११ मुक्तिफलाधिकरणम्

ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ

११. मुक्तिफलाधिकरणम्

सूत्रभाष्यम्

॥ ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ ५१ ॥

एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः, तद्भावे जन्मान्तराणीत्यनियमः । ‘धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृत(त्व)मेत्येव ब्रह्म संस्थोऽमृत(त्व) मेत्येव’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् ।

‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा ।

अवसन्नं यदारब्धं कर्म तत्रैव गच्छति ॥

न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ इति नारायणाध्यात्मे ॥ ५१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये

तृतीयाध्यायस्य चतुर्थः पादः ॥ ३ ॥ ४ ॥

तत्त्वप्र्रदीपिका

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः । यथोपासकस्याऽरब्धप्रतिबन्धकाभाव इहैव दर्शनं जायते, तद्भावे यावद्भिर्जन्मभिस्तत्क्षयस्तावद्भिरेवेति नियमः । सर्वथेह जन्मन्येवेति न नियमः । एवं दर्शनवतो मुक्तिरस्त्येवेति नियमः । तच्छरीरपातानन्तरमेवेत्यनियमः । प्रारब्धकर्माभाव इहैव तद्भावे तत्क्षय एवेति कुतः । ‘एत्येव ब्रह्मसंस्थोऽमृतमेत्येव ब्रह्मसंस्थेऽमृतम्’ इति सम्यग्दर्शिनः सर्वथा मुक्त्यवधारणात् सर्वपुरुषार्थप्राप्तिर्दर्शनात्’ इत्युक्तेऽपि इतरेषामानुषङ्गिकत्वं साक्षात्फलत्वं मुक्तेरेवेति फलशब्द इति ॥

॥ इति तत्त्वदीपिकायां तृतीयाध्यायस्य चतुर्थः पादः ॥

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनज्ञानस्य स्वोत्पत्तिजन्मानन्तरमेव प्रतिबन्धाभावे मुक्तिसाधनत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ज्ञानस्य मुक्तिसाधनत्वाभावप्रसङ्गात्तत्समर्थनीयम् । प्रकृतज्ञानसाध्यो मोक्षोऽत्र विषयः । किं यच्छरीरे ज्ञानमुत्पन्नं तत्पातानन्तरमेव भवत्युत नेति सन्देहः । उभयथाऽप्यदृष्टफलदृष्टिः सन्देहबीजम् । तद्देहानन्तरमेवेति पूर्वः पक्षः । कारणे सति कार्यानुदये कारणाभावात् । न च ज्ञानवदुपपत्तिः । तत्र प्रतिबन्धकसद्भावात् । न चात्र प्रतिबन्धकं पश्यामः । निष्कारणं कारणे सति कार्यानुदये कदाप्यनुदयः स्यात् । एवं चानियम इत्युक्तव्याघात इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ एवमिति ॥ यथा ज्ञानेऽनियमस्तथा मुक्तिफलेऽपि तच्छरीरपातानन्तरमेव मोक्ष इति नियमो नास्ति । किं तु शरीरपातानन्तरं जन्मान्तरं प्राप्य वा । न च निष्कारणमनियमे कदापि मोक्षाभावप्रसङ्गः । प्रारब्धप्रतिबन्धभावाभावयोरनियमकारणत्वात् । कुतोऽत्र प्रतिबन्धककल्पनम् । श्रुतौ हि ब्रह्मसंस्थस्य मोक्षावधारणात् । प्रतिबन्धकाभावे तदनुपपत्तेरिति भावः । अनियमे कदापि मोक्षाभाव इत्येतद्युक्त्या परिहृतम् । तत्रैषा श्रुतिः प्रमाणम् । मोक्षानियमे वा ज्ञानिनो मोक्ष एवावधार्यते न तु शरीरपातानन्तरमेवेति नियम इति भावः । नियमानुक्तिमात्रं नानियमसाधकमित्यत आह ॥ विद्वानिति ॥ बहूनीति जन्मान्तरे तात्पर्यम् । सर्वस्य प्रामाणिकत्वसूचनाय द्विरुक्तिः । तदुक्तं ‘सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायमूलतः । अध्यायान्ते द्विरुक्तिः स्यात्पूर्वोक्तस्याऽवधारणे’ । इत्यतो ज्ञानिनां प्रतिबन्धाभावे मोक्षस्याऽ-विदूरत्वादुक्तं युक्तमिति सिद्धम् ।

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां तृतीयाध्यायस्य चतुर्थः पादः ॥

गुर्वर्थदीपिका

अल्पाधिकारिणां मनुष्याणां ब्रह्मणश्चरमदिनावसाने तस्मिन्नेव जन्मनि अपरोक्षदर्शनम् । तद्देहपातानन्तरमेव लिङ्गदेहभङ्गः न पुनर्मध्ये जन्मान्तरापेक्षेति भावेनोक्तम् ॥ प्रारब्धकर्माभाव इति ॥ ब्रह्मसंस्थस्य मोक्षावधारणादित्यतः परं क्वापि ब्रह्मसंस्थानामेव ब्रह्मादीनां मोक्षदर्शनाच्चेति वाक्यमध्याहार्यम् । अन्यथाऽर्थानुपपत्तेरिति ज्ञेयम् ।

