक्तं हीति ॥ षष्ठे गीताभाष्ये । वर्तयन्ति वर्तन्ते कालं नयन्तीति वार्थः । कथयापीत्यनेन श्रवणप्रतीतेरिति भावः । एवमादिपदस्य प्रायिकत्वाशयमुक्त्वा स्मृति-मवतारयति ॥ ज्ञानेति ॥ न बाध्यते अप्रमाणं न भवतीत्यर्थस्यानुपयोगादाह ॥ कादाचित्कीति ॥ स्मृतावनन्तकालीनेत्यग्रेतनपदं ध्यानमित्यत्राप्याकृष्यार्थमाह ॥ दृष्टतत्वस्येति ॥ उक्तार्थानुवाद-पूर्वमुत्तरार्धमवतारयति ॥ ज्ञानेति ॥ स्मृतौ यदा दृष्टिर्न विद्यते तिरोहिता । तदा दृष्टतत्वस्यापि पुनर्दृष्ट्यर्थं पुनः पुनर्ध्यानमावश्यकमित्युक्तम् । ईक्षा क्वापि न बाध्यत इत्यपि । तथा च व्यर्थं ध्यानमिति शङ्कते ॥ न च वाच्यमिति ॥ फलत्वादिति ॥ ज्ञानातिशयद्वारा साक्षाद्वेति भावः ॥ उक्तेति ॥ श्रवणादिसाधनान्तरस्यापि कर्तुं शक्यत्वादित्युक्तदोष इत्यर्थः । योगारूढस्य ज्ञानिनः । शमः ध्यानम् । शमो मन्निष्ठता बुद्धेः’ इत्युक्तेरिति भावः । उक्तं च षष्ठे गीताभाष्ये । योगमारूढस्य अपरोक्षज्ञानिन इत्यर्थः । कारणं परमसुखकारणमिति ॥ अत इति ॥ श्रुतिस्मृति-कैमुत्यन्यायसिद्धत्वात्फलवत्त्वाच्चेत्यर्थः ।

