०३ नप्रतीकाधिकरणम्

ॐ न प्रतीके न हि सः ॐ

३. नप्रतीकाधिकरणम्

ॐ न प्रतीके न हि सः ॐ ॥ ४ ॥

सूत्रभाष्यम्

‘नाम ब्रह्मेत्युपासीत’ इत्यादिना शब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थत्वेनैवोपासनं कार्यम् । ब्रह्मतर्के च—

‘नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः ।

ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ॥

नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते ।

सर्वार्था प्रथमा यस्मात्सप्तम्यर्था ततो मता’ इति ॥ ४ ॥

॥ इति नप्रतीकाधिकरणम् ॥ ३ ॥

तत्त्वप्रदीपिका

न प्रतीके नहि सः ॥ शब्दभ्रान्त्या शब्दतो भ्रान्त्या । न प्रतीके विष्णोः प्रतिमात्मके नामादौ तद्भावदृष्टिः कार्या प्रतीकं ब्रह्मेति । न हि स भगवान् प्रतीकं भवति । अविद्यमानोपासने च महान् दोषः । उभयोः प्रतीकब्रह्मशब्दयोः प्रथमात्वत ऐक्यदृष्टिर्विहितेति भ्रान्तिर्भवति । प्रथमात्वत इति सन्निकृष्टोपलक्षणम् । प्रथमात्वाद्द्वितीयात्वाद्वेत्यर्थः । शाखान्तरे प्रथमात्वाद्वा तथोक्तम् । ‘‘षट्सु द्वितीया’’ इति च सूत्रम् ॥

‘प्राणमुद्गीथमित्याद्या द्वितीया सप्तमी मतेति’ प्रध्याने ॥

‘नामादिमारुतान्तेषु देवेष्वेभ्यश्च भेदतः ।

उपासितो हरिर्मुक्तिं दद्यान्नास्त्यत्र संशय’ इति सत्तत्वे ॥

नामादिप्राणपर्यन्ताः सप्तम्यर्थाः प्रकीर्तिताः ।

तृतीयापञ्चमीषष्ठीचतुर्थ्यर्थाश्च सर्वशः ॥

शब्दैस्तैर्ब्रह्मशब्दस्तु सम्बध्येत यदा तदा ।

ब्राह्मणोऽस्य मुखं यद्वदात्मा वै पुत्रको यथा ॥

यथा च यूप आदित्य एवमेष प्रकीर्तितः ।

सप्तसु प्रथमा यस्माद्भूयोभूयस्त्वतस्तथा ॥

षट्सु द्वितीया यस्माच्च कारणत्वात्परस्य च ।

न ह्यन्यदन्यदित्येव ध्यानं स्यात्पुरुषार्थदम् ॥

अनर्थश्च भवेत्तस्माद्भृत्यो राजेति बोधवत्’’ इति सामसंहितायाम् ॥

‘विष्णोर्नामतया विद्यास्सर्वा नामेत्यतः स्मृताः ।

नामाभिमानिनी चोषा तस्यां ब्रह्म परं स्मरेत्’ इति तत्त्वविवेके ॥

न चोपासनविधावेव तात्पर्यं श्रुतेर् न वस्तुतथाभाव इति वाच्यम् । अविद्यमानो-पासनस्यानर्थहेतुत्वात् ।

‘अचेतनमयोग्यं च तथैवातात्विकं क्वचित् ।

नोपासीत परोऽनर्थः स्यात्तथोपासनाकृत’ इत्युपासनालक्षणे ॥

‘नाविद्यमानं ब्रुवते वेदा ध्यातुर्न वैदिकाः ।

अविद्यमानं ध्यायन्तो यान्ति सर्वेऽधरं तमः ॥

तस्मात्सत्यार्थतां ब्रूयाद्वेदानामपि सर्वशः ।

य एवं वेद स ज्ञानी ज्ञानवान्नान्यथा भवेत्’ इति वेदार्थविवेके ॥

‘प्रतिमाद्यं हरित्वेन पृथिव्याद्यमथापि वा ।

इन्द्रियप्राणिजीवाद्यमथवा य उपासते ॥

मिथ्योपास्तिमतां तेषां निष्कृतिर्न कदाचन ।

अतिदुःखे पतन्त्यद्धा तमस्यग्नौ पतङ्गवत्’ इत्युपासनानिर्णये ॥

प्रकाशितश्चायमर्थः प्रभूततरप्रमाणप्रद्योतप्रसरमुखरमुखेन्दुना सदानन्दनिष्यन्दिना भगवतैवानु-व्याख्याने न हि स इति सूत्रावयवमनुव्याचक्षाणेन । यस्य खलु हन्त परमदयानिधेः परमपुरुष-गुणगणमणिनिकरनिधानभूतयोर्भाष्यानुभाष्यामृतसमुद्रयोः कलिमलकर्दममपवर्जयितुं सज्जनमाम-ज्जयतः समीचीनवचनसुस्वादुसुधारसास्वादप्रमोदनिर्भरहृदया विशदमतयः करतलविलसितामलक-वदलमखिलपुरुषार्थसार्थकं सद्यः साधु समर्थयन्ति ।

