ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ
२. आत्मोपगमाधिकरणम्
सूत्रभाष्यम्
॥ ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ ३ ॥
आत्मेत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा कार्यमेव । ‘नान्यं विचिन्तय आत्मानमेवाहं विजानीयामात्मानमुपास आत्मा हि ममैष भवति’ इति ह्युपगच्छन्ति । ‘आत्मेत्येवोपास्व आत्मेत्येव विजानीहि नान्यं किञ्चन विजानथ आत्मा ह्येवैष भवति’ इति ग्राहयन्ति च ।
‘आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः ।
नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’ इति भविष्यत्पर्वणि ॥
‘आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ॥
कर्तव्यो नास्य हानेन कस्यचिन्मोक्ष इष्यत’ इति ब्राह्मे ॥ ३ ॥
॥ इति आत्मोपगमाधिकरणम् ॥ २ ॥
तत्त्वप्रदीपिका
अथात्यशक्तौ किमाचरणीयमित्याकाङ्क्षायामाह– आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ आत्मा विष्णुरित्येतावानुपदेश उपासनं चातिमन्दस्याप्यधिकारिणः कार्यम् । आदत्त इत्यात्मा स्वामीत्यर्थः । सर्वाधिकारिणां नानाक्लेशेऽप्येतावदुपासनं कार्यमेव । तत्तद्गुणानां तत्रान्तर्भावात् ‘अत्र ह्येते सर्व एकं भवन्ति’ इति श्रुतेः ॥
‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते ॥’
‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात्तैर्नैवाऽप्ता गुणपूर्णता’ इत्यादेश्च ॥
नात्मशब्दः स्वरूपवाचीत्याशङ्कनीयम् । ‘‘स्वशब्दादि’’त्यादिना विष्णुवाचकत्वात् । ‘आत्मेशब्रह्मसम्भवान्’ इति च भागवते । अपरथा स्वरूपस्य स्वप्रकाशस्य निरंशस्य निर्विशेष-त्वेनाभ्युपगतस्य सदा सिद्धत्वेन तदुपास्तौ प्रयोजनाभावात् ॥
तत्त्वप्रकाशिका
अत्र भगवज्ज्ञानसाधनात्मत्वोपासनस्य नित्यशः कार्यत्वसमर्थनादस्ति शास्त्रसङ्गतिः । स्वस्वामिभावसम्बन्धस्य नित्यमुपास्यत्वाभावे वेदानां तत्र महातात्पर्यमयुक्तं स्यादिति समर्थनीयमेतत् । प्रकृतात्मत्वं विषयः । नित्यश उपास्यं न वेति सन्देहः । उपासनस्य नित्यशः कर्तव्यत्वं गुणान्तरसाम्यप्रतीतिश्च सन्देहबीजम् । तत्रात्मत्वं न सर्वथा सदोपास्यमिति पूर्वः पक्षः । हरेर्जगत्स्वामित्वस्य शश्वदतिप्रसिद्धत्वात् । शश्वदतिप्रसिद्धस्य नित्यमुपासनं व्यर्थमेव किं त्वप्रसिद्धगुणोपासनस्य ज्यायस्त्वेन तदेव नित्यशः कर्तव्यम् । अतः स्वामित्वस्य नित्यमनुपास्य-त्वाद्वेदानां तत्र महातात्पर्यं व्यर्थमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ आत्मेति ॥ विष्णुरात्मेत्युपासनं सदा सर्वथा कार्यमेव । तस्यैव मोक्षसाधनत्वात् । अन्यथा तदसिद्धेः । न केवलं तथोपासनमावश्यकं किं तु तथोपदेशश्च कर्तव्यः । तदभावेऽपि मोक्षासिद्धेः । न केवलमात्म-त्वोपासनोपदेशान्वयव्यतिरेकित्वात्तस्य सर्वदा सर्वथोपास्यत्वं किं तर्हि ‘नान्यं विचिन्तये’ इति तस्य सर्वथोपास्यत्वोपदेश्यत्वयोः श्रुतिसद्भावाच्चेति भावः । आत्मा हि ममैष भवतीत्याद्यविद्य-मानोपासनं नैतदिति वक्ति । उपगच्छन्त्युपासते । ग्राहयन्त्युपदिशन्ति । न च शश्वदतिप्रसिद्धत्वा-त्सदा सर्वथोपास्यत्वाभावः । उपासनस्य फलार्थस्य प्रसिद्ध्यप्रसिद्धिभ्यां कर्तव्यत्वाद्यसिद्धेः । आत्मत्वोपासनस्य मुक्तिहेतुत्वात्तत्सर्वथा कर्तव्यमित्येतत्कुत इत्यत आह ॥ आत्मेति ॥ विष्णुरात्मतया जीवत्वेनोपास्य इत्यहङ्ग्रहं केचनात्र वर्णयन्ति तदयुक्तमिति भावेनाह ॥ आत्मेति ॥ आत्मत्वं विष्णुविशेषणमित्येवोपासनं कार्यं न तु तज्जीवत्वविधानेनेति भावः । अतो विष्णोः सर्वस्वामित्वस्य सर्वदा सर्वथोपास्यत्वाद्युक्तं तत्र वेदानां तात्पर्यमिति सिद्धम् ॥
गुर्वर्थदीपिका
सर्वगुणसाधारण्येन श्रवणाद्यावृत्तिमुक्त्वा पुनरात्मत्वाख्यगुणस्य ततोऽप्यवश्यापेक्षितत्वज्ञापना-योत्तराधिकरणमिति भावेनाह आत्मत्वोपासनस्येति ॥ उपासनस्य फलार्थस्येत्यत्र राजमन्दिर-गमनादेः राजप्रसादाख्यफलार्थिभिस्सर्वदा करणदर्शनादिति भावः ॥
भावबोधः
आत्मत्वोपासनस्येति ॥ पूर्वमज्ञानादिनिवृत्त्यर्थं श्रवणाद्यावृत्तिः कर्तव्येत्युक्ते तथा सत्यात्म-त्वस्य शश्वदतिप्रसिद्धत्वेन तद्विषयकाज्ञानाभावान्न तदुपासनं नित्यशः कर्तव्यमित्याक्षेपोत्थाना-दनन्तरसङ्गतिरिति भावः । यद्वा पूर्वाधिकरणे सामान्यतः श्रवणाद्युपासनस्य नित्यशः कर्तव्यत्वं समर्थ्यात्र तद्विशेषस्यात्मत्वोपासनस्य नित्यशः कर्तव्यत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ नित्यश इति ॥ अत्रात्मशब्दोदितस्वामित्वोपासनं किं नित्यशो न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थं स्वामित्वस्य शश्वदतिप्रसिद्धिर्नित्यमुपास्यत्वप्रयोजिका न भवत्युत भवतीति । तदर्थमात्मत्वस्य नित्यश उपास्यत्वे प्रमाणं नास्त्युतास्तीति । शश्वदतिप्रसिद्धत्वादात्मशब्दोदितस्वामित्वं न नित्यश उपास्यमिति न्यायविवरणानुसारेण पूर्वपक्षमाह तथात्मत्वं न सर्वथेत्यादिना । ‘स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा’ इत्यनुव्याख्यानानुसारेण आत्मेत्युपासनमित्यादिभाष्यं व्याचष्टे– विष्णुरात्मेत्युपासनमिति ॥ अनेन सौत्रात्मशब्दस्यावृत्तिः । तत्रैकस्याविवक्षितावयवार्थस्य विष्णुवाचकत्वम् । एकस्य स्वामित्वार्थकत्वमित्युक्तं भवति । तस्यैव मोक्षसाधनत्वादित्यादिना तदभावेऽपीत्यन्तेन च मोक्षार्थिभिः सर्वथेत्येतदुक्ततात्पर्यकम् । अन्वयव्यतिरेकित्वादिति । मोक्षार्थिभिः सर्वथेत्यादिना तस्योक्तत्वादिति भावः ॥ अविद्यमानोपासनं नैतदिति ॥ ‘हि’ यस्मादेष विष्णुर्ममात्मा स्वामीति विष्णौ स्वामित्वस्य श्रुतावुपासने हेतुत्वेनोक्तेरिति भावः ।