अभिनवचन्द्रिका

प्रायणां तत्वसमर्थनादिति ॥ ज्ञानार्त्पूवमिव ज्ञानोत्तरमपि प्रायणपर्यन्तमावश्यकत्व-समर्थनादित्यर्थः । मुक्तौ तारतम्येति ॥ ध्यानफलप्रयुक्ततारतम्यभावाप्रसङ्गादित्यर्थः । एतेन ध्यानफलाभावेऽपि श्रवणादिफलेन तारतम्यसम्भवात्, तारतम्याभावप्रसङ्गादित्ययुक्तमिति परास्तम् ॥ ज्ञानसाधनत्वमिति ॥ ज्ञानसाधनत्वश्रवणं ज्ञानिनामपि ध्यानदर्शनं संदेहबीजमित्यर्थः । न च ज्ञानसाधनस्यापीति ॥ ज्ञानसाधनस्यापि ध्यानस्य ज्ञानेन मोक्षे जनयितव्ये सहकारित्वस्यापि भावान् मोक्षपर्यंतं ध्यानमावश्यकमिति न वाच्यमिति भावः ॥ न चेति ॥ ज्ञानसाध्यावरण-निवृत्तिरूपमोक्षे तस्याजनकत्वेऽपि आनन्दातिशयरूपमोक्षजनकत्वाद् ध्यानमावश्यकमिति न वाच्यमित्यर्थः । आनन्दातिशयसाधनेषु ध्यानस्य प्राबल्याद् ध्यानमावश्यकमित्यत आह – ज्ञान एवेति ॥ ननु – ध्यानमानन्दातिशयसाधनेषु प्रधानं ज्ञानसाधनेषु प्रधानत्वादित्यनुमानादावश्यकत्व-सिद्धिरित्यत आह – न हीति ॥ यस्य एकत्र प्राधान्यं तस्य सर्वत्र प्राधान्यमिति व्याप्त्य-भावादित्यर्थः । ध्यानं विनेति ॥ ध्यानं तावज् ज्ञानपर्यन्तमावश्यकं, ज्ञानसाधनीभूतप्रसादहेतुत्वात् । यदि ज्ञानानन्तरं ध्यानमनावश्यकं स्यात् तर्हि ध्यानं न कुर्यात् । ततश्चेश्वरोऽबहुमानितः स्यात् । एवं च सति ईश्वरोऽपरोक्षज्ञानमेव न दद्यात् । न हि प्रेक्षावान् यद्दानानन्तरं स्वस्मिन् बहुमानो गच्छति तद्ददाति । येनेश्वरोऽपरोक्षज्ञानानन्तरं स्वस्मिन् बहुमानापगमेऽपि अपरोक्षज्ञानं दद्यात् । ददाति चापरोक्षज्ञानमिति प्रायणान्तं ध्यानस्याऽऽवश्यकत्वमवर्जनीयमिति भावः । एतेन ज्ञाना-त्पूर्वमावश्यकत्वस्य ज्ञानोत्तरमावश्यकत्वासाधकत्वात्, तत्सिद्धये ज्ञानात्पूर्वमावश्यकत्व-समर्थनमयुक्तमिति परास्तम् ॥ तथापीति ॥ सत्यं, ज्ञानोत्तरध्यानस्यानावश्यकत्वे ‘ईश्वरो ज्ञानमेव न दद्यात्’ इति तर्कबलाज् ज्ञानपर्यन्तमावश्यकत्वं ज्ञानोत्तरमावश्यकत्वस्य साधकं, तथापि मुक्तिपर्यन्तमावश्यकत्वमित्ययं विशेषः कुतः प्रमाणादवगम्यते । आगमसहकृतस्यैवानुमानस्याऽर्थ-साधकत्वादिति भावः । एतेन श्रुतिबलाज्ज्ञानोत्तरं ध्यानस्यावश्यकत्वसिद्धावपि हेतोरप्रयोजकत्वा-परिहारात्तदुदाहरणमयुक्तमिति परास्तम् । तर्कस्य श्रुतिमूलत्वसिध्यर्थमेव श्रुत्युदाहरणस्याभिमत-त्वात् । सिंहावलोकनन्यायेन ‘यावन्मोक्षस्तावदुपासनादि कार्यमेव’ इति भाष्यगतादिशब्दस्य कृत्यमाह – ज्ञानात्पूर्वमिति ॥ ज्ञानात्पूर्वं ध्यानालाभे तत्सिद्धये श्रवणादेः कर्तव्यत्वदर्शना-ज्ज्ञानोत्तरमपि ध्यानाऽलाभे तत्कर्तव्यता सिध्यतीति तत्सङ्ग्रहायाऽऽदि शब्दप्रयोग इत्यर्थः । एतेन ध्यानालाभे श्रवणादीत्यादिनैव पूर्णत्वात् शेषवैयर्थ्यमिति परास्तम् ॥ मोक्षविरोधादिति ॥ निरवधिकध्यानस्य ज्ञानोत्तरं विहितत्वे मोक्षेऽपि विधिबन्धापत्त्या मोक्षत्वविरोधः स्यादित्यर्थः ।

पूर्वपक्षस्तु मुमुक्षुणा न मोक्षपर्यन्तं ध्यानं कार्यं ध्यानस्य ज्ञानसाधनत्वेनाभिहितत्वात् । न चाऽऽनन्दातिशयार्थं तदिति वाच्यम् । तस्य तद्धेतुत्वाभावात् । अस्तु वा तद्धेतुत्वम् । तथापि न नियमेन कार्यं, श्रवणादिनापि तत्सम्भवात् । ततश्च शुकादीनां ज्ञानिनां तदाग्रहवैयर्थ्यमिति ।

