१० ऐहिकाधिकरणम्

ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ

१०. ऐहिकाधिकरणम्

सूत्रभाष्यम्

॥ ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ ५० ॥

‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’(बृ.उ.४-४-५) इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्धप्रतिबन्धाभावे ।

‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्य इहैव दृष्टिं परमस्य विन्देत् ।

यद्यारब्धं कर्म निबन्धकं स्यात्प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्या’ इति सौपर्णश्रुतौ तद्दर्शनात् ।

‘अनादिजन्मसम्बद्धं(न्धं) निर्भेत्तुं पापपञ्जरम् ।

यावत्या सेवया शक्यं तावत्कार्यं न संशयः ॥

यावद्दूरे स्थितो गम्यात्तावद्गन्तव्यमेव हि ।

इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥

श्रवणं मननं चैव निधिध्यासनमेव च ।

परे गुरौ च या भक्तिः परिचर्यादिकं हरेः ॥

एषा सेवेति सम्प्रोक्ता यथा तद्दर्शनं भवेत्’ इति बृहत्संहितायाम् ॥

तत्त्वप्रदीपिका

एवमुक्तसामर्थ्यं भगवद्दर्शनमैहिकफलं वदिष्यंस्तत्स्वयं च श्रवणादेः फलं सदैहिकमेवेति साधयति– ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ अमृतत्वकामया मैत्रेय्या विषयव्यावृत्तचित्तया परिपृष्टः परितुष्टो याज्ञवल्क््यस्तां प्रति ‘आत्मा वा ओ द्रष्टव्य’ इत्याह । अमृतत्वमिष्यते चेद्भवत्या परमात्मा द्रष्टव्य इत्यर्थः । दर्शनं केन स्यादित्यकाङ्क्षायां तदर्थं श्रवणादि विधत्त श्रोतव्य इत्यादिना । तच्च दृष्टफलं प्रारब्धकर्मणोऽप्रतिबन्धकत्वे । उक्तार्थे प्रमाणमाह– ‘श्रुत्वे’त्यादि ॥

‘ज्ञानं तु योग उद्दिष्टं युज्यतेऽनेन यत्सुखम् ।

क्वचिद्योग उपायः स्यात्क्वचिच्चित्तनिरोधनम्’ इति दत्तात्रेययोगे ॥

तत्त्वप्रकाशिका

अत्रेश्वरप्राप्तिसाधनज्ञानस्य प्रतिबन्धाभावे साधनसम्पत्तिजन्मन्येवोदयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा कदापि तदनुदयप्रसङ्गादेतत्समर्थनीयम् । प्रकृतं ज्ञानमेव विषयः । किं साधनसम्पूर्तिजन्मन्येव भवति किं वा जन्मान्तर इति सन्देहः । कृष्यादौ यागादौ चोभयथादर्शनं सन्देहबीजम् । साधनसम्पूर्तिजन्मन्येव दर्शनं भवतीति पूर्वः पक्षः । साधनसम्पूर्तावपि ज्ञानानुदये कारणाभावात् । न च स्वर्गादिवदुपपत्तिः । तस्यैतच्छरीरेण भोगायोगात्तत्पातानन्तरं प्राप्त्युपपत्तेः । न चात्र तादृशं कारणमस्ति । अतो ज्ञानस्यैहिकत्वेन प्राप्तत्वात्तदभावाच्च तदनुदय एवेति । सिद्धान्त-यत्सूत्रं पठित्वा व्याचष्टे ॥ ऐहिकमिति ॥ श्रुतौ यद्ब्रह्मदर्शनार्थं यच्छ्रवणादि विधीयते तच्च दर्शनं तेषां श्रवणादीनां सम्पूर्तिजन्मन्येव भवतीति न नियमः किं तु जन्मान्तरेऽपि भवति । न चोक्त-दोषः । प्रारब्धकर्मसद्भावे जन्मान्तरे तदभावे त्वैहिकमेवेत्यभ्युपगमात् । तत्कुतः । श्रुत्वेति श्रुतेरेवेति भावः । योगमेवान्ववेक्ष्येति पुनः किञ्चिद् वर्णादिकमपेक्ष्यैवेत्यर्थः । अत्र स्मृतिं चाह ॥ अनादीति ॥ कथं सेवया ज्ञानैकसाध्यः पापपञ्जरनिर्भेद इति तत्राह ॥ इहेति ॥ श्रवणाद्येकसाध्यं ज्ञानं कथं सेवया स्यादित्यत आह ॥ श्रवणमिति ॥ न चायमेव सर्वत्र सेवाशब्दार्थः किं तु ज्ञानसाधनविषय एवेत्युच्यते ॥ ययेति ॥ अतो ज्ञानस्यैहिकत्वान्नोक्तानुपपत्तिरिति सिद्धम् ।