तत्त्वप्रकाशिका

अत्र भगवज्ज्ञानसाधनस्य विष्णुप्रतीकैक्योपासनवर्जनस्याऽऽवश्यकत्वसाधनादस्ति शास्त्र-सङ्गतिः । तथोपासने यदुक्तं सर्वस्वामित्वेनोपासनं कार्यमिति तदयुक्तं स्यादतः साधनीयमेतत् । यन्नामवागादिकं भगवत्प्रतिमारूपं प्रकृतं तदत्र विषयः । ब्रह्मतयोपास्यं न वेति सन्देहः । श्रुतिरन्यत्वं च सन्देहबीजम् । ब्रह्मतयोपास्यमिति पूर्वः पक्षः । ‘नाम ब्रह्मेत्युपासीत’ इत्यादिश्रुतेः । न च ब्रह्मप्रतीकयोर्भिन्नत्वादभेदेनोपासनायोगः । यथा खलु पूर्वत्र प्रसिद्ध्यादेरप्रयोजकत्वमुक्त्वा फलमात्रस्योपासनाप्रयोजकत्वेनात्मत्वोपासनं समर्थितं तथात्रापि प्रतीके ब्रह्मत्वोपासनसम्भवात् । फलस्योपासनाप्रयोजकत्वेन भेदादेरप्रयोजकत्वात् । श्रूयते खलु प्रतीके ब्रह्मत्वोपासनस्य फलं ‘नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य कामचारो भवति’ इत्यादि । अतः प्रतीके ब्रह्मत्वोपासनस्य कर्तव्यत्वादुक्तमयुक्तमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ न प्रतीक इति ॥ नाम ब्रह्मेत्यादिना सामानाधिकरण्येन जातयाऽत्रैक्योपासनं विधीयत इति शब्दभ्रान्त्या यत्परेणोक्तं प्रतीके ब्रह्मदृष्टिः कार्येति न तद्युक्तम् । यतः स विष्णुः प्रतीकं न भवति । न हि भिन्नयोरभेदेनोपासनं युक्तम् । न च वाच्यं फलस्यैव प्रयोजकत्वाद्युक्तमुपासनमिति । अन्यथोपासनस्य निष्फलत्वात् प्रत्युतानर्थफलत्वाच्चेति भावः । ननु यदि नाभेदेनोपासनं युक्तं कथं तर्हि कार्यम् । न तु न कार्यमेव । श्रुत्यप्रामाण्यप्रसङ्गादित्याशङ्क्य परिहरति ॥ किं त्विति ॥ कार्यमेव श्रुत्युक्तमुपासनं तच्च ब्रह्मणः प्रतीकस्थितत्वेनैव । न च नैतच्छ्रुतिर्वक्तीति वाच्यम् । अपवादेन प्रथमादिविभक्तेरेव सप्तम्यर्थत्वोपपत्तेः । ‘सप्तसु प्रथमा’ ‘षट्सु द्वितीया’ इत्यादेरेवेति भावः । उक्तार्थे स्मृतिं चाह ॥ ब्रह्मतर्के चेति ॥ उभयोर्नामादिब्रह्मपदयोरैक्यदृष्टिरत्र कर्तव्यतयोच्यत इति भ्रान्तिः । कस्मादियं भ्रान्तिरिति तत्राह ॥ नामादीति ॥ प्रथमायास्तर्हि का गतिरित्यत आह ॥ सर्वेति ॥ न च वाच्यं क्षत्तरि राजदृष्ट्या फलदर्शनादत्राप्येवं स्यादिति क्षत्तैव राजेत्यस्योपचारत्वात् । तथा ज्ञानेऽनर्थदर्शनाच्चेति । अतः प्रतीके ब्रह्मत्वोपासनस्यायोगादुक्तं युक्तमिति सिद्धम् ॥

