ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ
८. कृत्स्नभावाधिकरणम्
सूत्रभाष्यम्
॥ ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ ॥ ४७ ॥
‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधत्’ इत्युक्त्वा ‘न च पुनरावर्तते न च पुनरावर्तते’ (छां.उ.८-१५-१) इति गृहिणोपसंहारः क्रियते तस्माद्ग्रहस्थस्यैवोत्तम(र)त्व-मिति न वाच्यम् । यतः कृत्स्नगृहस्थान्देवानपेक्ष्यैवोपसंहारः क्रियते । ‘कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना ह्येते यतयोऽत एतेषां न पुत्रा दायमुपयन्ति न चैते गृहान्विसृजन्त्यरागा ओषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तार’ इति पौत्रायणश्रुतिः ।
तत्त्वप्रदीपिका
‘कुटुम्बे शुचौ देशे’ इत्याद्युक्त्वा ‘न च पुनरावर्तत’ इति गृहिणोपसंहारादस्यैैवोत्तमत्वम् । ‘अष्टमे वर्षे ब्राह्मणमुपनयीत’ इत्याश्रमधर्माणां मनुष्यविषयत्वाद् गार्हस्थ्यं च नान्यस्य युक्तम् । अतो देवानां कथमुत्तमं फलं स्यादित्यत आह– कृत्स्नभावात्तु गृहिणोपसंहारः ॥ कुटुम्बे वर्तमानः शुचौ देशे स्थित्वा स्वाध्यायमधीयानः धार्मिकान्धर्मसम्बन्धिनो विशेषेण धायन् परमात्मनि सर्वेन्द्रियाणि सम्यक् प्रतिष्ठाप्य, इन्द्रियाणां विषयेभ्यः प्रत्याहरणेन निरुद्धबहिर्वृत्तिकं चित्तं परमात्मनि सम्यक्प्रतिष्ठाप्येत्यर्थः । परमात्मानमभिपश्यतस्तदन्यत्रेन्द्रियव्यापाराभावाच्चाऽत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्येति युज्यते । देवा एव गृहस्थधर्मान्कृत्स्नात् पूर्णफलाननुतिष्ठन्तीति ‘कृत्स्नगृहस्थाः’ ।
ननु ‘न च पुनरावर्तते न च पुनरावर्तत’ इति नात्र गृहिणोपसंहारः । यद्यपि सगुणोपास्तिरत्र विधीयते । तथाऽपि तदुपासकस्य तत्स्थानं प्राप्तस्य ततो निर्गुणज्ञानवत एवानावृत्तिर्विवक्षिता । सगुणोपास्तिफलभोगस्य स्थानादिभेदापेक्षिणः । सांसारिकस्यानित्यत्वेन तदनावृत्त्ययोगादिति । तदसत् । सगुणोपास्तिप्रकरणपठिताया अनावृत्तेस्ततो विच्छिद्याप्रसिद्धविषयत्वापादनस्या-प्रामाणिकत्वात् । नित्यशुद्धबुद्धमुक्तेश्वरत्वादिगुणवदेव ब्रह्म प्रामाणिकमिति पुरस्तात्प्रास्तावि । अतो न तत्प्राप्तिः सांसारिकी । कथं च मोक्षे स्थानभेदाद्यभावः । ‘सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’ इत्यादिश्रुतेः ।
‘स्वयोग्यं ब्रह्मविद्भुङ्क्ते विरिञ्चेन परेण च ।
ब्रह्मणा सह तद्वश्यः सुखमेतन्न दुष्कृतम्’ इति यजुर्विवेके ॥