सिद्धान्तस्तु कर्तव्यमेव ज्ञानिना मोक्षपर्यन्तं ध्यानं, तस्य ज्ञान इवाऽऽनन्दातिशयेऽपि प्रधानसाधनत्वात् । तथा च श्रुतिः– ‘स यो ह वै तद्भगवान् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत’ इति । ‘शृृणुयाद्यावदज्ञानम्’ इत्यादिस्मृतेश्च । अतो मोक्षपर्यतं ध्यानस्य कर्तव्यत्वेन ज्ञानिनामपि तद्विचित्रफलेन मुक्तौ तारतम्यसिद्धिरिति सिद्धम् ॥

वाक्यार्थमुक्तावली

पूर्वाधिकरणेऽपरोक्षज्ञानस्य मनसस्सम्यग्भगवद्विषयत्वेन विनाऽयोगात्तस्य च ध्यानस्यासनं विनायोगादासनमावश्यकमित्यासनापेक्षध्यानस्य सर्वदा योग्यस्मरणवैशेष्येण ज्ञानान्तरङ्गसाधनत्व-मुक्तम् । तदयुक्तम् । ज्ञानान्तरङ्गसाधनत्वे ज्ञानानन्तरं मुक्तिपर्यन्तमनुष्ठानायोगात् । अनुष्ठीयते च शुकादिभिरतो न ज्ञानान्तरङ्गत्वमिति न तदर्थमासनस्यावश्यकत्वमित्याक्षेपपर्यवसानादनन्तर-सङ्गतिरिति भावेनाह ॥ अत्र भगवज्ज्ञानेति ॥ भगवज्ज्ञानान्तरङ्गत्वेऽपि प्रायणान्तत्वमुपपद्यत इति समर्थनादित्यर्थः ॥ ध्यानफलाभावप्रसङ्गेनेति ॥ अपरोक्षज्ञानानन्तरं कृतध्यानप्रयुक्तानन्दाभि-वृद्धिलक्षणफलाभावप्रसङ्गेन यावदधिकारमित्याद्युक्तमुक्तितारतम्याभावप्रसङ्गादित्यर्थः । यद्वा समानयोग्यतावतामेव नॄणां वृद्धिह्रासप्रयुक्ततारतम्याभावप्रसङ्गादित्यर्थः ॥ किमिति ॥ अत्र ज्ञानपर्यन्तमेव ध्यानमावश्यकमुत मुक्तिपर्यन्तमपीति चिन्ता । तदर्थं ज्ञानिना ध्यानस्य कार्यत्वे कारणं नास्त्युतास्तीति । तदर्थं कारणत्वेऽभिमते आनन्दातिशयः श्रवणादिसाधनान्तरेणा-न्यथासिद्धो भवत्युत न भवतीति । यावन्मोक्षस्तावदुपासनादीति सिद्धान्तप्रतिज्ञाभागव्यावर्त्यं प्रतिज्ञांशमाह ॥ ज्ञानपर्यन्तमिति ॥ दृष्टं हीत्यत्र विध्यन्तरबलेन प्रायणान्तत्वसमर्थना-त्तद्व्यवच्छेद्ययुक्तिमाह ॥ दर्शनार्थमिति ॥ श्रवणमननोपोद्बलितनिदिध्यासनविधानादित्यर्थः ॥ कारणाभावादिति ॥ निदिध्यासनविधेरनेन चरितार्थत्वेन तदनन्तरमनुष्ठाने प्रमाकरणप्रमाणा-भावादित्यर्थः । यद्वा विधिव्यतिरेकेण ध्याने प्रवर्तकाभावादित्यर्थः । ननु मोक्षलक्षण-फलानुसन्धानमेव प्रवर्तकम् । न च तज्ज्ञानेनासिद्धमिति वाच्यम् । ज्ञानसाध्ये मोक्षे निदिध्यासनस्य सहकारितयोपयोगसम्भवादित्याशङ्क्यापाकरोति ॥ न चेति ॥ ज्ञानमात्रस्यैवेति ॥ अविद्या-निवृत्तिलक्षणमोक्षज्ञानमात्रस्यैव सामर्थ्यात् । विद्यैव तु निर्धारणादित्युक्तेरन्यसमुच्चयवादापत्तेरिति भावः । दृष्टं हीति सूत्रखण्डोपात्तषट्प्रश्नश्रुतौ ज्ञानिकृतध्यानस्यानन्दातिशयहेतुत्वोक्तेस्तद्व्यवच्छेद्यं नानावृत्तिरित्युक्तन्यायं दर्शयितुमानन्दातिशयलक्षणं फलमाशङ्क्य तस्यान्यथासिद्धिमाह ॥ न चेति ॥ श्रवणादीति ॥ श्रवणादिनानाविधसाधनेषु प्रवृत्त्युपपत्तेरिति भावः । आनन्दातिशयसाधनेषु प्रधानत्वात्तन्नियमः किं न स्यादित्यत आह ॥ ज्ञान एवेति ॥ ननु ध्यानमानन्दातिशयेऽपि प्रधानसाधनमन्यत्राप्राधान्येनैव क्लृप्तशक्तिकत्वादित्यत आह ॥ न हीति ॥ सूत्रे आङ् मर्यादायाम् । प्रायणं प्रकर्षेण नारायणं प्रत्ययनं गमनं मोक्षस्तत्पर्यन्तं प्रकृतं ध्यानं कार्यमित्यन्वयमभिप्रेत्य व्याचष्टे ॥ मुमुक्षूणामिति ॥ कथं मोक्षपर्यन्तं तदावश्यकत्वमित्यतो ज्ञानपर्यन्तमावश्यकस्य त्वयैवाङ्गी-कारादर्धं तावदवसितं भारस्येति भावेनाह ॥ ध्यानं विनेति ॥

