०१ आवृत्त्यधिकरणम्

ॐ आवृत्तिरसकृदुपदेशात् ॐ

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

ब्रह्मसूत्रभाष्यम्

अथ चतुर्थाध्यायस्य प्रथमः पादो

ऽथ आवृत्त्यधिकरणम्

ॐ आवृत्तिरसकृदुपदेशात् ॐ

ब्रह्मसूत्रभाष्यं

श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ फलं निगद्यतेऽस्मिन्नध्याये । कर्मनाशाख्यं फलमस्मिन्पादे । नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमत उच्यते । प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः ।

॥ ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ १ ॥

॥ ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यादीनां नाग्निष्टोमादि-वदेकवारेणैव फलप्राप्तिः । किन्त्वावृत्तिः कर्तव्या । ‘स य एषोऽणिमैतदात्म्यमिदं सर्वम्’ इत्याद्यसकृदुपदेशात् ॥ १ ॥

श्रीत्रिविक्रमपण्डिताचार्यविरचिता तत्त्वप्रदीपिका

तत्त्वप्रदीपिका

फलं निगद्यतेऽस्मिन्नध्याय इत्यादेर्भाष्यस्यायमर्थः । ब्रह्मदर्शनस्य मुक्तिः फलमित्युक्तम् । तत्कार्त्स्न्येनोच्यतेऽस्मिंश्चतुर्थेऽध्याये । तच्चतुरात्मकम् । कर्मविमुक्तिरग्रिमं, तच्च फलमनिष्टानां कर्मणां नाशे तन्निमित्तदुःखानुषङ्गनिवृत्तेः । सा जीवन्मुक्तिरित्युच्यते । तस्यादुःखेन विदुष इच्छानुसारेण शरीराद्विमुक्तिर् द्वितीयम् । उत्क्रान्तस्यास्माद्देशाद्विमुक्तिरूपाऽर्चिरादिदेवानां स्थानगतिरुत्तरोत्तरसुखा तृतीयम् । यद्यपि मुक्तौ केषाञ्चिदत्रैव स्थितिः । न साऽपि विना श्वेतद्वीपगतिम् ।

‘बहुनाऽत्र किमुक्तेन यावछ्वेतं न गच्छति ।

योगी तावन्न मुक्तस्स्यादेष शास्त्रस्य निर्णय’ इति वचनात् ॥

चतुर्थं लिङ्गशरीरान्मुक्तिः कृत्स्नदुःखनिवृत्तिरलम्बुद्धिगोचरसुखानुभूतिश्चेति । तत्र प्रथमं प्रथमपादे । तत्रापि प्रथमतः सर्वदा कार्यं सर्वप्रकारविघ्नेऽपि यावच्छक्त्यनुष्ठेयं साधनमुच्यते । तस्य फलसन्निकृष्टत्वादत्रोक्तिः । फलावस्थानुप्रवेशित्वाच्च । प्रायिकं च समन्वयादिविचारात्मकत्व-मध्यायानां पादानां च । अतः फलाध्याये कर्मक्षयपादेऽस्मिन् साधनविशेषोपदेशो न विरुध्यते ॥

अत्र श्रवणादि विषयः । तदेकवारं कृतं फलदायकमथवाऽभ्यस्यमानमिति सन्देहः । एकवारेणेति प्राप्तम् । कुतः? ‘श्रोतव्यो मन्तव्य’ इत्यादिविधेस्तावता कृतकृत्यत्वात् । न हि तत्राभ्यासो विधीयते । न च फलोदयपर्यन्तमिति मन्तव्यम् । तथाऽभिप्रायाप्रतीतेः । अग्निष्टोमादिविधिवत् । न ह्यसौ स्वर्गार्थिनमधिकारिणं प्रति वर्तमानो विवक्षितफलदानाय तदावृत्तौ वरीवर्ति । अत्र समाधिरभिधीयते ॥ आवृत्तिरसकृदुपदेशात् ॥ न श्रवणादीनामेकवारानुष्ठानेन विवक्षितफलप्राप्तिः । किन्त्वावृत्त्या । अतः सा कर्तव्या । ‘स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकतो’ इत्यसकृदुपदेशात् ।

‘योऽसौ नियमनाद्विष्णुः सारत्वात्स इति स्मृतः ।

अणिमा सूक्ष्मतो गम्य ऐतदात्म्यं च तद्वशम् ॥

परानन्दत्वतः सत्यमात्मा पूर्णगुणत्वतः ।

सत्यतो नासि तत्त्वं हि मा भूत्ते स्तब्धता ततः ॥

असुराः स्तब्धतां याता ब्रह्माहमिति मानिनः ।

असत्यं जगदित्याहुः सिद्धोऽहं बलवानिति ॥

अनीश्वरं जगच्चाऽहुरप्रतिष्ठं तथैव च ।

चेतनैकत्वविषयान्वेदानाहुश्च सर्वशः ॥

कुतर्कपरमा नित्यं न सहन्ते गुणान् हरेः ।

शास्त्रतत्वमविज्ञाय ब्रूयुर्वेदेषु चैकताम् ॥

यान्ति चैव तमो घोरं परमात्मविनिन्दकाः ।

आलम्ब्य तन्मतं न त्वमेकत्वं विद्धि विष्णुना ।

एकताभावतो नैव भवेथाश्च महामनाः’ इति सामसंहितायाम् ॥

न चादृष्टफलोऽग्निष्टोमादिरत्र दृष्टान्तः । दृष्टफलानां श्रवणादीनां तद्दर्शनपर्यन्तमावृत्तिरुपपत्तिमती व्रीह्यवघातवत् ॥

श्रीजयतीर्थविरचिता तत्त्वप्रकाशिका

तत्त्वप्रकाशिका

एतदध्यायप्रतिपाद्यं दर्शयति ॥ फलमिति ॥ विरक्त्यादिसाधनैर्ब्रह्मदर्शनमापाद्यमित्युक्तं पूर्वाध्याये । तत्र तद्दर्शनस्य किं फलं येन तदापाद्यं स्यादित्याशङ्कानिवृत्त्यर्थं यत्तस्य भगवत्प्रसादद्वारा फलं भवति तदस्मिन्नध्याये सूत्रकृता निगद्यत इति भावः । ननु पुरुषार्थाधिकरणे ज्ञानात्सर्वे पुरुषार्था भवन्तीत्युक्तत्वात् किमत्र वक्तव्यमस्तीति । मैवम् । मोक्षेतरपुरुषार्थानामसाधारण्येन ज्ञानफलत्वा-भावात् । मोक्षोऽपि ज्ञानेन भवतीत्युक्तमिति चेत् । सत्यम् । स एव कीदृश इति विचार्यतेऽत्रेति । एतत्पादार्थं दर्शयति ॥ कर्मेति ॥ ज्ञानफलं मोक्षलक्षणं चतुर्विधं भवति । कर्मक्षयोत्क्रान्तिमार्ग-भोगभेदात् । तत्र कर्मक्षयाख्यफलस्य प्राथम्यात्तत्प्रथमपादे निगद्यत इति भावः । नन्वावृत्ति-रित्यादिसूत्रेषु कर्मक्षयोक्त्यप्रतीतेः कथमेतदित्यत आह ॥ नित्यश इति ॥ नैतेषुसूत्रेषु कर्मक्षयो निगद्यते किं तु ज्ञानसाधनमेव । तत्तृतीये एव किं नोच्यते । उक्तमेव पुनः किमुच्यते । तस्यैव नित्यशः कार्यत्वमिति । किमिति तद्विना मोक्षलेशाभावात् । अतोऽत्र कर्मक्षयोक्त्यप्रतीतिर्युक्तैवेति भावः ।