‘परं ज्योतिरुपसम्पद्य’ इत्युक्त्वा ‘स तत्र पर्येति’ इत्यादेश्च ॥
तत्त्वप्रकाशिका
अत्र हरिप्राप्तिसाधने ज्ञाने विशेषाधिकारिणां यतीनां सर्वाश्रमिभ्योऽतिशयसमर्थनेन ज्ञानमहिम्न एव वर्णनादस्ति शास्त्रादिसङ्गतिः । कर्माधिकारिभ्यो ज्ञानाधिकारिणामतिशयाभावे ज्ञान-स्यैवातिशयाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतज्ञानाधिकारिषु देवर्षिमानुषेषु मनुष्या आश्रमभेदभिन्ना एव विषयः । किं सर्वेऽपि मोक्षे समा उत कस्यचिदुत्तमत्वमिति सन्देहः । द्वेधाऽपि दर्शनं सन्देह-बीजम् । तत्र गृहस्थो मुक्तावुत्तम इति पूर्वः पक्षः । तस्य सर्वसत्कर्मस्वधिकारित्वात् । न ह्यन्या-श्रमिणां क्रत्वादावधिकारोऽस्ति । किं च छन्दोगोपनिषदि गृहस्थस्यैव मोक्षमुक्त्वोपसंहारः क्रियते । ‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि प्रतिष्ठाप्याहिंसन्सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते’ इति । तेन ज्ञायते गृहस्थस्यैव मुक्तावाधिक्यमिति । न ह्याधिक्याभावे सर्वेषामपि मोक्षे समाने विशिष्योक्तिर्युक्ता । उपसंहाराच्च तात्पर्यमवगम्यते । अतः कर्मिणामेवोत्तमत्वान्न ज्ञानमतिशयित-मिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ कृत्स्नेति ॥ यतेरेव सर्वाश्रमेषूत्तमत्वं न गृहिणः । यतिमोक्षस्य गृहिमोक्षादपि चिरकालसाध्यत्वादल्पकालापादितसाधनसाध्यान्मोक्षाद्बहुकालीनसाधन-साध्यस्याधिक्यनियमात् । गृहिणां बहुकर्माधिकारमात्रसद्भावेऽपि तदाचरणनियमाभावात् । न चैवं गृहिणोपसंहारविरोधः । तस्य देवताविषयत्वात् । तेषां संपूर्णगृहस्थधर्मवत्त्वेन तद्योग्यत्वात् । न च देवानामपि यतेरुत्तमत्वं कथमिति वाच्यम् । संपूर्णयतिधर्मस्यापि तेषु सद्भावात् । अतो गृहिभ्यो यतीनामेवोत्तमत्वं तेभ्यो देवानामेवेत्याशयः । भवेदेतद्यद्याश्रमद्वयं संपूर्णं देवेषु भवेत्तदेव कुत इत्यत आह ॥ कृत्स्ना हीति ॥ एतेषां न पुत्रा दायमुपयन्त्यरागा ओषा अलोभाः सर्वज्ञा इति यतित्वस्योपपादकमन्यद्गार्हस्थ्यस्य । तथा चोक्तम् । ‘गार्हस्थ्यं च यतित्वं च देवेष्वेकत्वमागतम् । प्राधान्योक्तिर्यतित्वस्य गार्हस्थ्यस्य क्वचित्क्वचित्’ इति ॥
गुर्वर्थदीपिका
कृत्स्नगृहस्थान्देवानिति वदता कृत्स्नाभावादिति सूत्रस्य कृत्स्नगृहस्थत्वभावादित्यर्थस्सूचितो भवति । कृत्स्नगृहस्था नाम येषु ब्रह्मचारिधर्मोऽध्ययनं, गृहस्थधर्मो यज्ञादि, वानप्रस्थधर्मस्तपो, यतिधर्मो वैराग्यं च सम्पूर्णं त एव कृत्स्नगृहस्था इत्युच्यन्ते । इदं च देवेष्वेवास्ति । तदपेक्षयैवाय-मुपसंहार इति । अत एव स्वाध्यायमधीयानः धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि प्रतिष्ठाप्याहिंसन् सर्वाणि भूतानीत्यादिकमुक्तम् ।