यद्वापरोक्षज्ञानानन्तरं प्रायणपर्यंतं कर्तव्यमिति ज्ञानं तदयुक्तम् । द्रष्टव्य इति दर्शनानुवादेन तत्फलतया विहितस्य तदनन्तरमनुष्ठेयत्वायोगादित्यतः प्रथमापरोक्षानन्तरमपि दृष्टतत्वस्य च ध्यानं यदा दृष्टिर्न विद्यत इति वक्ष्यमाणपुनर्ध्यानं विनाऽपरोक्षज्ञानाभावेन तावत्पर्यन्तं कर्तव्यत्वात् । यः पुनरेवं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीतेति ध्यानं विधाय स तेजसि सूर्यं सम्पद्यत इत्यादिना ज्ञानप्रतिबन्धकपापक्षयेन ससामभिरुन्नीयते ब्रह्मलोकमिति ब्रह्मलोकं गतस्य स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत इति चतुर्मुखोपदेशेन पुनरभ्यस्यतो ध्यानफलत्वेना-परोक्षविज्ञानाद्द्रष्टव्यो निदिध्यासितव्य इति सामान्यविधेः पुनरपरोक्षार्थं ध्यानं कर्तव्यमित्यप्यर्थ-सम्भवाद् ध्यानं विना पुनरपरोक्षाख्य विशेषकार्यानुपपत्तेरिति भावः । उक्तं च न्यायविवरणे । ध्यानं विनापरोक्षाख्यविशेषकार्यनुपपत्तेरिति । उक्तं चानन्दमालायाम् । यदुत्तरोत्तरं सविशेष-मुक्तमपरोक्षज्ञानं तदनेन ज्ञायत इति । भावबोधादौ तु प्रकारान्तरेण व्याख्यातं तत्रैव बोध्यम् ॥ तथापीति ॥ चतुर्मुखोपदेशानन्तरभाव्यपरोक्षपर्यन्तमावश्यकत्वेऽपीत्यर्थः ॥ कुत इति ॥ कस्मा-द्विधिवाक्यादित्यर्थः ॥ श्रुतिमिति ॥ प्रायणान्तमोङ्कारमभिध्यायीतेत्यपरोक्षज्ञानिनोऽपि ब्रह्म-प्राप्तिपर्यन्तं ध्यानमुपक्रमे विधाय स एतस्माज्जीवघनात् परात्परमित्यपरोक्षज्ञानपर्यन्तं तदभ्यस्य तमोंकारेणैवेति विद्वान्यत्तच्छान्तमजरम् इति विदुषोऽपि पुनरोंकारध्यानेनानन्दोत्कर्षसिद्धये सुखोत्कर्षसीमावधिभूतब्रह्मप्राप्तेरुक्तत्वेन द्रष्टव्य इति विधेर्दर्शनेनोपरतत्वेऽपि प्रायणान्तमोङ्कार-विधेर्मोक्षपर्यन्तं तदनुष्ठानप्रयोजकत्वादावश्यकं तत्पर्यन्तमुपासनमिति भावः । उक्तं च तत्वप्रदीपे । दर्शनवतोऽपि कतमं वाव स लोकं जयतीति प्रश्ने यः पुनरेतं त्रिमात्रेणेत्याद्यनुक्रम्य तस्य परमस्य ध्यातुर्विरिंचलोकं नीतस्य स एतस्माज्जीवघनादित्यादेस्तदाप्युपदेशं प्राप्य पुनरभ्यस्यतः परं पश्यतोऽपि ओंकारेणैवायनेनेति विद्वान्यत्तच्छान्तमजरममृतमभयं चेत्यामोक्षोपास्तिकर्तव्यतायां प्रमाणदर्शनादिति ॥ कैमुत्येनापीति ॥ एतेन तत्रापि मुक्तावपि ध्यानं कुर्वतः किमुत ततः प्रागित्यर्थः । तदेव कुतः यस्माद्दृष्टं तथा श्रुतमित्यर्थ उक्तो भवति । श्रुतिद्वये उपासना-मात्रस्योक्तत्वाद्भाष्ये उपासनादीत्यादिपदं व्यर्थम् । श्रवणादेर्ध्यानसाम्यप्राप्त्या ध्यानस्यैव नियमेन कर्तव्यत्वमिति प्रकृतविरुद्धार्थत्वमित्यत आह ॥ ज्ञानादिति ॥ योग्यापरोक्षज्ञानात् पूर्वं श्रवणादियुतध्यानस्य कर्तव्यतया सिद्धत्वाज् ज्ञानानन्तरमपरोक्षानन्तरानन्दातिशयाय सम्यग्ध्याना-लाभ एव श्रवणादिकार्यमित्यतस्तादर्थ्येन श्रवणाद्युक्तये आदिपदमित्यर्थः ।