भावबोधः

मुक्तिसाधनत्वमहिम्न इति ॥ अत्र पूर्वाधिकरणोक्तसाध्यस्यातिदेशात् कर्मक्षयहेत्वपरोक्षज्ञानो-त्पत्त्यनन्तरमपि यदा प्रतिबन्धकसद्भावः किमु तदा तदुत्पत्तेः पूर्वमिति पूर्वाधिकरणोक्ते कैमुत्य-प्रदर्शनाद्वा पूर्वाधिकरणे श्रवणादिजन्यत्वेन निर्णीतापरोक्षज्ञानस्य मुक्तिसाधनत्वसमर्थनाद्वाऽनन्तर-सङ्गतिरिति भावः ॥ किं यदिति ॥ अत्र मोक्षः किं ज्ञानोत्पत्त्यवच्छिन्नशरीरपातानन्तरमेव भवति उत तदुत्तरशरीरपातानन्तरमपीति चिन्ता । तदर्थं क्वचिज् ज्ञानोत्पत्त्यवच्छिन्नशरीरपातानन्तरं मुक्त्यनुत्पत्तिः किं तयोः कार्यकारणभावाभावनिबन्धनोत प्रतिबन्धकसद्भावनिबन्धनेति । तदर्थं ज्ञानमोक्षयोः कार्यकारणभावादौ प्रमाणं नास्त्युतास्तीति । विरोधाभावात् साधनसम्पूर्तिजन्मन्येवा-परोक्षज्ञानं मुक्तिश्चेति न्यायविवरणे जन्मनीत्यस्य साधनसम्पूर्तिजन्मान्तरमित्येतदुपलक्षकत्वमभिप्रेत्य तदनुसारेण पूर्वपक्षमाह– तद्देहानन्तरमेवेत्यादिना ॥ कारणे सतीति ॥ अनेन विरोधाभावा-दित्येतत्कारणे सति कार्योत्पत्तौ विरोधाभावादिति व्याख्यातं भवति ।

अतिदेशप्रयोजकामभ्यधिकाशङ्कामाह– न च ज्ञानवदिति ॥ न चात्र प्रतिबन्धकमिति ॥ अनेन विरोधाभावादित्ययमंशः प्रतिबन्धकसद्भावलक्षणविरोधाभावादिति प्रकारान्तरेण व्याख्यातो भवति ॥ प्रारब्धप्रतिबन्धकभावाभावयोरिति ॥ प्रारब्धकर्माभाव इति तद्भाव सति च भाष्य-व्याख्यानपरेणानेन प्रतिबन्धे सति तन्निरासेन त्वरयैव सिद्ध्युपपत्तेरिति न्यायविवरणांशस्यापि तात्पर्यमुक्तं भवति ॥ कुतोऽत्रेति ॥ व्यभिचाराज् ज्ञानमोक्षयोः कार्यकारणभाव एव नास्तीति किं न स्यादिति भावः ॥ तदनुपपत्तेरिति ॥ श्रौतकार्यकारणभावानुपपत्तेरित्यर्थः । श्रुतेरर्थान्तरं वक्तुं पूर्वोक्तमर्थमनुवदति– अनियमेऽपीत्यादिना ॥ युक्त्येति ॥ प्रतिबन्धकसद्भावलक्षणयुक्त्येत्यर्थः । तत्र चैषा श्रुतिः प्रमाणमिति । तत्र प्रतिबन्धकसद्भावरूपयुक्तौ प्रमाणं श्रुतार्थापत्तिरूपतयेत्यर्थ इत्याह– मोक्षानियमे वेति ॥ शब्दविधयेत्यर्थः । तदेवोपपादयति– ज्ञानिन इति ॥ एकद्विजन्म-प्राप्त्यनन्तरमपि जायमानमुक्तिसङ्ग्रहार्थमाह– बहूनीति जन्मान्तर इति ॥

अत्र पादे आद्याधिकरणमपरोक्षज्ञानस्याशेषपुरुषार्थसाधनत्वरूपैकार्थप्रतिपादकमेका पेटिका । द्वितीयतृतीयाधिकरणद्वयं ब्रह्मज्ञानाधिकारिरूपैकार्थप्रतिपादकमेका पेटिका । तत्राद्ये अध्ययनादि-विशिष्टानामेव ब्रह्मज्ञानाधिकारो न सर्वेषामिति प्रतिपादनम् । द्वितीये च अधिकारिविशेषेणा-ध्ययनादौ तारतम्यप्रतिपादनम् । चतुर्थम् अपरोक्षज्ञानस्य सदसत्प्रवृत्तावपि मोक्षसाधनत्वनियम-रूपैकार्थप्रतिपादकमेका पेटिका । पञ्चमषष्ठाधिकरणद्वयम् अपरोक्षज्ञानादेरधिकारिमात्रप्राप्यत्व-प्रतिपादनमेका पेटिका । तत्राद्ये अपरोज्ञानस्य तत्प्रतिपादनम् । द्वितीये तन्नियतदेवादिपद-स्याधिकारिमात्रप्राप्यत्वप्रतिपादनम् । सप्तमम् अपरोक्षज्ञानस्य स्वनियामकदेवादीनामपि फलदत्व-रूपैकार्थप्रतिपादकमेका पेटिका । अष्टमम् अपरोक्षज्ञानाधिकारिषु यतीनां गृहस्थादिभ्योऽतिशय-रूपैकार्थप्रतिपादकमेका पेटिका । नवमं ज्ञानस्यायोग्येषु गोप्यत्वरूपैकार्थप्रतिपादकमेका पेटिका । तदुत्तरमधिकरणद्वयं प्रतिबन्धाभावे अपेक्षितप्राप्तिरूपैकार्थप्रतिपादकमेका पेटिका । तत्राद्ये साधनरूपापरोक्षज्ञानस्य, द्वितीये तत्फलमोक्षस्य तत्प्रतिपादकमिति ॥