गुर्वर्थदीपिका

मरुमरीचिकायां जलत्वोपासनेन तृट्परिहाराख्यफलादर्शनात् । प्रत्युत तावत्पर्यन्तं धावने सति कण्ठशोषणाख्यविपरीतफलदर्शनाच्चेति भावेनाह ॥ अन्यथोपासनस्येत्यादि ॥ ‘‘सप्तसु प्रथमा’’ इत्यादिवैदिकानुशासनात् सप्तम्यर्थे सम्भवति सति बलादविद्यमानोपासनार्थकथने परस्याकौशल-प्रसङ्गाच्चेत्यपि द्रष्टव्यम् । त्वमिन्द्रस्त्वं चन्द्र इति राजप्रशंसायामपि गौण्या वृत्त्या त्वमिन्द्र-वदैश्वर्यवान् त्वं चन्द्रवदाह्लादकर इत्येवार्थः प्राज्ञैरप्यनुसन्धीयते न तु साक्षादिन्द्रत्वं साक्षा-च्चन्द्रत्वम् । अहल्याजारत्वस्य ताराजारत्वस्य चावद्यस्याप्युद्घाटनेन कोपजनकत्वात् । यद्यपि ‘नाम ब्रह्मोपास्व’ ‘वाचं ब्रह्मोपास्व’ इत्यारभ्य प्राणपर्यन्तवाक्येषु वादानुवादयोरैकविध्यनियमात् सर्वत्र द्वितीयैवास्ति न प्रथमा तथापि ‘मनो हि ब्रह्म मन उपास्वेति’ मनआख्यप्रतीकविषयवाक्ये मनो हि ब्रह्मेति मनोब्रह्मपदयोरुभयोरपि प्रथमान्तत्वदर्शनात् तत्प्रायपाठबलान् नाम हि ब्रह्म वाग्घि ब्रह्मेत्यादिवाक्यानां सर्वत्रोहे क्रियमाणे नामादिपदानां ब्रह्मपदस्य च सर्वत्र प्रथमान्तत्वमस्तीति भावेनोक्तं ‘नामादिप्राणपर्यन्तमुभयोः प्रथमात्वत’ इति । एवमेव शाखान्तरे पाठोऽप्यस्तीति सम्प्रदायविदो विदुः ॥

भावबोधः

विष्णुप्रतीकैक्योपासनवर्जनस्येति ॥ पूर्वाधिकरणे यत्सर्वस्वामित्वमुपास्यमित्युक्तं तदयुक्तम् । ‘नाम ब्रह्मेत्युपासीत’ इति वाक्यबलाद्ब्रह्मप्रतीकैक्योपासनस्य विहितत्वेन सर्वस्वामित्वस्यैवा-सम्भवादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः । यद्वा न्यायविवरणोक्तरीत्या फलविशेषवत्वेनात्मत्वोपासनस्येव ब्रह्मप्रतीकैक्योपासनस्यापि फलविशेषवत्वादेव कर्तव्यमिति पूर्वाधिकरणसिद्धान्तन्यायेनात्र पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः । यदुक्तं सर्वस्वामित्वे-नोपासनमिति– ‘आनन्दादयः प्रधानस्य’ इत्यादावुपास्यत्वेनोक्तं स्वामित्वं सङ्कोचे कारणाभावात् सर्वस्वामित्वमेव तदेव च ‘आत्मेति’ इत्यत्र विवक्षितमिति भावः । अत एव टीकायां वेदानां तत्र महातात्पर्यमयुक्तं स्यादित्युक्तम् । न हि कतिपयस्वामित्वे महातात्पर्यं किं तु सर्वस्वामित्व एवेति बोध्यम् । तदयुक्तं स्यादिति । प्रतीक एव तस्य स्वामित्वासम्भवेन सर्वस्वामित्वायोगादिति भावः ॥ ब्रह्मतयेत्यादि ॥ अत्र नामवागादिकं ब्रह्मतयोपास्यं भवत्युत न भवतीति चिन्ता । तदर्थं तदैक्योपासनं किं मोक्षफलकमुतानर्थफलकमिति । तदर्थं नामादिप्रतीकस्य ब्रह्मैक्यमस्त्युत नास्तीति । तदर्थम् ‘नाम ब्रह्म’ इति श्रुतौ सामानाधिकरण्यं किं निरवकाशमुत सावकाशमिति । ‘नाम ब्रह्म’ इत्युपासीतेत्यादिना शब्दभ्रान्त्येति भाष्यानुसारेणाह– नाम ब्रह्मेतीति ॥ कुतो न योग इत्यतस्तर्हि विशेषफलत्वादेव प्रतीकमीश्वर इत्युपास्यमिति न्यायविवरणोक्तमुपपादयति– यथा खल्वित्यादिना ॥ इत्यादिना ‘शब्दभ्रान्त्येति’ भाष्ये शब्दभ्रान्त्येति समासकरणादेवेत्या-देवेत्यादिना इत्येतन्न शब्दविशेषणमित्यभिप्रेत्य तद्यथावद्व्याचष्टे– अत्रैक्योपासनं विधीयत इत्यादिना ॥ प्रतीके ब्रह्मदृष्टिः कार्येति ॥ अनेन’ सूत्रे ‘‘प्रतीक’’ इति विषयसप्तमी, पूर्वसूत्रात् ‘आत्मा इति’ इत्यस्यानुवृत्तिः ‘दृष्टिः’ इत्युत्तरसूत्रस्थस्यापि सम्बन्ध इत्युक्तं भवति । ‘न च विष्णुः प्रतीकं यत्’ इत्यनुव्याख्यानानुसारेण सूत्रगतो हिशब्दो हेत्वर्थ इत्यभिप्रेत्य ‘न हि सः’ इति सूत्रांशं व्याचष्टे– यतः स विष्णुरिति ।