भावबोधः

साधनसम्पत्तिजन्मन्येवेति । पूर्वाधिकरणे ‘अन्वयात्’ इत्यनेनार्थलब्धस्यापरोक्षज्ञानपरोक्ष-ज्ञानयोः साध्यसाधनभावस्येह समर्थनादनन्तरसङ्गतिरिति भावः । अत एव साध्यसाधनाभावाक्षेपेण पूर्वपक्षोपसंहारः कृतः ॥ साधनेति ॥ अत्रापरोक्षज्ञानं किं श्रवणादिसाधनसम्पूर्तिजन्मन्येव भवति, उत जन्मान्तरेऽपीति चिन्ता । तदर्थं क्वचित् साधनसम्पूर्तिजन्मन्येवापरोक्षज्ञानस्यानुत्पत्तिः किं तयोः साध्यसाधनभावाभावनिबन्धनोत प्रतिबन्धकसद्भावनिबन्धनेति । तदर्थं तयोः साध्यसाधन-भावादौ प्रमाणं नास्त्युतास्तीति । विरोधाभावात् साधनानुष्ठानजन्मन्येवापरोक्षज्ञानमिति न्यायविवरणानुसारेण पूर्वपक्षमाह– साधनसम्पूर्तीत्यादिना ॥ विरोधाभावादित्यंशस्याभिप्रायमाह– न चेत्यादिना ॥ प्रतिबन्धे सति तन्निरासने त्वरयैव सिद्ध्युपपत्तेरिति न्यायविवरणं व्याचष्टे– प्रारब्धकर्मसद्भावे जन्मान्तर इति ॥ तच्च दर्शनमैहिकमेव । प्रारब्धकर्मप्रतिबन्धाभाव इति भाष्यं व्याचष्टे– तदभावे त्वैहिकमिति ॥

भावदीपः

साधनसम्पत्तीति ॥ श्रवणादिसम्पत्तिजन्मन्येवेत्यर्थः ॥ अन्यथेति ॥ साधनसम्पत्तावपि ज्ञानोदयासाधन इत्यर्थः । एतेन पूर्वत्रौपदेशिकवाक्यार्थज्ञानादिरूपश्रवणादेरतिगोप्यत्वोक्तिरयुक्ता । तस्य द्रष्टव्य इति दर्शनरूपफलव्यभिचारेण हेयत्वादिति शङ्कोत्थानात्पूर्वसङ्गतिरपि सूचिता ॥ ज्ञानमेवेति ॥ न तु पूर्वत्रेव तत्सङ्गतमन्यदित्येवार्थः । विरोधाभावात् । साधनानुष्ठानजन्मन्येवा-परोक्षज्ञानमित्यन्यत्रोक्तप्रतिज्ञाहेतू व्यनक्ति ॥ साधनसम्पूर्तीति ॥ विरोधपदं कारणमात्रपर-मित्युपेत्याह ॥ कारणाभावादिति ॥ तथैवानुक्त्वा विरोधेत्युक्तौ तात्पर्यं विवरीतुं शङ्कामाह ॥ न चेति ॥ स्वर्गभोगस्य तज्जन्मावच्छेदेन विरोधात्तदनन्तरमेव यथा तथेहाप्यस्त्विति शङ्काभिप्रायः । तमेव व्यञ्जयन्वैषम्यमाह ॥ तस्येति ॥ अत इति ॥ सत्यां साधनसम्पत्तौ कार्यानुदये हेत्व-भावादित्यर्थः । ज्ञानस्यापरोक्षस्य । ऐहिकत्वेन तद्देहावच्छेदेनैवोत्पत्तिमत्त्वेनेत्यर्थः ॥ तदभावा-च्चेति ॥ तस्मिन्नेव जन्मन्युदयाभावाच्च तस्य ज्ञानस्य कदाप्यनुदय एवेत्यर्थः ।