भावबोधः
यतीनामिति ॥ यद्यप्यत्राधिकरणे मनुष्येषु गृहस्थेभ्यो यतीनामुत्तमत्वं प्रतिपाद्यते । तथापि पूर्वाधिकरणद्वये ‘चरन्ति देवा विहितं समस्तं’ ‘देवा एव तदाचरन्ति’ इति यद्देवानामेवाशेषकर्म-कर्तृत्वमुक्तं, तदप्युपसंहारस्य देवताविषयत्वसमर्थनेन समर्थितं भवतीत्यनन्तरसङ्गतिरिति भावः । किं सर्वेऽपीत्यादि । अत्राश्रमभेदभिन्नमनुष्याः किं सर्वेऽपि मोक्षे समा उत कश्चिदुत्तम इति चिन्ता । कस्यचिदुत्तमत्वे किं गृहस्थानामुत्तमत्वमुत यतीनामुत्तमत्वमिति । तदर्थं मुक्तानामुत्तमत्वे बहुकर्माधिकारमात्रप्रयोजकमुत बहुकालापादितसाधनसपत्तिर्वा प्रयोजिकेति ।
भावदीपः
विशेषेति ॥ ज्योतिष्टोमादिकर्मप्रहाणेन तन्मात्राधिकारिणामित्यर्थः ॥ अतिशयसमर्थने-नेति ॥ कुटुम्बे शुचौ देश इत्यादिगृहिप्रशंसापरश्रुतेर्देवताविषयत्वोपपादनेनेति भावः । तेन पूर्वत्र देवानां सम्पूर्णफलवत्वमुक्तमिह तु सम्पूर्णसर्ववर्णाश्रमधर्मवत्त्वमुच्यते इति वा पूर्वत्र प्रजानामपि फलमस्तीति सामान्यतः सिद्धौ तन्मध्ये मानुषोत्तमप्रजानां सर्वासामपि किं सामान्येन फलमुत यतिरूपप्रजानामतिशयेनेति चिन्तनाद्वा पूर्वसङ्गतिरपि सूचिता ॥ द्वेधाऽपीति ॥ लोके केचन समाः केचन नीचोच्चतापन्नाश्च दृश्यन्त इति तद्दर्शनं सन्देहबीजमित्यर्थः । इति सन्देहबीजमित्यनन्तरं कस्यचिदुत्तमत्वं वाच्यम् । मुक्तौ तारतम्यस्य साधितत्वात् । तत्र किं गृहस्थ उत्तम उत यतिरिति सन्देह इत्येतावद्वाक्यं पूरणीयम् । तेन न पूर्वपक्षाद्यनानुगुण्यं सन्देहस्य शङ्क्यम् । गृहस्थस्यै-वोत्तमत्वमिति भाष्योक्तप्रतिज्ञामाह ॥ तत्र गृहस्थ इति ॥ आश्रमभेदभिन्नमनुष्याणां मध्य इत्यर्थः । आधिक्यं मुक्तावित्यन्यत्रोक्तिमनुरुध्य मुक्तावित्युक्तम् । कुत इत्यतः भाष्ये तस्मादित्यस्य बुद्धिस्थवाचितया गृहस्थानामेवाशेषकर्मविशेषयोग्यत्वादित्यन्यत्रोक्तहेतुपरामर्शित्वमुपेत्याह ॥ तस्येति ॥ तस्मादित्यस्य पूर्वप्रकृतोपसंहारपरामर्शित्वमुपेत्यापि कुटुम्ब इत्यादिभाष्यर्थमाह ॥ किं चेति ॥ छन्दोगेति ॥ अष्टमाध्यायान्ते । कुटुम्बे गुरुकुले इति भ्रान्तिनिरासाय वा कुटुम्बस्य वर्तमानत्वद्योतनाय वा पूर्वशेषमाह ॥ आचार्येति ॥ तस्मादित्यादिभाष्यार्थमाह ॥ तेनेति ॥ गृहस्थस्य मोक्षोक्तिपूर्वकोपसंहारेणेत्यर्थः । तावता कथमाधिक्यं गृहिण इत्यत आह ॥ न हीति ॥ आधिक्याभाव इत्यस्य विवरणं सर्वेषामित्यादि । यादृच्छिकत्वानिरासयोपसंहारपदस्वारस्यमाह ॥ उपसंहाराच्चेति ॥ अत इति ॥ सर्वकर्माधिकारित्वादुपसंहारबलाच्चेत्यर्थः ॥
