०४ ब्रह्मदृष्ट्यधिकरणम्

ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ

४. ब्रह्मदृष्ट्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ॥ ५ ॥

ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् ।

‘ब्रह्मदृष्ट्या सदोपास्यो विष्णुः सर्वैरपि ध्रुवम् ।

महत्त्ववाची शब्दोऽयं महत्त्वज्ञानमेव हि ।

सर्वतः प्रीतिजनकमतस्तत्सर्वथा भवेत् ॥

आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ।

कार्यैव सर्वथा विष्णोर्ब्रह्मत्वं न परित्यजेत्’ इति ब्रह्मतर्के ॥ ५ ॥

॥ इति ब्रह्मदृष्ट्यधिकरणम् ॥ ४ ॥

तत्त्वप्रदीपिका

यथाऽऽत्मदृष्टिः सर्वदा सर्वेषां कार्या ब्रह्मदृष्टिश्च तथा कार्या परमेश्वरे । उत्कृष्टत्वात्, तस्य ब्रह्मशब्दस्य चोत्कर्षार्थत्वात् । भूमगुणस्य सर्वगुणेषु भावनीयत्वमुक्तम् । तदशक्तावप्यत्यन्तायामापदि गुणिनि तद्ब्रह्मत्वं न परित्याज्यमित्युच्यते । अत उत्कृष्टः स्वामी विष्णुरिति न क्वचिदपि विस्मर्तव्यमित्यर्थः । अपि च–

‘ब्रह्मत्वं पूर्णता प्रोक्ता तदस्य स्वत एव तु ।

स ब्रह्माऽत्मा समुद्दिष्टो वासुदेवः सनातन’ इति हरिवंशेषु ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मदर्शनसाधनब्रह्मत्वोपासनस्यावश्यकत्वसमर्थनादस्ति शास्त्रसङ्गतिः । अन्यथा भूम्नो ज्यायस्त्वमित्युक्तहानिप्रसङ्गात् समर्थनीयमेतत् । भूम्न इत्यत्र प्रकृतं ब्रह्मत्वमेव विषयः । किं सदा सर्वथोपास्यं न वेति सन्देहः । उभयथापि दर्शनं सन्देहबीजम् । न ब्रह्मत्वं सदा सर्वथोपास्यमिति पूर्वः पक्षः । भगवत्प्रसादाय हि तदुपासनं कर्तव्यम् । स च प्रतिदिनं विविधगुणोपसंहारेणोपासने सिध्यति । तथा च किं ब्रह्मत्वस्यैकस्यैव विशिष्य सदोपासने कारणमस्ति । तदुपासनमपि भगवत्प्रसादजनकमिति चेत्तथापि गुणान्तरसाम्यमेव स्यात् । न चात्मत्ववद्गुणत्वाविशेषेऽपि नित्योपास्यत्वे विशेषहेतुरस्ति । अतो ब्रह्मत्वस्य नित्योपास्यत्वाभावादुक्तं ज्यायस्त्वमयुक्तमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ ब्रह्मेति ॥ परमेश्वरे सदा सर्वथा ब्रह्मत्वोपासनं कार्यम् । तत्र सर्वगुणान्तर्भावेन भगवदुत्कृष्टत्वसिद्धेः । भगवदुत्कृष्टत्वं हि ब्रह्मत्वम् । तथा च ब्रह्मत्वोपासनं नाम उत्कृष्टत्वोपासनमेव । सर्वोत्कृष्टत्वोपासनं चान्योपासनेभ्योऽतिशयेन भगवत्प्रसादहेतुरिति भावः । ब्रह्मदृष्टिः प्रतीके कार्येति केचित्तदतीतसूत्रेणैव निरस्तमिति भावेनोक्तं परमेश्वर इति । अत्र स्मृतिं चाह ॥ ब्रह्मेति ॥ शब्दोऽयं यत इति शेषः । सर्वतो महत्त्वज्ञानमित्यन्वयः । गुणान्त-रोपासनादाधिक्येनेति वा । आत्मत्वोपास्तिवद् ब्रह्मत्वोपासनं विनापि मोक्षासम्भवाच्च तत्कार्यमिति भावेनाह ॥ आत्मेति ॥ ब्रह्मत्वस्याप्यावश्यकत्वे चतुर्गुणोपासननियमभङ्गः स्यादित्यतो वाह ॥ आत्मेति ॥ आत्मत्वविशेषणत्वेनोपासनाददोष इति भावः । अतो ब्रह्मत्वस्य विशिष्योपास्यत्वादुक्तं युक्तमिति सिद्धम् ॥