॥ इति श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिकृते श्रीमज्जयतीर्थ

पूज्यचरणविरचिततत्त्वप्रकाशिकाभावबोधे तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ॥

भावदीपः

स्वोत्पत्तीत्यादि ॥ एतेन यथा पूर्वत्र ज्ञानमैहिकमेवेत्यतिनियम एवं मोक्षफलमपि तद्देह-पातादनन्तरमेवेति न नियम इति साधनात्पूर्वसङ्गतिरपि सूचिता ॥ अन्यथेति ॥ प्रतिबन्धाभावे तदनन्तरमेवेत्यसाधने कदापि मोक्षानुदयप्रसङ्गेन ज्ञानस्य मुक्तिहेतुत्वं न स्यात् । तथा च विद्यैव त्वित्याद्युक्तमयुक्तमिति भावः । सङ्गत्यन्तरं सूचयति ॥ प्रकृतेति ॥ साधनचिन्तानन्तरं तत्साध्य-चिन्ताऽत्रेति भावः । अदृष्टफलदृष्टिर् अदृष्टफलस्य स्वर्गादेरुभयथाऽनुवादः पुराणादौ तत्र तत्रोच्यमान उपलभ्य इति भावः । पूर्वनयपूर्वपक्षन्यायविवरणे मुक्तिश्चेति नियम इति मुक्ति-पदस्योपादानमत्रत्यपूर्वपक्षाभिप्रायमित्युपेत्य पूर्वत्रेव पूर्वपक्षं व्यनक्ति ॥ तद्देहेति ॥ पूर्वेण गतार्थत्वमाशङ्क्य निराह ॥ न चेति ॥ ज्ञान इव प्रतिबन्धभावाभावाभ्यामनियमोऽस्त्वित्यर्थः । तद्वैषम्येणाभ्यधिकाशङ्कामाह ॥ तत्रेति ॥ ज्ञानोत्पत्तावित्यर्थः ॥ पश्याम इति ॥ कल्पकप्रमाणाभावादिति भावः ॥ एवं चेति ॥ मोक्षस्य कदाप्यनुदये सत्यनियमः सर्वेषामिति ज्ञानस्य नियमेन मुक्तिहेतुत्वोक्तिरयुक्ता स्यादित्यर्थः ॥ एवं शब्दार्थं विवृण्वन्नेवानियम इत्यन्वय-मुपेत्य भाष्यार्थमाह ॥ यथेति ॥ प्रारब्धेत्यादिभाष्यं मुक्तिफलानियम इति सूत्रांशफलितार्थोक्ति-परतया व्याचष्टे ॥ किं त्विति ॥ भाष्ये बहुत्वमविवक्षितमित्युपेत्योक्तम् ॥ जन्मान्तरमिति ॥ प्राप्येति शेषोक्तिः । एवं तर्हि भाष्ये तावदेव वाच्यं न तु प्रारब्धकर्माभाव इति । तद्भाव इति च कृत्यभावादित्यतः शङ्कानिवर्तकयुक्तिसूचकत्वेन तदुक्तिरित्यभिप्रेत्य प्रागुक्तशङ्कामनूद्य भाष्य-भावोक्त्या निराह ॥ न चेत्यादिना ॥ हेतोरसिद्धिवारकतया भाष्यशेषं व्यनक्ति ॥ कुत इति ॥ अर्थापत्तिसूचकत्वेन श्रुतेर्भावमाह ॥ तदनुपपत्तेरिति ॥ ब्रह्मसंस्थस्य मोक्षावधारणानुपपतेरित्यर्थः ।