इति न वाच्यमित्येतावता ज्ञाने कोऽतिशयः प्राप्तः येन तन्निरासोऽत्र सङ्गतः स्यादित्यत-स्तद्भाष्यस्य पर्यवसितार्थमाह ॥ यतेरेवेति ॥ कुत इत्यतः गृहिभ्यो यतीनां तेभ्यो देवतानामत्वरया सिद्धेरित्यन्यत्रोक्तहेतुमाह ॥ यतीति ॥ तावता कुत उत्तमत्वमित्यत आह ॥ अल्पेति ॥ यो हि त्वरया साधयेत्स मन्दसुखमाप्नुयात् । योऽत्वरया स महदित्यन्यत्रोक्तश्रुतिं हृदि कृत्वाऽऽह ॥ नियमादिति ॥ ननु यतिमोक्षस्य गृहिमोक्षादपि चिरकालसाध्यत्वमसिद्धम् । यदि त्वरयैव गृहिणः साधयन्ति मुक्तिमत्वरयैव यतय इत्यन्यत्रोक्तश्रुत्या तत्सिद्धिस्तर्हि गृहिणामपि सर्वसत्कर्म-स्वधिकारात्तत्सर्वाचरणकालस्यापि चिरकालत्वात्कथं गृहिमोक्षस्याचिरकालसाध्यत्वं श्रौतमपि युज्यत इत्यत आह ॥ गृहिणामिति ॥ एतेन बहुकालसाधनाद्वहुकर्माधिकारमात्रस्य दुर्बलत्वा-दित्यन्यत्रोक्तमधिकारमात्रत्वं तदाचरणनियमाभावादित्युक्त्योपपादितं भवति । कुटुम्ब इत्यादेरिति न मन्तव्यमित्यन्तभाष्यस्य तात्पर्यमाह ॥ न चैवमिति ॥ यतेरुत्तमत्वादित्यर्थः । यत इत्यादि-भाष्यार्थमाह ॥ तस्येति ॥ सामान्यवाक्यस्य कुतो विशेषपरत्वमित्यतो मुख्यामुख्ययोर्मुख्यस्य ग्रहणमिति न्यायाद्देवविषयत्वे श्रुतेर्मुख्यार्थलाभादिति भावेन कृत्स्नगृहस्थानित्यस्यार्थमाह ॥ तेषामिति ॥ एवं गृहिभ्यो यतेरुत्तमत्वं कथमुक्तमित्याशङ्क्य निराह ॥ न चेति ॥ मानुषगृहिभ्यो मानुषयतेरुत्तमत्वेऽपि न देवगृहिभ्यः । तेषां यतित्वस्यापि सत्त्वेन गृहिभ्यो यतिरुत्तम इत्युक्तम् । देवानामपीतरगृहिभ्यो यतित्वेनोत्तमत्वस्यैव प्राप्तेरिति भावेन कृत्स्ना वै एते यतय इति श्रौतपदतात्पर्यार्थमाह ॥ सम्पूर्णेति ॥ तर्हि मानुषयतितो देवानामुत्तमता न स्यादित्यतो गृहिभ्यो यतीनां तेभ्यो देवानामत्वरया सिद्धेरित्यन्यत्रोक्त्यनुरोधेन भाष्यभावमाह ॥ अत इति ॥ तन्मोक्षस्य चिरकालसाध्यत्वादित्यर्थः । श्रुतिशेषोक्तेरुपयोगमाह ॥ एतेषां न पुत्रा दायमिति ॥ नन्वेवं देवानां द्विरूपत्वे कुटुम्बे शुचौ देशे इत्यादेः केवलगृहस्थविषयस्य कथं देवपरत्वमित्यतः षोडशेऽध्याये एकादशस्कन्धतात्पर्योक्तस्मृत्या निराह ॥ तथा चेति ॥
अभिनवचन्द्रिका