भोक्तव्यकर्मणीत्यस्य अज्ञानिनोऽपि ध्यानादिप्रतिबन्धप्रारब्धकर्मक्षीणे जपादिना स्वस्यास्थानं कल्पयन्तीत्यर्थः । मतिर्मननम् । ज्ञानस्याप्यावृत्तावेव मोक्षो न त्वावृत्त्यभावे इति न वाच्यमिति भावेनोक्तम् ॥ नेक्षा क्व चेति ॥ तदर्थमाह ॥ कदाचित्क्वापि मोक्षसाधनमिति ॥ न केवलं ध्यानमनन्तकालीनं किं तु भक्तिश्चेति स्मृतियोजनामभिप्रेत्याह ॥ ध्यानं निरवधिकमिति ॥ अपरोक्षज्ञानकाले वासनामयध्यानायुक्तत्वादाह ॥ यदा दृष्टिरिति ॥ यद्वा यस्माद्दृष्टिर्न विद्यते तस्मात्पुनः पुनर्दृष्ट्यर्थं मध्ये मध्ये ध्यानमपेक्षितं तच्चानन्तकालीनमिति ॥ भावबोधे तु ध्यानं निरवधिकं भक्तिश्चानन्तकालीना । तत्र हेतुर् यदा यस्माद्दृष्टिः फलत्वेन न विद्यते असिद्धत्वा-दित्युक्तं मोक्षविरोधादिति । निरवधिकध्यानस्य विहितत्वेन कार्यत्वे मोक्षेऽपि विहितत्वेन कार्यतापत्या विधिबद्धत्वापत्तेर् मोक्षत्वविरोधादित्यर्थः ॥ करणानुपपत्तेरिति ॥ मोक्षात्पूर्वमिति शेषः ॥ न चोक्तेति ॥ श्रवणादिना तदुपपत्तेः किं ध्याननियमेनेत्युक्तदोष इत्यर्थः । स्मृतौ शमशब्देन ध्यानस्य विवक्षितत्वात्प्रकृतोपयोगः ।