ननु यदि मोक्षानियम एव प्रमितः स्यात्तदा प्रतिबन्धकसद्भावकल्पनादिचिन्ता । स एवाप्रामाणिक इत्यतो भाष्यशेषस्य प्रकारान्तरेण तात्पर्यं वक्तुं प्रागुक्तार्थं निष्कृष्याह ॥ अनियम इति ॥ प्रारब्धकर्माभाव इत्यादिनोक्तानियम इत्यर्थः ॥ युक्त्येति ॥ प्रारब्धप्रतिबन्धभावाभावयोर-नियमकारणत्वादित्युक्तयुक्त्येत्यर्थः ॥ तत्रेति ॥ प्रारब्धप्रतिबन्धकसद्भावेऽर्थापत्तिसूचकतया प्रमाणमुक्तमित्यर्थः ॥ मोक्षानियमे वेति ॥ तद्देहपातानन्तरं वा मोक्षः जन्मान्तराणि प्राप्य वेति यो मोक्षानियम उक्तः स कुत इत्यतो धर्मी स्वर्गमित्यादिभाष्यशेषः प्रवृत्त इति वार्थ इत्यर्थः । तथा च मोक्षानियमो नाप्रामाणिक इति भावः । पूर्वयोजनापक्षे मोक्षस्यैवेति भाष्यस्थैवकारस्य न तु कदाचिदपि मोक्षानुदय इत्यर्थकत्वस्याभिमतत्वादनियमपक्षे कथमेवकारार्थ इत्यत आह ॥ ज्ञानिन इति ॥ नियमव्यावृत्तिरेवैवकारार्थोऽस्मिन्पक्ष इति भावः । श्रुतावरुच्या स्मृत्युक्तिर्भाष्य इत्याह ॥ नियमेति ॥ ब्रह्मसंस्थ इति श्रुतौ तद्देहपातानन्तरमेवेति नियमानुक्तिमात्रमित्यर्थः ॥ इत्यत आहेति ॥ स्मृतौ न चेद्बहूनि जन्मानि प्राप्येति स्पष्टमुक्तेरिति भावः । श्रुतिरप्येतत्तात्पर्यकेति हृदयम् । बहुत्वमविवक्षितमित्याह ॥ बहूनीतीति ॥ सौत्रद्विरुक्तेः कृत्यस्यात्र भाष्येऽनुक्तेरन्यत्रोक्तं स्वयमाह ॥ सर्वस्येति ॥ तदुक्तमिति ॥ ऐतरेयभाष्ये द्वितीयप्रघट्टके प्रथमेऽध्याये उक्तमित्यर्थः । अध्यायमूलमारभ्य पूर्वोक्तस्यार्थस्य सर्वप्रमाणसिद्धत्वं वक्तुमध्यायान्ते द्विरुक्तिः स्यात् । कुत्रेत्यतोऽवधारणे निर्णायकग्रन्थे इत्यर्थः ॥ अत इति ॥ ज्ञानिमोक्षावधारकश्रुत्यादिबलादित्यर्थः ॥ उक्तमिति ॥ अनियमः सर्वेषामित्युक्तं युक्तमिति फलोक्तिः । अत्र सूत्रे फलपदं पुरुषार्थोऽत इत्युक्तावपि मुक्तेरेव साक्षाज्ज्ञानफलत्वमन्येषामानुषङ्गिकत्वमिति सूचनायेत्युक्तं तत्वप्रदीपे ।

॥ इति श्रीमद्भाष्यटीकाभावदीपे श्रीराघवेन्द्रयतिकृते तृतीयाध्यायस्य चतुर्थः पादः ॥

अभिनवचन्द्रिका

स्वोत्पत्तिजन्मानन्तरमेवेति ॥ ननु इदं महिमवर्णनमयुक्तम् । असत्त्वात् । न हि कस्यापि प्रतिबन्धाभावोऽस्ति । येन ज्ञानस्य स्वोत्पत्त्यनन्तरमेव मोक्षजनकत्वरूपं माहात्म्यं सत्यं स्यात् । प्रारब्धकर्मणामतिबहुत्वेन प्रमितत्वात् । उक्तं चानुव्याख्याने ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्क्षयः । ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्बह्मणस्तथा । रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश । अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसंक्षय’ इति । तस्मादनारम्भणीयमिदमधिकरणमिति चेत्, न केषाञ्चि-दल्पाधिकारिणां ज्ञानोदयजन्मन्येव सर्वप्रारब्धक्षयसद्भावेन तद्देहपातानन्तरमेव तेषां मोक्षसम्भवात् । तदुक्तम् ‘विद्वानमृतमाप्नोति नाऽत्र कार्या विचारणा । अवसन्नं यदारब्धं कर्म तत्रैव गच्छति ॥ न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशय’ इति । अनुव्याख्यानन्तु उत्तममध्यमविषयं द्रष्टव्यम् । यद्यपि अत्राधिकरणे ज्ञानफलस्य मोक्षस्य तद्देहपातानन्तरमेवेति नियमाभावः साध्यते, तथापि प्रतिबन्धकाभावे स्वोत्पत्तिजन्मानन्तरमेव मोक्षो भवतीत्यर्थस्य अर्थाल्लाभात्, ‘प्रतिबन्धकाऽभावे मुक्तिसाधनत्वमहिम्नो वर्णनादित्युक्तम् । तद्देहानन्तरमेवेति ॥ तद्देहपातानन्तरमेव मोक्षो भवतीत्यङ्गीकारो युक्तः न तु विलम्बाङ्गीकारो युक्त इति पूर्वः पक्ष इत्यर्थः । कुतो विलम्बाङ्गी-कारो न युक्त इत्यत आह – कारणे सतीति ॥ न चात्रेति ॥ ‘ज्ञानाग्निः सर्वकर्माणि भस्म-सात्कुरुतेऽनघ’ इति वचनादिति भावः । अनियम इति ॥ ‘अनियमः सर्वेषाम्’ इति सूत्रोक्त-मोक्षनियमव्याघात इत्यर्थः । न च निष्कारणमिति । कारणाभावेऽपि कस्यचिद्देहपातानन्तरमेव मोक्षः कस्यचिन्नेत्यङ्गीकारे, यस्य देहपातानन्तरं न मोक्षः, तस्य कदापि न स्यादित्यर्थः । कुतोऽत्र प्रतिबन्धकल्पनमिति । पतिबन्धकवशाद् देहपातानन्तरमेव न मोक्षः, किं तु प्रतिबन्ध-कापगमे मोक्ष इति कुतः कल्प्यते मोक्षाभाव एव किं न स्यादित्यर्थः । ननु भाष्ये ‘एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः । तद्भावे जन्मान्तराणीत्यनियम’ इति प्रतिज्ञाय ‘धर्मी स्वर्गं विधर्मी निरयमेत्येव । ब्रह्मसंस्थोऽमृतत्वमेत्येव ब्रह्मसंस्थोऽमृतत्वम्’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणादिति हेतुरुक्तः । न चासौ युक्तः । ब्रह्मसंस्थमोक्षावधारणस्याऽनियम-प्रयोजकत्वात् । ‘प्रतिबन्धकसद्भाव’ इत्यादेर् हेतुगर्भविशेषणत्वेन अनियमप्रयोजकस्य तेनैव लाभाच्चेत्यत आह– अनियमे कदापीति ॥ नायम् ‘अनियम’ इति प्रतिज्ञातार्थे हेतुः, किन्तु अनियम इति प्रतिज्ञाने कुत इति आकाङ्क्षोत्पन्ना । अनियमे कदापि मोक्षाभाव इति बाधकप्रत्ययश्चोत्पन्नः । तत्र हेत्वाकाङ्क्षाशान्तये प्रारब्धकर्माभावे, तद्भावे, इति द्वे विशेषणे प्रयुक्ते । तयैव युक्त्या कदापि मोक्षाभाव इति शङ्कापि परिहृता । तत्र प्रतिबन्धकसद्भावे एषा श्रुतिरर्था-पत्त्युपस्थापनद्वारा प्रमाणमित्यर्थः । प्रतिज्ञातार्थ एवैषा श्रुतिः प्रमाणमित्याह– मोक्षानियमे वेति ॥ देहपातानन्तरं मोक्षो भवत्येवेति नियमाभाव इत्यर्थः । ननु भाष्ये ‘बहूनि जन्मानि’ इत्युक्तम् । एकजन्मप्रारब्धसद्भावे बहुजन्माङ्गीकारायोग इत्यत आह– बहूनीति ॥ अत्र ‘बहूनि जन्मानि’ इत्यस्य प्रतीकेनोपादानमिति द्रष्टव्यम् । एतेन बहूनीत्यस्य जन्मान्तरमित्यर्थत्वे जन्मानीतिपदं पुनरुक्तं स्यादिति परास्तम् ।