कर्माधिकारिभ्य इति ॥ इह तावज् ज्ञानाधिकारिषु मनुष्येषु केचिद् बहुतरं कर्म कृत्वा तत्रैवाऽऽग्रहवन्तो ज्ञानमाप्य मुक्ता भवन्ति । एते कर्मयोगिन इत्युच्यन्ते । अपरे पुनः ज्ञान एव आग्रहवन्तः सदा श्रवणादिरताः स्वावसरे किञ्चित्कर्मानुष्ठाय मुक्ता भवन्ति । एते च ज्ञानयोगिन इत्युच्यन्ते । ततश्च कर्माधिकारिभ्यो ज्ञानाधिकारिणां विशेषाभावे ज्ञानस्यातिशयो न स्यात् । ज्ञानस्याल्पत्वे बहुत्वे वा फलस्यैकरूपत्वात् । न हि ज्ञानातिशये फलं नातिशयीत । ज्ञानं च साधनान्तरादतिशयवदिति युक्तम्, नियामकाभावेन वैपरीत्यस्यापि वक्तुं शक्यत्वादिति समर्थनीयमेव तदिति भावः । द्वेधापि दर्शनमिति ॥ विचित्रसाधनवत्सु समविषमफलदर्शनं सन्देहबीजमित्यर्थः ॥ तस्येति ॥ वेदोक्तज्योतिष्टोमादिसर्वकर्मस्वधिकारित्वादित्यर्थः ॥ अन्यत्र तीर्थेभ्य इति ॥ ‘तीर्थं शास्त्राध्वरक्षेत्र’ इत्यभिधानात् तीर्थेभ्योऽन्यत्र यज्ञेभ्योऽन्यत्राऽहिंस-न्नित्यर्थः । ननु न गृहिमोक्षस्याल्पकालसाध्यत्वं युक्तं, तस्य सर्वकर्माधिकारित्वेन विलम्बमन्तरा तदनुष्ठानायोगेन गृहिमोक्षस्य यतिमोक्षादपि चिरकालसाध्यत्वादित्यत आह– गृहिणामिति ॥ तदाचरणनियमाभावान् न तन्मोक्षश् चिरकालसाध्य इत्यर्थः ।
इदमुक्तं भवति । सत्यमस्ति गृहस्थानां बहुकर्माधिकारः, तथापि न सर्वानुष्ठानम् । अल्पानुष्ठानेनैव कृतत्वात् । सर्वकर्माधिकारस्तु स्वेच्छया कस्यचिदनुष्ठानायोपयुज्यते । यथा अनेकभार्यापतिश्चित्रकेतुः प्रत्यहं सर्वभार्योपभोगाधिकृतो नैकस्मिन् दिने ताः सर्वा उपभुङ्क्ते किन्तु स्वेच्छया कतिपयास्ता उपभुज्य प्रशान्तकाम उदास्ते । यथा वा मात्रा पित्रा भ्रात्रा तद्दुहित्रा जामात्रा सहभोगाधिकृतोऽपि बालः, स्वेच्छया मात्रा सह भुक्त्वा, पूर्णोदरो न पित्रादिना सह तदैव भुङ्क्ते । एवं सर्वकर्माधिकृतोऽपि गृही ज्योतिष्टोमादिषु कस्यचिदनुष्ठानेन जातापरोक्षः कृतकृत्यत्वान् न कर्मान्तरमनुतिष्ठतीति त्वरयैव मोक्ष इति । अयं तु तत्र हेतुरिति । सर्ववर्णाश्रमोचितकारित्वं, तत्र सर्ववर्णत्वे, सर्वाश्रमित्वे च, हेतुरित्यर्थः ।
पूर्वपक्षस्तु– मुक्तौ यतिभ्यो ग्रहस्थ एवोत्तमः । तस्य ज्योतिष्ठोमादिसर्वकर्माधिकारित्वात् । सर्वकर्मानुष्ठानं च चिरकालसाध्यम् । चिरकालसाध्य एव हि मोक्ष उत्तमः । किं च । छन्दोगश्रुतौ ‘आचार्यकुलाद्वेदमधीत्य’ इति ग्रहस्थस्य मोक्षमुक्त्वा, उपसंहारः क्रियते । न च गृहस्थादुत्तम-सद्भावे तदनुक्त्वोपसंहारो युज्यते । अतः कर्मिणामेवोत्तमत्वान् न ज्ञानमतिशयितमिति ।
