०५ आदित्यादिमत्यधिकरणम्

ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ

५. आदित्यादिमत्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ ६ ॥

‘चक्षोः सूर्यो अजायते’त्याद्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानत्वा-त्स्वाश्रयत्वान्मुक्तौ तत्र लयस्यापेक्षितत्वाच्चोपपन्नं तेषां तथोपासनम् ।

नारायणतन्त्रे च—

‘आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।

गुणानां स्मरणाशक्तौ विष्णोर्ब्रह्मत्वमेव तु ॥

स्मर्तव्यं सततं तत्तु न कदाचित्परित्यजेत् ।

अत्र सर्वगुणानां च यतोऽन्तर्भाव इष्यते ॥

स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ।

तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ॥

तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः’ इति ॥ ६ ॥

॥ इति आदित्यादिमत्यधिकरणम् ॥ ५ ॥

तत्त्वप्रकाशिका

अत्र भगवदपरोक्षसाधनस्याङ्गाश्रितत्वेन देवतोपासनस्यावश्यकत्वसमर्थनादस्ति शास्त्रसङ्गतिः । अन्यथा तन्न्यायेनात्मत्वस्याप्यावश्यकत्वाभावप्रसङ्गात्समर्थनीयमेतत् । भगवदङ्गाश्रितत्वेन देवतोपासनं देवानामुक्तम् । तत्र स्वस्य स्वोपत्त्यङ्गाश्रितत्वेनोपासनं विषयः । सदा सर्वथा कार्यं न वेति सन्देहः । द्विविधोपास्तिदर्शनं सन्देहबीजम् । न सदा सर्वथा तथोपासनं देवैः कार्यमिति पूर्वः पक्षः । सूर्यादीनां विविधस्थानेषु सञ्चरणेन सदा भगवच्चक्षुराद्याश्रितत्वाभावात् । सदा चक्षुराद्याश्रितत्वाभावेऽपि तथोपासनस्यानर्थफलत्वात् । गुणान्तरेषु सत्सु भगवदङ्गाश्रितत्वेन विशिष्य स्वचिन्तने कारणविशेषाभावाच्च । अतः सत्यप्याश्रयिभावसम्बन्धे तस्य सर्वथोपास्यत्वा-भावात्तद्वत्स्वस्वामिभावे सत्यपि नात्मत्वोपासनमावश्यकमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ आदित्यादीति ॥ ‘चक्षोः सूर्यो अजायत’ इत्यादिना यदुक्तं स्वाश्रयत्वेन भगवदङ्गोपासनं तदादित्यादिदेवैः सदा सर्वथा कार्यमेव । को विशेषहेतुः । मुक्तौ तत्र लयस्यापेक्षितत्वात् । उपासनस्य फलसाम्येन कार्यत्वात् । मुक्तौ तत्र लय एव कुतः । स्वोत्पत्तिस्थानत्वात् । यतो यस्योत्पत्तिस्तत्र तस्य लयनियमात् । न चान्यथोपासनप्रसङ्गादेतदयुक्तम् । नित्यं रूपान्तरेणाङ्गानां स्वाश्रयत्वादिति भावः । अतीताधिकरणसहितैतदधिकरणार्थे स्मृतिं चाह ॥ नारायणेति ॥ स्वोत्पत्त्यङ्गं स्वाश्रयत्वेन चिन्त्यम् । अत एतदुपासनस्यावश्यकत्वादुक्तमपि युक्तमिति सिद्धम् ॥