सूत्रभाष्ययोः श्रुतिसमानार्थत्वायाह– ‘उपगच्छन्त्यु’पासते । ‘ग्राहयन्त्यु’पदिशन्तीति । अन्येभ्योऽधिकफलत्वेन सविशेषत्वादात्मत्वस्येति न्यायविवरणाभिप्रायमाह– उपासनस्य फलार्थ-स्येत्यादिना ॥
भावदीपः
आत्मत्वेति ॥ स्वामित्वेत्यर्थः ॥ नित्यशः कर्तव्यत्वेति ॥ कर्तव्यत्वमात्रस्यानन्दादय इत्यत्रैव सिद्धत्वादिति भावः । चिन्ताफलमाह ॥ स्वस्वामीति ॥ महातात्पर्यमिति ॥ समन्वय-सूत्राद्यभिमतं सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यमित्यादिश्रुत्याद्युक्तमिति भावः । पूर्वसङ्गतिं सूचयन्विषयमाह ॥ प्रकृतेति ॥ आत्मा वा अर इत्यादिश्रुतौ यदात्मज्ञानार्थं श्रवणादिकर्मा-वर्तनीयमित्युक्तम् । तदात्मत्वमत्र चिंत्यत इति सङ्गतिरिति भावः ॥ उपासनस्येति ॥ श्रवणादेः ॥ गुणेति ॥ ज्ञानादिगुणान्तरेत्यर्थः । उपासनं सर्वथा कार्यमेवेति भाष्यव्यावर्त्यं स्वामित्वं न नित्यश उपास्यमित्यन्यत्रोक्तप्रतिज्ञांशमाह ॥ तत्रात्मत्वमिति ॥ एवं सन्देहे सतीत्यर्थः । सर्वथा गुणान्तर-प्रहाणेनापीत्यर्थः । नित्यश इत्यस्यार्थः सदेति ॥ नानाक्लेशयुक्ततादशायामपीत्यर्थः । अन्यत्रोक्तमेव हेतुमाह ॥ हरेरिति ॥ हेतोरप्रयोजकत्वं निराह ॥ शश्वदिति ॥ चित्ते स्थिरीकरणार्थं ह्युपासनम् । तच्च प्रसिद्धतया प्रागेव सिद्धमिति विपक्षे फलाभावो बाधकमिति भावः । एवं तर्हि उपासनैव न स्यादित्यत आह ॥ किंत्विति ॥ ज्यायस्त्वेनेति ॥ चित्ते स्थिरीकरणरूपफलवत्त्वादिति भावः ॥ अत इति ॥ अतिप्रसिद्धतया तदुपासनस्य व्यर्थत्वा-दित्यर्थः ॥ व्यर्थमिति ॥ आध्यानाय प्रयोजनाभावादित्युक्तदिशा महातात्पर्येण स्वामित्व-प्रतिपादनस्योपासनार्थत्वादिति भावः । आत्मा विष्णुरिति ध्यानमिति स्मृत्यनुरोधेन भाष्यं व्याचष्टे ॥ विष्णुरिति ॥ आत्मा स्वामीत्यर्थः । नास्य हानेन कस्यचिन्मोक्ष इति स्मृतिशेषपर्यवसानलब्धं मोक्षार्थिभिरिति भाष्यसूचितं हेतुमाह ॥ तस्यैवेति ॥ नञ्द्वयार्थ एवेति । हेतोरसिद्धिं निराह ॥ अन्यथेति ॥ उपदेशश्च तादृश इति स्मृत्यनुरोधेनैव भाष्यखण्डं व्याचष्टे ॥ न केवलमिति ॥ चशब्दो भिन्नक्रम इति भावः । स्मृतिशेषोक्तमेव हेतुमाह ॥ तदिति ॥ नान्यमित्यादि भाष्यशेषं व्याचष्टे ॥ न केवलमिति ॥ अन्वयव्यतिरेकौ च सर्वेषां च मुमुक्षूणामिति स्मृतिसिद्धाविति भावः । श्रुतिशेषोक्तेरुपयोगमाह ॥ आत्मा हीति ॥ आदिपदेन आत्मा ह्येष भवतीति वाक्य-ग्रहः । सौत्रपदानुकारिभाष्यपदयोः प्राप्त्याद्यर्थकत्वभ्रमनिरासाय श्रुत्यनुसार्यर्थमाह ॥ उपगच्छ-न्तीति ॥ प्रागुक्तहेतुद्वयमनूद्य निराह ॥ न चेति ॥ अतिप्रसिद्धत्वात्तत एव वैयर्थ्याच्चेत्यपि ध्येयम् । फलार्थस्येति हेतुगर्भम् । अकर्तव्यत्वादीत्यादिपदेन व्यर्थत्वग्रहः । अहङ्ग्रहं प्रत्यगर्थस्यात्मत्व-ग्रहमित्यर्थः ॥ न तु तज्जीवत्वविधानेनेति ॥ आत्मशब्दश्च न स्वरूपपर इत्यनुभाष्ये प्रपञ्चित-मिति भावः ॥ अत इति ॥ अन्वयव्यतिरेकाभ्यां तस्यैव मोक्षहेतुत्ववचनात् । श्रुतिबलाच्चेत्यर्थः ॥