यत्र सन्धिरुपपत्तिर्विद्यते तस्यैव ग्राह्यत्वात् । अन्यस्येश्वरत्वग्रहणस्य मिथ्याज्ञानत्वा-देवानुपपत्तेरिति न्यायविवरणाभिप्रायमाह– अन्यथोपासनस्येत्यादिना ॥ न्यायविवरणे ‘सन्धि-ग्रहणे’ इत्यनुव्याख्यानगतसन्धिपदमुपादायोपपत्तिरिति व्याख्यानमिति ज्ञातव्यम् । प्रतीकसंस्थित-त्वेनैवेति ॥ अनेन सूत्रे प्रतीक इत्यस्यावृत्तिः । अधिकरणत्वं सप्तम्यर्थः । पूर्वसूत्रात् ‘‘आत्मा’’ इत्यस्यात्रापि सम्बन्ध इत्यभिप्रेत्य किं तु तत्स्थत्वेनैवेति भाष्यं प्रवृत्तमित्युक्तं भवति ॥

ननु न वयं ब्रह्मणि प्रतीकत्वोपासनं कार्यमिति ब्रूमः, येन ब्रह्म कुपितमनर्थं प्रयच्छेत् । किं तु प्रतीके ब्रह्मत्वोपासनं ततः पुरुषार्थप्राप्तिदर्शनादित्याशङ्क्य निषेधति– न च वाच्यमिति ॥ कुतो न वाच्यमिति चेत्, क्षत्तरि राजदृष्टेरेवाभावात् । ननु दृष्टेरभावे तथा व्यवहारः कथमित्यत आह– क्षत्तैव राजेत्यस्येति ॥ ननु कुतो दृष्टिर्नास्तीत्यतः–

‘पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।

राजवत् किं न कोपः स्याद् राज्ञो लोकेऽभिपश्यति ॥’