इदमुक्तं भवति । अपरोक्षधीर्न कदाचिदुदेतुमर्हति । सत्यां साधनत्वेनाभिमतसामग्रीसम्पत्ता-वप्यनुदितत्वात् । यथा लोके नृशृङ्गादिकं तत्साधनतयानाप्तोक्तान्नभोजनादिसामग्री-सम्पत्तावप्यजायमानं न कदाचिदुदेतीति । तथा चैतां विद्यामधीत्य ब्रह्मदर्शीत्यादिप्रागुक्तमयुक्तं ज्ञानसामर्थ्योक्तिश्च सर्वाप्ययुक्तेति भावः । आत्मेत्यादिभाष्यं व्याचष्टे ॥ श्रुताविति ॥

ननु विहितमपि कथं युक्तम् । फलव्यभिचारादित्यतस्तच्चेत्यादि । ऐहिकमेवेत्यन्तं भाष्यशेषं न च साधनानुष्ठानजन्मन्येवापरोक्षज्ञानमिति नियम इति न्यायविवरणांशानुरोधेन शेषोक्त्या व्याचष्टे ॥ तच्चेति ॥ तच्चेत्यनुवादः । दर्शनमिति व्याख्या । भवेदेवं यदि यस्मिञ्जन्मनि साधनपूर्तिस्तस्मिन्नेव जन्मनि तत्फलोदय इति साधनविधिः श्रुत्यभिप्रायः स्यात्तर्हि तदभावात्तदनुदय एवेति त्वदुक्तफलव्यभिचारः स्यात् । न चैवम् । किं तु तस्मिञ्जन्मनि वा जन्मान्तरे वा तत्फलमवश्यं भवत्येवेत्यर्थः ॥ न चोक्तेति ॥ साधनपूर्तावपि कार्यानुदये कारणाभावादन्यदपि न स्यादित्युक्तदोष इत्यर्थः । प्रतिबन्धे सति तन्निरासेनात्वरयैवेत्य न्यत्रोक्तमेवोक्तशङ्कानिवर्तकत्वेन व्यञ्जयन् योजयति ॥ प्रारब्धेति ॥ प्रारब्धप्रतिबन्धाभाव इति भाष्यं योजयति ॥ तदभावे त्वैहिकमेवेति ॥ साधनपूर्तिमतीह जन्मन्येवोत्पत्तिमदित्यर्थः ॥ तत्कुत इति ॥ सति प्रतिबन्धे जन्मान्तरे अन्यथा त्विहैव ज्ञानोदय इत्येतदित्यर्थः । ‘ज्ञानं तु योग उद्दिष्टं युज्यते तेन यत्सुखम् । क्वचिद्योग उपायः स्यात्क्वचिच्चित्तनिरोधनम्’ इति स्मृत्यनुरोधेन वा भाष्ये वक्ष्यमाणस्मृत्यनुरोधेन वा योगशब्दार्थमाह ॥ श्रवणादिकमिति ॥ औपदेशिकवाक्यार्थज्ञानादिरूपश्रवणमननाद्यपेक्ष्येत्यर्थः ॥ ज्ञानैकेति ॥ यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते । यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते । य एतदेवं विद्वानित्यादेरिति भावः ॥ अत इति ॥ श्रुत्वाऽत्मानमित्यादिश्रुतिबलादित्यर्थः ॥ नोक्तेति ॥ तदनुदय एवेत्युक्तानुपपत्तिर्नेत्यर्थः ।

