०९ अनाविष्काराधिकरणम्

ॐ अनाविष्कुर्वन्नन्वयात् ॐ

९. अनाविष्काराधिकरणम्

सूत्रभाष्यम्

॥ ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ ४९ ॥

‘एतां विद्यामधीत्य ब्रह्मदर्शी वाव भवति । स एतां मनुष्येषु विब्रूयात् । यथा यथा ह वै ब्रूयात्तथा तथाऽधिको भवति’ इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्तेः । आविष्कारेऽयोग्यानामपि स्वीकारप्राप्तिः । तच्च निषिद्धम्—

‘मा नः स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।

येषां नैतन्नापरं किं च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित् ॥

‘अथो(प)शमेनोपरता मनुष्या ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।

आदेवानामोहते विव्रयो हृदि बृहस्पते न परः साम्नो विदुः’ इति

(ऋ.सं.२-२३-१६)

‘विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि ।

अनार्यकायानृजवे शठाय मा स्म ब्रूया ऋजवे ब्रूहि नित्यम्’ इति च ॥

तत्त्वप्रदीपिका

मातरश्रुतौ विद्यादानं कर्तव्यं श्रूयते । तच्चाधिकमधिकफलमुच्यते । यथा यथा बहूनां ब्रूयात्तथा तथाऽधिको भवतीति ह्यर्थः । अतो यथा बहवः स्वीकुर्युस् तथोपदेशेन भाव्यमित्याविष्कारेण जनसन्निधावुच्चैः कर्तव्यमिति तु न मन्तव्यम् । अनाविष्कारस्यैव युक्तत्वात् ।

‘मा नः स्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।

येषां नैतन्नापरं किञ्चनैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित् ॥

अथो शमेनोपरता मनुष्या ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।

आदेवानामोहते विव्रयो हृदि बृहस्पते न परस्साम्नो विदुः’

इत्यृचोऽर्थः श्रीमन्महैतरेयोपनिषद्भाष्योक्तः– ‘अभिद्रहस्पदे अभितो द्रोहस्य नित्यनिरतिशय-दुःखस्य अन्धन्तमसो योग्याः ।

‘ऐकात्म्यं नाम यदिदं केचिद्ब्रूयुरनैपुणाः ।

शास्त्रतत्वमविज्ञाय तथावादबला जनाः ॥

कामक्रोधाभिभूतत्वादहङ्कारवशङ्गताः ।

याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥

ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः ।

वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥

तेषां तमःशरीराणां तम एव परायणम्’ इति

मोक्षधर्मे भगवद्वचनादेवंविधा एव स्तेना अभिद्रुहस्पदस्थाश्च । रामस्य रमणरूपस्य पूर्णानन्दस्वरूपस्य विष्णोर्जीवस्वरूपतादिज्ञानेन नीचताविदः, अत एव रिपवश्च तस्य ।

‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।

परम्भावमजानन्तो मम भूतमहेश्वरम् ॥

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता’ ॥

इत्यादिवचनादसुरादयो ऽन्नेषु जागृधुर् भोगमात्रगृध्नवः । येषामेतत्सर्वोत्तमं वासुदेवाख्यं परं ब्रह्म नास्तीति पक्षः । ईशितव्ये विद्यमाने हीश्वरो भवतीति । न चापरं किञ्चित्परमापेक्षया ह्यपरमिति । किं तर्हि किञ्चनैकं किमप्येकमेव वस्त्वस्ति न परमपरञ्चेति तेषां पक्षः ।

‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी’ इत्यादिवचनात् ।

ब्रह्मणस्पते ब्रह्मणो वेदस्य पते वायो ‘अथ हे ममासन्यं प्राणमूचुरेष उ एव ब्रह्मणस्पतिर्वाघ्घि बृहती’ इत्यादिश्रुतेः । एतादृशेभ्यो मा ब्रूहि, शमेन विष्णुनिष्ठया उपसमीपे तस्मिन्नेव रताः साम्नो विष्णोः परं किमपि न विदुः । तदेव देवानां व्रयः सर्वदेवानां वरतमं विष्ण्वाख्यं ब्रह्म हृदा व्योहते वासुदेवादिरूपेण, वरं नियामकं चेतिव्रयः, तेभ्यो ब्रूहि ।

‘वायुं विद्याः समासाद्य सर्वासाम्पतिमूचिरे ।

स्तेनेभ्यो मैव नो ब्रूहि ब्रूह्यथो वैष्णवेषु च’ इत्यैतरेयसंहितायाम् ॥

‘सामनाम्ना श्रुतिर्यस्माद्विष्णुमाह ततः प्रियम् ।

तन्नाम विष्णोरिह तु संहितार्थं वदेद्यत’ इति च’ इति ॥

बृहस्पतिशब्दश्च वायौ प्रसिद्धः । तं प्रस्तुत्य हि श्रुतिराह ‘एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहस्पतिः, तस्या एष पतिस्तेन’ इति ॥