यदि फलाध्याये कर्मक्षयपादे च साधनमेवोच्यते तर्ह्यध्यायपादानामर्थव्यवस्थाभावः स्यादित्यत आह ॥ प्रायिकत्वाच्चेति ॥ नार्थान्तरोक्तावपि व्यवस्थाभावविरोधः । योऽर्थो यत्र प्रायेणोच्यते सोऽध्यायादिस्तदर्थ इति व्यवस्थोपपत्तेः । अत एव एतेष्वधिकरणेषु नाध्यायादिसङ्गतिरन्वेषणीया । तत्रादौ भगवज्ज्ञानाय श्रवणाद्यावृत्तेः कर्तव्यतोपपादनादस्ति शास्त्रसङ्गतिः । अन्यथा श्रवणादीनां ज्ञानसाधनत्वासिद्धेः साधनीयमेतत् । श्रवणादिकं विषयः । किं सकृदनुष्ठेयमुत तदावृत्तिरिति सन्देहः । उभयविधसाधनदर्शनं सन्देहबीजम् । सकृदेवेति पूर्वः पक्षः । सकृदनुष्ठिताग्निष्टोमादिना स्वर्गफलदर्शनात्तद्वदेव सकृदनुष्ठितश्रवणादिनापि ज्ञानसम्भवात् । श्रवणादिविधेश्चाग्निष्टोमादि-विधिवत्सकृदनुष्ठानेन चरितार्थत्वात् । साधनावृत्तेरपि दर्शनादत्रापि तथा स्यादिति चेन्न । उभयथा-दर्शनेऽप्यनावृत्त्यैवापरोक्षज्ञानाभ्युपगमे सर्वसुशकत्वं ज्ञानस्येति गुणलाभादनावृत्त्या श्रवणस्यैव ज्यायस्त्वात् । अतोऽनावृत्त्यैव ज्ञानं सम्भवति । न च तथा भवति । अतो न श्रवणादि ज्ञानसाधन-मिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ आवृत्तिरिति ॥ अग्निष्टोमादिवदेकवारेणैव फल-सिद्धेरात्मेति श्रुत्युक्तानां श्रवणादीनामनावृत्तिरिति यदुक्तं न तद्युक्तं किंतु श्रवणादीनामावृत्तिरेव कर्तव्या । उद्दालकेन नवकृत्वः श्वेतकेतुं प्रति तत्त्वस्योपदिष्टत्वात् । श्रवणादेः सकृदेव कर्तव्यत्वे किमर्थमसावसकृदुपदिशेत् । न चाग्निष्टोमादिवदनावृत्तिः । तस्यादृष्टफलत्वेन सकृदनुष्ठानसम्भवात् । तावतैव तद्विधिपूर्तेश्च । श्रवणादेः पुनरज्ञाननिवृत्त्यादिदृष्टफलसाधनत्वेन यावत्फलं कर्तव्यत्वात् । आवर्तन एव तद्विधिपर्यवसानाद् व्रीह्यवघातविधिवत् । न च सुशकत्वगुणलाभादनावृत्तिः । महाफलस्य तदभावस्यैव गुणत्वात् । सर्वेषां मोक्षप्रसङ्गाच्चेति भावः ॥

श्रीवादिराजतीर्थविरचिता गुर्वर्थदीपिका

गुर्वर्थदीपिका

साधनावृत्तेरपीत्यत्र सस्योदयाय जलदानादिसाधनस्याऽऽवृत्तेरपि दर्शनादिति भावः । व्रीह्यवहननादौ पुनःपुनरवहननस्य दर्शनादिति वा ।

श्रीरघूत्तमतीर्थविरचितस् तत्त्वप्रकाशिकाभावबोधः

भावबोधः

फलनिरूपणस्येदानीं का सङ्गतिरित्यतः ‘विचारितेष्वशेषेषु साधनेषु’’ इत्यनुव्याख्यानं मनसि निधाय फलं निगद्यत इति भाष्यं व्याचष्टे– विरक्त्यादिसाधनैरिति ॥ असाधारण्येन ज्ञान-फलत्वाभावादिति ॥ पुरुषार्थाधिकरणे ज्ञानसाध्यत्वेनोक्तस्वर्गादीनां कर्मादिनापि साध्यत्वाज् ज्ञानं विना न सिध्यतीत्येवंरूपासाधारण्येन तेषां ज्ञानफलत्वाभावादित्यर्थः । मोक्षस्य च तादृशत्वात् सोऽत्र निगद्यत इति भावः ॥ उक्तमिति चेदिति ॥ ‘‘विद्यैव तु निर्धारणात्’’ इत्यत्रेत्यर्थः ॥

ननु कर्मनाशस्य कथं ज्ञानासाधारणफलत्वम् ? येन तत्कथनमस्मिन्नध्याये सङ्गतम् । तथात्वे वा प्राथम्यं कुत इत्यतः–

‘कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ।

फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः’ ॥

इत्यनुव्याख्यानानुसारेण भाष्याभिप्रायमाह– ज्ञानफलमोक्षलक्षणं चतुर्विधमिति ॥ आत्यन्तिकानिष्टनिवृत्तीष्टप्राप्त्योरत्रैवान्तर्भावादिति भावः । ज्ञानोदयानन्तरमेव कर्मक्षय इति प्रथमं कर्मक्षयस्य, क्षीणकर्मणश्चोत्क्रान्तिरिति तदनन्तरमुत्क्रान्तिर् उत्क्रान्तस्य स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिरिति तदनन्तरं मार्गस्य ब्रह्मप्राप्तस्य च भोग इति, तदनन्तरं भोगस्योद्देश इति ज्ञेयम् । उक्तमेवेति ॥ ‘सर्ववेदान्तप्रत्ययम्’ इत्यत्र श्रवणाद्यावृत्तेः कर्तव्यत्वम् ‘आनन्दादयः प्रधानस्य’ इत्यत्रात्मत्वोपासनस्य कर्तव्यत्वं तत्रैव सर्वस्वामित्वेनोपासनोक्त्या विष्णुप्रतीकैक्योपासनस्य वर्जनीयत्वम् ‘भूम्नः क्रतुवत्’ इत्यत्र ब्रह्मत्वोपासनस्य कर्तव्यत्वम् ‘ओषु यथाश्रयभावः’ इत्यत्र सूर्यादीनां भगवच्चक्षुराद्याश्रितत्वेनोपासनस्य देवैः कर्तव्यत्वम्, ‘अनुबन्धादिभ्यः’ इत्यत्रासनादे-रावश्यकत्वम्, ‘अन्यैर्गुणैर्देवगणा उपासते’ इति श्रुतिग्राहके ‘दर्शनाच्चे’ इत्यत्रोत्पन्नापरोक्षज्ञानिनां देवानामप्युपासनोक्त्या उपासनस्याप्रायणान्तत्वं चोक्तमेवेत्यर्थः ॥