गुर्वर्थदीपिका

ब्रह्मत्वोपासनमिति वदता ब्रह्मदृष्टिः सर्वोत्कृष्टत्वोपासनमिति सूत्रार्थस्सूचितः । आत्मत्वं स्वस्वामित्वं ब्रह्मत्वं सर्वोत्कृष्टत्वमित्यतो न पौनरुक्त्यम् ॥

भावबोधः

ब्रह्मत्वोपासनस्येति । पूर्वाधिकरणे प्रतीके ब्रह्मदृष्टिर्नकार्येत्यत्र हेतुतया ‘‘न हि सः’’ इत्युक्तभेदाभावे हेतुभूतब्रह्मत्वरूपव्यावर्तकधर्मोपासनस्यात्र विचारादनन्तरसङ्गतिरिति भावः । उक्तहानिप्रसङ्गादिति ॥ ‘‘भूम्नः’’ इत्यधिकरणे सर्वोपास्यत्वे हेतुत्वेनोक्तज्यायस्त्वं भूमगुणस्य मोक्षान्वयव्यतिरेकवदुपास्तिविषयत्वेन साधितम् । भूमशब्दोक्तब्रह्मत्वस्यावश्यकत्वासमर्थने मोक्षान्वयव्यतिरेकायोगेन ज्यायस्त्वहानिप्रसङ्गादित्यर्थः ॥ किमिति ॥ अत्र ब्रह्मत्वं किं सदा सर्वथोपास्यं न भवत्युत भवतीति चिन्ता । तदर्थं ब्रह्मत्वोपासनं विनापि मोक्षजनकीभूतेश्वरप्रसादो न भवत्युत भवतीति । तदर्थं न भवतीति पक्षे ब्रह्मत्वोपासनायाम् ‘‘आनन्दादयः प्राधनस्य’’ इत्युक्तविरोधः प्राप्नोत्युत न प्राप्नोतीति । प्रतिदिनं विविधगुणन्यासेन भगवत्प्रीत्युपपत्तेर्न ब्रह्म-तादृष्टिनियम इति न्यायविवरणोक्तपूर्वपक्षयुक्तिमाह– भगवत्प्रसादाय हीत्यादिना ॥ न्यायविवरण-गत‘‘न्यास’’शब्दार्थ उपसंहारेणोपासन इति न्यायविवरणगत‘नियम’पदस्यार्थमाह– तथापि गुणान्तरसाम्यमिति ॥ अत्र सूत्रे ‘‘ब्रह्मदृष्टिः’’ कर्तव्येत्युच्यते । कुत्रेत्याकाङ्क्षायां सन्निधानात् प्रतीक इति प्राप्नोति । तच्च योग्यताविरहात् प्रागेव निराकृतम् । अतः साकाङ्क्षं प्रतिज्ञावाक्यमित्यतो भाष्ये परमेश्वर इत्युक्तमित्यभिप्रेत्याह– परमेश्वर इति । तथा च ‘‘आत्म’’इति सूत्रादात्मशब्दोऽर्थवशात् सप्तम्यन्तोऽत्रानुवर्तत इत्युक्तं भवति ।

ननु सूत्रे ‘उत्कर्षात्’ इति हेतुरुच्यते । तत्र न ज्ञायते कस्योत्कर्षाद् इत्यतः ‘उत्कृष्टो ब्रह्मशब्दार्थः’ इत्यनुव्याख्यानानुसारेण तद्व्याचष्टे ॥ भगवदुत्कृष्टत्वं हि ब्रह्मत्वमिति ॥ ब्रह्मत्वं ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यर्थः । तथा चोत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादिति सूत्रार्थ इति भावः । कथं भगवदुत्कृष्टत्वं ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत अशेषगुणान्तर्भावेनेति न्यायविवरणं संयोजयति– तत्र सर्वगुणान्तर्भावेनेति ॥ अन्तर्भावितसर्वगुणत्वमेव सर्वोत्कृष्टमिति भावः ॥