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनज्ञानस्यातिगोप्यत्वमहिम्नः समर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथाऽतिशयाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतापरोक्षज्ञानसङ्गतं परोक्षज्ञानमत्र विषयः । तत्किमाविष्कारेणोपदेष्टव्यं न वेति सन्देहः । उभयथासम्भवः सन्देह बीजम् । आविष्कारेणेति पूर्वः पक्षः । आविष्कारेणैवोपदेशेऽशेषज्ञानयोग्यानां ज्ञानलाभसम्भवाद् बहूनामुपदेशे चोपदेष्टुः फलाधिक्यसिद्धेः । ‘यथा यथा ह वै ब्रूयात्तथा तथाऽधिको भवति’ इति श्रुतेः । अत आविष्कारेण ज्ञानस्योपदेष्टव्यत्वात्तस्य रहस्यत्वातिशयो न सिध्यतीति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ अनाविष्कुर्वन्निति ॥ यतः श्रुतौ विद्यादानस्याधिक्यानुसारेण फलप्रदमुच्यतेऽतोऽधिकफलार्थं बहूनां स्वीकरणाय तदाविष्कारेण कार्यमिति न मन्तव्यम् । किं त्वनाविष्कुर्वन्नेवोपदिशेदित्येतत्कुत इत्यतः सौत्रं हेतुमुपादाय व्याचष्टे ॥ अन्वयादिति ॥ कासावुपपत्तिरित्यत आह ॥ आविष्कार इति ॥ भवेदेतद् यद्याविष्कारेणोपदेशे योग्यानामेव ज्ञानप्राप्तिर्भवेत् । न चैवम् । सभाचत्वरादावुपविश्योप-देशेऽयोग्यानामपि तत्प्रसङ्गादिति भावः । नन्वयोग्यानां ग्रहणप्रसङ्गेऽपि कुतोऽनाविष्कारेण वाच्यमित्यत आह ॥ तच्चेति ॥ तच्चायोग्येभ्यः कथनम् । एतद्वायुं प्रति विद्यादेवतानां प्रार्थनम् । येऽभितो द्रोहास्पदेऽन्धे तमसि स्थातुं योग्या रामविरुद्धास्तत एव तस्य रिपवो भोगेष्वेवाकाङ्क्षावन्तो येषामेतत्परं ब्रह्म तदवरं जगच्च नास्ति । किं तु किञ्चन एकं निर्गुणं ब्रह्म अनिर्वाच्यं च जगत्तेभ्यः स्तेनेभ्योऽस्मान्मा ब्रूहि । किं नाम ये विष्णुनिष्ठतया तस्मिन्नेव रता ये च देवानां वरत्वे सति नियामकं ब्रह्म हृदि वहन्ति ततः परं च न विदुस्तेभ्यो ब्रूहीत्यर्थः । ब्राह्मणं वायुम् । शेवधिर्निधिः । तितिक्षवः कारुणिका इत्याद्यार्यलक्षणरहितोऽनार्यकः । ऋजव इत्यार्यकाद्युपलक्षणम् । अविपरीतचित्तादिप्रवृत्तिमानृजुः । अतोऽनाविष्कारेण ज्ञानस्योपदेष्टव्यत्वाद्युक्तस्तस्यातिशय इति सिद्धम् ।

गुर्वर्थदीपिका

अन्यथातिशयाभावप्रसङ्गादित्यत्र अतिशयितवस्तूनां रत्नादीनां लोके गोपनदर्शनादिति भावः । रहस्यत्वातिशय इत्यत्र रहस्यत्वेनेतरविद्याभ्योऽतिशयो यो भवदभिमतस् तदसिद्धेरित्यर्थः । द्रोहास्पद इति वदता अभितः द्रुहः द्रोहः पदे स्थान इति पदविभागस्सूचितः । भोगेष्वाकाङ्क्षावन्त इति वदता ये अन्नेषु अन्नदिभोगेषु ‘गृध आकाङ्क्षायाम्’ इति धातोर् जगृधुराकाङ्क्षां चक्रुरित्यर्थः सूचितो भवति । विष्णुनिष्ठतयेति वदता ‘शमो मन्निष्ठता बुद्धेः’ इति वाक्यं सूचितम् । ‘मानस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः’ इति पूर्वार्धस्य ‘आ देवानामोहते विव्रयो हृदि बृहस्पते न परस्साम्नो विदुः’ इत्युत्तरार्धस्य च मध्ये ‘येषां नैतन्नापरं किञ्चनैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित् । अथो शमेनोपरता मनुष्या ये धर्मिणो ब्रूहि तेभ्यस्सदा न’ इति ऋक्परिशिष्टखिलवेदवाक्यम् । अत उभयोरेकवाक्यतया योजना । अन्यथा क्रियाभावेन वाक्यम-परिपूर्णं स्यात् । ‘वृञ् वरणे’ इति धातोः ‘या प्रापणे’ इति धातोश्चासुन्प्रत्यये कृते व्रय इति पदसिद्धिमभिप्रेत्योक्तं देवानां वरत्वे सति नियामकमिति विविशेषेणेति शेषः । एवं ‘पृ पालने’ इति धातोः कर्त्रर्थे असुन्प्रत्यये कृते ऋकारस्य चाकाराख्यगुणादेशे तस्य च ‘उरण् रपर’ इति सूत्राद् रपरत्वे च कृते परस् इति सकारान्तपरःशब्दसिद्धिरित्यस्य फलितमाह ॥ परं चेति ॥