भिनवचन्द्रिका
आत्मत्वोपासनस्येति ॥ उपलक्षणमेतत् । उपदेशस्येत्यपि ग्राह्यम् । एवमेव सन्देहे पूर्वपक्षे च द्रष्टव्यम् ।
पूर्वपक्षस्तु न नित्यश आत्मत्वस्य उपदेश उपासनं च कार्यम् । अतिप्रसिद्धत्वात् । किं तु अप्रसिद्धस्यैव कस्यचिद्गुणस्य । ततश्च न तत्र वेदस्य महातात्पर्यं युक्तमिति ।
सिद्धान्तस्तु विष्णुरात्मेत्युपदेश उपासनं च, नित्यशः कार्यं मोक्षसाधनाभिज्ञैस्तथानुष्ठीय-मानत्वात् । तत्कुत इति चेत्, ‘नान्यं विचिन्तय’ इत्यादिश्रुतेः । ‘आत्मेत्युपासनं कार्यम्’ इति स्मृतेश्व । न च प्रसिद्धत्वादनुपास्यत्वं, उपासनस्य फलहेतुतायाः प्रामाणिकत्वेन प्रसिद्धेर-प्रयोजकत्वात् । न हि राजप्रीतिसाधनमतिसिद्धत्वाद् राजप्रीत्यर्थिभिर् न वर्ण्यते । येनेह तथा स्यात् । अतो विष्णोः स्वामित्वस्य सदा सर्वथोपास्यत्वाद् युक्तं तत्र वेदानां तात्पर्यमिति सिद्धम् ॥
वाक्यार्थमुक्तावली
वेदानामिति ॥ वेदानां सर्वोत्कर्षे साधनं न स्यात् । उपासनार्थं खलु ऐतदात्म्यमिदं सर्वमित्यादावभ्यासेन सर्वस्वामित्वोक्तिरिति भावः ॥ प्रकृतेति ॥ असकृदुपदेशादित्यत्रोपदेश्यतया प्रकृतमैतदात्म्यमिदं सर्वमात्मेत्युक्तमात्मत्वमित्यर्थः । तथा चानन्तरसङ्गतिरिति भावः । यद्वा सामान्येन भगवद्गुणविषयकश्रवणादित्रयस्य नित्यशः कर्तव्यत्वोक्तत्वाद्गुणमध्ये प्रसक्तात्मत्व-मित्यर्थः । तथा च प्रकृतात्मतोपासनं नित्यं न कर्तव्यमित्याक्षेपादनन्तरसङ्गतिरिति भावः ॥ नित्यश इति ॥ आत्मत्वं नित्यशो नोपास्यमुतोपास्यमिति चिन्ता । तदर्थमात्मत्वापरपर्याय-स्वामित्वस्य प्रसिद्धत्वात्तदुपासनं व्यर्थमुत सार्थकमिति ॥ उपासनस्येति ॥ नित्यशः श्रवणं चैवेत्युक्तप्रकारेणोपासनस्य नित्यशः कर्तव्यत्वमित्यर्थः ॥ गुणान्तरेति ॥ आनन्दबलादिगुणानां नानाक्लेशेन चित्तविक्षेपेऽपि स्मरणनियमाभावादात्मत्वस्यापि तत्साम्यमिति प्रतीतिरित्यर्थः ॥ न सर्वथा सर्वदेति ॥ सर्वदा सर्वप्रकारेण चित्तक्षोभादिप्राप्तावपि नियमेनोपास्यं न भवतीत्यर्थः । मोक्षार्थिभिर् इत्याद्युत्तरभाष्ये नित्यशः कर्तव्यत्वे महाफलस्यैव प्रयोजकत्वात् प्रसिद्धेश्चाप्रयोजकत्व-वर्णनात् सूचितं शश्वदतिप्रसिद्धिरित्युक्तन्यायं व्यनक्ति ॥ हरेरिति ॥ आत्मशब्द आवर्तते । आद्यस्य रूढ्या विष्णुपरत्वम् । द्वितीयस्य आदत्ते स्वीयतया भृत्यमिति स्वामित्वार्थकत्वम् । चशब्दोऽवधारणे । उपासनम् उपदेशश्च कार्य इत्यध्याहृतेन सम्बध्यते । सर्वदा सर्वथेति गुणान्तरोपासनावश्यकत्वद्योतनार्थश्च । तस्यैव मोक्षसाधनत्वादिहेतुसमुच्चायकोऽप्यर्थश्चेति भावेन प्रवृत्तमात्मेत्युपदेश इत्यादिभाष्यमाकाङ्क्षाक्रमेण विभज्य व्याचष्टे ॥ विष्णुरित्यादिना ॥ तथोपदेश इति व्याख्यानस्य शास्त्रावमर्शनरूपत्वे श्रवणाद्यन्तर्गतत्वात् । शिष्यस्य श्रवणार्थत्वाच्चेति भावः ।