इत्यनुव्याख्यानं मनसि निधायाह– तथा ज्ञात इति ॥

भावदीपः

विष्णुप्रतीकेति ॥ विष्णुतत्प्रतिमयोरैक्योपासनस्य मिथ्योपासनत्वेन अचेतनासत्यायोग्यान्यनु-पास्यान्यफलत्वविपर्ययाभ्या मित्युक्त्या तद्वर्जनस्यैव ज्ञानसाधनत्वमिति भावः । अलौकिकज्ञाना-नन्दादिगुणोद्रिक्ततया उपासनोक्त्यैव पूर्वत्रैक्योपासनवर्जनं सिद्धमित्युपेत्याह ॥ आवश्यकत्वेति ॥ समर्थनफलमाह ॥ तथेति ॥ तदयुक्तमिति ॥ एतेन पूर्वाक्षेपेणात्र पूर्वपक्षोत्थानात्पूर्वसङ्गतिरपि सूचिता । हरेः प्रकृतत्वाद् गौणं तत्प्रतिमाख्यमपि हरे रूपं प्रकृतमेवेति भावेनाह ॥ यन्नाम-वागादिकमिति ॥ यद्वा आत्मशब्दस्य शरीरप्रतिसम्बन्धिनि जीवात्मनि आत्मपदप्रयोगवत् पूर्वत्र चिदचित्प्रतिसम्बन्धितया तच्छरीरकत्वेन तदन्तःप्रविष्टस्यैव विष्णोः सर्वस्वामितयात्मपदेन ग्रहणा-त्तत्प्रतिमाख्यं रूपमपि प्रकृतमेवेत्युपेत्याह ॥ यन्नामवागादिकमिति ॥ यद्वा इयदामननादित्यत्र प्रकृतमित्यर्थः । छान्दोग्ये सप्तमे नाम ब्रह्मेत्युपास्ते वाचं ब्रह्मेत्युपास्त इत्यादिना नामवाङ्मन-स्सङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेज आकाशस्मराशाप्राणशब्दितानि । उषास्वाहापर्जन्यमित्राग्नि-वरुणविधुप्राणप्रवहानिरुद्धेन्द्रोमारुद्र वाणीमारुताख्यानि प्रतिमारूपाणि विषय इत्यर्थः ॥ श्रुति-रिति ॥ नाम ब्रह्मेति सामानाधिकरण्यश्रुतिः पृथगुपदेशादित्यत्रोक्तभेदश्चेत्युभयदृष्टिरित्यर्थः । न प्रतीक इत्यादिभाष्यव्यावर्त्यं प्रतीकमीश्वर इत्युपासनमित्यन्यत्रोक्तरीत्या भाष्यप्रतिज्ञार्थमाह ॥ ब्रह्मतयेति ॥ भाष्योक्तहेतुमाह ॥ नाम ब्रह्मेत्युपासीतेत्यादीति ॥ यद्यपि छान्दोग्ये नामोपास्स्व नाम ब्रह्मेत्युपास्त इत्यादिरेव पाठो न तूपासीतेति । तथाप्यर्थतोऽनुवादो वा शाखान्तरपाठो वेत्यदोषः । पृथगुपदेशादित्यनेन पूर्वपक्षानुदयमाशङ्कते ॥ न चेति ॥ कुतो वाऽयोग इत्यतस् तर्हि विशेषवत्त्वादेवेत्यन्यत्रोक्तं हेतुं तर्हीतिशब्दार्थं वदन्नेव विवृणोति ॥ यथेति ॥ एतेन पूर्वन्यायेनाप्यत्र सङ्गतिः सूचिता । भेदादेरित्यादिपदेन ध्येयस्य सत्यत्वग्रहः । फलासिद्धिं निराह ॥ श्रूयते खल्विति ॥ यो नाम ब्रह्मेत्युपास्त इत्यर्थः । गतं व्याप्तिरित्यर्थः । आदिपदेन यावद्वाचो गतमित्यादिग्रहः ॥ अत इति ॥ सामानाधिकरण्यश्रुतेर्भावात् फलवत्त्वाच्चेत्यर्थः ॥ उक्तमिति ॥ स्वामित्वोपासनमित्यर्थः ॥ भाष्यं योजयति ॥ नामेति ॥ कुत इत्यतः प्रतीकं नैव विष्णुर्यदि-त्यनुभाष्यदिशा सूत्रखण्डस्यार्थमाह ॥ यत इति ॥ हिर्हेताविति भावः । हेतोरप्रयोजकत्वं निराह ॥ न हीति ॥ अन्यस्येश्वरत्वग्रहणस्य मिथ्याज्ञानत्वादेवानुपपत्तेरित्यन्यत्रोक्तहेतुं व्यनक्ति ॥ अन्यथेति ॥ मिथ्योपासा ह्यनर्थदा इत्याद्यनुभाष्योक्तेराह ॥ निष्फलत्वादित्यादि ॥ न कार्यमेवेति तु नेत्यत्र हेतुः श्रुतीत्यादि ॥ न च नैतदिति ॥ एतत् प्रतीकस्थत्वेन ब्रह्मदृष्टिरित्येतन् नाम ब्रह्मेत्यादि श्रुतिर्न वक्तीत्यर्थः ॥ अपवादेनेति ॥ ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापम्’ इत्यादिमिथ्योपासनानिषेधकवचनरूपापवादेनेति वा पृथगित्यत्र प्रमित-रूपभेदरूपापवादेनेति वार्थः । यद्वा तमेवापवादं सप्तसु प्रथमा यस्माद्भूयो भूयस्त्वतस्तथा । षट्सु द्वितीया यस्माच्चेति छान्दोग्यभाष्योक्तमाह ॥ सप्तस्विति ॥ वाचं ब्रह्मेत्यादेरुपयोगायाह ॥ षट्स्विति ॥ षड्विभक्त्यर्थेष्वित्यर्थः ॥ उक्तार्थ इति ॥ तत्स्थत्वेनैवोपासनं कार्यं न त्वभेदे-नेत्युक्तार्थ इत्यर्थः । स्मृतौ प्रथमात्वत इत्यस्य द्वितीयात्वादित्यस्याप्युपलक्षकत्वस्य तत्वप्रदीपोक्तेरत्र टीकायामनुक्तिः । अत उभयोरित्यस्य नामादिब्रह्मपदयोरित्युक्तिर्युक्तेति ध्येयम् । निष्फलत्वा-दित्याद्युक्तहेत्वोरसिद्धिमाशङ्कते ॥ न च वाच्यमिति ॥ किं क्षत्तरि राजगुणारोपेण स्तवन-मभिमतमुत तथा ज्ञानं वा । आद्ये तस्योपचारत्वेन प्रकृतानुपयोगात् । द्वितीयं त्वसदेव । नैष्फल्यादित्याह ॥ तथेति ॥ घातयंति हि राजानो राजाहमिति वदन्तमित्यादितत्वनिर्णयोक्तेरिति भावः ॥ अत इति ॥ तयोर्भेदाद् अन्यथोपासनस्यानर्थफलत्वाच्चेत्यर्थः । उक्तं स्वामित्वोपासनम् ॥

अभिनवचन्द्रिका

भगवज्ज्ञानसाधनस्येति ॥ यद्यपि प्रतीकैक्योपासनवर्जनं न भगवज्ज्ञानसाधनम्, किंतु श्रवणादिकमेव । तथापि प्रतीकैक्योपासनस्य भगवद्दर्शनविरोधित्वात् तदभावस्य कारणमात्रत्वात्, कारणमात्रे तस्मिन् साधनत्वोपचारः कृत इति बोध्यम् ॥ यथा खल्विति ॥ यथा आत्मत्वोपासनं समर्थितं, तथा प्रतीके ब्रह्मभेदे विद्यमानेऽपि ब्रह्मत्वोपासनसमर्थनसम्भवादित्यर्थः । एतेन यथा समर्थितं तथा सम्भवादित्यस्यानन्वय इति परास्तम् ।