भावबोधः

अङ्गाश्रितत्वेनेति । आत्मत्ववद्गुणत्वाविशेषेऽपि ब्रह्मत्वस्य नित्योपास्यत्वे विशेषहेत्वभावात्, ब्रह्मत्वं नोपास्यमिति पूर्वाधिकरणपूर्वपक्षवदत्रापि गुणान्तरेषु सत्सु भगवदङ्गाश्रितत्वेन विशिष्य चिन्तने कारणाभावादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः । तन्न्यायेनेति ॥ अङ्गाश्रित-त्वस्यापि स्वस्वामिभावविशेषरूपत्वादिति भावः । (स्वस्य स्वोत्पत्त्यङ्गाश्रितस्यापि स्वस्वामिभाव-विशेषरूपत्वादिति भावः ।) सदेति ॥ अङ्गाश्रितत्वेनोपासनं देवैः सर्वथा न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थं देवानां तथोपासने फलं नास्त्युतास्तीति । तदर्थं देवानां तथोपासनं किं मिथ्योपासनमुत सदुपासनमिति । तदर्थं जगत्प्रकाशनादौ विनियुक्तानां सूर्यादीनां नित्यं भगवदङ्गाश्रितत्वं नास्त्युतास्तीति । विविधस्थानेष्वादित्यादीनां चरणाद्विष्ण्वङ्गेषु आदित्यादि-मतिनियमो नास्तीति न्यायविवरणोक्तपूर्वपक्षयुक्तिमाह– सूर्यादीनामिति ॥ तथोपासनस्येति सूर्यादीनां चक्षुराद्याश्रयत्वेन उपासनस्येत्यर्थः । स्वोत्पत्तिस्थानत्वादित्यादिभाष्यनिवर्तनीयमाह– गुणान्तरेष्विति ॥ इत्यादिना यदुक्तमिति ॥

‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुदीरणा’

इति स्मृतिबलाद्गुणप्रतिपादकवाक्यानां ध्यानार्थत्वं सिद्धमिति भावः । ‘कृत्यानां कर्तरि वा’ इत्युक्तेर्भाष्ये देवानामिति षष्ठ्युपपत्तिरिति भावेनोक्तमादित्यादिदेवैरिति । आकाङ्क्षाक्रमेण स्वोत्पत्तिस्थानादित्यादिभाष्यं योजयन्नादौ मुक्तौ तत्र लयस्यापेक्षितत्वादिति भाष्यं तावद्योजयति– मुक्ताविति ॥ नित्यं रूपान्तरेणेति ॥ स्वाश्रयत्वादिति भाष्यव्याख्यानपरेणानेन तत्कृतावेत-त्कृत्यस्य प्राप्तत्वादादित्यादीनामिति न्यायविवरणमुक्ततात्पर्यकं भवति । तदक्षरार्थस्तु आदित्या-दीनां तत्कृतौ विविधस्थानसञ्चरणलक्षणकृत्यकृतावपि रूपान्तरेण विष्ण्वङ्गस्थितिरूपकृत्यस्य प्राप्तत्वादिति । स्मृतावित्थंभावप्रतीतेराह– स्वाश्रयत्वेनेति ॥

भावदीपः

ओषु यथाश्रयभाव इत्यत्रैव सिद्धत्वादाह ॥ आवश्यकत्वेति ॥ आत्मत्वस्यापीति ॥ एतेन यद्विशेषणतया ब्रह्मत्वदृष्टिः कार्या तदेवात्मत्वमनावश्यकमिति पूर्वोक्ताक्षेपेण शङ्कोदयात्पूर्व-सङ्गतिरपि सूचिता ॥ देवानामुक्तमिति ॥ ओषु यथाश्रयभाव इत्यत्रोक्तमित्यर्थः ॥ द्विविधेति ॥ पूर्ववज्ज्ञेयम् । विविधस्थानेष्वादित्यादीनां चरणाद्विष्ण्वङ्गेष्वादित्यादिमतिनियमो नास्तीत्यन्यत्रोक्त-प्रतिज्ञाहेतू व्यनक्ति ॥ न सदेति ॥ तथेति ॥ स्वस्य स्वोत्पत्त्यङ्गाश्रितत्वेनेत्यर्थः । हेतोर-प्रयोजकत्वं निराह ॥ सदा चक्षुरादीति ॥ अनर्थेति ॥ न प्रतीक इत्यत्र तथोक्तेरिति भावः । उपपत्तेरिति सौत्रहेतुव्यावर्त्यं चाह ॥ गुणान्तरेष्विति ॥ अत इति ॥ उक्तहेतुद्वयादित्यर्थः ॥ नात्मत्वेति ॥ ननु तदाश्रितत्वस्य सर्वदा तत्राभावेन मिथ्योपासनापत्त्या अङ्गाश्रितत्वेनोपासना-योगेऽपि स्वामित्वस्य नित्यं भावात्कथं तदुपासनस्याप्यनावश्यकत्वमिति चेन्न । तदाश्रित-त्वस्याभावदशायां स्वस्वामिभावस्याप्ययोगादिति तात्पर्यात् ॥ अत्राङ्गेष्वित्यत्रोक्तोपासनं न कार्यमित्येकः पूर्वः पक्षः । तस्य कार्यत्वेऽपि न सदा सर्वथा कार्यमित्यपरः । तत्रान्त्यनिवर्तकतया भाष्यं व्याचष्टे ॥ चक्षोरिति ॥