भावबोधः

अतिगोप्यत्वमहिम्न इति ॥ पूर्वाधिकरणे कर्मणा ज्ञानस्यातिशयाभिप्रायेण कर्माधिकारिभ्यो गृहस्थेभ्यो ज्ञानाधिकारिणां यतीनामुत्तमत्वमुक्तम् । तत्र यदि ज्ञानमुत्तमं तर्हि तद्दानप्रयुक्तफलाधि-क्यार्थमाविष्कारेणोपदेशः स्यादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । तत्किमित्यादि । अत्र परोक्षज्ञानं किमाविष्कारेणोपदेष्टव्यमुतानाविष्कारेणेति चिन्ता । तदर्थमाविष्कारेणोपदेशेऽपि किं बह्वनुग्रहो युज्यत उत न युज्यत इति । तदर्थमयोग्योपदेश अनर्थहेतुर्न भवत्युत भवतीति । तदर्थ-मयोग्योपदेशस्यानर्थहेतुत्वे प्रमाणं नास्त्युतास्तीति । तच्चाविष्कारेणेति भाष्यं, आस्थानचत्वरादिषु स्थित्वैव प्रकथनीयमिति न्यायविवरणं च मनसि निधाय पूर्वपक्षमाह– आविष्कारेणेतीति ॥ बहूनां स्वीकारार्थमिति, भाष्यमाविष्कारेण कथनादशेषतोऽपि योग्या ज्ञानिनो भवन्तीति न्यायविवरणानु-सारेण व्याचष्टे– आविष्कारेणेति ॥ न ह्येवं त्वरमाणे सिद्धिर्भवतीति न्यायविवरणं मनसि निधायाह– भवेदिति ॥ सभाचत्वरादाविति । आविष्कारे अयोग्यानामपीति भाष्यव्याख्यान-परेणानेन अयोग्यानामपि श्रवणप्रसङ्गादिति न्यायविवरणमपि व्याख्यातं भवति । ‘सा च’ इति वक्तव्ये ‘तच्च’ इति कथमुक्तमित्यत आह– अयोग्येभ्यः कथनमिति ॥ एतद्वायुं प्रतीति । ‘ब्रह्मणस्पते’ इति, वायुवाचकब्रह्मणस्पतिशब्देन सम्बोधनादिति भावः ॥ विद्यादेवतानां प्रार्थनमिति ॥ ‘नो मा ब्रूहि तेभ्यः सदा नः’ इति श्रवणादिति भावः ॥

‘रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।

अभिद्रोहास्पदे नित्यमन्धे तमसि ते स्थिताः ॥’

