०६ आसनाधिकरणम्

ॐ आसीनस्सम्भवात् ॐ

६. आसनाधिकरणम्

सूत्रभाष्यम्

॥ ॐ आसीनस्सम्भवात् ॐ ॥ ७ ॥

सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ॥ ७ ॥

तत्त्वप्रदीपिका

सर्वदोपास्तिः कार्येत्युक्तम् । अनुव्याख्यायां च–

‘श्रवणादि विना नैव क्षणं तिष्टेदपि क्वचित् ।

अत्यशक्ये तु निद्रादौ पुनरेव समारभेत्’ इति ॥

अतः स्थितिगत्यासनादिष्वविशेष इत्यत आह– आसीनस्सम्भवात् ॥ आसनानामपि पद्मस्वस्तिकादीनां यथासम्भवं ग्रहणम् । यत्रैकाग्रतेत्युच्यमानन्यायस्यात्राप्यनुसर्तव्यत्वात् ॥

तत्त्वप्रकाशिका

अत्र भगवद्दर्शनसाधनध्याने आसनादिनियमसमर्थनादस्ति शास्त्रसङ्गतिः । अन्यथा तदुपदेशा-नर्थक्यप्रसङ्गात्समर्थनीयमेतत् । प्रकृतभगवदुपासनार्थमासनाद्युच्यते ‘उपविश्यासने युञ्ज्याद्योग-मात्मविशुद्धये’ इत्यादौ । तदासनमत्र विषयः । सर्वथापेक्षितं न वेति सन्देहः । द्विविधसाधनदर्शनं सन्देहबीजम् । नासनं सर्वथाऽपेक्षितमिति पूर्वः पक्षः । तत्कृत्याभावात् । भगवत्संदर्शनार्थं हि सर्वमुपासनाद्यन्वेष्टव्यं प्रयोजनान्तराभावात् । तस्य च ज्ञानस्य मनसो भगवद्विषयत्वमात्रेण सम्भवात्किमस्त्यासनादिना कृत्यम् । न च वाच्यं मनसः सम्यग्भगवद्विषयत्वस्यैव ज्ञानसाधनत्वेऽपि तदर्थमेवासनमिति । आसनं विना मनसो भगवति निवेशनासम्भवे ‘स्मर्तव्यः सततं विष्णुः’ इत्यादिविधीनामनुपपत्तिप्रसङ्गात् । तस्मादासनादेरावश्यकत्वाभावात्तदुपदेशाप्रामाण्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ आसीन इति ॥ जिज्ञासुरासीन एवोपासनं विशेषतः सर्वथा कुर्यात् । उपासनस्यैव ज्ञानसाधनत्वेऽपि तस्यासने सत्येव सम्भवादन्यथाऽसम्भवात् । आसीनस्य चित्तविक्षेपासम्भवादन्यस्य तन्नियमात् । नन्वासीनस्योपासने सर्वदोपासनाभावः । मैवम् । सदोपासनं कार्यम् । आसनं चापेक्षितमेवेति भावः ॥

भावबोधः

आसनादिनियमसमर्थनादिति ॥ पूर्वाधिकरणेषु प्रधानस्य ध्यानस्यावश्यकत्वमुक्त्वा इदानीं तदङ्गरूपासनादिनियमसमर्थनादनन्तरसङ्गतिरिति भावः । यद्यपि ‘आ प्रायणात्’ इत्येतदनन्तर-मेतद्भवेत्; तथापि यथा जिज्ञासूनामासनादिनियमस्य चित्तविक्षेपनिवारकत्वेन ध्यानस्य ज्ञान-जनकत्वापादकत्वं न तथा ज्ञानिनां तेषां चित्तविक्षेपाभावादिति विशेषप्रदर्शनाय ततः पूर्व-मेतत्करणमिति भावः । अत एव वक्ष्यते जिज्ञासुरासीन एवेति । आसनादिनियमेत्यादौ ‘स्मरन्ति च’ इत्यादिसूत्रानुरोधेन ‘आदि’पदप्रयोग इत्यवधेयम् । अत एव न्यायविवरणे आसनादि-नेत्यादिपदप्रयोग इति ज्ञेयम् ॥ आत्मविशुद्धय इत्यादाविति ॥ ‘अत्रादि’पदेन ‘कायशिरोग्रीवम्’ इत्युदाहरिष्यमाणवाक्यसङ्ग्रहः । तदासनमत्र विषय इत्यादौ आसनपदमन्यविषयोपलक्षणमिति बोद्धव्यम् ॥ सर्वथेति ॥