अभिनवचन्द्रिका

अत्रेश्वरेति ॥ अपरोक्षज्ञानस्य साधनसंपत्तिजन्मन्येव उदय इति नियमस्य औत्सर्गिकत्व-समर्थनादित्यर्थः । प्रतिबन्धकसद्भावे एतज्जन्मानुष्ठितसाधनेन जन्मान्तरे प्रतिबन्धकापाये ज्ञानं भवतीत्यस्यार्थस्य समर्थनादस्ति शास्त्रादिसङ्गतिरिति यावत् ॥ अन्यथेति ॥ साधनसम्पूर्तिजन्मनि अपरोक्षज्ञानानुत्पादस्य प्रतिबन्धकप्रयुक्तत्वाभावे इत्यर्थः ॥ किं साधनेति ॥ साधनसम्पूर्तिजन्मन्येव भवतीति अनौत्सर्गिकनियमसद्भावात्, प्रतिबन्धके प्राप्ते जन्मान्तरे न भवति, उत नियमस्यौ-सर्गिकत्वात् प्रतिबन्धकापाये जन्मान्तरे भवतीत्यर्थः ॥ साधनसम्पूर्तीति ॥ साधनसंपूर्तिजन्मन्येव अपरोक्षज्ञानं भवति । तदा प्रतिबन्धके प्राप्ते तत्साधनं षण्डमेव भवति । न पुनः कालान्तरे फलजनकम् । तद्यथा उप्तं धान्यं वृष्ट्यादिसकलसामग््रयामपि क्रिमिसञ्चारादिरूपप्रतिबन्धके प्राप्ते षण्डमेव भवति, न पुनः कालान्तरे फलजनकमिति पूर्वपक्ष इति भावः । ननु प्रतिबन्धक-वशात्साधनस्य षण्डतायां, माभूज्जन्मान्तरे ज्ञानोदयः, प्रतिबन्धकं विनैव तज्जन्मनि ज्ञानानुदये भवतु जन्मान्तरे ज्ञानोदय इत्यत आह– साधनसंपूर्तावपीति ॥ प्रतिबन्धकाभाव इति शेषः । न च स्वर्गादिवदिति ॥ यथा यागसंपूर्तिजन्मनि स्वर्गानुदयेऽपि जन्मान्तरे स्वर्गो भवति, तथा जन्मान्तरे ज्ञानोदयो भवतीति न वाच्यमित्यर्थः ॥ तस्यैतच्छ्रीरेणेति ॥ ज्योतिष्टोमादेरैहिकफलजनकत्वस्य क्काप्यदर्शनेन कालान्तरे फलजनकत्वं स्वभावः कल्प्यते । तथा च कालान्तरे फलजनकत्व-मुपपन्नमिति भावः ॥ न चात्रेति ॥ अत्र ज्ञाने, तादृशं कालान्तरभाविफलजनकत्वस्वभावोपेतं कारणं नास्ति, किन्तु ऐहिकफलजनकत्वस्वभावमेव श्रवणादिरूपं कारणमस्तीति भावः ॥ अत इति ॥

ज्ञानस्य ऐहिकत्वेन प्राप्तत्वात्, प्रतिबन्धवत इदानीमनुदयाज् जन्मान्तरेऽप्यनुदय एव, पण्डस्य फलजनकत्वायोगादिति भावः । एतेन साधनसम्पूर्तिजन्मन्येव ज्ञानं भवतीति प्रसाध्य, अनुदय एवेति सर्वथा तन्निराकरणमयुक्तमिति परास्तम् ॥ न चोक्तदोष इति ॥ प्रतिबन्धकवशात्साधनानां षण्डत्वापत्या, कदाप्यनुदय एवेति उक्तदोषो नेत्यर्थः ॥ प्रारब्धकर्मेति ॥ श्रवणादिप्रतिबन्धकं न षण्डत्वापादकम् । अपि तु तात्कालिककार्योत्पत्तिविरोधीति भावः । कुत एवं कल्प्यत इति पृच्छति– तत्कुत इति ॥ किंचिद् वर्णादिकमिति ॥ प्राचीनसाधनशक्त्युद्बोधनाय किञ्चि-च्छ्रवणादिकमपेक्षितमिति भावः । एतेन पूर्वजन्मनि साधनं परिपूर्णं, न वा । नेति पक्षे प्रारब्ध-प्रतिबन्धकल्पनायोगः । आद्ये जन्मान्तरे किंचित्साधनानुष्ठानवैयर्थ्यमिति परास्तम् ॥ ज्ञानस्यैहि-कत्वादिति ॥ प्रतिबन्धकाभावे ज्ञानस्यैहिकत्वादित्यर्थः ।

पूर्वपक्षस्तु– ज्ञानसाधनं कृष्यादिवदैहिकफलस्यैव हेतुः । ततः साधनसम्पूर्तिजन्मन्येव अपरोक्षज्ञानं कस्यचित्प्रतिबन्धकवशात्साधने दुष्टे न कदापि फलोदयः । षण्डबीजादिना कदापि फलानुदयदर्शनात् । न हि दुष्टं बीजं कालान्तरे फलहेतुरिति दृष्टमिष्टं वा । न च यागादिवदु-पपत्तिः । तस्य ऐहिकफलहेतुत्वाभावेन वैषम्यात् । अतो ज्ञानस्यैहिकत्वेन प्राप्तत्वात् कस्यचित्प्रतिबन्धकेन तदनुदये जन्मान्तरेऽपि अनुदय एवेति ।