तत्त्वसुबोधिनी

ॐ नानन्तरमेवेति विकल्प्याद्यं दूषयति ॥ ध्यानं विनेति ॥ द्वितीयमाशङ्क्य तन्निराकरण-परत्वेन स य इति भाष्यं व्याचष्टे ॥ तथापीति ॥ कैमुत्येनापीति ॥ अनेन तत्रापीति सूत्रांशस्य विमुक्तावपीत्यर्थ इत्युक्तम् । भाष्योदाहृतश्रुतिद्वये उपासनामात्रस्य श्रुतत्वात् किमर्थं तत्पूर्वं भाष्ये उपासनादीत्यादिपदप्रयोगः । वेदादिसाहित्यद्योतनार्थम् । तदवैयर्थ्यं ज्ञानानन्तरमेव तद्युतध्यानस्य कर्तव्यत्वे ज्ञानानन्तरं केवलध्यानस्यैव कर्तव्यत्वेन तद्युतध्यानस्याकर्तव्यत्वादित्यसत्यमेव वस्तुस्थितिः । तथापि ज्ञानोत्तरं सम्यक् ध्यानालाभे श्रवणादेरपि कार्यत्वात्तदभिप्रायेण आदिपदेन श्रवणादिग्रहणोपपत्तेरित्याह ॥ ज्ञानात्पूर्वमिति ॥ इत्यत इत्यभिप्रायेणेति । ज्ञानोत्तरकालं सम्यक् ध्यानालाभे श्रवणादियुतध्यानं तस्याकर्तव्यत्वमाहेतिरयुक्तम् । अत्र वाक्यार्थाभिप्रायः न स्पष्टः । मीमांस्योयं विद्वद्भिः । भक्तिश्चानन्तकालीना इत्युत्तरार्धानुसारेणाह । दृष्टत्वस्य च ध्यानं निरवधिकमिति । अनेन दृष्टतत्वस्य पुंसः परमे ब्रह्मणि विषये ध्यानं निरवधिकम् । स्फुटा भक्तिश्चानन्तकालात् । तत्र हेतुपदे यस्माद्दृष्टिः फलत्वेन न विद्यते सिद्धत्वादिति योजना सूचिता भवति । ज्ञानोत्तरं निरवधिकध्यानस्य विहितत्वेन करणे मोक्षेऽपि तथाकरणापत्या विधिबन्ध-वर्जितत्वरूपमोक्षविरोधादित्यर्थः ॥ करणानुपपत्तेरिति ॥ मोक्षात्पूर्वमित्यर्थः । तर्हि श्रवणा-देरप्यानन्दातिशयार्थत्वेन न ध्याननियमः स्यादित्याशङ्क्य निषेधति ॥ न चोक्तदोष इति ॥ ध्यानस्यैवेति ॥ शमः कारणमित्यत्र शमशब्देन ध्यानस्यैव विवक्षितत्वादिति भावः ।