अत्रासनादिसर्वथापेक्षितं न भवत्युत भवतीति चिन्ता । तदर्थमासनं विना मनसः सम्यग्भगव-द्विषयत्वं सम्भवत्युत न सम्भवतीति । तदर्थमासनस्य सर्वापेक्षितत्वे ‘स्मर्तव्यः सततं विष्णुः’ इत्यादिविधयो विरुध्यन्ते उत न विरुध्यन्त इति । तदर्थमासनादिनियमग्राहकप्रमाणस्य सर्व-दोपासनविधीनां किमेकविषयत्वमुत भिन्नविषयत्वमिति । भिन्नविषयत्वेऽपि प्रत्याहारादिनैवासन-नियमसाध्यत्वेनाभिमतश्चित्तविक्षेपपरिहारो भवत्युत न भवतीति । तदर्थमासनादीनामावश्यकत्वे प्रमाणं नास्त्युतास्तीति । तदर्थमासनादिनियमप्रतिपादकप्रमाणस्य देशकालादिनियमप्रतिपादक-प्रमाणसमानयोगक्षेमत्वमस्त्युत नास्तीति ।

ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमिति न्यायविवरणोक्तपूर्वपक्षयुक्तिमाह– तत्कृत्याभावादित्यादिना ॥ ‘ज्ञानस्य’ इत्यनन्तरम् ‘मनसः’ इति पदमध्याहृत्योदाहृतं न्यायविवरणं योजयति– तस्य च ज्ञानस्येति ॥ अध्याहाराभावे ज्ञानस्य सम्यग्भगवद्विषयत्वं ज्ञानपूर्तिहेतुत्वेन प्रतीयते । तच्चानुपपन्नमिति भावः । सर्वदोपासनं कुर्वन्नपीत्यादिभाष्याद्यनुरोधेनाह– आसनं विनेति ।

‘असीनस्य भवेत्तत्तु न शयानस्य निद्रया ।

स्थितस्य गच्छतो वापि विक्षेपस्यैव सम्भवात् ॥’

इति स्मृत्यनुसारेण तदा विक्षेपाल्पत्वेनेति भाष्यं व्याचष्टे– आसीनस्य चित्तविक्षेपा-भावादन्यस्य तन्नियमादिति ॥ ध्यानविरोधिबहुचित्तविक्षेपाभावादित्यर्थः । आसनादिना निश्चलत्वादिविशेषकार्योपपत्तेरिति न्यायविवरणं यदि निश्चलत्वं मनसो विवक्षितं तदासीनस्य चित्तविक्षेपाभावादित्यनेन व्याख्यातमिति द्रष्टव्यम् । तत्र निश्चलत्वादीत्यादिपदेनासनादिपदोक्त-स्वनासिकाग्रावलोकनादिनिबन्धनान्यदर्शनाभावादिग्रहणम् । यदि निश्चलत्वपदेन शरीराचलत्वं विवक्षितं तदा तच्चासने सत्येवेति तदावश्यकमित्यनेन व्याख्यातं भवति । अस्मिन् पक्षे न्याय-विवरणगतं द्वितीयादिपदेन मनसो निश्चलत्वमपि ग्राह्यम् । सर्वदोपासनं कुर्वन्निति भाष्याभि-प्रायमाह– सर्वदोपासनं कार्यमिति ॥