भाष्ये नामब्रह्मेत्त्युपासीतेति ॥ अयं शाखान्तरस्थः पाठो बोध्यः । एतेन छान्दोग्ये ‘नामोपास्व’ इति पाठदर्शनात् ‘ब्रह्मोपासीत’ इत्यभिधानमयुक्तमिति परास्तम् ॥ नामब्रह्मेत्यादि-नेति ॥ भाष्यानुसारेण शाखान्तरस्थवाक्यग्रहणमिदमिति बोध्यम् ॥ प्रथमादिविभक्तेरिति ॥ यद्यपि शाखान्तरे ‘नाम ब्रह्मेत्युपासीत’ इति प्रथमान्ततया पाठोऽस्ति, तथापि तत्समानार्थक ‘नामोपास्व’ इति छान्दोग्यवाक्यव्याख्यानायाऽऽदिग्रहणम् । अत एव ‘सप्तसु प्रथमा’ इत्येव सूत्रे उदाहर्तव्ये षट्सु द्वितीयेति सूत्रान्तरमुदाहृतमिति द्रष्टव्यम् ॥ उभयोर्नामादिब्रह्मपदयोरिति ॥ शाखान्तरपाठाभिप्रायेण नामादिपदानां प्रथमान्तत्वमुक्तमिति बोध्यम् । एतेन छान्दोग्ये ‘नामोपास्व, वाचमुपास्व’ इत्यादीनां विस्पष्टं द्वितीयान्तत्वात् प्रथमान्तत्वाभिधानमयुक्तमिति परास्तम् ।

पूर्वपक्षस्तु प्रतीकं ब्रह्मतयोपास्यं ‘नामोपास्व’ इत्यादिविधीनां ‘सयो मनो हि ब्रह्म’ इति पर्यालोचनया ‘नाम ब्रह्मेत्युपासीत’ इति शाखान्तरवाक्यपर्यालोचनया च प्रतीके ब्रह्मदृष्टिरिति तात्पर्यावगमात् । न च प्रतीकब्रह्मणोर्भेदात्तथोपासनासम्भवः । उपासनायां फलस्यैव प्रयोजकत्वेन वस्तुतथात्वस्याप्रयोजकत्वात् । अतः प्रतीके ब्रह्मत्वोपासनस्य कर्तव्यत्वाद् उक्तं स्वामित्वोपासन-मयुक्तमिति ॥

सिद्धान्तस्तु न प्रतीके ब्रह्मदृष्टिः कार्या । ‘नामोपास्व’ इत्यादिविधीनां प्रतीके ब्रह्मदृष्ट्यविधायकत्वात् । प्रतीकस्याब्रह्मत्वेन मिथ्योपासाप्रसङ्गाच्च । न हि मिथ्योपासा फलहेतुः । अनर्थहेतुत्वेन प्रमाणसिद्धत्वात् । कथं तर्हि उपासना कार्येति चेत् तत्स्थत्वेनेति गृहाण । द्वितीयाश्रवणात् कथमस्यार्थस्य लाभ इति चेन् महाव्याकरणमूलक ‘सुपां सुपो भवन्ति’ इति कात्यायनवचनेन द्वितीयायाः सप्तम्यर्थत्वात् । अतः प्रतीके ब्रह्मत्वोपासनस्यायोगादुक्तं युक्तमिति सिद्धम् ॥

वाक्यार्थमुक्तावली

॥ आवश्यकत्वसाधनादिति ॥ इयदामनानादित्यत्र नामादित्यत्र नामादिप्राणपर्यन्तं तारतम्यमुक्त्वा अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवदित्यत्र प्राणस्य सर्वोत्तमत्वे प्राणपरमात्मनो-र्भेदानुपपत्तिरित्याशङ्क्य श्रुतौ प्राणादुत्तमत्वस्योपदिष्टत्वात् तदनुसारेण भेदोपपत्तेरित्यभिधाय व्यतिहार इत्यादि सूत्रे तत्समर्थनेन सर्वस्वामित्वेनैवोपासनं कार्यं न तु नामादिप्राणांतप्रतीकभेदेनेति यत् प्रतीकैक्योपासनं त्याज्यमित्युक्तं तस्यावश्यकत्वसमर्थनादित्यर्थः ॥ यदुक्तमिति ॥ इयदामननाद् व्यतिहार इत्यत्रेत्यर्थः । यद्वा आनन्दादय इत्यत्र स्वामित्वेनोपासनमुक्त्वा भूम्नः क्रतुवदित्यत्र पूर्णत्वस्याविशेषेण तथोपास्यत्वं चोक्तम् । स्वामित्वस्य भूमत्वं नाम सर्वस्वामित्व-मेवेत्यर्थ इति भावः । यद्वा अनन्तराधिकरण एवात्मपदेन सर्वस्वामित्वमुक्तम् । तथा चाक्षेपिक्यनन्तरसङ्गतिरिति भावः । यद्वा फलविशेषेणात्मत्वोपासनस्यैव ब्रह्मप्रतीकैक्योपासनस्यापि फलविशेषवत्वादेव कर्तव्यत्वमिति पूर्वाधिकरणसिद्धान्तन्यायेनात्र पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ प्रकृतमिति ॥ इयदामननादित्यादावित्यर्थः । नामाद्यभेदेन ब्रह्मोपास्यं न वेति चिन्ता । तदर्थं तथोपासनं फलप्रदं न वेति ।