इत्यनुव्याख्यानं मनसि निधाय श्रुत्यर्थमाह– येऽभित इत्यादिना ॥ यद्यप्यत्र भाष्योदाहृत-ऋग्द्वये पूर्वोत्तरार्धयोरेव पाठः सांव्यावहारिकस् तथापि ‘मानस्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थत’ इति ऋग्भाष्योक्तरीत्या मध्यगतैकाऋक्पठ्यमानावान्तरवेदे अन्तर्हितेति ज्ञातव्यम् । अभिद्रुहस्पदे अभितो द्रोहस्य नित्यनिरतिशयदुःखान्धंतमसो योग्या इत्यैतरेयभाष्यं मनसि निधायाह– येऽभितो द्रोहास्पदेऽन्धेतमसि स्थातुं योग्या इति ॥ रामस्य रमणरूपस्य पूर्णानन्दस्वरूपस्य विष्णो-र्जीवस्वरूपतादिज्ञानेन नीचताविद इति ऐतरेयभाष्यं मनसि निधाय ‘निरामिणः’ इत्यस्य तात्पर्य-माह– रामविरुद्धा इति ॥ त एव रिपवश्च तस्येति तद्भाष्यं मनसि निधायाह– तत एव तस्य रिपव इति ॥ अन्वेषु जागृधुः । भोगमात्रगृध्रव इति तद्भाष्यं मनसि निधायाह– भोगेष्वेवा-काङ्क्षावन्त इति ॥ तेषामेतत्सर्वोत्तमं वासुदेवाख्यं परं ब्रह्म नास्तीति पक्षः । ईशितव्ये विद्यमाने हीश्वरो भवति । न चापरं किञ्चित् । परमापेक्षया ह्यपरमिति । किं तर्हि किञ्चनैकं किमप्येकं वस्त्विति । न च परमपरं चेति तेषां पक्ष इत्यैतरेयभाष्यं मनसि निधायाह– येषामेतत् परं ब्रह्मेत्यादि ॥ स्तेनेभ्य इति ॥ ब्रह्मस्तेनेभ्य इत्यर्थः । ‘ब्रह्मस्तेना निरानन्दाः’ इत्युक्तेरिति भावः । शमेन विष्णुनिष्ठया तस्मिन्नेव रता इति तद्भाष्यं मनसि निधायाह– ये विष्णुनिष्ठया तस्मिन्नेव रता इति ॥ तदेव देवानां व्रयः सर्वदेवानां परतमं विष्ण्वाख्यं ब्रह्म हृदा व्योहते वरं नियामकं चेति व्रय इति तद्भाष्यं मनसि निधायाह– देवानां वरत्वे सति नियामकं ब्रह्मेति ॥ वरं ‘व्रम्’ वकारस्थाकारलोपात् । यातेः कप्रत्यये ‘यं’ नियामकं ‘व्रं’ च तत् ‘यं’ चेति विग्रहः । छान्दसो लिङ्गव्यत्यास इति भावः । साम्नो विष्णोः परं किमपि न विदुरिति तद्भाष्यं मनसि निधायाह– ततः परं च न विदुरिति ॥

भावदीपः

ज्ञानस्येति ॥ परोक्षज्ञानस्येत्यर्थः । तस्याप्यपरेक्षद्वारा ब्रह्मप्राप्तिहेतुत्वाद्विद्यैव त्वित्युक्तेरिति भावः ॥ अतिगोप्यत्वेति ॥ आविष्कारे फलाधिक्यमिति शङ्कानिरासेनेति भावः । पूर्वं बहुकालीनसिद्धिमत्वेन फलाधिक्योक्तौ तर्हि बहुपुरुषसम्बन्ध्युपदेशकर्तुरपि फलाधिक्यशङ्कनात्पूर्व-सङ्गतिरिति भावः । परोक्षज्ञानस्यात्र पादेऽप्रकृतत्वाद्विद्यामधीत्य ब्रह्मदर्शीति भाष्यसूचितमाह ॥ प्रकृतेति ॥ भाष्योक्तप्रतिज्ञामाह ॥ आविष्कारेणेति ॥ तच्चेत्यादिभाष्यलब्धार्थमाह ॥ आविष्कारेणोपदेश इति ॥ अशेषतोऽपि योग्या ज्ञानिनो भवन्तीत्यन्यत्रोक्त्यनुरोधेन बहूनामित्यस्यार्थमाह ॥ अशेषज्ञानयोग्यानामिति ॥ उक्तहेतोरप्रयोजकत्वनिरासाय यथायथेत्यादि-श्रुतिशेषभावमाह ॥ बहूनामिति ॥ एतेन बहूनां योग्यफलानां स्वीकारार्थमिति भाष्यार्थो दर्शितः । न्यायविवरणे चाशेषतो अशेषा योग्याः पुरुषार्था ज्ञानिनो ज्ञानवत उपदेष्टुरिति यावत् । भवन्तीत्यर्थ इति भावः ॥ अत इति ॥ फलाधिक्यभावादित्यर्थः । भाष्यं योजयति ॥ यत इति ॥ कथं तर्हि विद्यादानमित्यतः सौत्रपदमेवानुकरोति ॥ किं त्वनाविष्कुर्वन्नेवेति ॥ युक्तिशब्दार्थानु-वाद उपपत्तिरिति । नन्वेतावता प्रागुक्ताविष्कारसाधकयुक्तेः का गतिरित्यतस् तर्कपराहतत्वादा-भासतैवेति भावेन प्रागुक्तं तावदनुवदति ॥ भवेदेतदिति ॥ फलाधिक्यमित्यर्थः । न ह्येवं त्वरमाणे सिद्धिर्भवतीत्यन्यत्रोक्तवाक्यं हृदि कृत्वाऽऽह ॥ न चैवमिति ॥ अयोग्यानामपि श्रवणप्रसङ्गा-दित्यन्यत्रोक्त्यनुरोधेन भाष्यं हेतुत्वेन व्याचष्टे ॥ सभेति ॥ नपुंसकोपपत्त्यर्थमाह ॥ अयोग्येभ्यः कथनमिति ॥ एतेन सभाचत्वरादौ स्थित्वोपदेशेऽप्ययोग्यानां सर्वथापि तु त एवेत्यत्रोक्तदिशा ज्ञानप्राप्तिरेव न सेत्स्यतीति प्रत्युक्तम् । तेभ्यः कथनस्यैव निन्दितत्वात् । कथं तर्हि विरिंचे-र्विरोचनायोपदेशः । विधिर्वा धारणवदित्यत्रोक्तदिशा विरिञ्चेरप्रत्यवायात् । संमुग्धतयोपदेशाच्च । सभादौ स्थित्वा विविच्योपदेशे अयोग्यस्यापि व्युत्पन्नस्य ज्ञानोदयावश्यंभावाच्च । अत एव सूत्रे अनाविष्कारपदप्रयोग इति भावः । भाष्योक्तऋग्द्वस्य प्रकृतोपयोगसूचनाय न इत्याद्यस्मच्छब्दादे-रर्थमाह ॥ एतदिति ॥ वक्ष्यमाणमित्यर्थः । विद्या ह वै ब्राह्मणमाजगामेति श्रुतेः । ‘वायुं विद्याः समासाद्य सर्वासां पतिमूचिर’ इति स्मृतेरिति भावः । सप्तमेऽध्याये ऐतरेयभाष्योक्तदिशा श्रुत्यर्थमाह ॥ येऽभित इत्यादिना ॥ रामेति ॥ रमणरूपस्य पूर्णानन्दस्य विष्णोर्जीवस्वरूपता-ज्ञानेन नीचताविद इत्यर्थः । रिपवो ये तु रामस्य विमुखत्वान्निरामिण इत्यनुभाष्योक्तेश्चेति भावः । अन्नेषु जागृधुः । भोगमात्राकाङ्क्षावन्तः परं सर्वोत्कृष्टं वासुदेवाख्यमित्यर्थः । ब्रह्मणस्पते वायो इत्युक्तप्रायम् । वायुं प्रति प्रार्थनमित्युक्तत्वादिति भावः । व्यवहितपदानामन्वयेनार्थमाह ॥ तेभ्यः स्तेनेभ्य इति ॥ नो अस्मान् । तर्ह्यवचने वैयर्थ्यं वः किं नेति भावेन पृच्छति ॥ किं नामेति ॥ प्रसिद्धत्वाद्भाष्येऽपठितस्यापि आदेवानामोहते विव्रयो हृदि बृहस्पते न परः साम्नो विदुरित्युत्तरार्धस्यार्थमाह ॥ ये चेति ॥ विव्रय इत्यस्यार्थो वरत्व इत्यादि । व्योहते वहन्तीत्यर्थः । साम्न इत्यस्य तत इति । ब्रह्मत इत्यर्थः । अत्र ऋग्द्वये मध्यतनार्धद्वयस्येदानीं पठ््यमानशाखाया-मपाठे बीजं मानस्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थत इत्यादिऋभाष्यतट्टीकयोर्व्यक्तम् ॥ विद्येतिमन्त्रे पदानामर्थमाह ॥ ब्राह्मणमिति ॥ तितिक्षव इति ॥