भावदीपः

ध्यान इति ॥ स्मरणोपासनं चेति स्मृत्योपासनस्य द्वैविध्यात्तत्र स्मरणरूपोपासने आसना-नियमेऽपि ध्यानरूपोपासने आसनादिनियमसमर्थनादित्यर्थः । सूत्रे आसनमात्रोक्तिरुपलक्षणम् । स्मरन्ति चेत्यत्र तथोक्तेरिति भावः । एतेनातीतनयैरुक्तमविवेचितनित्योपासनमुपजीव्येहासनादि-नियमाक्षेपेण शङ्कोदयाद्वा प्राङ्नित्यशः कार्यत्वेनोक्तोपासनस्येह ध्यानस्मरणभेदेन विवेकपूर्व-मितिकर्तव्यताकथनाद्वा पूर्वसङ्गतिरिति सूचितम् । समर्थनफलमाह ॥ तदुपदेशेति ॥ नन्वेतावता प्रागुक्तप्रमेयाविरोधाद् व्यर्थेयं चिन्तेति चेत् । न । ‘उपविश्यासने युञ्ज्यात्’ इत्याद्युपदेशानर्थक्ये प्रागुक्तेतिकर्तव्यतोपदेशेऽप्यनाश्वासप्रसङ्गादिति तात्पर्यात् । षष्ठगीतावाक्यमाह ॥ उपविश्येति ॥ द्विविधेति ॥ आत्मत्वाद्युपासनं सर्वथापेक्षितम् । गुणान्तरोपासनं तु न तथा दृष्टमिति भावः । ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमित्यन्यत्रोक्तप्रतिज्ञामुक्त्वा तत्र हेतु-मध्याहृत्य तदुपपादकत्वेन तत्रोक्तहेतुं योजयति ॥ नासनमित्यादिना ॥ भगवत्सन्दर्शनार्थं हीति ॥ प्रकाशश्च कर्मण्यभ्यासात् तन्निर्धारणार्थनियम इत्यादौ तथोक्तेरिति भावः ॥ तस्येति ॥ दर्शनस्येत्यर्थः । तस्य सम्भवादिति पूर्तेरित्यस्यार्थः ॥ मनस इति ॥ एतेन ज्ञायतेऽनेनेति व्युत्पत्त्या ज्ञानपदेन मनसो ग्रह इति सूचितम् । सौत्रहेतुव्यावर्त्यमन्यत्रोक्तमुक्त्वा ध्यानाच्चेति सूत्रव्यावर्त्यं शङ्कापूर्वं व्यनक्ति ॥ न च वाच्यमित्यादिना ॥ ‘स्मर्तव्यः सततं विष्णुः’ इत्यादिसदाचार-स्मृत्युक्तवचनम् ॥ तस्मादिति ॥ कृत्याभावादित्यर्थः । उपासनं कुर्वन्नित्यस्यार्थं वदन् भाष्यं व्याचष्टे ॥ जिज्ञासुरिति ॥ अपिपदार्थं वदन्नेव भाष्यशेषं व्याचष्टे ॥ उपासनस्यैवेत्यादिना ॥ सर्वदेति पदतात्पर्यं शङ्कापूर्वं व्यनक्ति ॥ आसीनस्येति ॥

अभिनवचन्द्रिका

सर्वथाऽपेक्षितं न वेति ॥ सर्वथापेक्षितमेव वा, उत कृताकृतमितिसंदेह इत्यर्थः ॥ द्विविधेति ॥ द्विविधानि लोके साधनानि दृश्यन्ते । कानिचिदवश्यंभावीनि । तद्यथा पाककर्तुर्धान्यादीनि कानिचित्कृताकृतानि । तद्यथा तस्यैव दर्विपिठरादीनि, तदुभयदर्शनं सन्देहबीजमित्यर्थः । नासनमिति ॥ नासनं सर्वथाऽपेक्षितम् । अपि तु कृताकृतमित्यर्थः ॥ तत्कृत्याभावादिति ॥ तदावश्यकत्वापादकानन्यसाध्यकृत्याभावादित्यर्थः ॥ तदुपदेशाप्रामाण्यमिति ॥ पाक्षिक-मनुपादानलक्षणमप्रामाण्यं स्यादित्यर्थः । स्थातव्यमित्युपलक्षणमिति ॥ यस्मिन्काले यस्मिन्नासने मनः प्रसादः स एव कालादिराश्रयणीय इत्यपि ग्राह्यमिति भावः ॥