सिद्धान्तस्तु– सत्यं श्रवणादिकमैहिकहेतुः, तथापि श्रवणादिसम्पूर्तिजन्मन्येव भवतीति न नियमः । किं तु प्रतिबन्धकसद्भावे जन्मान्तरेऽपि भवति ‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्य’ इति श्रुतेः । अनादिजन्मसम्बन्धमिति स्मृतेश्च । अतः प्रतिबन्धकाभावे ज्ञानस्यैहिकत्वात् । नोक्तानुपपत्तिरिति सिद्धम् ।

वाक्यार्थमुक्तावली

प्रतिबन्धाभाव इति ॥ साधनसम्पूर्तिजन्मन्येवोदय इति नियमस्यौत्सर्गिकत्वं, प्रतिबन्धे सति तु जन्मान्तरे प्रतिबन्धकापाये एतज्जन्मानुष्ठितसाधनेन ज्ञानं भवतीति समर्थनादिति भावः ॥ अन्यथेति ॥ साधनसम्पूर्तिजन्मन्येवेति नियमस्यातिदृढत्वमङ्गीकृत्य ज्ञानस्यैहिकत्वेन प्राप्त्यङ्गी-कारे प्रायशस्तदभावाच्छ्रवणादेरसाधनत्वेनापरोक्षज्ञानस्यानुदय एव । तथा च तन्माहात्म्यं दूरतो निरस्तम् । अव्यवहिताधिकरणे अनाविष्कारेण सम्पादितश्रवणादेरुक्तमपरोक्षसाधनत्वं न स्यादित्यतस्तदर्थनियमनस्यौत्सर्गिकत्वं वर्णनीयमिति शास्त्रादिसङ्गतिरनन्तरसङ्गतिरपीति भावः ॥ किमिति ॥ ज्ञानं किं श्रवणादिसाधनसम्पूर्तिजन्मन्येव भवतीति नियमस्यौत्सर्गिकत्वमुत नेति चिन्ता । तदर्थसाधनसम्पूर्तावपि ज्ञानानुदये कारणं प्रमाणं नास्त्युतास्तीति । सिद्धान्ते प्रारब्ध-प्रतिबन्धस्य नियमापवादकारणस्योपन्यासात्सूचितम् । विरोधहानिरित्युक्तन्यायं व्यनक्ति ॥ साधनेति ॥ कारणाभावादित्यस्यापवादकारणाभावात्, प्रमाकारणाभावाच्चेत्यर्थः ॥ तस्यै-तच्छरीरेऽपीति ॥ यागस्य स्वसाधनपात्राग्न्यादीनामाहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्यादेर्वि-नियुक्तसंस्काररूपान्त्येष्टिं विना विनियुक्तसंस्कारं च विना परिसमाप्तेरामुष्मिकस्वर्गफलकत्वेन स्वर्गस्यैतच्छरीरेऽप्यभोगायोगात् । एतच्छरीरस्य प्रतिबन्धकत्वाच्च । श्रवणादेः कृतनिखिलसहाय-स्येहैव साक्षात्कारजनकत्वसम्भवेन विना कारणविशेषं प्रमाणं चामुष्मिकफलकल्पनायोगादिति भावः । पूर्वाधिकरणे परोक्षज्ञानस्य तत्साधनश्रवणादेः प्रकृतत्वादत्र न तद्विचारः । किन्तु परमप्रकृतापरोक्षज्ञानस्येति प्रदर्शनाय दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमिति भाष्यमिति भावेन व्याचष्टे ॥ श्रुताविति ॥ तच्च दर्शनमिति चशब्दः प्रकृतत्वानुसन्धानार्थ इति भावः । इह जन्मनि भवम् ऐहिकं, प्रकृतं दर्शनमप्रस्तुतप्रतिबन्धे प्रारब्धप्रतिबन्धकाभावे ऐहिकमिह जन्मन्येवेति, न च जन्मान्तरे कुतः श्रुतावुक्तार्थस्य दर्शनादित्यर्थः ॥ पुनः किञ्चिदिति ॥ प्रतिबद्ध-प्राचीनशक्त्युत्तेजकतयेति भावः । एतेन पूर्वजन्मनि साधनं पूर्णं न वा । नेति पक्षे प्रतिबन्ध-कल्पनायोग आद्ये जन्मान्तरे किञ्चित्साधनानुमानवैयर्थ्यमिति निरस्तम् । एतेनात्त्वरया सिद्धिरिति न्यायः सति प्रतिबन्धके तदुत्तेजकसम्पादनेनाऽत्त्वरयापरोक्ष इति प्रदर्शितो भवति ।