नामब्रह्मेत्यादिना शब्दश्रांत्येत्यनुसारणपूर्वपक्षमाह नामब्रह्मेति श्रुतेरिति ॥ नामब्रह्मे-त्युपासीतेति भाष्योपात्तशाखान्तरीयसामानाधिकरण्यश्रुतेरित्यर्थः । छान्दोग्ये नामेत्येवोपास्वेत्येव पाठश्रवणात् । द्वितीयांतत्वेन सामानाधिकरण्याभावाच्च । स यो नाम ब्रेह्मेत्युपास्त इति फलकथन-वाक्ये श्रूयते सामानाधिकरण्यमिति चेत्तत्रापि नामपदस्य द्वितीयात्वाद् उक्तानुवादत्वात् । वाचमुपास्व स यो वाचं ब्रह्मेत्युपास्त इत्यारभ्यासामुपासनाविषयकाणां स ब्रह्मेत्युपास्त इत्यन्तविधिवाक्ये फलवाक्ये च सर्वत्र द्वितीयाश्रवणेन पाठविरोधश्च । भेदसूत्रैर् गतार्थतां परिहरति ॥ न चेति ॥ कुतो न वाच्यमित्यतो विशेषेत्युक्तन्यायं फलविशेषसद्भावादभेदोपासनं युक्तमेवेत्या-शयेन व्यनक्ति ॥ यथा खल्विति ॥ नाम्नो यावद्गतं व्याप्तिस्तत्रोपासकस्य कामचार इति श्रुत्यर्थः । इत्यादिनेत्यस्य भ्रान्त्येत्यनेन स्त्रीलिङ्गेनान्वयायोगादध्याहृतम् ॥ अत एवेति ॥ नामब्रह्मेत्यस्य भ्रमजनकत्वं कथमित्यत उक्तं सामानाधिकरण्येनेति ॥ शब्दस्वरूपे भ्रान्त्यभावादुक्तम् ऐक्येति ॥ सूत्रे ब्रह्मदृष्टिरित्यनुकृष्यते । प्रतीक इति विषयसप्तमी । स इत्यात्मपरामर्शः । हिशब्दो यस्मादित्यर्थ इति भावेन ‘प्रतीकविषयत्वेन विष्णुदृष्टिर् न तद्भवेत् । नैव विष्णुः प्रतीकं यत्’ इत्यनुव्याख्यानं मनसि निधाय व्याचष्टे ॥ यर्हीति ॥ ब्रह्मप्रतीकतया नोपास्यं तद्भिन्नत्वा-दित्यत्राप्रयोजकत्वं परिहरति ॥ तर्हीति ॥ फलस्यैवेति ॥ भेदादेरप्रयोजकत्वादित्येवार्थः । कुतो न वाच्यमित्यतो हिशब्दसूचितं सम्बन्धिग्रह इत्युक्तन्यायं यत्र सम्बन्धिरुपपत्तिर् विद्यते तस्यैव ग्राह्यत्वादिति न्यायविवरणानुसारेणोपपत्तिकथनेन व्यनक्ति ॥ अन्यथोपासनस्येति ॥ सूत्रे प्रतीके इत्यधिकरणसप्तमी । ब्रह्मदृष्टिरित्यनुकृष्यते । तथा च नामाद्यधिकरणस्थत्वेनैव ब्रह्मदृष्टिः कार्येति भावेन सूत्रखण्डस्यार्थान्तरं भाष्यमवतार्य प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासनेत्यनु-व्याख्यानुसारेण व्याचष्टे ॥ नन्वित्यादिना ॥ नैतच्छ्रुतिरिति ॥ नामब्रह्मेत्युपासीतेति शाखान्तरीयसामानाधिकरण्यश्रुतेरेतत्प्रतीकस्थत्वेन ब्रह्मोपासनं न वक्तीत्यर्थः । कुतो न वाच्यमित्यतो हि शब्दसूचितोपपत्तिं महाव्याकरणसंमतिं चाह ॥ अपवादेनेति ॥ बाधकेनेत्यर्थः ॥ प्रथमादिविभक्तेरिति ॥ शाखान्तरे प्रथमाविभक्तेश् छान्दोग्ये द्वितीयाविभक्तेरित्यर्थः । उभयो-र्नामादिब्रह्मपदयोरिति । उभयोरित्यनुवादे न नामादिब्रह्मपदयोरिति व्याख्याप्रतीकवाचकनामादि-पदजातस्य ब्रह्मशब्दस्य च सर्वत्रानुवृत्तस्येत्युभयोरित्यर्थः । भाष्ये प्रथमात्वत इति शाखान्तराभि-प्रायेण । छान्दोग्यानुसारेण प्रथमात्त्वत इति द्वितीयात्वादित्यस्योपलक्षणम् । द्वितीयात्वेऽपि देवदत्तं सिद्धं विद्धीत्यादि विधिबलेनैक्यप्रतीतेः । उक्तं च तत्वप्रदीपे उभयोः प्रतीकब्रह्मपदयोः प्रथमात्वत ऐक्यदृष्टिर्विहितेति भ्रान्तिर्भवति । प्रथमात्वत इति सन्निकृष्टोपलक्षणम् । प्रथमात्वाद् द्वितीयात्वादित्यर्थः । शाखान्तरे प्रथमात्वात् । यथोक्तं षट्स्तु द्वितीयेति सूत्रमिति । केचित्तु स यो नाम ब्रह्मेत्युपास्त इति छान्दोग्ये प्रथमैव । स यो वाचमित्यादौ द्वितीया । प्रथमात्वत इति द्वितीयोपलक्षणमित्याहुः । अन्ये तु प्रथमयोः पूर्वसवर्ण इत्यत्रेव प्रथमात्वत इत्यस्यैव, प्रथमा च द्वितीया च प्रथमे तयोर्भावः प्रथमात्वं तस्मादित्यर्थमाहुः । तदेतत्पक्षद्वयं तत्वप्रदीपविरुद्धम् ।