ननु तर्हि तैरेवाधिकरणैरेतेषां गतार्थत्वमिति च शङ्कते ॥ पुनः किमुच्यत इति ॥ तस्यैव नित्यश इति ॥ परमादरेणेत्यपि ज्ञातव्यम् ॥ नित्यशः कर्तव्यत्वे हेतुत्वेन सर्वथा भाव्यमित्येतद्व्याचष्टे– तद्विना मोक्षलेशाभावादिति । आदरनैरन्तर्याभ्यां श्रवणाद्यावृत्तिकरणादिना विनाऽपरोक्षज्ञानाभावेन चतुर्विधमोक्षमध्ये कस्यापि भागस्याभावादित्यर्थः । एतज्ज्ञापनायैव तृतीय इदमनुक्त्वात्रेदमुच्यते । तत्रानुक्त्या हि ततो वैलक्षण्यं ज्ञायते । फललक्षणे चोक्त्या फलान्तरङ्गत्वं ज्ञायत इति भावः ॥ व्यवस्थाभावविरोध इति ॥ व्यवस्थाभावलक्षणो विरोध इत्यर्थः । व्यवस्थाभावेन निमित्तेन फलाध्यायत्वादिविरोध इति वा प्रायेणेति ॥ प्राधान्येनेत्यर्थः । श्रवणा-द्यावृत्तेः कर्तव्यतेति । ‘एवं मुक्तिफलानियमः’ इति पूर्वाधिकरणे प्रारब्धकर्मप्रतिबन्धकसद्भावे मोक्षो न भवति तदभावे मोक्षो भवतीत्युक्तिप्रसङ्गेनात्राप्यपरोक्षज्ञानप्रतिबन्धकाज्ञानादिनिवृत्त्यर्थं, श्रवणाद्यावृत्तेः कर्तव्यत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ।

तत्र ‘श्रवणादिसकृत्क्रिया’ । ‘आवृत्तिर्वेति सन्देहः’ इत्यनुव्याख्यानानुसारेण विषय-संशयावाह– श्रवणादिकं विषय इत्यादिना ॥ अत्र श्रवणादिकं किं सकृदनुष्ठेयम् उतावर्तनीयमिति चिन्ता । तदर्थं श्रवणादिविधेर् ज्योतिष्टोमादिविधिवत् किं सकृदनुष्ठानमात्रेण चारितार्थ्यमस्त्युत नास्तीति । तदर्थं मोक्षाख्यमहाफलहेत्वपरोक्षज्ञानस्य सर्वसुशक्यत्वं किं गुण उत तदभाव एव गुण इति । तदर्थं श्रवणादिरदृष्टद्वारा फलहेतुरुत दृष्टफलद्वारा वेति । तदर्थं श्रवणाद्यावृत्तिकर्तव्यतायां प्रमाणं नास्त्युतास्तीति । ‘आत्मा वाऽरे द्रष्टव्यः’ इत्याद्युत्तरभाष्यानुसारेण पूर्वपक्षयति– सकृदिति । सकृदनुष्ठिताग्निष्टोमेत्यादिना । कुतो नेत्यतः श्रवणाद्यनुवृत्त्याऽपरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति । गुण इति न्यायविवरणोक्तयुक्तिमाह– उभयथा दर्शनेऽप्यनावृत्त्यैवेत्यादिना ॥ श्रवणादेः पुनरिति ॥ निवृत्यादीति ‘आदि’ पदेन प्रधानफलापरोक्षज्ञानस्यापि ग्रहणम् । तथा च भाष्योदाहृतश्रुतौ ‘द्रष्टव्यः’ इति दर्शनानुवादेन श्रवणादीनां विधानात्तेषां दृष्टफलसाधनत्वमवगम्यत इति भावः । महाफलत्वात् सर्वेषामशक्यताया एवोपपन्नत्वादिति न्यायविवरणाभिप्रायमाह– महा-फलस्य तदभावस्यैव गुणत्वादिति ॥ अन्यथा सर्वसुशक्यस्यैव साधनतया सर्वेषां मोक्षापत्तेरिति न्यायविवरणं हृदि निधायाह– सर्वेषामिति ॥

श्रीराघवेन्द्रतीर्थविरचितः भावदीपः

भावदीपः

यं विजिज्ञास्य विद्वांसो निर्मुक्ताः क्लेशबन्धनात् ।

लभन्ते परमानन्दं तं वन्दे श्रीनिकेतनम् ॥ १ ॥

क्वचिदेकदेशे निगद्यत इत्युपपत्त्याऽध्यायार्थत्वाप्रतीतेराह ॥ एतदिति ॥ चतुर्थाध्यायस्य प्रतिपाद्यमित्यर्थः । एतत्प्रदर्शनं च वृत्तवर्तिष्यमाणयोः सङ्गतिसूचनायेति भावेन व्याचष्टे ॥ विरक्त्यादीति ॥ विरक्तिभक्तिश्रवणमननध्यानगुरूपसत्त्यादिभिरित्यर्थः ॥ उक्तमिति ॥ प्रकाशश्च कर्मण्यभ्यासात् तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यादावुक्तमित्यर्थः । जिज्ञासासूत्रस्थाऽतःपदार्थसूचनायोक्तं भगवत्प्रसादद्वारेति । यद्वा न च ज्ञानं विनात्यर्थप्रसाद इत्याद्युक्तदिशा प्रसादरूपफलस्यात्राकथनादाह ॥ प्रसादद्वारेति ॥ चतुर्थाध्यायस्य वैयर्थ्यमाशङ्क्य प्रपञ्चनपरतया निराह ॥ नन्वित्यादिना ॥ असाधारण्येनेति ॥ कृषेः पलालकुलस्येवानुषङ्ग-सिद्धत्वात् । अत एव पूर्वस्थफलपदस्यैव भाष्येऽनुवाद इति भावः ॥ उक्तमिति ॥ अनियमः सर्वेषां, विद्यैव तु, अधिकोपदेशात्तु, एवं मुक्तिफलानियम इत्यादावित्यर्थः ॥ इति विचार्यत इति ॥ तद्विचारश्च तत्राधिकारिणां रुचिविशेषजननाय वा ज्ञानान्मोक्षो न सम्भवतीत्यादिचोद्यनिरासाय वेति ध्येयम् । पूर्ववत् पादार्थत्वाप्रतीतिं निराह ॥ एतत्पादार्थमिति ॥ ननु मोक्षाख्यफलोक्तिं प्रतिज्ञाय कर्मक्षयः कथ्यत इत्युक्तिरयुक्तेत्यत आह ॥ ज्ञानफलमिति ॥ प्राथम्यादिति ॥ क्षीण-कर्मण एवार्चिरादिमार्गादिसम्भवात् ।