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।

अजातशत्रवः शान्ताः साधवः साधुभूषणाः ।

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।

मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः । मदाश्रयाः कथा दृष्टा इत्यादितृतीयस्कन्ध-षड्विंशाध्यायोक्तसाधुजनलक्षणहीना इत्यर्थः ॥ अत इति ॥ आविष्कारेणोपदेशेऽयोग्यानामपि ग्रहणप्रसङ्गादित्यर्थः ।

अभिनवचन्द्रिका

अत्र भगवत्प्राप्तीति ॥ भगवत्प्राप्तिसाधनपरोक्षज्ञानजनकविद्याया अपरोक्षज्ञानातिशयसिद्धये अतिगोप्यत्ववर्णनादित्यर्थः ॥ परोक्षज्ञानमिति ॥ परोक्षं वस्तु ज्ञायतेऽनेनेति व्युत्पत्त्या परोक्ष-ज्ञानशब्दः परोक्षज्ञानहेतुवेदविद्यावचन इति बोध्यम् ॥ अत इति ॥ विद्याया आविष्कारेणोप-देष्टव्यत्वात् परोक्षापरोक्षज्ञानयो रहस्यत्वातिशयो न सिध्येदित्यर्थः । ‘मानस्तेनेभ्य’ इति मन्त्रार्थमाह– येऽभित इति ॥ यद्यपि अत्र भाष्योदाहृतद्वये पूर्वोत्तरार्धयोरेव पाठः सांव्यवहारिकः, तथापि ‘मानस्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थतः’ इति ऋग्भाष्योक्तरीत्या मध्यगतैका ऋक् पठ्यमानाऽवान्तरवेदेऽन्तर्हितेति ज्ञातव्यम् ।