वाक्यार्थविवरणम्

आप्रायणान्तत्वेति ॥ प्रायणं मोक्षः । तथा च मोक्षपर्यन्तत्वसमर्थनादित्यर्थः । मोक्षपर्यन्तं विहितित्वेन कर्तव्यत्वं तदनन्तरं भक्तिवत् स्वभावत एव निरवधिकतया कर्तव्यत्वं समर्थ्यत इति द्रष्टव्यम् ॥ अन्यथेति ॥ ध्यानस्यापरोक्षज्ञानसाधनत्वेन तत्पर्यन्तमेव कर्तव्यत्वमङ्गीकृत्य मोक्षपर्यन्तत्वानङ्गीकारे ज्ञानिनामपि शुकादीनां ध्यानदर्शनेन तत्कृतध्यानस्यानन्दाभिवृद्धिलक्षण-फलाभावप्रसङ्गेन व्यर्थत्वापत्त्या मुक्तौ सर्वेषामानन्दादिसाम्यापत्तेस्तारतम्याभावप्रसङ्ग इत्यर्थः ॥ मोक्षोपयोगित्वादिति ॥ लिङ्गभङ्गरूपमोक्षोपयोगित्वादित्यर्थः ॥ तन्नियमेति ॥ ध्याननियमेत्यर्थः । कुत इत्यत आह ॥ ज्ञान एवेति ॥ नानन्दातिशय इत्यर्थः ॥ प्राबल्यात् ॥ प्रधानत्वात् ।

ननु ध्यानस्य ज्ञानसाधने प्राधान्यादानन्दातिशयेऽपि प्राधान्यमस्त्वित्यत आह ॥ न हीति ॥ धान्यादौ प्रधानसाधनस्य कृष्यादेः स्वर्गादौ तदभावः ॥ ततः ज्ञानानन्तरम् ॥ प्रायेण प्राधान्येन ॥ तथापीति ॥ ज्ञानपर्यन्तमावश्यकत्वेऽपीत्यर्थः । कर्तव्यमेव न परित्याज्यमित्यर्थः । उत्तरत्र ॥ भक्तिश्च अनन्तकालीनेति ॥ भक्तेरनन्तकाले कर्तव्यतया निरवधिकत्वस्योक्तत्वात् तदनुसारेण दृष्टतत्त्वस्य च ध्यानमनन्तकालीनमेव निरवधिकमेव कर्तव्यमित्यर्थमभिप्रेत्याह ॥ दृष्टतत्त्वस्येति ॥ अनेन दृष्टतत्त्वस्य पुंसः परमे ब्रह्मणि विषये ध्यानं निरवधिकं कर्तव्यम् । स्फुटा स्पष्टा । आविर्भूता भक्तिश्चानन्तकालीना कर्तव्या । ध्यानं भक्तिरिति द्वयमपि स्वभावत एव सर्वदा कर्तव्यमिति यावत् । तत्र फलाभावो हेतुः । ननु ज्ञानमेव फलं किं न स्यादिति मन्दाशङ्कां परिहरति ॥ यदा दृष्टिरिति ॥ यदा यस्माद् दृष्टिर्न विद्यते फलत्वेनेति शेषः । दृष्टिः फलं न भवति सिद्धत्वात् । अतः स्वभावतो निरवधिकमेव कर्तव्यमिति स्मृतियोजना द्रष्टव्या ॥ मोक्षविरोधादिति ॥ ज्ञानोत्तरं निरवधिकध्यानस्य विहितत्वेन करणे मोक्षेऽपि तथैव करणापत्त्या विधिबन्धवर्जितत्वरूप-मोक्षत्वविरोधादित्यर्थः ॥ करणानुपपत्तेरिति ॥ अविहितत्वादेव मोक्षात्पूर्वं करणानुपपत्तेरित्यर्थः ॥ उक्तदोष इति ॥ श्रवणादिसाधनान्तरेणानन्दातिशयसम्भवान्न ध्याननियम इत्युक्तदोष इत्यर्थः ॥ ध्यानस्यैवेति ॥ तत्र शमशब्दस्य ध्यानरूपत्वादिति भावः । तथा च योगारूढस्यापरोक्षज्ञानिनः शमो ध्यानमानन्दातिशयकारणमुच्यत इति गीतार्थो द्रष्टव्यः ॥ तद्विचित्रफलवत्त्वादिति ॥ तेन ध्यानानुसारेणानन्दातिशयरूपविचित्रफलवत्त्वादित्यर्थः ।