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ।

फलं मोक्ष इति प्रोक्तः क्रमात्पादेषु चोदितः ॥

इति द्वितीयपादीयानुभाष्योक्तेः । नित्यशः कार्यमित्येतच्छंकापूर्वं व्यनक्ति ॥ तदिति ॥ ज्ञानसाधनमित्यर्थः । तत्तृतीय एव किं नोच्यत इति प्रश्नस्योत्तरमाह ॥ उक्तमेवेति ॥ सर्ववेदांतप्रत्ययमित्यादिना श्रवणादिसाधनमुक्तमेवेत्यर्थः । शङ्कते ॥ पुनरिति ॥ समाधत्ते ॥ तस्यैवेति ॥ सर्वथा भाव्यमित्येतच्छङ्कापूर्वं व्यनक्ति ॥ किमितीति ॥ तस्मान्नित्यशः कार्यत्वं वाच्यमित्यर्थः । तद्विना नित्यशः कारणं विनाऽपरोक्षज्ञानत्वरूपमोक्षलेशाभावादित्यर्थः । कर्मक्षयो हि मोक्षैकदेश उक्तः । स च तदधिगम इति वक्ष्यमाणदिशाऽपरोक्षज्ञाने सति भवति । अपरोक्ष-ज्ञानं च श्रवणादेर्नित्यशः करणं विना न युज्यत इति क्षीणकर्मत्वावस्था । जीवन्मुक्ततावस्था अपरोक्षज्ञानित्वावस्था इत्यनर्थान्तरमित्यपरोक्षज्ञानाभावादित्यनुक्त्वा मोक्षलेशेत्युक्तम् । अपरोक्षा-भावादित्येवोक्तौ तर्हि ज्ञानपादादावेव निवेशः स्यादिति शङ्का स्यात् । अतः फलाध्यायसङ्गतत्वद्योतनायैवमुक्तिः ॥ अत इति ॥ अन्तरङ्गतयाऽऽवश्यकसाधनोक्तिपरत्वा-दित्यर्थः । प्रायेणोच्यते प्राधान्येनोच्यते । अन्यत्तु तदुपयुक्ततयेत्यर्थः । अत एव प्रधान-प्रमेयोपयुक्तविचारपरत्वादेवेत्यर्थः । प्राचीनपञ्चाधिकरणीवदिह शास्त्रसङ्गतिमात्रमेवेति भावः ।

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ तत्रेति आवश्यकसाधनानां मध्य इत्यर्थः । भगवज्ज्ञाना-येत्युक्त्या शास्त्रसङ्गतिरुपपादिता भवति । एवमग्रेऽपि । भक्तिपादे प्रकाशश्च कर्मण्यभ्यासादित्यत्र श्रवणाद्यभ्यासादपरोक्षधीरित्युक्तम् । इह तु तत्कर्तव्यतेति भेद इति भावः ॥ उभयविधेति ॥ अग्निष्टोमावघातादिसाधनेत्यर्थः । अग्निष्टोमादिवदेकवारेणैव फलप्राप्तिरिति प्रतिज्ञादृष्टान्तौ व्यनक्ति ॥ सकृदेवेति ॥ श्रवणादिकं सकृदनुष्ठानेन फलदम् । फलसाधनतया श्रुतिविहितत्वाद् अग्निष्टोमादिवदित्युक्तं भवति । विधिबलादावृत्तिरस्त्वित्यत आह ॥ श्रवणादीति ॥ सत्प्रति-पक्षाभिप्रायेण शङ्कते ॥ साधनावृत्तेरिति ॥ अवघातादौ तुषविमोक्षादिसाधने आवृत्तेरपि दर्शनादित्यर्थः । न्यायविवरणोक्तसुशकत्वरूपतर्कसाहित्येन बलवत्त्वमाह ॥ अनावृत्त्यैवेति ॥ अत इति ॥ अग्निष्टोमादौ दर्शनात्सर्वजनसुशकत्वगुणलाभाच्चेत्यर्थः । अस्तु तथेत्यत आह ॥ न च तथेति ॥ सकृच्छ्रवणाद्यनुष्ठानमात्रेण ज्ञानोदय इत्यर्थः ॥ अत इति ॥ फलव्यभिचारादित्यर्थः । तथा च तन्निर्धारणार्थनियम इत्यादौ श्रवणादेर्ज्ञानसाधनत्वोक्तिरयुक्तेति भावः ॥

शेषपूर्त्या प्रथमादिविपरिणामेन च भाष्यं योजयति ॥ अग्निष्टोमादिवदिति ॥ आवृत्तिरेवेति ॥ एकेन वाक्येनावगतस्य तत्वस्य पुनः पुनस्तेनान्येन वाऽवगतिः श्रवणावृत्तिः । एकया वृत्त्याऽनु-संहितस्य भूयो भूयस्ययाऽन्यया वानुसन्धानं मननावृत्तिः । ध्यानावृत्तिस्तु व्यक्तैवोपदिष्टत्वा-च्छान्दोग्ये षष्ठे । तावता कथमावृत्तिरित्यतोऽन्यथानुपपत्त्येति भावेनाह ॥ श्रवणादेरिति ॥ पूर्वोक्तदृष्टान्तमाशङ्क्य वैषम्येण निराह ॥ न चेति ॥ अज्ञाननिवृत्त्यादीति ॥ संशयादि-निवृत्तिरादिपदार्थः । तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्र तथोक्तेरिति भावः । कल्पकं नेत्यत आह ॥ आवर्तन एवेति ॥ व्रीहीनवहन्तीति कर्माङ्गत्वेन विहितावघातस्य यावत्तुषविमोकं कर्तव्यत्वे तद्विधेर्यथा पर्यवसानं तथा श्रवणादिविधेरपीत्यर्थः । प्रागुक्तयुक्तिमाशङ्क्य महाफलत्वा-त्सर्वेषामशक्यताया एवोपपन्नत्वादित्याद्यन्यत्रोक्तं हेतुद्वयमाह ॥ न चेत्यादिना ॥ १ ॥