पूर्वपक्षस्तु– अपरोक्षज्ञानोदयदेहपातानन्तरमेव मोक्षो भवतीत्यङ्गीकारो युक्तः । न तु विलम्बाङ्गीकारः । विलम्बे कारणाभावात् । एवमेव कस्यचिन्मोक्षविलम्बाङ्गीकारे तस्य न कदापि मोक्षः स्यात् । तत्साधनानां गतवीर्यत्वात् । न हि जीर्णानां धान्यानामङ्कुरकार्यकारिता । ततश्च ‘अनियम’ इत्युक्त व्याघात इति ।

सिद्धान्तस्तु– ज्ञानोदये देहपातानन्तरमेव मोक्ष इति न नियमः किं तु प्रतिबन्धकाभावे तद्देहपातानन्तरम् । अन्यथा तु ‘जन्मान्तरं प्राप्या’ इत्यनियमः । ‘धर्मी स्वर्गं विधर्मी नरकम्’ इति श्रुतेः, ‘विद्वानमृतमाप्नोति’ इति स्मृतेः । अतो ज्ञानिनां प्रतिबन्धाभावे मोक्षस्यादूरत्वाद् उक्तं युक्तमिति सिद्धम् ।

मोक्षमार्गरतांश्चक्रे सतोऽभिनवचन्द्रिका ।

विदोषा रामचन्द्रस्य तृतीयाध्यायसङ्गता ॥ १ ॥

॥ इति श्रीसत्यनिधितीर्थश्रीचरणचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्त्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिकायां तृतीयाध्यायस्य चतुर्थः पादस् तृतीयाध्यायश्च समाप्तः ॥