वाक्यार्थमुक्तावली

आदित्यादिमतानां सर्वदा कर्तव्यत्वे ध्यानार्थं शास्त्रोक्तासननियम इत्याक्षिप्य तदविरोधे-नासननियमसाधनादनन्तरसङ्गतिः ॥ आसनादीति ॥ अत्रासनादीत्यादिपदेन दृष्टेरचलत्वादि ग्रहणम् । उक्तं च तत्त्वप्रदीपे । ‘सम्प्रेक्ष्य नासिकाग्रं स्वम्’ इत्यादेर्दृष्टेरचलत्वमप्यपेक्षितमिति ॥ सर्वथेति ॥ आसनादिर्नावश्यकम् उत आवश्यक इति चिन्ता । तदर्थमासनं विनापि भगवति मनोनिवेशः सम्भवत्युत न सम्भवतीति । तदर्थमासनस्य सर्वथा अपेक्षितत्वे स्मर्तव्यः सतत-मित्यादिस्मृतयो विरुध्यन्त उत नेति । सिद्धान्ते आसनस्य सार्थक्योक्तेस्तद्व्यवच्छेद्यं तद्वैय्यर्थ्यं पूर्वपक्षे हेतुमाह ॥ तत्कृत्याभावादिति । तत्कथमित्यतः किमासनस्य ज्ञानातिरिक्तं फलमुत ज्ञानम् । द्वितीयेऽपि किं साक्षादासनस्य न हेतुत्वमुतोपासनाङ्गतया । उपासनाङ्गतयेत्यत्रापि वक्तव्यम् । आसनस्य तदङ्गत्वमुपासनेन ज्ञाने जनयितव्ये प्रयाजादिवत्फलोपकारितया । उत मनसस्सम्यक् तद्विषयत्वरूपोपासनोत्पत्तावेव व्रीहिप्रोक्षणादिवत्साधनोपकार्यङ्गत्वमिति विकल्पान् हृदि निधायाद्यं दूषयति ॥ भगवद्दर्शनार्थमिति ॥ साङ्गस्योपासनादिकलापस्यैव भगवद्दर्शनार्थमेव द्रष्टव्य इति दर्शनानुवादेन ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति विहितत्वेन प्रयोजनान्तरा-भावात् सुतरामासनस्येति भावः । एतेन द्वितीय आद्येऽपि निरस्तः । आसनस्य साक्षात्कार-जनकत्वायोगात् । प्रथमायाः प्रमाणत्वात् । उपासनाङ्गतयेत्यत्राप्याद्यं पराचष्टे ॥ तस्य चेति ॥ भगवद्विषयत्वमात्रेणेति । न त्वासनेनेत्यर्थः । एतेन सम्भवादिति सूत्रखण्डेनासनस्य सार्थक्योक्त्या व्यवच्छेद्यः संज्ञेत्युक्तन्यायो ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना कार्यमिति न्याय-विवरणानुसारेण स्पष्टितो भवति । तत्र ज्ञानस्य करणव्युत्पत्या मनसस्सम्यक् तद्विषयत्वमात्रेण ज्ञानस्यापरोक्षस्य पूर्तेर्लाभादावृत्य योज्यम् ।