श्रीमत्सत्यनाथतीर्थयतिविरचिता श्रीमत्तत्वप्रकाशिकाव्याख्या अभिनवचन्द्रिका

अभिनवचन्द्रिका

लक्ष्मीधराभ्यामाश्लिष्टं सेव्यमानं सुरोत्तमैः ।

नमामि मुक्तिसिध्द्यर्थं वैकुण्ठनिलयं हरिम् ॥ १ ॥

एतदध्यायप्रतिपाद्यमिति ॥ ‘ब्रह्मस्वरूपनिरूपणेऽनवशेषात् किमध्यायशेषेणेत्यत’ इति वर्तते । तस्य ‘एतदध्यायप्रतिपाद्यं दर्शयति’ इत्यनेन सम्बन्धः ॥ एतत्पादार्थं दर्शयतीति ॥ ‘अध्याय-स्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यत’ इति वर्तते । फलेऽप्यवान्तरभेदेन पादभेद उपपन्न इति भावेनेति ग्राह्यम् । तस्य ‘एतत्पादप्रतिपाद्यं दर्शयति’ इत्यनेन सम्बन्धः ॥ यदीति ॥ फलाध्याये तथा कर्मक्षयपादे च यदि साधनमुच्यते तर्हि अध्यायानां पादानां च अर्थेन या व्यवस्था भेदस् तदभावः स्यादित्यर्थः । यथा साधनप्रतिपादनेऽपि अयं फलाध्यायस् तथा समन्वयाध्यायोऽपि स्यात् । पूर्वाध्यायः फलाध्यायः स्यात् । एवमयं पादो वैराग्यपादः स्यात् । तथा पूर्वे पादाः कर्मक्षयादिपादाः स्युः । प्रतिपाद्यप्रयुक्तव्यवस्थायास्त्वयैव त्याजितत्वादिति भावः । एतेन अध्यायपादयोर्व्यवस्थाभाव इति वक्तव्येऽध्यायपादानामिति बहुवचनप्रयोगोऽनुपपन्न इति परास्तम् ॥ अत एवेति ॥ फलाद्यतिरिक्तस्याप्यध्यायपादप्रतिपाद्यत्वादेव एतेष्वधिकरणेष्वध्यायादिसङ्गातिर् भाष्याभिहिताध्यायपादार्थेन एकार्थता न गवेषणीया । तस्यैवाध्यायपादार्थत्वमिति नियमस्याविवक्षितत्वादिति भावः । एतेन एतेषामधिकरणानामध्याय-पादत्वमस्ति न वा, नाद्यः । एतेष्वधिकरणेष्वध्यायादिसङ्गतिगवेषणाभावोक्तिविरोधात् । नेतिपक्षे ‘भोगेन त्वितरे क्षपयित्वा’ इत्यारभ्यैवाऽध्यायपादत्वेन तत्र च सर्वत्र फलादिनिरूपणसद्भवात् ‘प्रायिकत्वाच्चाऽध्यायानां पादानां च न विरोध’ इत्युक्तं स्यात् । आनन्दमयाधिकरणोपक्रम प्रथमाध्यायपादार्थनिरूपणवत् ‘भोगे न त्वितरे क्षपयित्वा’ इत्येतदधिकरणोपक्रम एव एतदध्यायपादार्थनिरूपणप्रसङ्गश्चेति परास्तम् । ‘आवृत्तिरसकृदुपदेशात्’ इत्यारभ्यैवाऽध्यायपादत्वेन तदर्थनिरूपणस्येहैव युक्तत्वात्, प्राधान्येन निरूप्यमाणार्थस्यासर्वगतत्वेन प्रायिकत्ववचनस्यापि युक्तत्वात् ।

ननु अस्तु फलमध्यायार्थः । प्राचुर्येण प्रतिपाद्यत्वात् । तथापि न कर्मक्षयः पादार्थः । एकाधिकरणप्रतिपाद्यत्वात् । न हि सम्भवति सप्ताधिकरणप्रतिपाद्यं न पादार्थः । एकाधिकरणप्रतिपाद्यं पादार्थ इति इति चेत्, को हि ब्रूते सप्ताधिकरण(णी) प्रतिपाद्यं न पादार्थ इति किं नाम यथा अन्नपानादिप्रियोऽपि पार्थिवः प्रीतिविशेषाच्छाकपार्थिव इत्युच्यते, यथा कर्मान्तरं कुर्वन्नपि देवदत्तः पाठक इत्युच्यते तथा पादकर्तुर् आदरवैशेष्यात्कर्मक्षयः प्रतिपाद्य इत्युच्यते ॥ शास्त्रसङ्गतिरिति ॥ यद्यपि इयं सङ्गतिः शास्त्रेणेवाध्यायपादाभ्यामस्ति । एतदधिकरण प्रतिपाद्यस्याध्यायपादार्थत्वात् । ततश्च शास्त्रादिसङ्गतिरिति वक्तव्यम्, तथापि अध्यायपादार्थत्वेन परिभाषितफलकर्मक्षयाप्रतिपादकत्वाच्छास्त्रसङ्गतिरित्येवोक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ अन्यथेति ॥ आवृत्तिकर्तव्यताऽसमर्थने अन्वयव्यभिचाराच्छ्रवणादेर्ज्ञानसाधनत्वासिद्धेरावृत्तिः समर्थनीयेत्यर्थः ॥ उभयविधेति ॥ आवृत्तानि अवघातादीनि साधनानि दृश्यन्ते । ज्योतिष्ठोमादीनि सकृदनुष्ठितानि । तदुभयदर्शनं सन्देहबीजमित्यर्थः ॥ सकृदेवेति ॥ सकृदेव श्रवणादिकमनुष्ठेयम् । आवृत्तेः कर्तव्यत्वे प्रमाणाभावादिति भावः ।