वाक्यार्थमुक्तावली

अत्र पूर्वोक्तहेतुसाध्यातिदेशादातिदेशिक्यनन्तरसङ्गतिः । अत्र ज्ञानजन्मपातानन्तरमेव ज्ञानेन मोक्षनियमस्यौत्सर्गिकत्वसमर्थनेन ज्ञानस्य तद्धेतुत्वमहिमवर्णनादित्यर्थः ॥ अन्यथेति ॥ उक्त-नियमस्यातिदृढत्वेन ज्ञानजन्मपातानन्तरमेव ज्ञानस्य मोक्षहेतुत्वेन प्राप्त्यङ्गीकारे प्रायशस्तद-भावज्ञानस्य तत्साधनत्वापगमेन मोक्षस्य ज्ञानेन कदाप्यनुदयः स्यात् । क्वचिदुदयस्तु काकतालीय इति शङ्कानिरासाय नियमस्यौत्सर्गिकत्वं वर्णनीयमिति भावः ॥ किमिति ॥ किं मोक्षो ज्ञानशरीरपातानन्तरमेव भवतीति नियम अतिदृढ उत औत्सर्गिक इति चिन्ता । तदर्थमपवाद-कारणं प्रमाणं च नास्त्युतास्तीति ॥ उभयथाप्यदृष्टफलदृष्टिरिति ॥ अदृष्टजन्यफलस्य यच्छरीरे दृष्टमुत्पन्नं तदपगमानन्तरं कुत्रचिद्बहुजन्मव्यवधानेन शास्त्रदृष्टिरित्यर्थः । अत्रापि दृष्टान्ते विरोधिनो मोक्षप्रतिबन्धकस्य प्रारब्धस्य कारणस्य प्रमाणस्य च प्रदर्शनात्सूचितं विरोधहानिरित्युक्त-न्यायमेवेहापि व्यनक्ति ॥ कारणे सतीति ॥ नन्वेवं चेत्पातानन्तरमेव न पूर्वपक्षयितव्यं किन्तु ज्ञानजन्मन्येवेति वक्तव्यं कारणे सति कार्यानुदये कारणाभावात् । एकगुणोपासकानां ज्ञान-जन्मन्येव शरीरोत्क्रमणदर्शनाच्च । यदि च मोक्षशब्देन भोगादिर्विवक्षितस्तदापि कारणे सतीति न्यायेन ज्ञानानन्तरमेव भोगादिकं स्यादित्यपि वक्तव्यम् । यदि चरमशरीरोत्क्रान्तिरपि सामग्री(कायै)को यैर्निवेश्यते तदा कारणे सतीति व्याहन्येतेति चेन्न । इह मोक्षशब्देन सान्तानिकभोगस्य विवक्षितत्वात् । तत्र च दृष्टस्य शरीरस्य प्रतिबन्धकत्वात्तत्पातानन्तरमदृष्ट प्रतिबन्धे प्रमाणाभावाभावादित्यभिप्रेतत्वाद्गतार्थतामाशङ्क्याभ्यधिकाशङ्कामाह ॥ न च ज्ञानवदिति ॥ यथोपासकस्य प्रारब्धप्रतिबन्धकाभावे इहैव दर्शनं जायते तद्भावे यावद्भिर्जन्मभि-स्ततःक्षणस्तावद्भिरेवेत्यनियमः । एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षस्तदभावे जन्मान्तराणीति मुक्तिफलेऽप्यनियम इत्यतिदेशसूत्रखण्डार्थं स्पष्टयति ॥ यथेत्यादिना ॥

ननु देहपातानन्तरं मोक्षाभावे प्रमिते व्यभिचाराज्ज्ञानस्य मोक्षसाधनत्वमेव त्यज्यतां किं प्रतिबन्धककल्पनयेत्यभिप्रेत्य शङ्कते ॥ कुत इति ॥ तदनुपपत्तेरिति ॥ प्रतिबन्धाभावेऽपि ज्ञानान्मोक्षाभावे ब्रह्मसंस्थस्य मोक्षावधारणानुपपत्तेरित्यर्थः । श्रौतकार्यकारणेन वाऽनुपपत्तेरिति भावः । यद्वा कुतः प्रमाणात्प्रतिबन्धककल्पनमिति शङ्कार्थः ॥ तदनुपपत्तेरिति ॥ अवधारणा-त्कार्यकारणाभावो निश्चितः । दृश्यते च क्वचिज्ज्ञानजन्मानंतरं मोक्षाभावोऽतस्तदन्यथानुपपत्त्या प्रतिबन्धकं कल्प्यत इत्यर्थः । श्रुतेरर्थान्तरं वक्तुमुक्तार्थमनुवदति ॥ अनियम इत्यादिना ॥ अनियमे ज्ञानजन्मन्येवेति ॥ तत्रैव युक्तिसिद्धमोक्षनियम एव । अर्थान्तरमाह ॥ मोक्षेति ॥ मोक्षानियम इत्यर्थः । विद्वानमृतमिति भाष्ये एव त्वरयासिद्धिरित्युक्तन्यायः प्रदर्शितो ज्ञेयः । जन्मद्वये प्रारब्धभोगसम्भवाद्बहूनीति कथमित्यत आह ॥ बहूनीति ॥ मुक्त्यनियम इति वक्तव्ये फलेत्युक्तेरभिप्रायस्तत्त्वप्रदीपे उक्तः । सर्वपुरुषार्थप्राप्तिदर्शनादित्युक्तेऽपीतरेषामानुषङ्गिकत्वं साक्षा-त्फलत्वं मुक्तेरेवेति फलशब्द इति ॥ पेटिका तु भावबोधे स्पष्टा ।

॥ इति श्रीमद्विठ्ठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन विरचितायां श्रीमत्तत्त्वप्रकाशिकावाक्यार्थमुक्तावल्यां तृतीयाध्यायस्य चतुर्थः पादः ॥