ननु भगवदुत्कृष्टत्वस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वं परमेश्वरे ब्रह्मदृष्टिः कार्येत्यत्र कथं हेतुरित्यत आह– तथा चेति ॥ ननु विविधगुणोपासनेनैव भगवत्प्रसादसम्भवे किमुत्कृष्टत्वोपासनेनेत्य-तस्तस्यैवाधिकसाधनत्वादिति न्यायविवरणं योजयति– सर्वोत्कृष्टत्वोपासनं चेति ॥ सर्वतो महत्त्वेति ॥ लक्ष्म्यादिभ्यः सर्वेभ्य इति पञ्चम्यन्तात्तसिरिति भावः । गुणान्तरोपासनाधिक्येनेति ॥ आधिक्येनेत्येतदध्याहृतम् ॥ तत्कार्यमिति भावेनाहेति । अनेन ‘‘अत्मेत्येव’’ इति स्मृतिवाक्यस्य यदात्मेत्युपासा मोक्षसिद्ध्यर्थं कार्या तदा ब्रह्मत्वोपासनाभावेऽपि मोक्षाभावाद् ब्रह्मत्वसंयुताप्युपासा कार्यैवेति तात्पर्यमुक्तं भवति ॥ आत्मत्वविशेषणत्वेनेति ॥ अनेनात्मेत्युपासा ब्रह्मत्वसंयुतात्मत्व-विशेषणत्वेन ब्रह्मत्वविषयिणीति व्याख्यातं भवति ॥

भावदीपः

ब्रह्मत्वेति ॥ पूर्णत्वेत्यर्थः । भूम्न इत्यत्रैव तदुपासनस्य सिद्धेराह ॥ आवश्यकत्वेति ॥ एतेन नामब्रह्मेत्यादौ नामादिप्रतीकस्थतयोपास्यत्वेन प्रकृतस्य ब्रह्मणस्तत्त्वेनोपासनस्यात्रावश्यकत्वोक्तेः पूर्वसङ्गतिरपि सूचिता । चिन्ताफलमाह ॥ अन्यथेति ॥ आवश्यकत्वानुक्तौ पूर्णत्वाख्यभूम-गुणस्योपास्यसर्वगुणसाधारण्येन ज्यायस्त्वशब्दितं सर्वगुणेभ्यः श्रैष्ठ्यं न स्यादित्यर्थः । पूर्वसूत्रेऽ-प्रकृतत्वेऽपि भूम्न इत्यस्य प्रपञ्चनपरत्वमस्य सूचयितुं भूम्न इत्यत्र प्रकृतमित्युक्तम् ॥ उभयथेति ॥ आत्मत्वोपासने भगवद्गुणान्तरोपासने चावश्यकत्वानावश्यकत्वदृष्टिरित्यर्थः । प्रतिदिनं विविध-गुणाभ्यासेन भगवत्प्रीत्युपपत्तेर्न ब्रह्मतादृष्टिनियम इत्यन्यत्रोक्तप्रतिज्ञाहेत्वोः साक्षादनन्वयान्मध्ये तद्दृष्टेर्भगवत्प्रीत्यर्थत्वादिति हेतुं संयोज्य तस्यान्यथासिद्ध्युक्तिपरत्वेनान्यत्रोक्तं हेतुं योजयति ॥ न ब्रह्मत्वमित्यादिना ॥ अभ्यासेनेत्यस्यार्थ उपसंहारेणेति ॥ भगवत्प्रीतेरन्यथोपपत्तावपि कारणान्तरादस्तु तस्य नियमेनोपासनमित्यतः सौत्रहेतुमाह ॥ तथा चेति ॥ नियमपदतात्पर्यं विवृण्वन्नुक्तहेतोरेव ब्रह्मत्वदृष्ट्योपपत्तिमाशङ्क्य निराह ॥ तदिति ॥ गुणेति ॥ ज्ञानादिगुणान्तरसाम्यमेव न त्वत्यावश्यकत्वमित्यर्थः । भाष्यस्थचशब्दव्यावर्त्यं गतार्थत्वमाशङ्क्य निराह ॥ न चेति ॥ गुणान्तरदृष्ट्या भगवत्प्रीत्युपपत्तावपि विना मोक्षायोगेन हेतुना आत्म-त्वोपासनं यथावश्यकं तथा ब्रह्मत्वदृष्टिरप्यस्तु । तदभावेऽपि मोक्षायोगात् । एवं चात्मेत्यनेनैव गतार्थत्वान्नात्र पूर्वपक्षोदय इति न शङ्क्यम् । मानाभावेन मोक्षायोगरूपविशेषहेतोरभावादित्यर्थः ॥