उपगच्छन्ति उपासते इति ॥ गुरूपदेशेन जानन्ति चेति द्रष्टव्यम् । अन्यथोपासत इति प्रसिद्धपदपरित्यागायोगाच्छतावात्मानमेवाहं विजानीयामात्मानमुपास इत्युभयाभिधानाच्च । उक्तं च सुधायाम् उपगच्छन्तीत्येतद् ज्ञानार्थमुपासनार्थं चेति । तत्र ज्ञानार्थत्वस्य स्पष्टमित्येक एवार्थो व्याख्यातः । अत एव प्रज्ञातव्ये उपासश्चेत्युक्तमिति । मोक्षार्थिभिरिति भाष्योक्त्यैव सूचितं प्रविभक्ततेत्युक्तसिद्धान्तन्यायं व्यञ्जयन् पूर्वपक्षन्यायोऽप्यप्रयोजकतयाऽपोढव्य इत्याह ॥ न च शश्वदिति ॥ फलार्थस्येति ॥ मुक्तावपेक्षितानन्दबलादिफलकगुणान्तरोपासनफलाद्विविक्तं सर्वा-पेक्षितं बन्धनिवृत्तिलक्षणं यत् प्रधानफलं तदर्थस्येत्यर्थः ॥ विष्णुरात्मतयेति ॥ विष्णुर् जीवेन स्वव्यतिरिक्ततयोपास्यः दुःख्यदुःखिनोरैक्येनोपासनायोगादिति प्राप्ते विष्णुरात्मेति जीव इत्युपास्यः ‘अहं ब्रह्मास्मि’ ‘अयमात्मा ब्रह्म’ इत्यादिमहावाक्यैस् तत्वत आत्मत्वेनैव ब्रह्मोपगच्छन्ति गृह्णन्ति तथा तत्त्वमसीत्यादिमहावाक्यैः स्वशिष्यान् ग्राहयन्तीत्यपीत्यहङ्गृहमैक्योपासनं कर्तव्यतयाऽत्रोच्यते इति केचिद्वर्णयन्तीत्यर्थः । आत्मत्वमिति स्वामित्वमित्यर्थः ।
वाक्यार्थविवरणम्
उपासनस्येति ॥ ‘आत्मेत्युपासनं कार्यं सर्वदैव मुमुक्षुभिः ।’ आत्मेत्येवोपासीतेति ॥ आत्मत्वोपासनस्य कर्तव्यताविधानादिति भावः ॥ गुणान्तरेति ॥ सम्भृत्यादिगुणानामनु-पास्यत्वादस्यापि भगवद्गुणत्वेन साम्यादनुपास्यत्वमित्यर्थः ॥ तज्जीवत्वविधानेनेति ॥ तस्य विष्णोर् जीवत्वविधानेनेत्यर्थः ।
वाक्यार्थमञ्जरी
॥ स्वस्वामिभावसम्बन्धस्येति ॥ आत्मशब्दोक्तस्येत्यर्थः ॥ अयुक्तमिति ॥ विष्णोः सर्वस्वामित्वस्योपास्यत्व एव एतदर्थं सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यमित्यादिना तत्र तात्पर्योक्तिः सार्थिका स्यादन्यथा व्यर्थेति भावः ॥
ॐ आत्मेति तूपगच्छन्ति ग्राहयंति च ॐ ॥ आत्मशब्दस्यावृत्तिर् आद्यो रूढो विष्णुपरो ऽंत्य आदत्ते भृत्यानिति योगेन स्वामिवाचोतुरेव तथा चात्मा विष्णुरात्मा मम स्वामीत्येवोप-गच्छन्त्युपासते ग्राहयन्ति शिष्येभ्य उपदिशन्ति च सज्जना इत्यर्थः ॥ आत्मा हीति ॥ यस्मादेष ममात्मा स्वामी भवत्यतो नाविद्यमानोपासनमेतदित्यर्थः ॥ अहङ्ग्रहमिति ॥ अहमिति गृह्यमाण-त्वेनोपासनमित्यर्थः ॥ अयुक्तं स्यादिति ॥ प्रतीकभूतनामादौ तस्य स्वामित्वासम्भवेन सर्वस्वामित्वायोगादिति भावः ॥ नामब्रह्मेत्युपास्त इति ॥ यो नाम ब्रह्मेत्युपास्ते तस्याधिकारिणो नाम्नो यावद्गतं गमनमस्ति तत्र लोके यथा योग्यतानातिक्रमेण कामतः संचारो भवतीत्यर्थः ॥
॥ इति आत्मोपगमाधिकरणम् ॥ २ ॥