तत्त्वसुबोधिनी

तदवस्थावधृतेर् मुक्तिसाधनत्वमहिम्न इति । अत्र पूर्वाधिकरणोक्तकैमुत्यप्रदर्शनाद्वा पूर्वाधिकरणे श्रवणादिजन्यत्वेन निर्णीतापरोक्षज्ञानस्य मुक्तिसाधनत्वसमर्थनाद्वा पूर्वान्तरसङ्गतिरिति भावः । अतिदेशप्रयोजिकाभ्यधिकाशङ्कामाह ॥ न च ज्ञानवदिति ॥ सत्यपि कारणे प्रतिबन्धकाभावेऽपि कार्याभावो भवत्वित्यत आह ॥ निष्कारणमिति ॥ कुतोऽत्रेति ॥ व्यभिचारात् । ज्ञानमोक्षयोः कार्यकारणभाव एव नास्तीति किं न स्यादिति भावः ॥ तदनुपपत्तेरिति ॥ श्रौतकार्यकारण-भावानुपपत्तेरित्यर्थः । श्रुतेरर्थान्तरं वक्तुं पूर्वोक्तमर्थमनुवदति ॥ अनियमेऽपीति ॥ युक्त्येत्यर्थः । तत्रैषा श्रुतिः प्रमाणमिति । तत्र प्रतिबन्धकसद्भावलक्षणयुक्तौ प्रमाणं श्रुतार्थापत्तिरूपतयेत्यर्थः ॥ मोक्षानियमे वेति ॥ शब्दविषयेत्यर्थः ॥ तदेवोपपादयति ॥ ज्ञानिन इति ॥ एकद्विज-प्राप्त्यनन्तरमपि जायमानमुक्तिसङ्ग्रहार्थमाह ॥ बहूनीति जन्मान्तर इति ॥ अत्र प्रमाणमाह ॥ तदुक्तमिति ॥ आध्यायमूलतो ऽध्यायमूलमारभ्य यावत्पूर्वोक्तं तस्य पूर्वोक्तस्यावधारणे अवधारण-पूर्वकं तस्य प्रमाणसिद्धत्वं वक्तुम् अध्यायान्ते द्विरुक्तिः स्यादिति सम्बन्धः ॥

॥ इति तत्वप्रकाशिकाटीकायां तत्वसुबोधिन्यां तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ॥

वाक्यार्थविवरणम्

फलदृष्टिरिति ॥ पुण्यफलदृष्टिरित्यर्थः । ‘अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते’ इति वचनात् पुण्यफलमेतच्छरीरेणैव भुज्यते शरीरान्तरेणापीति दृष्टम् । मोक्षोऽपि पुण्यफलमत उक्तरीत्या सन्देह इत्यर्थः ॥ तद्देहेति ॥ यस्मिन् देहे ज्ञानमुत्पन्नं तद्देहपातानन्तरमेव मोक्ष इत्यर्थः ॥ ज्ञानवदिति ॥ श्रवणादिसाधनसम्पूर्तावपि ज्ञानं जन्मान्तरे भवतीत्यङ्गीकृतम् । तथा च कारणसद्भावेऽपि कार्या-दर्शनात् । इहापि तद्देहपातरूपकारणसद्भावेऽपि मोक्षरूपकार्यानुदयः सम्भवतीत्यर्थः ॥ प्रतिबन्धकेति ॥ प्रारब्धकर्मरूपेत्यर्थः ॥ एवं चेति ॥ ज्ञानवतोऽपि मोक्षानुदये सतीत्यर्थः ॥ ज्ञाने अनियम इति ॥ साधनसम्पूर्तिजन्मन्येवेति नियमो नास्तीत्यर्थः ॥ शरीरपातेति ॥ यस्मिन् शरीरे ज्ञनमुत्पन्नं तच्छरीरपातानन्तरमित्यर्थः ॥ अनियमे ॥ तच्छरीरपातान्तरमेवेति नियमाभावे ॥ अनियमकारणत्वादिति ॥ अनियमेत्युपलक्षणम् । नियमोऽपि ग्राह्यः । तथा च प्रारब्धकर्म-भावाभावयोरनियमनियमकारणात्वादित्यर्थः ॥ कुतोऽत्रेति ॥ यस्मिन् शरीरे ज्ञानमुत्पन्नं तच्छरीरपातानन्तरं मोक्षाभावेन व्यभिचारात् । ज्ञानमोक्षयोः कार्यकारणभाव एव नास्तीति किं न स्यादिति भावः ॥ ब्रह्मसंस्थस्येति ॥ ब्रह्मणि विषये संस्था संस्थितिः । धातूनामनेकार्थत्वाज् ज्ञानमिति यावत् । यस्य असौ ब्रह्मसंस्था अपरोक्षज्ञानी । तस्य अमृतमेत्येवेति मोक्षावधारणा-दित्यर्थः ॥ तदनुपपत्तेरिति ॥ प्रतिबन्धककल्पनाभावे तच्छरीरपातानन्तरमेव केषाञ्चिज्ज्ञानिनां मोक्षानुपलम्भाज् ज्ञानमोक्षयोः श्रुत्युक्तकार्यकारणभावोऽनुपपन्नः स्यात् । अतः प्रतिबन्धकसद्भावः कल्पनीय इत्यर्थः । अर्थान्तरं वस्तुं पूर्वोक्तमनुवदति ॥ अनियम इति ॥ तच्छरीरपातानन्तरं मोक्ष इति नियमाभावे कदापि न मोक्षः स्यात् । कारणे सति कार्यानुदयायोगादित्येतत् प्रतिबन्दक-सद्भावयुक्त्या परिहृतम् । न हि प्रतिबद्धं कारणं कार्यमजनयदकारणं भवति । तथात्वे वन्हेरपि स्फोटं प्रति अकारणतत्प्रसङ्गादिति भावः ॥ तत्रेति ॥ प्रतिबन्धकसद्भावरूपयुक्तावित्यर्थः ॥ एषा श्रुतिः ॥ ‘धर्मी स्वर्गम्’ इत्यादिश्रुतिः ॥ प्रमाणमिति ॥ ब्रह्मसंस्थस्य मोक्षावधारणं कदाचित् प्रतिबन्धकाकल्पनेन सम्भवतीत्येवं श्रुतार्थापत्तिरूपतया प्रमाणमित्यर्थः । एव पूर्वोक्तमनुद्यार्थान्तर-माह ॥ मोक्षानियमे वेति ॥ ज्ञानिनामपि केषाञ्चिन्मोक्षः केषाञ्चिन्नेत्येवरूपो नियमो नास्ति । किन्तु सर्वेषामपि ज्ञानिनां मोक्ष इत्येवं रूपनियममात्र एव । ‘धर्मी स्वर्गम्’ इत्येषा श्रुतिः प्रमाणमित्यर्थः । तदेवोपपादयति ॥ ज्ञानिन इति ॥ नियम इति ॥ भाव इति ॥ तथा च तच्छरीरपातानन्तरं जन्मान्तरं प्राप्येत्यनियमोऽपि सम्भवतीति भावः ॥ नियमानुक्तीति ॥ तच्छरीरपातानन्तरमेवेति नियमानुक्तिमात्रमित्यर्थः ॥ अनियमेति ॥ तच्छरीरपातानन्तरमेवेति नियमो न । किन्तु जन्मान्तरप्राप्येति नियमाभावसाधकमित्यर्थः ॥ विद्वानितीति ॥ तत्र न चेद्बहूनि जन्मानि प्राप्येत्युक्तत्वात् तच्छरीरपातानन्तरमेवेति नियमाभावसिद्धेरिति ज्ञातव्यम् । प्रमाणे आरब्धं कर्म अवसन्नं भोगेन क्षीणशक्तिकं सद् गच्छति नश्यतीत्यर्थः । ननु यस्य जन्मद्वया-पादकमेव प्रारब्धकर्मास्ति तस्य बहूनि जन्मानि प्राप्येत्ययुक्तं स्यादत आह ॥ बहूनीतीति ॥ तथा च बहूनीत्यनेकत्वोपलक्षणमिति भावः । अत्र तच्छरीरपातानन्तरमेव मोक्ष इत्येतन्मनुष्योत्तमेष्वपि ये अधमा आत्मत्वमात्रोपासकास् तद्विषयमित्यवगन्तव्यमिति सम्प्रदायविदः ॥ अध्यायमूलतः ॥ अध्यायमूलमारभ्योक्तस्येत्यर्थः ।