ननु सकृदनुष्ठितेन साधनेन क्कापि फलादृष्टेरावृत्तिः श्रवणादिविध्यभिप्रेतेत्यङ्गीकर्तव्येत्यत आह सकृदिति ॥ सकृदनुष्ठिताग्निष्टोमादिना फलदर्शनेनासम्भावनाभावात् श्रवणादेः सकृदनुष्ठानमेव विध्यर्थो नाऽऽवृत्तिरिति भावः । अवघातावृत्तेर्विध्यभिप्रेतत्वदर्शनादिहापि श्रवणाद्यावृत्तिरपि श्रवणादिविध्यभिपे्रताऽस्त्विति शङ्कते – साधनावृत्तेरिति ॥ उभयथेति ॥ सत्यमुभयथा दृश्यते । तथापि ज्योतिष्टोमविधिवच्छ्रवणादिविधेरपि सकृदनुष्ठानेनैव ज्ञानलाभ इति तात्पर्यं वाच्यम् । अन्यथा विधिशक्तिप्रतिबन्धः स्यात् । तथा हि पुरुषप्रवर्तनायैव हि विधिः प्रवृत्तो भवति । तद्यदि विधिना सकृदनुष्ठितेनैव श्रवणादिना महाफलावाप्तिरित्युच्येत तदैव औत्सक्यात्पुरुषः प्रवर्तेत अन्यथा तु नेति स्फुटो विधिशक्तिप्रतिबन्धः । न हि कश्चिदावृत्तिसङ्ख्यामनुक्त्वा बहुवारमनुष्ठितेन फलावाप्तिरिति बोधितो महायाससाध्ये प्रवर्तते । अन्यथा हिममहीधरोत्तरसानौ मृतसञ्जीविन्यस्तीत्युपदिष्टोऽपि प्रवर्तेत । अवघाताद्यावृत्तिस्तु अन्वयव्यतिरेकबलेन तथैव कार्यकारणभावावधारणादुपपन्नेति भावः । एतेन मेयसिद्धेर्मानाधीनत्वेन प्रयोजनाधीनत्वाभावाज् ज्ञानसुशकत्वगुणलाभाय अनावृत्त्यैव ज्ञानलाभ इत्यङ्गीकार्यमित्ययुक्तं प्राणिनां सौख्यलाभाय यत्र क्कापि भूखननमात्रेण धनलाभ इत्यङ्गीकारप्रसङ्गादिति परास्तम् ॥ अतोऽनावृत्त्यैवेति ॥ अनावृत्त्यैव ज्ञानमिति श्रवणादिविध्यर्थः सम्भवति नान्य इत्यर्थः । अस्त्वयमेव विध्यर्थस् ततः किमित्यत आह – न च तथेति ॥ विध्यनुसारेणाऽर्थादर्शनाद्विधिरप्रमाणमिति भावः । एतेन अनावृत्त्यैव ज्ञानं सम्भवतीत्यभिधाय ‘न च तथा’ इति निषेधाद् व्याघात इति परास्तम् ॥ फलसिद्धेरिति ॥ श्रुत्यभिपे्रतत्वादिति शेषः ॥ तस्यादृष्टफलत्वेनेति ॥ ज्योतिष्टोमस्य स्वर्गहेतुत्वं श्रुतिमात्रगम्यं नान्वयव्यतिरेकगम्यं तत्फलस्यातीन्द्रियत्वात् । श्रुतिप्रामाण्यात्सकृदनुष्ठानेनैव फलमङ्गीक्रियते । ज्ञानं तु दृष्टफलमिति श्रवणादेस्तत्साधनत्वमन्वयव्यतिरेकसहकृदनुष्ठानेनैव फलमङ्गीक्रियते ज्ञानं तु दृष्टफलमिति श्रवणादेस्तत्साधनत्वमन्वयव्यतिरेकसहकृताऽऽगमवेद्यम् । अन्वयव्यतिरेकौ तु आवृत्तानामेव श्रवणादीनां हेतुत्वं गृह्णीत इति ज्ञानप्राप्तिपर्यन्तं श्रवणादिकं कर्तव्यं, नाऽग्निष्टोमादिवत्सकृदनुष्ठेयमिति भावः । एतेन फलप्राप्तिपर्यन्तं साधनानुष्ठानं चेज् ज्योतिष्टोमादिकमपि स्वर्गपर्यन्तं कार्यम् । दृष्टत्वादृष्टत्वयोरप्रयोजकत्वात् । अन्यथा श्रवणादिकमपि सकृदनुष्ठेयमिति परास्तम् ॥ तावतैवेति ॥ अन्वयव्यतिरेकावनपेक्ष्य विधायकत्वात्सकृदनुष्ठान एव विधितात्पर्यादिति भावः ॥ आवर्तन एवेति ॥ अन्वयव्यतिरेकानुसारेण विधायकत्वाद् आवृत्तावेव विधेः पर्यवसानमिति भावः ॥

ताम्रपर्णी श्रीनिवासाचार्यविरचिता वाक्यार्थमुक्तावली

यज्ज्ञानक्षीणकर्माणः सुषुम्नारश्मिभिर्गताः ।

अर्चिरादिपथा विष्णुं प्राप्य मोदन्ति तं भजे ॥ १ ॥

एतदध्यायप्रतिपाद्यमिति ॥ पूर्वाध्यायेन सङ्गतिं सूचयन् स्वस्मिन्नेकवाक्यतासिद्धये एत-दध्यायप्रतिपाद्यं दर्शयतीत्यर्थः । मोक्षसाधनेषु विचारितेषु सत्सु फलप्रतिपादनस्यावशिष्टस्यावसर-प्राप्तत्वादवसरसङ्गतिः । फलप्रतिपादकत्वेनैकवाक्यत्वं चेति भावः ॥ मोक्षोऽपीति ॥ पुरुषार्थाधि-करण एव ज्ञानादेव स्वर्गो ज्ञानादेवापवर्ग इति श्रुतिमुदाहरतोक्तमित्यर्थः । यद्वा अनियमः सर्वेषामेवं मुक्तिफलानियम इत्यत्रेत्यर्थः ॥ किमत्रेति ॥ स्वर्गादेः पुरुषार्थस्य ज्ञानफलत्वेनोक्तत्वात् किमत्र फलं वक्तव्यमित्यर्थः ॥ असाधारण्येनेति ॥ तेषां कर्मणापि साध्यत्वादसाधारण्येन ज्ञानफलं वक्तव्यमिति भावः ॥ एतत्पादार्थमिति ॥ अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यत इति पूरणीयम् ॥ प्राथम्यादिति ॥ ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावर’ इति श्रुतेः । सेतुदर्शनेन पापनाशवज् ज्ञानानन्तरं कर्मक्षयः प्रक्षीणकर्मणामेवोत्क्रमणम् । उत्क्रान्तस्य मार्गेण ब्रह्मप्राप्तस्य भोग इति क्रमिकत्वादिति भावः । उक्तं च ॥

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ।

फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः ॥ इति ।

उक्तमेवेति ॥ सर्ववेदान्तप्रत्ययमित्यत्र श्रवणादेः कर्तव्यत्वम् । ‘आनन्दादयः प्रधानस्य’ इत्यत्रात्मत्वोपासनस्य कर्तव्यत्वम् । तत्रैव सर्वस्वामित्वेनोपासनोक्त्या ऐक्योपासनस्य वर्जनीय-त्वम् । भूम्नः क्रतुवदित्यत्र ब्रह्मत्वोपासनस्य कर्तव्यत्वम् । अङ्गाच्चेत्यत्रादित्यादीनां भगव-च्चक्षुराद्याश्रयत्वेनोपासनस्य देवैः कर्तव्यत्वम् । अनुबन्धादिभ्य इत्यत्रासनादेरावश्यकत्वम् । अन्यैर्गुणैर् देवगणा उपासत इति श्रुतिग्राहके दर्शनाच्चेत्यत्रोत्पन्नापरोक्षाणां देवानामप्युपासनोक्त्या उपासनस्याप्रायणांतत्वं चोक्तमेवेत्यर्थः ॥