पूर्वपक्षस्तु– अपरोक्षज्ञानहेतुपरोक्षज्ञानसिद्धये आविष्कारेणैव वेदविद्या उपदेष्टव्या । सभाचत्वरादावुपविश्य विद्योपदेशे अशेषज्ञानयोग्यानां ज्ञानलाभसिद्धेः । आवश्यकश्च बहूपदेशः । ‘यथा यथा ह वै ब्रूयात् तथा तथाऽधिको भवतीति’ श्रुतेः । अत आविष्कारेणोपदेष्टव्यत्वात् तस्य रहस्यत्वातिशयो न सिध्येदित्यर्थः ।

सिद्धान्तस्तु– अनाविष्कारेण विद्योपदेशः कार्यः । आविष्कारेणोपदेशे अयोग्यानामपि ज्ञानप्रसङ्गात् । न च तदिष्टम् । ‘विद्या ह वै ब्राह्मणमाजगाम’ इति तन्निषेधात् । अतोऽना-विष्कारेण ज्ञानस्योपदेष्टव्यत्वाद् युक्तस्तस्यातिशय इति सिद्धम् ।

वाक्यार्थमुक्तावली

अन्यथाऽतिशयाभावप्रसङ्गादिति ॥ कर्मवदाप्यते इति पूर्वाधिकरणे कर्मप्रचुरेभ्यो गृहस्थेभ्यो ज्ञानप्रचुराणां यतीनामुत्तमत्वोक्त्योपपादितातिशयाभावप्रसङ्ग इत्यर्थः । यद्यप्येवमनन्तरसङ्गति-स्सर्वैरप्यधिकरणैः शक्यते वक्तुं तथापि पूर्वेऽधिकरणे शुचौ देशे स्वाध्यायमधीयानः सभाचत्वाराद्यशुचिदेशपरित्यागेन विविक्तदेशेऽध्यापनस्योक्तत्वादिह तदाक्षेपेण समाधानाय विशिष्य पूर्वानुबन्ध इति मन्तव्यम् ॥ तत्किमिति ॥ ज्ञानमाविष्कारेणोपदेष्टव्यमुतानाविष्कारेणेति चिन्ता । तदर्थम् आविष्कारेणोपदेशे ज्ञानयोग्यानामेव ज्ञानमुपदेष्टुश्च बहूपदेशेन फलाधिक्यं च सिद्ध्यत्युत न सिद्ध्यतीति । अत्राप्यापूर्णविशेषयोग्यतेत्युक्तमेव न्यायं प्रदर्शयन् बहूनां स्वीकारार्थमाविष्कारेणेति भाष्यं व्याचष्टे ॥ आविष्कारेणेति ॥ आस्थानचत्वरादिषु स्थित्वोच्चैश्चोपदेश इत्यर्थः । तदुक्तं न्यायविवरणे न चाविष्कारेण कथनादशेषतोऽपि योग्या ज्ञानिनो भवन्तीत्यास्थानचत्वरादिषु स्थित्वैव प्रकथनीयमिति । तत्त्वप्रदीपे च आविष्कारेण जनसन्निधावुच्चैश्च कर्तव्यमिति । न चैवं श्रोत्रप्रयोजनसद्भावादाविष्कार उपदेष्टुश्च तत्सद्भावादिति भावेन यथा यथा ह वै ब्रूयात्तथा तथाऽधिको भवतीति श्रूयते । अत आधिक्याय बहूनां स्वीकारार्थमाविष्कारेणेति भाष्यं व्याचष्टे ॥ बहूनामिति ॥ भाष्ये तच्चेति चशब्दो यत इत्यर्थ इति भावेन व्याचष्टे ॥ यत इति ॥ श्रुतौ विद्यादानं श्रूयते इत्येतदध्याहारपूर्वं व्याचष्टे ॥ श्रुताविति ॥ अधिकफलार्थतामित्यध्याहारः । सूत्रे उपदिशेदिति शेषः । अनाविष्कुर्वन्नुपदिशेदिति कुतः, अन्यथा उपपत्तेः कासावुपपत्तिरित्यतोऽ-न्वयादित्युक्तम् । अयोग्यानामपि ज्ञानान्वयप्रसङ्गगादित्यर्थः । तस्माद्विचार्य योग्यानामत्वरयैव कथितत्वात्स्थितस्य सिद्धिर्भवतीति ज्ञानाविष्कारेणोपदेष्टव्यमिति भावः । एतेनैवात्वरयापि सिद्धिरिति न्यायोऽपि दर्शितः । तच्चायोग्येभ्यः कथनमिति प्राप्तेः कथितत्वेऽपि श्रुतौ मा ब्रूहीति कथननिषेधात्प्रापणलक्षणं कथनमेव परामृश्यत इति भावः । वायुं विद्यास्समासाद्य सर्वासां पतिमूचिरे । स्तेनेभ्यो मैव नो ब्रूहि ब्रूह्यथो वैष्णवेषु चेति प्रमाणं मनसि निधाय ब्रह्मणस्पत इति केन कः प्रार्थ्यत इत्यत आह ॥ एतद्वायुमिति ॥ ब्रह्मणो वेदस्थपते वायो सम्बुध्यर्थ इति भावः । प्राणमूचिरे एव उ एव ब्रह्मणस्पतिरिति श्रुतेः ॥ अभितो द्रोहस्येति ॥ विष्णुवैष्णवद्रोहफलस्य नित्यनिरतिशयदुःखस्येत्यर्थः ॥ रामविरुद्धा इति ॥ रमणरूपत्वाद्रामो भगवान् स्वामीति ज्ञानमस्तीति रामिणो भगवदुत्तमत्वज्ञानिः । निर् इत्युपसर्गस्य निषेधार्थत्वादुत्तमत्त्वज्ञानिनो न भवन्ति प्रत्युत तन्नीचतायाविरुद्धत्वात्तद्विरोधिन इति यावत् । उक्तं चैतरेयभाष्ये रामस्य रमणरूपस्य विष्णोर्जीवस्वरूपतादिज्ञानेन नीचतादिविदः ॥ अत एव रिपवस्तस्येति ॥ किञ्च किमपि यत्किञ्चिन्निर्गुणमिति यावत् । नैकम् एकविधं न । सदसद्विलक्षणमनिर्वाच्यमिति यावत् । अथेत्यस्यार्थः किंनामेति । उपशमेनेत्यस्यार्थो विष्णुनिष्ठयेति । उत्कृष्टत्वादुशब्दवाच्यो हरिः, शमस्तन्निष्ठा बुद्धिरिति यावत् । व्रय इत्यस्यार्थो वरत्वे सति नियामकमिति । आ ओहत इत्यस्य तात्पर्यं वहतीति । साम्नः सामत्वात्सामनाम्नः, विष्णोरित्यस्यार्थस्तत इति व्याप्त इति यावत् । पर इत्यस्य प्रतिपदं वरमिति । अत्र बृहस्पतिपदेन वायुरुच्यते बृहती तस्या एष पतिरिति श्रुतेः । यद्यपि मानस्तेनेभ्य आ देवानामोहत इत्यर्धर्चयोर्मध्ये एषां नैतन्नापरामिति ऋगवान्तरवेदेऽन्तर्हिता तथापि भगवताऽर्थसङ्गत्यर्थं मूलवेदपाठानुसारेण पठितेति ज्ञेयम् । तदुक्तम् ऋग्भाष्ये । मानस्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थत इति । विद्या ह वेत्यादिश्रुत्यन्तरम् । ननु तितिक्षाकारुण्यविरहिताय विद्यां न ब्रूहीत्युक्त्वा कस्मै विद्योपदेष्टव्येत्याकाङ्क्षायां तितिक्षादिगुणयुक्तायेति वक्तव्ये ऋजव इति ऋजुत्वमात्रमुपदेशप्रयोजकतया कथमुच्यत इत्यत आह ॥ ऋजव इतीति ॥