द्वितीयमाशङ्क्य निराकरोति ॥ न चेति ॥ कुतो न वाच्यमित्यतस्सर्वदोपासनं कुर्वन्नप्यासीनो विशेष्यत इति भाष्येण ध्यानाच्चेति सूत्रेण निरस्यं हेतुमाह ॥ आसनमिति ॥ उपासनं कुर्वन्नित्यस्य ज्ञानाय विचारं कुर्वन्नित्यर्थमभिप्रेत्याह ॥ जिज्ञासुरिति ॥ एतेन जिज्ञासुत्वान्नासनस्य ज्ञानातिरिक्तं फलमित्युक्तं भवति । आसनस्य नियमार्थमुक्तमासीन एवेति । भाष्ये कुर्यादित्यत्राप्युपासन-मित्यन्वेतीति भावेनोपासनं विशेषतः कुर्यादित्युक्तम् । नन्वासनस्य ज्ञानसाधनत्वं न साक्षात् किं तु उपासनाङ्गतया अङ्गत्वमिति नोपासनापूर्तिमतः फलोपकारितयोपासनापरिपाकवत आसनव्यतिरेकेण फलव्यभिचाराभावादित्यतः फलोपकारित्वाभावेऽप्युपासनोत्पत्तावेवोपयोगित्वमिति भावेन प्रवृत्तमपि तदसम्भाव्यम् । अत्र अपीत्यस्योपासनस्यैव ज्ञानसाधनत्वेऽपीत्यर्थः । तस्येति शेषः । तदे-त्यस्यासने सत्येवेत्यर्थ इत्यभिप्रेत्य व्याचष्टे उपासनस्येति ॥ एवकारव्यावर्त्यमाह ॥ अन्यथेति ॥ आसने सत्येव ध्यानसम्भवः कथमित्यतो भाष्ये तदा चित्तविक्षेपाल्पत्वेनेत्युक्तं तद्व्याचष्टे ॥ आसीनस्य चित्तविक्षेपासम्भवात् ॥ ध्यानविरोधिबहुचित्तविक्षेपाभावादित्यर्थः । स्थितस्य गच्छतो वापि विक्षेपस्यैव सम्भवादिति स्मृत्यनुसारेणाह ॥ अन्यथेति ॥ एतेन विशेषकार्यमित्युक्तन्यायोऽपि सूत्रभाष्यारूढो दर्शितो भवति । सर्वदोपासनं कुर्वन्नप्यासीन इति भाष्यं सर्वदोपासनस्योपासनार्थ-मासनस्य सर्वथापेक्षितत्त्वस्याविरोधप्रतिज्ञारूपमिति भावेन तद्व्यावृत्त्य शङ्काप्रदर्शनपूर्वं व्याचष्टे ॥ आसीनस्येति ॥

वाक्यार्थविवरणं

तदुपदेशेति ॥ आसनादिनियमप्रतिपादकयोगशास्त्रेत्यर्थः ॥ द्विविधेति ॥ ब्राह्मणानां पञ्चमहायज्ञरूपं साधनमपेक्षितम् । कृष्यादिरूपसाधनमनपेक्षितमित्यर्थः ॥ तदर्थमेवेति ॥ मनसो भगवद्विषयत्वार्थमेवेत्यर्थः ॥ आसीन एवेति ॥ आसने उपविष्ट एवेत्यर्थः । शङ्कते ॥ आसीनस्येति ॥ एतदित्यस्य विवरणं सर्वदेत्यादि ॥

वाक्यार्थमञ्जरी

तदुपदेशेनेति ॥ आसनप्रतिपादकागमवैय्यर्थ्यप्रसङ्गादित्यर्थः ॥ उपविश्येति ॥ आसने उपविश्यात्मविशुद्धये योगं युञ्ज्यादित्यन्वयः ॥ अनुपपत्तीति ॥ सर्वदा आसनस्थत्वासम्भवेन मनसो भगवति निवेशनासम्भवादिति भावः ॥ ॐ आसीनः सम्भवात् ॐ ॥ आसीन आसने उपविष्ट एवोपासनं कुर्यात् कुतः सम्भवात् तस्यैवोपासनासम्भवादित्यर्थः ॥ चित्तविक्षेपा-सम्भवादिति ॥ ध्यानविरोधिबहुचित्तविक्षेपाभावादित्यर्थः ॥ शङ्कते ॥ आसीनस्येति ॥