॥ इति तत्त्वप्रकाशिकावाक्यार्थविवरणे श्रीनिवासवर्यकृते तृतीयाध्यायस्य चतुर्थः पादः ॥

वाक्यार्थमञ्जरी

तद्देहानन्तरं तद्देहपातानन्तरम् ॥ ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्त दवस्थावधृतेः ॐ ॥ एवं ज्ञान इव मुक्तिफले मोक्षरूपेप्यनियमः ज्ञानोत्पत्तिजन्मान्तरमेव भवतीति नियमो नास्ति किन्तु प्रारब्धप्रतिबन्धकसद्भावे देहान्तरावसानेऽपि भवति कुतस्तदवस्थावधृतेस् तस्मिन्ब्रह्मणि अवस्थाऽवस्थितिर्निष्ठा यस्य तस्यावधृतेर्ब्रह्मसंस्थ इति श्रुतौ मुक्तिफलावधारणादित्यर्थः ॥ कुतोऽत्रेति ॥ व्यभिचाराज्ज्ञानमोक्षयोः कार्यकारणभाव एव नास्तीति न स्यादिति भावः ॥ तदनुपपत्तेरिति ॥ श्रुतौ कार्यकारणभावानुपपत्तेरित्यर्थः । श्रुतेरर्थान्तरं वक्तुं पूर्वोक्तमर्थमनुवदति । अनियमे कदापीत्यादिना ॥ युक्त्येति ॥ प्रतिबन्धक सद्भावरूपयुक्त्येत्यर्थः । तत्र चैषा श्रुतिः प्रमाणमिति तत्र प्रतिबन्धकसद्भावरूपयुक्तौ प्रमाणं श्रुतार्थापत्तिरूपतयेत्यर्थः ॥ मोक्षनियमे वेति ॥ शब्दविधयेत्यर्थः । तदेवोपपादयति ॥ ज्ञानिन इति ॥ एकजन्मप्राप्त्यनन्तरमपि जायमानमुक्ति-सङ्ग्रहार्थमाह ॥ बहूनीति ॥ जन्मान्तर इत्यर्थः ।

॥ इति श्रीमत्तत्त्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्कराश्रीनिवासविरचितायां तृतीयाध्यायस्य चतुर्थः पादः ॥

॥ इति मुक्तिफलाधिकरणम् ॥ ११ ॥

॥ इति चतुर्थः पादः समाप्तः ॥