नित्यशः कार्यमिति ॥ सर्वप्रकारेण विघ्नेऽपि यावच्छक्त्यनुष्ठेयमिति तत्त्वप्रदीपे । सर्वथा भाव्यमित्यस्यार्थस्तद्भिन्नेति । कर्मक्षयाद्येकैकदेशस्याप्यभावात् सुखलेशाभावाच्चेत्यर्थः । एत-ज्ज्ञापनायैव तृतीये इदमनुक्त्वाऽत्रेदमुच्यते । तत्रानुक्त्या हि ततो वैलक्षण्यं ज्ञायते फलाध्याये उक्त्वा फलान्तरङ्गत्वं ज्ञायत इति भावः । उक्तं च तत्त्वप्रदीपे तस्य फलसन्निकृष्टत्वादत्रोक्तिः फलावस्थानुप्रवेशितत्वाच्चेति ॥ अध्यायपादानामिति ॥ समन्वयाद्यध्यायानां याऽर्थव्यवस्था योऽर्थभेदः प्रागुक्तः यश्चैतदध्यायपादानां कर्मक्षयादिलक्षणोऽर्थभेद उक्तस्स च न स्यात् पूर्वोक्त-विरोधादित्यर्थः । यद्वा अध्यायौ साधनफलाध्यायौ पादौ उपासनाकर्मक्षयपादौ तेषामित्यर्थः ॥ यद्वा एतदध्यायैतत्पादवत्सर्वत्रापि व्यवस्थाभावप्रसङ्ग इत्यर्थः ॥ व्यवस्थाभावविरोध इति ॥ व्यवस्थाभावलक्षणो विरोध इत्यर्थः । यद्वा व्यवस्थाभावेन निमित्तेन प्रागुक्तविरोध इत्यर्थः ॥ प्रायिकत्वादिति ॥ समन्वयाध्याये देवताधिकरणस्य साधनाध्याये छन्दत उभयविरोधादित्यस्य अत्र चाधिकरणसप्तकस्य प्रासंगिकत्वादध्यायानां प्रायिकत्वं नामपादे लिङ्गात्मकानां लिङ्गपादे नामात्मकानां तृतीयपादेऽधिकारस्य द्वितीयाध्याये चतुर्थपादे संज्ञामूर्तिक्लृप्तिविचारस्य उपासनापादे छन्दत इति मुक्तनिरूपणस्य अस्मिन्पादेऽधिकरणसप्तके साधनस्य विचारितत्वात्पादानां प्रायिकत्वम् ।

ननु अत्राधिकरणसप्तके साधनविचारे पादस्य कथं फले प्रायिकत्वमिति चेन्न । कार्त्स्न्येन यत्र योऽर्थः प्रतिपाद्यतेऽन्यत्र तथा विविच्य न प्रतिपाद्यते सोऽर्थस् तत्पादाद्यर्थ इति विवक्षितत्वाद् अत्रोपासनापादे विविच्य प्रतिपादितानामेवावश्यं कर्तव्यत्वमधिकरणसप्तके उक्त्वा कर्मक्षयस्यैव कार्त्स्न्येन प्रतिपादनाददोषः ।

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ एवं मुक्तिफलेत्यत्र यथा प्रतिबन्धे सति श्रवणादि-साधनसम्पूर्तिजन्मन्येव ज्ञानम् । सति तु प्रतिबन्धे जन्मान्तरे । पुनः किञ्चिच्छ्रवणादिकरणेन ज्ञाननियमो दृष्टान्तत्वेनोपात्तः । तथा च तत्र श्रवणावृत्तिरपि प्रकृता साऽत्र विचार्यत इत्यनन्तर-सङ्गतिः ॥ अन्यथेति ॥ आवृत्तिकर्तव्यताऽसमर्थनेऽन्वयव्यभिचाराछ्रवणादेर्ज्ञानसाधनत्वासिद्धेर् आवृत्तिः समर्थनीयेत्यर्थः । श्रवणादिकं किं सकृदनुष्ठेयम् उत तदावृत्तिरिति चिन्ता । तदर्थं सकृदनुष्ठानेऽपि फलसद्भावाच् चारितार्थ्यं ज्ञानस्य सर्वशब्दकत्वं गुणस्य भवत्युत न भवतीति ॥

उभयविधेति ॥ सकृदनुष्ठेयस्य ज्योतिष्ठोमादेर् असकृदनुष्ठेयस्य व्रीह्यवहननादेश्च दर्शन-मित्यर्थः । अग्निष्टोमवदेकवारेणैवेत्युत्तरभाष्यानुसारेण पूर्वपक्षयति ॥ सकृदनुष्ठितेति ॥ साधना-वृत्तेरपीति ॥ अवघातादिसाधनावृत्तेरित्यर्थः । अग्निष्ठोमवदिति भाष्ये एवकारेण न पुनरव-घातादिवदावृत्त्येति निर्धारणेन सूचितं सुखं शक्यते इत्युक्तन्यायं व्यनक्ति ॥ अनावृत्त्यैवेति ॥ परमफलं विवक्षुः प्रसक्तं फलमाह ॥ अत इति ॥ सम्भवतीति ॥ सम्भावितं न प्रकारान्तर-मित्यर्थः । प्रसक्तं प्रतिषेधति ॥ न चेति ॥ परमफलमाह ॥ अत इति । अन्वयव्यभिचारा-दित्यर्थः । भाष्यस्य यतोऽग्निष्टोमवदेकवारेणैव फलप्राप्तिरत आत्मेत्यादिश्रुत्युक्तानां श्रवणादीनाम् एकवारेणैव कर्तव्यतेत्यध्याहारानुवृत्तिभ्याम् अर्थमभिप्रेत्य व्याचष्टे ॥ अग्निष्टोमादिवदिति ॥ सूत्रार्थस्त्वतिरोहितः । तस्यादृष्टफलत्वेनेति ॥ ज्योतिष्टोमस्य स्वर्गहेतुत्वं श्रुतिमात्रगम्यं न त्वन्वयव्यतिरेकगम्यम् । तत्फलस्य अतीन्द्रियत्वात् । श्रुतिप्रामाण्यात्सकृदनुष्ठानेनैव फलमङ्गी-क्रियते । ज्ञानं तु दृष्टफलमिति श्रवणादेस् तत्साधनत्वम् अन्वयव्यतिरेकसहकृतागमवेद्यम् । अन्वय-व्यतिरेकौ तु अनावृत्तानामेव श्रवणादीनां ज्ञानहेतुत्वं गृह्णत इति ज्ञानप्राप्तिपर्यन्तं श्रवणादिकर्तव्यं नाग्निष्टोमवत्सकृदनुष्ठेयमिति भावः ॥ तावतैवेति ॥ सकृदनुष्ठानेनैव अतीन्द्रियकार्यकारण-विधायकविधिपर्यवसानादित्यर्थः । श्रवणादेः पुनरज्ञाननिवृत्त्यादीति ॥ अत्र आदिपदेन प्रधानफलापरोक्षज्ञानस्यापि । तथा च भाष्योदाहृतश्रुतौ दृष्टव्य इति दर्शनानुवादेन श्रवणादीनां विधानात्तेषां दृष्टफलसाधनत्वमवगम्यते इति भावः ॥ आवर्तन एवेति ॥ अन्वयव्यतिरेकानुसारेण विधायकत्वादावृत्तावेव विधिपर्यवसानमिति भावः । मैत्रेऽप्युपलक्षिताधिकारिणामेव महाफल-ब्रह्मज्ञानाय विहितानां श्रवणादीनाम् असारानित्यसर्वाधिकारिसाधारणस्वर्गादिफलकाग्निष्टोमादि-कर्मवन्नैकवारमनुष्ठेयत्वमित्युक्त्या सूचितं महाफलत्वमित्युक्तन्यायं विघटयति च सुशक्यमिति ।