ॐ ध्यानाच्च ॐ

सूत्रभाष्यम्

॥ ॐ ध्यानाच्च ॐ ॥ ८ ॥

‘स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा ।

स्मरणं सर्वदा योग्यं ध्यानोपासनमासने ॥

नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः ।

आसीनस्य भवेत्तत्तु न शयानस्य निद्रया ॥

स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् ।

स्मरणात्परमं ज्ञेयं ध्यानं नास्त्यत्र संशय’ इति नारायणतन्त्रे ॥

अतो ध्यानत्वाच्च ॥

तत्त्वप्रदीपिका

ध्यानाच्च ॥ स्मरणं सर्वदा योग्यम्, स्मरणं विच्छेदेन मनसो वृत्तिः सर्वदा स्थितिगत्यादिष्वपि योग्यम् । यस्य तु भावनासंस्कारबलान्न मनस्ततो व्यावर्तते तस्य सर्वदाऽपि न दोषः । परवशतयैव तत्प्राप्तेः । तस्य च तदन्यत्रासक्तचित्तस्याप्यासने सोपास्तिः सातिशया भवति । तच्चाह– सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यादिति ॥

तत्त्वप्रकाशिका

नन्वेतद्विरुद्धं सर्वदोपासनमासनस्य सर्वथापेक्षितत्वं च । तत्र सर्वदोपासनमेवोपादेयं विहित-त्वात् । अतो नासनमावश्यकमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य सप्रमाणकं व्याचष्टे ॥ ध्यानाच्चेति ॥ न सर्वदोपासनासननियत्योर्विरोधादासनस्य नावश्यकत्वम् । उपासनं हि द्वेधा भवति । स्मरणं ध्यानमिति तत्र स्मरणस्य सर्वदा योग्यत्वात्सर्वदोपासनविधेस्तद्विषयतयोपपत्तेः । उपासनविशेषस्य च ध्यानत्वात्तस्य चासनमन्तरेणासम्भवादासनस्यावश्यकत्वं सिध्यति । न च स्मरणेनैवालम् । ध्यानस्य ततोऽधिकत्वात् । कुत एतत् । यतः स्मृतावुक्तमत एवेति भावः ॥

भावबोधः

‘ध्यानाच्च’ इति सौत्रनिर्देशो भावप्रधान इत्यभिप्रेत्य भाष्ये ध्यानत्वाच्चेत्युक्तम् । तद्व्याचष्टे– उपासनाविशेषस्य ध्यानत्वादिति । अनेन सूत्रभाष्ययोरुपासानाविशेष इत्युक्तं भवति । अत इति भाष्यं तदुक्तहेत्वाकाङ्क्षोत्थापनपूर्वकं व्याचष्टे– कुत एतदित्यादिना ॥ एतद् उपासनं हि द्वेधा भवतीत्यादिनोक्तमित्यर्थः ॥ यतः स्मृतावुक्तमिति ॥ उपासनं द्वेधा भवतीत्यादिना ॥ एवं स्मृतियोजनां सूचयति– स्मरणेति ॥ लिङ्गव्यत्ययोऽविभक्तिकं वा । उपासनं स्मरणं ध्यानात्मकं चेति, द्विधैव । तत्र स्मरणमेव सर्वदा योग्यम् । ध्यानरूपोपासनमासन एव भवति । ध्यानस्वरूप-प्रदर्शनपूर्वकं तस्यासनादिनियमसापेक्षत्वस्यान्वयव्यतिरेकाभ्यामुपपादनम् । नैरन्तर्यमित्यादिना ॥ सुशकेन स्मरणेनैवालम्; किं ध्यानेनेत्यत उक्तम्– स्मरणात् परममिति ॥