उपासनमिति ॥ तस्यां श्रुतावुपासनापदाश्रवणेऽपि ‘तमेवं विद्वानमृत इह भवति’ इत्यग्रे तदपरोक्षज्ञानेन फलोक्तेरपरोक्षस्य चोपासनसाध्यत्वादर्थादुपासनं प्राप्तमिति वा आध्यानाय प्रयोजना- भावादित्युक्तदिशोपासनलाभाद्वेति भावः । उपपत्तेरिति सौत्रहेतुविवरणपरभाष्यं व्यनक्ति ॥ को विशेषहेतुरित्यादिना ॥ हेतोरप्रयोजकत्वं निराह ॥ उपासनस्येति ॥ ‘तं यथा यथोपासते’ इत्यादेरर्थसामान्यादित्युक्तेश्चेति भावः । हेतोरसिद्धिनिरासकतया भाष्यशेषं व्यनक्ति ॥ मुक्ता-विति ॥ उक्तार्थे हेतुत्वमस्य व्यनक्ति ॥ यत इति ॥ नियमादिति ॥ समाहारादित्यत्राङ्गैः पराद्ये हि देवा विसृष्टा इत्यादिभाष्योक्तश्रुतौ तथोक्तेरिति भावः । प्रागुक्ताद्यपूर्वपक्षनिरासकतया भाष्य-शेषोपयोगमाह ॥ न चेति ॥ प्रकृतोपयोगायार्थमाह ॥ स्वोत्पत्तीति ॥ अत इति ॥ मुक्तौ भगवदङ्गेषु प्रवेशान्यथानुपपत्तिरूपोपपत्तिबलादित्यर्थः ॥ उक्तमपीति ॥ आत्मत्वोपासनमपीत्यर्थः ॥

अभिनवचन्द्रिका

अन्यथेति ॥ सूर्यादीनामितस्ततः सञ्चारेऽपि भगवदङ्गाश्रितत्वमेवेत्यर्थस्य समर्थनद्वाराऽङ्गाऽऽश्रितत्वेनोपासनानियमसमर्थनाभावे भगवन्तमपहाय इतस्ततः सञ्चारादेव न सर्वदा भगवन्नियम्यत्वमिति भ्रमापत्त्या प्रागुक्तमात्मत्वोपासनमयुक्तं स्यादिति शङ्का स्यादित्यर्थः ॥ अतः सत्यपीति ॥ कदाचिदाश्रयाश्रयिभावे सत्यपि तस्य सदातनत्वाभावेन तस्य सर्वथोपास्यत्वाभावात् तद्वत् कदाचित् स्वामिभावे सत्यपि सदातनत्वाभावान्नात्मत्वोपासन-मावश्यकमित्यर्थः ॥

पूर्वपक्ष्स्तु न सदा सर्वथा तथोपासनं देवैः कार्यम् । सूर्यादीनामितस्ततः सञ्चरणेन सदा भगवदङ्गाश्रितत्वाभावात् । तथापि उपासनेऽन्यथोपासनत्वेनानर्थप्रसङ्गात् । सत्स्वपि गुणान्तरेषु स्वाश्रयत्वेन भगवदुपासने विशेषकारणाभावाच्च । अत आश्रयाश्रयिभावस्यासदातनत्वेन सर्वथोपास्यत्वाऽभावात्, तद्वत् सदातनत्वाभावेन नाऽऽत्मत्वोपासनमावश्यकमिति ।