भाष्यं व्याचष्टे ॥ परमेश्वर इति ॥ उत्कृष्टत्वादित्यत्र ब्रह्मत्वस्येत्यन्वयमुपेत्य तत्कथ-मित्यतोऽशेषगुणान्तर्भावेनेत्यन्यत्रोक्तदिशोपपादयति ॥ तत्रेति ॥ ब्रह्मत्व इत्यर्थः । ततश्च किमित्यतस्तस्यैवाधिकसाधनत्वादित्यन्यत्रोक्तदिशा भाष्यभावमाह ॥ तथा चेति ॥ ब्रह्मत्वे उत्कृष्टत्वरूपे सतीत्यर्थः । ननु भाष्ये ब्रह्मत्वोपास्तिः कार्येत्येवोक्तौ पूर्वन्यायेनान्यत्र तथोपास्तेरप्रसक्ते ब्रह्मणीत्येव लाभात्परमेश्वर इत्युक्तिर्व्यर्थेत्यत आह ॥ भगवदिति ॥ निरस्त-मिति ॥ न हि स इति सूत्रांशेनेति भावः ॥ इति भावेनेति ॥ अत्र सूत्रे पूर्वत्रानुषक्तमात्मपदमेव सप्तम्यन्ततयाऽनुवर्तते । न तु प्रतीकपदमिति भावः । स्मृतिं व्याचष्टे ॥ शब्द इति ॥ न चात्मत्ववदित्यादिप्रागुक्तचोद्यनिरासकतया स्मृतिशेषं व्याचष्टे ॥ आत्मत्वेति ॥ सा यथा मुक्तिहेतुरेवं ब्रह्मत्वोपास्तिरपि मुक्तिहेतुरित्यस्य स्मृतौ साक्षादप्रतीतेराह ॥ इति भावेनेति ॥ ब्रह्मत्वसंयुतेत्युक्त्या एवं तात्पर्यं गम्यत इति भावः । अत एव इत्यतो वेत्यर्थान्तरोक्तिः । एतेन ब्रह्मत्वदृष्टिं विना मोक्षाभावेनोत्कृष्टसाधनत्वादात्मनि ब्रह्मत्वदृष्टिः कार्यैवेति सूत्रस्यार्थान्तरं सूचितम् ॥ चतुर्गुणेति ॥ आनन्दादय इत्यत्रोक्तेति भावः ॥ अत इति ॥ अतिशयेन भगवत्प्रीतिहेतुत्वादित्यर्थः ॥ उक्तमिति ॥ भूम्न इत्यत्रोक्तं ज्यायस्त्वमित्यर्थः ॥

अभिनवचन्द्रिका

पूर्वपक्षस्तु ब्रह्मत्वं सदा सर्वथा नोपास्यम् । उपासनं भगवत्प्रसादार्थम् । स च प्रतिदिनं विविधगुणोपासनेनैव भवेदिति व्यर्थं ब्रह्मत्वोपासनम् । अतो ब्रह्मत्वस्य सदोपास्यत्वा-भावादुक्तमयुक्तमिति ।

सिद्धान्तस्तु कार्यमेव सदा सर्वथा ब्रह्मत्वोपासनम् । यतस्तथोपासने एव हि ब्रह्म प्रसन्नं भवति । ननु ब्रह्मत्वोपासनयोग्यानां तथोपासनमस्तु । चतुर्गुणोपासकानां कथमिति चेत्, तैरपि आत्मत्वादिविशेषणतया ब्रह्मत्वोपासनं कार्यम् । ‘आत्मेत्येव यदोपासा तदा ब्रह्मत्व संयुता’ इति वचनात् । अतः ब्रह्मत्वस्य विशिष्योपास्यत्वादुक्तं युक्तमिति सिद्धम् ॥