वाक्यार्थमञ्जरी

ध्यानफलाभावप्रसङ्गेनेति ॥ अपरोक्षज्ञानानन्तरं कृतध्यानस्यानन्दाभिवृद्धिलक्षणफलाभाव-प्रसङ्गेनेत्यर्थः । ननु श्रवणादित्रयस्य ज्ञानसाधनत्वेऽपि ध्यानमेव प्रबलं साधनमेवमत्रापि साधनस्य प्राबल्यं किं न स्यादित्यत आह ॥ ज्ञान एवेति ॥ ॐ आप्रायणात्तत्रापि हि दृष्टं ॐ ॥ आङ्मर्यादायां प्रकर्षेणायनं प्रायणं मोक्षः, ध्यानम् आप्रायणं मोक्षपर्यन्तं कार्यं कुतः हि यस्मात् स यो हेति दृष्टं श्रुतिरस्ति । किञ्च तत्रापि मुक्तावपि ध्यानं कुर्वते किमुत ततः प्राक् । तदेव कुतः हि यस्मान्मुक्तावपीति दृष्टमित्यर्थः ।

ॐकारो हरिरिति ॥ ओमित्याक्रियमाणत्वादिति भावः । भाष्योदाहृतश्रुतिद्वये उपासना-मात्रस्य श्रुतत्वात्किमर्थं तत्पूर्वभाष्य उपासनादीत्यादिपदप्रयोग इत्यत आह ॥ ज्ञानात्पूर्वमिति ॥ ज्ञानानन्तरं श्रवणादीत्यत्र गीताभाष्योदाहृतप्रमाणमाह ॥ उक्तं हीति ॥ वर्तयन्ति वर्तन्ते कालं नयन्तीति वार्थः ॥ मोक्षविरोधादिति ॥ ज्ञानोत्तरं निरवधिकध्यानस्य विहितत्वेन करणे मोक्षेऽपि तथा करणापत्या विधिबन्धवर्जितत्वरूपमोक्षत्वविरोधादित्यर्थः ॥ कारणानुपपत्तेरिति ॥ मोक्षात्पूर्वमित्यर्थः । कारणम् आनन्दवृद्धेः ॥ ध्यानस्यैवेति ॥ शमशब्देन तत्र ध्यानस्यैव विवक्षित-त्वादिति भावः । उक्तव्याहतेरिति ॥ अनियमः सर्वेषामित्युक्तव्याहतेरित्यर्थः ॥ अनियतदेशेति ॥ कर्मणां व्यवस्थितदेशकालयोः फलोन्मुखत्वाय परिपाकशून्यत्वादित्यर्थः । तथा च यौगपद्यमिति भावः ॥ भगस्यापीति ॥ योगसामर्थ्येन तन्निवारणोपपत्तेरिति भावः । जातु कदाचिद् विप्रतिपत्तेर् दृष्टान्ते प्रायश्चित्तेन कर्मक्षयाभावे तद्विधायकश्रुतिवैय्यर्थ्यमिति भावेनाह ॥ ब्रह्महेति ॥ ब्राह्मणहन्तेत्यर्थः ॥ दग्धगेहेष्टिविधिवदिति ॥ यथा गेहे दग्धे सति गृहस्थेन इष्टिविशेषो गृहदाह-निमित्तत्त्वमेव न तु तज्जातपापपरिहारार्थमित्यर्थः ॥ अस्तु वेति ॥ स्मृतेश्चाकृतप्रायश्चित्त-विषयत्वमिति भावः ॥ निष्कारणेति ॥ संसारावस्थानेकर्मविनाकारणान्तराभावादिति भावः । विरम्य क्रमिकतया येनैकस्मिन्काले लब्धात्मनः कालान्तरे कर्मविनाशत्वं स्यादिति भावः ।

॥ इति प्रायणाधिकरणम् ॥ ७ ॥