तत्त्वसुबोधिनी

साधनसम्पत्तिजन्मन्येवेति ॥ पूर्वाधिकरणे अर्थलब्धस्यापरोक्षज्ञानपरोक्षज्ञानयोः साध्य-साधनभावस्येह समर्थनादनन्तरसङ्गतिरिति भावः ॥ उभयथेति ॥ साधनपूर्तिजन्मनि फलनिष्पत्तिः कृष्यादौ यागादौ च जन्मान्तर इति यथादर्शनमित्यर्थः । नन्वत्रापि किंचित्कारणं भविष्यतीत्यत आह– न चात्रेति ॥ तद्दर्शनमैहिकमेव प्रारब्धकर्मप्रतिबन्धकाभाव इति व्याचष्टे । तदभावे त्वैहिकमिति ॥

वाक्यार्थविवरणम्

अन्यथेति ॥ साधनसम्पत्तिजन्मन्यनुदये सतीत्यर्थः । ननु यागादिसाधनसम्पूर्ताविति स्वर्गादिरूपं फलं जन्मान्तरे भवति । तद्वदिह किं न स्यादित्याशङ्क्य निषेधति ॥ न चेति ॥ ऐहिकतया प्राप्तत्वादिति ॥ तदभावाच्चेति ॥ साधनसम्पूर्तिजन्मन्येव कदाचिदुत्पत्तेरदर्शनाच्चेत्यर्थः । यच्च तद्ब्रह्मदर्शनं च यद्ब्रह्मदर्शनम् । तदर्थम् । यच्च तत् श्रवणादि च यच्छ्रवणादि ॥ उक्तदोष इति ॥ साधनसम्पूर्तिजन्मन्यनुदये कदाप्यनुदय इत्युक्तदोष इत्यर्थः । इह जन्मन्येव साधनसम्पूर्ति-जन्मन्येव उत्पत्तव्यतया प्राप्तत्वादित्यर्थः । पापपञ्चरं निर्भेत्तुं यावत्या सेवया शक्यं तावत्सेवनं कार्यमित्युक्तम् । तदुपरि शङ्कते कथमिति ॥ सेवया कर्मरूपया ॥ पापपञ्चरेति ॥ पक्षिणो निर्बन्धेन यत्र स्थाप्यन्ते स मन्दासः पञ्जरशब्देनोच्यते । अतः पापानां पञ्जरं तत्स्थानीयं लिङ्गशरीरं पापपञ्जरशब्देन ग्राह्यम् ॥ इहेतीति ॥ इह जन्मान्तरे वाऽपि तावत्यैव सेवया दर्शनमेव भवेत् । न पापपञ्जरनिर्भेदः । तथा च नास्माभिः सेवया पापपञ्जरनिर्भेदरूपलिङ्गभङ्गः कथ्यते, किन्तु तत्साधनीभूतं ज्ञानमेवेति नोक्तदोष इति ॥ ज्ञानमिति ॥ पापपञ्जरनिर्भेदसाधनीभूतमपरोक्ष-ज्ञानमित्यर्थः ॥ सर्वत्रेति ॥ ‘अश्वत्थसेवा कर्तव्या पुत्रादिफलकाङ्क्षिणा’ इत्यादावित्यर्थः ॥ ज्ञानसाधनेति ॥ सेवया ज्ञानं भवतीति ज्ञानसाधनत्वेन यत्र सेवा कथ्यते तत्रैव श्रवणादित्रयं सेवाशब्दार्थ इत्युच्यत इति नोक्तदोष इति भावः ।

वाक्यार्थमञ्जरी

अन्यथेति ॥ प्रतिबन्धकाभावसहकृतसाधनसम्पत्तावप्यनुदय इत्यर्थः ॥ स्वर्गादिवदिति ॥ यागादिरूपसाधनसम्पूर्तावपि तस्यैतज्जन्मन्यलाभवदत्रापि तथेत्यर्थः ॥ तदभावादिति ॥ साधनसम्पत्तावपि इह जन्मनि ज्ञानोदयाभावादित्यर्थः ।

ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ अप्रस्तुतप्रतिबन्धे प्रस्तुतेन प्रारब्धकर्मणा प्रतिबन्धाभावे ज्ञानमैहिकम् इह जन्मन्येव भवति, न चेज्जन्मान्तरे भवति, कुतस् तद्दर्शनात् तस्योक्तार्थस्य श्रुत्वाऽत्मानमिति श्रुतौ दर्शनादित्यर्थः । उक्तदोषः कारणाभावरूपः ।

॥ इति ऐहिकाधिकरणम् ॥ १० ॥