वाक्यार्थमुक्तावली

अन्यथेति ॥ ब्रह्मत्वोपासनस्यानावश्यकत्वे भूम्नः क्रतुवदित्यत्र ब्रह्मत्वापरपर्यायभूम-त्वस्यानन्दादय इत्याद्युक्तसर्वगुणविशेषणतयानुवृत्योपास्यत्वम् । यदुक्तं तद्धानिप्रसङ्गादित्यर्थः । तथा च ब्रह्मत्वस्यानन्दादिविशेषणतयानुपास्यत्वे स्वामित्वविशेषणत्वेनाप्यनुपास्यत्वात् पूर्ण-स्वामित्वापरपर्यायसर्वस्वामित्वनिर्वाहाय प्रतीकैक्योपासनवर्जनमावश्यकमित्यतीताधिकरणोक्तं न सिध्येदित्याक्षेपादनन्तरसङ्गतिरपीति भावः ॥ किमिति ॥ अत्र ब्रह्मत्वं सदोपास्यं न भवत्युत भवतीति । तदर्थं ब्रह्मत्वोपासनं विना मोक्षजनकीभूतेश्वरप्रसादो भवत्युत न भवतीति । महत्वज्ञान-मेव सर्वतः प्रीतिजनकमित्युत्तरभाष्ये गुणान्तरोपासनादाधिक्येन ब्रह्मत्वोपासनस्य प्रसादहेतुत्वोक्त्या व्यवच्छेद्यं विन्यास इत्युक्तपूर्वपक्षन्यायं प्रतिदिनं विविधगुणन्यासेन भगवत्प्रीत्युपपत्तेर् न ब्रह्मतादृष्टिनियम इति न्यायविवरणानुसारेण व्यनक्ति ॥ भगवत्प्रसादायेति ॥ आत्मेत्येव यदोपासेत्युत्तरभाष्यव्यवच्छेद्यं हेतुमाह ॥ न चेति ॥ सूत्रे आत्मेत्यत आत्मशब्दः सप्तम्यन्ततया विपरिणम्य अनुवर्तते । तत्रत्यतुशब्दो अनुवर्तते । स च सर्वदा सर्वथेति गुणान्तरोपासनाविशेषस्य द्योतकस् तस्यैवावधारणार्थस्य कार्येत्यध्याहृतेनान्वयः । चशब्दार्थस्य न केवलमात्मेति दृष्टिर्ब्रह्मदृष्टिश्चेत्यप्यन्वय इति भावेन प्रवृत्तं ब्रह्मदृष्टिश्चेति भाष्यं व्याचष्टे ॥ परमेश्वर इति ॥ उक्तं च तत्त्वप्रदीपे यथाऽऽत्मदृष्टिस्तथा ब्रह्मदृष्टिश्चेति । परमेश्वर इत्यादेरन्तर्भावेनेत्यन्त टीका-वाक्यस्यायमर्थः । सर्वथाऽऽधिव्याधिनिमित्तकमनोविक्षेपेण पृथग्गुणानां स्वयोग्यानां स्मरणा-शक्तावपि ब्रह्मत्वे सर्वगुणान्तर्भावेन पूर्ण इत्येवंरूपेण सततं परमेश्वरे ब्रह्मत्वोपासनं कार्यमिति । यद्वक्ष्यति आधिव्याधिनिमित्तेनेत्यादि । तत्र सर्वगुणान्तर्भावेनेत्येतदुत्तरवाक्येन वा सम्बध्यते । तथा हि । उत्कर्षादित्यस्य प्रतिपदं भाष्ये उत्कृष्टत्वादिति ।

ननु कथमिदं ज्ञायते सूत्र इति । उत्कर्षादित्यनेन ब्रह्मशब्दार्थस्योत्कर्षाद् उत्कर्षसत्वात् कोऽर्थ उत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादित्युक्तम् । भाष्ये तु भगवत उत्कृष्टत्वादित्युक्तं कथमेकार्थ्यमित्यत आह । तत्र सर्वगुणानामन्तर्भावेन भगवदुत्कृष्टत्वसिद्धेः । भगवदुत्कृष्टत्वं हि ब्रह्मत्वमिति । अत्रैवं तावद्योज्यम् । भाष्योक्तं भगवदुत्कृष्टत्वं खलु ब्रह्मत्वं ब्रह्मशब्दप्रवृत्ति-निमित्तसूत्रोत्कर्ष इति । तथा चोक्तर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादित्युक्ते (उत्कर्षवानुत्कृष्टो) ब्रह्मशब्दार्थ इत्यभिहिते चैक एवार्थ इति भावः । कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत उक्तम् ॥ तत्र सर्वगुणेति ॥ ब्रह्मशब्दप्रवृत्तिनिमित्तब्रह्मत्वे सर्वगुणान्तर्भावेन गुणोत्कर्ष एवोत्कर्ष इति कृत्वा भगवदुत्कृष्टत्वं हि ब्रह्मशब्दप्रवृत्तिनिमित्तं भवत्येवेति भावः । उक्तं चानुव्याख्याने

ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।

उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः ॥ इति ।

सुधायां चेत्थमेवानुव्याख्यामवतार्य व्याख्यायोपपादितम् । वृध्द्यर्थाद् बृहतेर्धातोरन्येभ्योऽपि दृश्यत इति मनिन्प्रत्ययः । दृशि ग्रहणसामर्थ्याद्धातोर् अमागमश्च । वृद्धिः पूर्णत्वमित्येक एवार्थः । ब्रह्मशब्दप्रवृत्तिनिमित्तं पूर्णत्वमेव चोत्कर्षः । हेतुहेतुमद्भावश्च भाष्य एव समर्थित इति । नन्वेवं सति पूर्णत्वापरपर्यायभगवदुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादिति हेत्वर्थः संपन्नः कथमयं परमेश्वरे ब्रह्मदृष्टिः कार्येति साध्यस्योपपादक इत्यत आह ॥ तथा चेति ॥ उत्कर्षस्य ब्रह्मशब्दप्रवृत्ति-निमित्तत्वे तस्य च भगवति सत्वे ब्रह्मत्वोपासनं चोत्कृष्टत्वोपासनमेवेति तदुपासनं कार्यमिति भावः ।

ननु विविधगुणोपासनेनैव भगवत्प्रसादसम्भवे किमुत्कृष्टत्वोपासनेनेत्यतः सर्वोत्कृष्टत्वोपासनस्य गुणान्तरोपासनादतिशयेन प्रसादहेतुत्वेनोत्कृष्टत्वादिति सूत्रखण्डस्य वृत्यन्तरमभिप्रेत्य तत्सूचितं साधनमित्युक्तसिद्धान्तन्यायं व्यनक्ति ॥ सर्वोत्कृष्टत्वोपासनं चेति ॥ न तादृशी प्रीतिरिति श्रुतेरिति भावः । तथा च स्वामित्वेनानुपासने स्वस्वामिसम्बन्धाज्ञानेन मोक्षाभावेन यथा तदवश्य-मुपास्यमेवमात्मनि परमेश्वरे ब्रह्मदृष्टिश्च सर्वदा कार्यैव । कुतः । उत्कर्षस्य ब्रह्मशब्दप्रवृत्ति-निमित्तत्वात्तदपि कुतः । उत्कर्षात् । अन्तर्भावितसर्वगुणत्वेन ब्रह्मत्वस्योत्कर्षरूपत्वात् । उत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्त्वेऽपि भगवतस्तथोपास्यत्वं कुत उत्कर्षाद् भगवत उत्कर्षाद् भगवत उत्कृष्टत्वात् । भगवतः सर्वोत्कर्षसत्त्वेऽपि गुणान्तरोपासनपरित्यागेनैतदुपासनं कुत उत्कर्षाद् गुणान्तरोपासनादुत्कर्षेण भगवत्प्रसादसाधनत्वेनैतदुपासनस्योत्कर्षादिति सूत्रार्थः ॥ केचिदिति ॥ प्रतीके ब्रह्मदृष्टिः कार्या कस्मादुत्कर्षात् । एवमुपासने हि तत्र प्रतीकमुत्कर्षेण ज्ञातं भवति । तथा चोत्कर्षमपेक्ष्य ब्रह्मत्वोपासनं तत्र कार्यमिति केचित् सूत्रार्थमाहुरित्यर्थः ॥ अतीतसूत्रेणैवेति ॥ प्रतीकविषये ब्रह्मदृष्टिर्न कर्तव्या । स विष्णुः प्रतीकं न हीति पूर्वसूत्र एव निराकृतत्त्वादिति भावेनाव्यवहितस्य प्रतीक इत्यस्यानुवृत्तिमनभिधायात्मेति त्वित्युक्त्वाऽऽत्मशब्दस्य सप्तम्यन्त-तानुवृत्तिमभिप्रेत्य परमेश्वर इत्युक्तमिति भावः ।