ननु श्वेतकेतुना तत्वविशेषेषु सन्दिग्धेन नवकृत्वः प्रश्नकरणे उद्दालकेन तत्परिहारार्थं नवकृत्व उपदेशात् श्रवणादिकालबाहुल्यमेव प्रतीयते न पुनरावृत्तिः । श्रुतस्यैव शब्दस्य पुनःपुनःश्रवणरूपा हि सा । न च अतत्वमसीति भेदस्य श्रुतस्यैव श्रवणादिति वाच्यम् । तदभ्यासस्य तात्पर्य-ज्ञापकत्वात् । भेदे प्रत्युपदेशमन्योन्या युक्तीर् अभिधाय साध्यप्रदर्शनपरत्वाच्चेति चेदत्रोक्तं सुधायां ‘येन केन वाक्येनावगतस्य तत्वस्य पुनस्तेन वान्येन वा अवगतिः श्रवणावृत्तिः’ । एवम् एकया युक्त्या अनुसंहितस्य भूयोभूयस् तयाऽन्यया वा अनुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् । नन्वेवं सति सर्ववेदान्तप्रत्ययमित्यनेनैव गतमिति चेत् तस्यैवात्यन्तावश्यकत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेवेति ।

श्रीनिवासतीर्थविरचितं वाक्यार्थविवरणम्

वाक्यार्थविवरणम्

इत्युक्तत्वादिति ॥ ज्ञानादेव स्वर्ग इत्यादिश्रुतावुक्तत्वादित्यर्थः ॥ इत्युक्तमिति ॥ ज्ञाना-देवापवर्ग इत्यपि तत्रैवोक्तत्वादित्यर्थः ॥ कीदृश इति ॥ कीदृग्विधः कियत्प्रकारोपेत इत्यर्थः । कार्यत्वमिति ॥ ज्ञापनायेति शेषः ॥ किमितीति ॥ नित्यशः कार्यत्वमपि किमिति किमर्थं वक्तव्यम् । अकरणे बाधकाभावादिति भावः ॥ प्रायेणेति ॥ प्राधान्येनेत्यर्थः ॥ उभयविधेति ॥ ज्योतिष्टोमादिरूपं साधनं सकृदनुष्ठेयम् । अवहननादिकमसकृदनुष्ठेयमित्यर्थः । ननु श्रोतव्यमित्यादि श्रवणादिविधिरेवासकृदनुष्ठानं बोधयतीति चेत्तत्राह ॥ श्रवणादिविधिश्चेति ॥ अग्निष्टोमादिवदिति ॥ अन्यथा अग्निष्टोमादेरप्यसकृदनुष्ठेयत्वं स्यादिति भावः ॥ साधनावृत्तेरिति ॥ वितुषीभाव-साधनीभूतावहननाद्यावृत्तेरित्यर्थः ॥ अनावृत्त्यैवेति ॥ श्रवणानावृत्यैवेत्यर्थः ॥ सर्वसुशक्यत्व-मिति ॥ अनायासेन सर्वैः साधयितुं शक्यत्वमित्यर्थः ।

शर्करा श्रीनिवासाचार्यविरचिता वाक्यार्थमञ्जरी

विनाश्यकर्मनिचयमुत्क्रम्यार्चिर्मुखात्पथः ।

प्राप्तेभ्यो ह्यात्मनिकटं नमः स्वानन्ददायिने ॥ १ ॥

फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह ॥ विरक्त्यादीति ॥ असाधारण्येनेति ॥ तेषां कर्मादिनापि साध्यत्वेन ज्ञानं विना न सम्भवतीत्येवंरूपासाधारण्यं नास्ति तादृशासाधारणफलं मोक्षरूपं निगद्यत इत्यर्थः ॥ उक्तमिति ॥ विद्यैव तु निर्धारणादित्यत्रेत्यर्थः । कर्मनाशस्य कथं ज्ञानासाधारणफलत्वम् एवं तत्कथनमस्मिन्नध्याये सङ्गतं स्यात् तथात्वे वा प्राथम्यं कुत इत्यत आह ॥ ज्ञानफलमिति ॥ एतत्कर्मनाशाख्यफलमिति भाष्यम् उत्तरमाह ॥ उक्तमेवेति ॥ सर्व-वेदान्तप्रत्ययमित्यत्र श्रवणाद्यावृत्तेः कर्तव्यत्वम् आनन्दादयः प्रधानस्येत्यत्रात्मत्वोपासनस्य कर्तव्यत्वम् । तत्रैव सर्वस्वामित्वेनोपासनोक्त्या विष्णुप्रतीकैक्योपासनस्य देवैः कर्तव्यत्वम् । अनुबन्धादिभ्य इत्यत्रोपासनादेरावश्यकत्वम् अन्यैर्गुणैर्देवगणा उपासत इति श्रुतिग्राहके दर्शना-च्चेत्यत्रोत्पन्नापरोक्षज्ञानिनां गम्योपासनोक्त्योपासनस्य मोक्षान्तरङ्गत्वं चोक्तमेवेत्यर्थः । ननु तर्हि तैरेवाधिकरणैरेतेषां सप्तानामधिकरणानां गतार्थत्वमिति शङ्कते ॥ पुनः किमिति ॥ परिहरति ॥ तस्यैवेति ॥ उपलक्षणमेतत् । परमादरेणेत्यपि द्रष्टव्यम् । प्रयोजनं च पृच्छति ॥ किमितीति ॥ सर्वथा भाव्यमित्युक्तस्य परिहारमाह ॥ तद्विनेति ॥ आदरनैरंतर्याभ्यां श्रवणाद्यावृत्तिकरणादिना विना परोक्षज्ञानाभावेन चतुर्विधमोक्षमध्ये कस्यापि भागस्याभावादिति भावः ॥ अत्र सप्ताधि-करण्याम् ॥ व्यवस्थाभावविरोध इति ॥ व्यवस्थाभावलक्षणो विरोध इत्यर्थः ॥ प्रायेणेति ॥ प्राधान्येनेत्यर्थः । साधनविचारप्रासङ्गिक इति भावः ॥ अत एवेति ॥ प्रासङ्गिकत्वादेवेत्यर्थः । आवृत्तिः किं फलाय वोत पूरणाय आद्ये आह ॥ सकृदनुष्ठितेति ॥ द्वितीये आह ॥ श्रवणादीति ॥ साधनेति ॥ अवहननादीत्यर्थः । अनावृत्त्यैवेति पदच्छेदः ॥ न चेति ॥ अननु भ्नतादिति भावः ॥ ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ अपरोक्षज्ञानार्थं श्रवणादीनामावृत्तिः कार्या कुतः स आत्मा तत्त्वमसीत्युद्दालकेन श्वेतकेतुं प्रत्यसकृदनेकवारं तत्त्वोपदेशादित्यर्थः । नवकृत्वः नववारम् ॥ अदृष्टेति ॥ अप्रत्यक्षेत्यर्थः । व्रीह्यवघातविधिर्व्रीहीनवहंतीत्यादिरूपः ॥