तत्त्वसुबोधिनी

अतिगौप्यत्वमहिम्न इति ॥ पूर्वाधिकरणे कर्मणो ज्ञानस्यातिशयाभिप्रायेण कर्माधिकारिभ्यो गृहस्थेभ्यो ज्ञानाधिकारिणां यतीनामुत्तमत्वमुक्तम् । तत्र यदि ज्ञानमुत्तमं तर्हि तद्दानप्रयुक्त-फलाद्यर्थस्याविष्कारेण उपदेशः स्यादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । अस्तु ज्ञानलाभस् ततः किमत आह ॥ बहूनामिति ॥ सा चेति वक्तव्ये तच्चेति कथमुक्तमित्यत आह ॥ अयोग्येभ्यः कथनमिति ॥ एतद्वायुं प्रतीति । ब्रह्मणस्पत इति वायुवाचकस्य ब्रह्मणस्पते इति सम्बोधनादिति भावः ॥ विद्यादेवतानां प्रार्थनमिति ॥ ‘नमो ब्रूहि तेभ्यः सदा न’ इति श्रवणादिति भावः । अप्रतीतार्थत्वात् श्रुत्यर्थमाह ॥ येऽभित इत्यादिना ॥ यद्यप्यत्र भाष्यो-दाहृतग्रन्थद्वये पूर्वोत्तरार्धद्वयोरेव पाठः सांव्यावहारिकः । तथापि मानस्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थत इत्युक्तम् । भाष्योक्तरीत्या मध्यमे एका ऋक् पठ्यमाना चान्तवेदेऽन्तर्हिते विज्ञातव्यम् । अभितो द्रुहस्पदे अभितो द्रोहस्य नित्यनिरतिशयदुखःस्यान्धतमसो योग्या इति एैतरेयभाष्यं मनसि निधायाह ॥ योऽभितो द्रोहास्पद इति ॥ रामस्य रमणरूपस्य पूर्णानन्दस्य विष्णोर् जीवस्वरूपतादिज्ञानेन नीचताविद इत्यैतरेयभाष्यं मनसि निधायाह ॥ रामविरुद्धा इति ॥ अन्नेषु जागृधुरिति भोगमात्रगृद्धव इति भाष्यं मनसि निधायाह ॥ भोगेष्विति ॥ येषामेतत्सर्वोत्तमं ब्रह्म नास्तीति पक्ष ईशितव्ये विद्यमाने हीश्वरो भवति न चापरं किं चित्परमापेक्षया परमिति किं तर्हि किं च नैकं किमप्येकं वास्तीत्यैतरेयभाष्यं मनिसि निधायाह ॥ ऐषामेतदिति स्तेनेभ्य इति ॥ ब्रह्मस्तेनेभ्य इत्यर्थः । ब्रह्मस्तेना इत्युक्तेरिति भावः । देवानां व्रयः ब्रह्महृदा व्योहते वरं नियामकं चेत्यर्थमनुसन्धायाह ॥ देवानामिति ॥ वरं व्रकारस्याकारलोपात् । यातेः कप्रत्यये यमयति तद् यमिति यं नियामकं व्रंच तद्यं चेति विग्रहः । छान्दसो लिङ्गव्यत्यास इति भावः । साम्नो विष्णोः । परं न किमपि विदुरित्यर्थमभिप्रेत्याह ॥ ततः परं न विदुरिति ॥