सिद्धान्तस्तु ‘चक्षोः सूर्योऽजायत’ इत्यादिना यदुक्तं स्वाश्रयत्वेन भगवदङ्गोपासानं, तत्, आदित्यादिदेवैः सर्वथा कार्यमेव । मुक्तौ तत्र लयस्याऽपेक्षितत्वात् । न च मिथ्योपासनाप्रसङ्गः । रूपान्तरेणाङ्गानां स्वाश्रयत्वात् । अतस्तदुपासनस्यावश्यकत्वादुक्तमात्मत्वोपासनं युक्तमिति सिद्धम् ॥

वाक्यार्थमुक्तावली

अन्यथेति ॥ सूर्यादिभिः स्वोत्पत्यङ्गानां स्वाश्रयत्वेनानुपासने भगवदङ्गानां देवतास्वामि-त्वस्यानुपासितत्वात् तन्न्यायेन यद्भगवतो ब्रह्मत्वसंयुतमात्मत्वं पूर्णस्वामित्वम् उपास्यमित्यतीताधि-करणोक्तं तदसत् स्याद्यावद्विशेषबाधे सामान्यायोगादित्यनन्तरसङ्गतिरिति भावः ॥ सदेति ॥ देवैः स्वोत्पत्यङ्गाश्रितत्वेनोपासनं सदा न कार्यमुत कार्यमिति चिन्ता ॥ तदर्थं तन्मिथ्योपासनमुत सत्योपासनमिति । तदर्थमङ्गपरित्यागेन विविधस्थानेषु चरणमस्त्युत नास्तीति । उपपत्तेः स्वाश्रय-त्वादिति सूत्रभाष्यखण्डं निरस्य दूषणान्तरमाह ॥ गुणन्तरेष्विति ॥ सूत्रे चशब्दो ब्रह्मदृष्ट्या समुच्चयार्थो ऽवधारणे च । कार्या एवेत्यध्याहृतेनान्वयः । ओ प्रस्तुतभगवदङ्गविषये आदित्यादि-मतय आदित्याद्याश्रयत्वेनोपासना आदित्यादिभिर्देवैः कार्या एवेति प्रतिज्ञार्थमाह चक्षोरिति ॥ स्वपक्षसाधनानन्तरं बाधकोद्धारावसर इति स्वपक्षसाधकमुपपत्तेरित्यंशं व्याकुर्वन्मुक्तौ तत्रेति भाष्यमादाववतार्य व्याचष्टे ॥ को विशेष इति ॥ हेतुसाधकतयाऽप्युपपत्तेरित्यंशं व्याकुर्व-त्स्वोत्पत्तीति भाष्यं व्याचष्टे ॥ कुत इति ॥ बाधकपरिहारकतयोपपत्तेरित्येतद्व्याकुर्वन् स्वाश्रयत्वादित्यंशं व्याचष्टे ॥ न चेति ॥ ध्यानस्यापि ज्ञानविशेषत्वात् सङ्कलय्योक्तमिति सुधायामुक्तमतो मतयो दृष्टिरित्याद्युक्तिः । मतय इति बहुवचनं तु यदङ्गे यस्य निवेशस्तेन तेन तथा मतिः कार्येत्यनेककर्तृकत्वद्योतनाय । अङ्ग इत्येकवचनं स्वोत्पत्यङ्गमिति स्मृत्यनुरोधेनाङ्गानामभेद-सूचनाय वेति ।

वाक्यार्थविवरणं

विविधस्थानेष्विति ॥ सर्वप्राणिनां चक्षुष्षु ह्यन्तरिक्षादिस्थानेष्वित्यर्थः ॥ स्वस्वामि-भावेति ॥ स्वस्वामिभावसम्बन्धे ॥ उक्तमपि ॥

वाक्यार्थमञ्जरी

तन्न्यायेनेति ॥ अङ्गाश्रितत्वस्यापि स्वस्वामिभावविशेषरूपत्वादिति भावः ॥ उक्तमङ्गाव-बद्धास्त्वित्यनेन ॥ ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ ओ भगवदङ्गे आदित्यादिमतय आदित्यादेरुपासनाश्च कार्याः कुत उपपत्तेर् मुक्तौ तत्प्रवेशरूपफलस्यापेक्षितत्वेन तासामुपपन्न-त्वादिति भावः । स्मृतावित्थंभावाप्रतीतेराह ॥ स्वाश्रयत्वेनेति ॥

॥ इति आदित्यादिमत्यधिकरणम् ॥ ५ ॥