भावदीपः

विहितत्वादिति ॥ यद्यपि ‘उपविश्यासने युञ्ज्यात्’ इत्यादावपि युंज्याद् उपासीतेति यत् तदासने उपविश्येति योगानुवादेनासनमपि विहितमेव तथाप्युपासनस्य श्रुतिविहितत्वात्तस्य स्मृतिविहितत्वात् श्रुतिस्मृत्योर्विरोधे श्रुतिविहितमेवोपादेयम् । न तु स्मार्तम् । विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति जैमिनिसूत्रादिति भावः । यद्वा आसीतेति स्पष्टविधेरभावादिति भावः । चशब्दः शङ्कानिरासक इति भावेन चशब्दार्थं वदति ॥ न सर्वदेति ॥ अध्याहारो वा आसीन एवोपासीतेत्यनुवृत्तस्य भावार्थो वा । स्मृत्युक्तेर्भावमाह ॥ उपासनमिति ॥ आसीनस्येत्यादि-स्मृतिशेषभावमाह ॥ तस्य चेति ॥ स्मरणादित्यादिस्मृतिशेषोपयोगमाह ॥ न चेत्यादिना ॥ कुत एतदिति ॥ प्रागुक्तं सर्वं कुतो मानादित्यर्थः । भाष्यं योजयति ॥ यत इति ॥ उपासनस्य द्वैविध्यं यतश्च स्मरणोपासनं नित्ययोग्यमपि ध्यानमासनं विना न युक्तम् । यतश्च स्मरणाद् ध्यानमधिकम् अत आसनापेक्षयोच्यमानस्य ध्यानत्वादासनमावश्यकमिति भाष्यार्थ इति भावः ॥

वाक्यार्थमुक्तावली

भावप्रधाननिर्देशः । आसीनेन क्रियमाणस्योपासनाविशेषस्येति शेषः । आसीन एवोपासनं कुर्यादित्यविरुद्धमित्यविरोधसमुच्चयार्थं चशब्दः । यद्वा सर्वदा कर्तव्यस्मरणत्वादुपासनाविशेषस्य च ध्यानत्वादिति समुच्चयार्थः । यद्वा ध्यानस्य स्मरणाधिक्यप्रतिपादनादित्यर्थः । ‘समुच्चये तथाधिक्ये न्यूनत्वे च प्रयुज्यते’ इति वचनात् स्मृतिसूचनार्थश्चेति भावेन व्याचष्टे ॥ न सर्वदेत्यादिना ॥ अत इति भाष्यं तदुक्तहेत्वाकाङ्क्षोत्थापनपूर्वं व्याचष्टे ॥ कुत इति ॥ एतद् ध्यानस्य स्मरणभेदे-नोपासनाद्वैविध्यं ध्यानस्याधिक्यमित्यादिकम् । स्मृतौ स्मरणेति भिन्नं पदम् । लिङ्गव्यत्यास-श्छान्दसः । तथा चोपासनं स्मरणात्मकं ध्यानात्मकं चेति द्विधेति योज्यम् । स्मरणं विच्छेदेन सर्वदा गत्यासनादिष्वपि योग्यम् ।

वाक्यार्थविवरणं

ननु उभयोर्विरुद्धत्वे तन्मध्ये किमावश्यकतयोपादेयं किं नेत्यत आह ॥ तत्रेति ॥ कुतो नालमित्यत आह ॥ ध्यानस्येति ॥

वाक्यार्थमञ्जरी

तर्ह्यासनमेव कुत इत्यत आह ॥ तत्रेति ॥ ॐ ध्यानाच्च ॐ ॥ आसीनेन क्रियमाणस्य ध्यानत्वादविरोध इत्यर्थः ॥ एतदिति ॥ उपासनं हि द्विविधा भवतीत्यादिनोक्तमित्यर्थः । भाष्ये उपासनं स्मरणं ध्यानात्मकं चेति द्विविधैवेत्यर्थः ।