वाक्यार्थविवरणम्

आविष्कारेणेत्यत्र उपदेष्टव्यमिति वर्तते । अशेषाश्च ते ज्ञानयोग्याश्च तेषाम् अशेषज्ञान-योग्यानाम् । योग्यानामेव ॥ ग्रहणेति ॥ ज्ञानेत्यर्थः । अत्र ‘मानस्तेनेभ्यः’ ‘आ देवानाम्’ इति । एतयोर्मध्ये ‘येषां नैतत्’ ‘अथोपशमेन’ इति अर्धर्चद्वयमन्तरितं सर्वज्ञाचार्यैः पठितम् । मानस्तेनेति पूर्वासु न्यूनता दृश्यते अर्थत इति ऋग्भाष्यवचनादित्यपि ज्ञातव्यम् । एतत्सर्वोत्तमं वासुदेवाख्यं परं ब्रह्म नास्तीत्यर्थः । कुत इत्यत ईशितव्ये विद्यमान एवेश्वरो भवति । अतस्तदवरं जगच्च नास्तीत्यर्थः । किं तर्हि किञ्च नैकं वस्त्वस्ति । न च परमपरं च’ इति ऐतरेयभाष्यं मनसि निधायाह ॥ किन्त्वित्यादि ॥ स्तेनेभ्यः ब्रह्मस्तेनेभ्यः । ओहते व्योहते इत्यस्य तात्पर्यं वदन्तीति । धारयन्ति ध्यायन्तीति यावदित्यर्थः ॥ निधिरिति ॥ सुखनिधिरित्यर्थः ।

वाक्यार्थमञ्जरी

अधिको ऽधिकफलवान् ॥ ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ अनाविष्कुर्वन् आविष्कारं प्राकट्यमकुर्वन्नेवोपदिशेत् कुतो ऽन्वयाद् अन्यथाऽनर्थप्राप्तिरूपयुक्त्येत्यर्थः । पूर्वभाष्यं व्याकुर्वन्नैवोत्तरभाष्यमवतारयति ॥ यत इति ॥ सा चेति वक्तव्ये तच्चेति कथमुक्तमित्यत आह ॥ अयोग्येभ्य इति ॥ अन्धे तमसीति विशेष्याध्याहारः स्थातुं योग्या इति योग्यताया लाभः । निरामिण इत्यस्य तात्पर्यं रामविरुद्धा इति रामस्य रमणरूपस्य हरेर्जीवतादात्म्यरूपेण ज्ञाने न नीचताविद इत्यर्थः ॥ आकाङ्क्षावन्त इति ॥ ‘गृधु आकाङ्क्षायाम्’ इति धातोरिति भावः ॥ स्तेनेभ्य इति ॥ ब्रह्मस्तेनेभ्य इत्यर्थः । विव्रय इत्यस्यार्थो वरत्वे सति नियामक इति, वरत्वाद् व्रकारस्याकारलोपो यातेः कप्रत्यये यं नियामकं व्रंच तद्यं चेति विग्रहः । लिङ्गव्यत्ययश्छान्दस इति भावः । ओहत इत्यस्यार्थो वहन्तीति, साम्न इत्यस्य तत इति विष्णोरित्यर्थः । तितिक्षवः द्वन्द्वसहिष्णवः कारुणिका दयालवः ।

॥ इति अनाविष्काराधिकरणम् ॥ ९ ॥