ननु ब्रह्मणि प्रतीकत्वोपासने च मताज्ञानेन ब्रह्मकोपेन फलाभावेऽपि प्रतीके ब्रह्मत्वोपासने प्रतीकं फलं यच्छति क्षत्तरि राजदृष्टौ क्षत्तेवेत्याशङ्क्य निषेधति ॥ न चेति ॥ कुतो न वाच्यमिति चेदुपचरितव्यवहारमात्रत्वेन क्षत्तरि राजदृष्टेरभावादित्याह ॥ क्षत्तैवेति ॥ अङ्गीकृत्याप्याह ॥ तथेति ॥ उक्तं च अनुव्याख्याने ‘नीचस्य स्वात्मताज्ञाने कुप्यति ब्रह्मलोकवत्’ इत्यादिना ॥

वाक्यार्थविवरणं

यदुक्तं सर्वस्वामित्वेनेति ॥ प्रतीकस्य नामादेर्जडस्य सर्वस्वामित्वाभावेन तदभिन्नस्यापि विष्णोस्तदसम्भवादिति भावः । न कार्यमेवेति चेत्तत्राह ॥ न त्विति ॥ किन्तु कार्यमेवेत्यर्थः । अकार्यत्वे बाधकमाह ॥ श्रुत्यप्रामाण्येति ॥ एतत्प्रतीकस्थितत्वम् । द्वितीयेयम् ॥ अपवादेनेति ॥ अभेदेनोपासने अन्यथोपासनप्राप्त्या तस्यानर्थहेतुत्वरूपापवादेनेत्यर्थः । षट्सु विभक्तिषु । तथा च न केवलं नाम ब्रह्मेत्युपासीतेत्यादिविधिवाक्यगतप्रथमाविभक्तेः सप्तम्यर्थत्वम् । किं नाम समो नाम ब्रह्मेत्युपास्त इत्यादिफलवाक्यगतद्वितीयाविभक्तिरपि सप्तम्यर्थेति भावः ॥ उक्तमिति ॥ विष्णोः सर्वस्वामित्वमित्यर्थः ।

वाक्यार्थमञ्जरी

प्रतीके नामादिप्रतिमाविषये ब्रह्मत्वेनोपासना न कार्या कुतः हि यस्मात्कारणात् स विष्णुः प्रतीकं न भवतीत्यर्थः । प्रथमादित्यादिपदेन नामोपास्वेत्यादिद्वितीया ग्राह्या ॥ सप्तस्विति ॥ प्रथमाविभक्तिः सप्तसु प्रथमाविभक्त्यादिसप्तविभक्त्यर्थेषु वाचकतया प्रवर्तत इत्यर्थः ॥ षट्स्विति ॥ द्वितीयाविभक्तिर् द्वितीयादिषड्विभक्त्यर्थेषु वर्तत इत्यर्थः । ननु न वयं ब्रह्मणि प्रतीकोपासनं ब्रूमः येन ब्रह्म कुपितमनर्थं प्रयच्छेत् किं तु प्रतीके ब्रह्मत्वोपासनं ततः पुरुषार्थप्राप्तिदर्शनादित्याशङ्क्य निषेधति ॥ न च वाच्यमिति ॥ कुतो न वाच्यमिति चेत् क्षत्तरि राजदृष्टेरभावात् । ननु दृष्ट्यभावे तथा व्यवहारः कथमित्यत आह ॥ क्षत्तैव राजेत्यस्येति ॥ क्षत्तरि राजदृष्टिः कुतो नेत्यत आह ॥ ज्ञानेनेति ॥ ब्रह्मत्व इति ॥ पूर्णत्व इत्यर्थः । भूम्नःपूर्णत्वस्य ॥ विशेषहेतुरिति ॥ मोक्षस्य तदन्वयव्यतिरेकानुविधायित्वरूप इत्यर्थः ॥

॥ इति नप्रतीकाधिकरणम् ॥ ३ ॥