ननु न प्रतीक इत्यस्य प्रतीके आत्मेति स्वात्मेति बुद्धिं जह्यात् स उपासकः प्रतीकं न हीत्यर्थस्ततो न विरोध इति चेन्न । तत्रात्मशब्दस्य परमात्मपरत्वात् । द्युभ्वाद्यधिकरणे आत्मशब्दं हेतूकृत्य प्राणभृच्चेति जीवनिराकरणात् । अत एव भाष्ये सप्तम्यन्ततयानुवृत्तस्य परमेश्वर इति व्याख्यानमिति भावः । अत्र स्मृतिं चेति । न केवलं परकीयार्थस्य पूर्वसूत्रविरुद्धत्वं प्रत्युत स्मृतिविरुद्धत्वं चेति भावेनास्मदीयेऽर्थे स्मृतिं चाहेत्यर्थः । तेनेति च ब्रह्मतर्क इति चशब्दो युज्यते इति ज्ञेयम् । ब्रह्मदृष्ट्या सदोपास्य इत्यस्य विष्णुः पूर्ण इति शास्त्रोपदेशादिना ज्ञात्वा निदिध्यासितव्य इत्यर्थः । तेन ब्रह्मेत्युपासनेति वाच्यम् । सूत्रे दृष्टिग्रहणेन तथोपासनेऽभ्यास-पाटवाय तथैव श्रवणादिना ज्ञानपाटवं सम्पाद्यमिति रुचितमिति ज्ञातव्यम् । उत्कर्षादिति हेत्वंशे प्रमाणत्वस्फोरणायात इत्यस्यापेक्षितमध्याहरति शब्दोऽयं यत इति शेष इति । शब्दोऽयमित्यतः परं यत इति शेष इत्यर्थः ॥ सर्वतः महत्वेति ॥ ब्रह्मादिभ्यः सर्वेभ्य इति पञ्चम्यंतात्तसिरिति भावः । आधिक्येनेत्यध्याहृत्य क्रमान्वयमाह ॥ गुणान्तरोपासनादिति ॥ यथाऽऽत्मदृष्टि-स्तथाऽऽत्मदृष्टिश्चेत्युक्तार्थे प्रमाणतया प्रवृत्तमात्मेत्येवेत्यादिकमवतारयति ॥ आत्मत्वेति ॥ यदात्मेत्युपासा सर्वथा कार्या तदभावे मोक्षासिद्धेस् तदा ब्रह्मत्वसंयुता तद्विषयिण्युपासना कार्यैव समानन्यायत्त्वादिति स्मृत्यर्थ इति भावः । आत्मत्वविशेषणत्वेनेति ॥ एतेन यदा आत्मेत्युपासा वर्तते तदा ब्रह्मत्वसंयुता आत्मत्वविशेषणत्वेन ब्रह्मत्वविषयिणी कार्येति व्याख्यातं भवति । विरोधस्त्वन्यत्राप्राकृतोऽनुसन्धेयः ॥

वाक्यार्थविवरणम्

ब्रह्मत्वोपासनस्येति ॥ पूर्णत्वोपासनस्येत्यर्थः ॥ उभयथेति ॥ आत्मत्वं सर्वथोपास्यं सम्भृत्यादिकं तु न सर्वथोपास्यमित्युभयथाऽपीत्यर्थः ॥ साम्यमेव स्यादिति ॥ न तु नित्यो-पास्यत्वमित्यर्थः । ननु गुणत्वाविशेषेण साम्येऽपि आत्मत्ववदावश्यकतया नित्योपास्यत्वं किं न स्यादित्यत आह ॥ न च आत्मत्ववदिति ॥ विशेषहेतुरिति ॥ आत्मत्वस्य नित्यदोपास्यत्वस्य श्रुतिसिद्धत्वेन श्रुतेरेव विशेषहेतुत्वादिति भावः ॥

वाक्यार्थमञ्जरी

ब्रह्मत्वस्य पूर्णत्वस्य दृष्टिरुपासना कार्यैव कुत उत्कर्षाद् उत्कर्षस्य भगवदुत्कर्षस्य ब्रह्मपद-प्रवृत्तिनिमित्तत्वादित्यर्थः । ब्रह्मत्वं ब्रह्मपदप्रवृत्तिनिमित्तत्वं तत्कथमित्यत उक्तम् ॥ अत्र सर्वगुणान्तर्भावेनेति ॥ अन्तर्भावितसर्वगुणत्वमेव सर्वोत्कृष्टत्वमिति भावः । ननु भगवदुत्कृष्टत्वस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वं परमेश्वरे ब्रह्मदृष्टिः कार्येत्यत्र कथं हेतुरित्यत आह ॥ तथा चेति ॥ सर्वतः सर्वेभ्यः ।

॥ इति ब्रह्मदृष्ट्यधिकरणम् ॥ ४ ॥