सिद्धान्तस्तु– मनुष्येषु यतेरेव सर्वापेक्षयोत्तमत्वं न गृहिणः । गृहिमोक्षाद्यतिमोक्षस्य चिरकालसाध्यत्वात् । यद्यपि गृहिणां बहुकर्मसु अधिकारोऽस्ति, तथापि न तैः सर्वाण्यनुष्ठीयन्ते । कतिपयानुष्ठानेनैव अपरोक्षज्ञानसिद्धेः । न चैवं गृहिणोपसंहारविरोधः । तस्य देवताविषयत्वात् । न च देवानामपि कथं यत्युत्तमत्वमिति वाच्यम् । संपूर्णयतिधर्मस्यापि तेषु सद्भावात् । न च देवानां यतित्वाभावः । ‘कृत्स्ना ह्येते गृहिणो देवाः, कृत्स्ना ह्येते यतयः’ इति श्रुतेः ‘यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः’ इति श्रुत्या यतित्वदृष्टान्तेन सर्ववर्णाश्रमित्वाभिधानाच्च । अतो धर्माधिकारिषु ज्ञानप्रचुराणां यतीनामेवोत्तमत्वाद् युक्तो ज्ञानस्यातिशय इति सिद्धम् ।
वाक्यार्थमुक्तावली
अतिशयसमर्थनादिति मोक्षाख्यफलेऽतिशयसमर्थनादित्यर्थः । एतेन मानुषादिज्ञानिप्रजानां पूर्वाधिकरणरीत्या ज्ञाने फलसिद्धावेव । तन्मध्ये यतीनां मुक्तिफले आधिक्यविचारावसर इत्यनन्तरसङ्गतिरप्युक्ता भवति ॥ किमिति ॥ किमाश्रमिणस्सर्वेऽपि मुक्तौ समा उत कस्य-चिदुत्तमत्त्वमिति सन्देह इत्यर्थः । अत्र तावत्प्राप्तं, सर्वेऽपि समा आश्रमत्त्वाविशेषादिति । तत्र सिद्धान्तः । सर्वे न समाः किन्तु कस्यचिदुत्तमत्त्वम् । ‘मानुषा वर्णभेदेन तथैवाश्रमभेदतः’ इति तारतम्यकथनात्कस्यचिदुत्तमत्त्वस्य वक्तव्यत्वादिति बहिरेव द्रष्टव्यम् । एवमाश्रमिषु कस्य-चिदुत्तमत्त्वसिद्धौ चिन्तान्तरमाह ॥ कस्यचिदिति ॥ कस्यचित् कस्य वोत्तमत्त्वं, किं गृहस्थस्य किं यतेरिति संशय इत्यर्थः । यद्यपि ज्ञानकर्माल्पत्वाद्ब्रह्मचारिणः प्रसक्तौ वानप्रस्थस्य वस्तुतो गृहस्थादुत्तमत्त्वात्प्रसक्तिसम्भवात्तस्यापि संशयकोटिनिविष्ठत्वं वक्तव्यं तथापि ज्ञानमाहात्म्यसिध्द्यर्थं यत्युत्तमत्त्वस्यैव साधुत्वात् (साधकत्वात्)कर्मकलातिशयेन गृहस्थस्योत्तमत्त्वे पूर्वपक्षं प्रापयित्वा सिद्धान्तोपन्यासादेवं संशयो निरूपित इत्यवधेयम् । तथा चात्राश्रमिषु गृहस्थोत्तमत्त्वमुत यतेरिति चिन्ता । तदर्थं मुक्तौ उत्तमत्त्वे बहुकर्माधिकारमात्रं प्रयोजकम् । छन्दोगोपनिषदि गृहस्थस्यैव मोक्षमुक्त्वा उपसंहारश्च तदाधिक्ये प्रमाणमुत मुक्तावुत्तमत्त्वे बहुकालापादितसाधनसम्पत्तिरेव प्रयोजिका । छन्दोगश्रुतिश्च देवताविषयत्वेन सावकाशेति । गृहस्थस्यैवोत्तमत्वमिति भाष्यसूचित-मापूर्णविशेषयोग्यतेति न्यायं न च गृहस्थानामशेषकर्मविशेषयोग्यत्वादाधिक्यं मुक्ताविति न्यायविवरणानुसारेण व्यनक्ति ॥ अत्र गृहस्थ इत्यादिना ॥ साक्षात्सूत्रनिरस्यं स्पष्टं भाष्योक्तयुक्त्यन्तरमाह ॥ किञ्चेति ॥ भाष्ये आचार्यकुलादिति प्रतीके ग्राह्ये यत्कुटुम्ब इत्यादितस्तद्ग्रहणं तदस्य वाक्यस्य गृहस्थविषयत्वज्ञापनार्थमिति भावेनादितः पठित्वाशेषं पूरयति ॥ आचार्यकुलादित्यादिना ॥ गुरोः कर्मातिशेषेण आज्ञाप्रकारेण समावृत्य समावर्तनं कृत्वा शुचौ देशे स्थित्वा स्वाध्यायमधीयानः कुटुम्बे वर्तमानः शिष्यान्पुत्रान् वा धार्मिकान् विदधद् विषयेभ्यः प्रत्याहारेण चात्मनि सर्वेन्द्रियाणि प्रतिष्ठाप्य (तीर्थं शास्त्रेऽध्वरे क्षेत्र इत्यभिधानात्)यज्ञेभ्योऽन्यत्र सर्वाणि भूतान्यहिंसन्यः स एवं यावदायुषमात्मानं वर्तयन् ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तत इति श्रुत्यर्थः ।
उपसंहाराच्चेति गृहिणो विशिष्य मोक्षमुक्त्वा उपनिषत्परिसमापनलक्षणोपसंहाराच्चेत्यर्थः। गृहस्थस्यैवोत्तमत्त्वमिति न च वाच्यमिति सिद्धान्तभाष्यं व्याचष्टे ॥ यतेरेवेति ॥ तद्धेतुतया अत्वरयासिद्धिरिति पूर्वाधिकरणसिद्धान्तन्यायं विशदयति ॥ यदि मोक्षस्येति ॥ यतेर्गृहस्थापेक्षया प्रारब्धकर्मणो बहुत्वेन त्वरया सिद्ध््य्योगादिति भावः । स्वरूपयतीनां साधनकाले यतिजन्मे बाहुल्याज् ज्ञानप्राचुर्योपपत्तिः ॥ आधिक्यनियमादिति ॥ अन्यथा बहुकालसाधनानुष्ठान-वैयर्थ्यादिति भावः । न च ऋजुत्वे तन्नियमभङ्ग इति वाच्यम् । अतीतानागतकाले मुच्यमानानाम् ऋजूनां साधनकालसाम्याङ्गीकारात्तदुपपादनप्रकारो रहस्यत्वान्नेह क्रियते । आपूर्णविशेष-योग्यतेत्युक्तपूर्वपक्षन्यायं विघटयति ॥ गृहिण इति ॥ यतः कृत्स्नगृहस्थानिति भाष्यं तन्निवर्तनीय-शङ्कानिरासपूर्वं व्याचष्टे ॥ न चैवमित्यादिना ॥ तद्योग्यत्वात् पूर्णफलयोग्यत्वात् । कृत्स्नः सम्पूर्णः भावो गृहस्थधर्मो यस्य देवतावर्गस्य स कृत्स्नभावः । ल्यब्लोपनिमित्ता पञ्चमी । तुशब्दोऽवधारणे । सम्पूर्णगृहस्थधर्मान्देवानपेक्ष्यैव गृहिणि प्रतिपाद्य न निमित्तेन गृहिणमुपादाय तस्य मोक्षमुक्त्वा उपनिषदुपसंहहारः कुतः कृत्स्नभावात्तेषामेव सम्पूर्णफलसत्त्वात्तद्योग्यत्वादिति सूत्रार्थः । उक्तं च तत्त्वप्रदीपे देवा एव गृहस्थधर्मान्कृत्स्नान्पूर्णफलाननुतिष्ठन्ति इति कृत्स्ना ह्येते यतय इति श्रुत्यनुसारेण सूत्रखण्डस्य वर्णकान्तरं वक्तुं तद्व्यावर्त्यमाशङ्कय निषेधति ॥ न चेति ॥ यतेरिति पञ्चमी कुतो न वाच्यमित्यतो देवानां कृत्स्नभावात् । तुशब्दोऽप्यर्थे सम्पूर्णयतिधर्मस्यापि गृहिभ्यो यतीनां तेभ्यो देवानामुत्तमत्त्वमिति सूत्रखण्डार्थमाह ॥ सम्पूर्णेति ॥ कुत इत्यत आहेति ॥ कृत्स्नपदसूचितश्रुतिमुदाहरतीत्यर्थः ॥ एषां न पुत्रा इति ॥ पित्रार्जितं दायशब्देनोच्यते । इन्द्रादिपूत्राणां जयन्तप्रभृतीनामिन्द्राद्यैश्वर्यप्राप्त्यभावात्तेषां यतित्वम् । यतिपुत्रस्यापि यतिसम्पादितार्थप्राप्त्यभावाद् यतीनां गृहिवद्व्यासङ्गागाभावादधिकज्ञानसम्पादनं विद्यते । एवं देवानां च सार्वज्ञं च वर्तत इति यतित्वम् । यद्वा त्यागभोगप्रजाकर्तृत्वाभावाद्गार्हस्थ्यं चेति भावः ।
तत्त्वसुबोधिनी
यतीनामिति ॥ यद्यप्यत्राधिकरणे मनुष्येषु गृहस्थेभ्यो यतीनामुत्तमत्वं प्रतिपाद्यते । तथापि पूर्वाधिकरणे ये चरन्ति देवा विहितं समस्तं देवा एव तदाचरन्ति इति तद्देवानामेकशेषकर्मकतृत्व-मुक्तम् । तदप्युपसंहारस्य देवताविषयत्वसमर्थनेन समर्थितं भवतीत्यनन्तरसङ्गतिरिति भावः । तस्माद् गृहस्थस्यैवोत्तमत्वमिति भाष्योक्तं पूर्वपक्षमाह । किं चेत्यादिना गृहस्थस्यैवेत्यन्तेन । आचार्यकुलादिति श्रुतिप्रतीके ग्राह्ये यत्कुटुम्ब इत्यादितस् तद्ग्रहणं तदस्य वाक्यस्य गृहस्थविषयत्व-ज्ञापनार्थम् । विदधदित्यन्तवाक्यग्रहणं तु ब्रह्मलोकमभिसम्पद्यत इत्यन्तस्य प्रतीकग्रहणम् । मोक्षमिति शेषोक्तिः । गृहिणो मोक्षमुक्त्वेति सम्बन्ध इत्युक्तं भवति । सूत्रभाष्ये च उपसंहार इत्युक्तेः प्रयोजनमाह ॥ उपसंहाराच्चेति ॥ उपनिषत्परिसमापनाच्चेति भावः ॥ तदेवोपपादयति ॥ अल्पकालेति ॥ अन्यथा बहुकालसाधनानुष्ठानस्य बुद्धिमदुपादित्सागोचरत्वेन स्यादिति भावः । तथापि गृहिणां सर्वकर्माधिकारित्वेन कथं यतेरुत्तमत्वमित्यत आह ॥ सम्पूर्णयतिधर्मस्येति ॥
वाक्यार्थविवरणं
सर्वाश्रमिणां ब्रह्मचारिगृहस्थाद्याश्रमिणां सकाशात् सन्देह इत्यनन्तरं कस्यचिदुत्तमत्वेऽपि किं गृहस्थस्योत्तमत्त्वं यतेर्वेति सन्देहोऽपि द्रष्टव्यः ॥ विशिष्योक्तिरिति ॥ गृहस्थस्य मोक्षमुक्त्वोप-संहाररूपेत्यर्थः ॥ तदेवोपपादयति ॥ अल्पकालेति ॥ नियमादिति ॥ अन्यथा बहुकालतदनुष्ठानं व्यर्थं स्यादिति भावः । गृहस्थस्य सर्वकर्मस्वधिकारित्वादुत्तमत्वमित्युक्तं तत्राह ॥ गृहीणामिति ॥ यतेः सकाशाद् गृहिभ्यः गृहस्थाश्रमिभ्यो मनुष्योत्तमेभ्यः ।
वाक्यार्थमञ्जरी
सर्वाश्रमिणां सकाशात् ॥ आचार्यकुलादिति ॥ मुमुक्षुराचार्यकुलाद्वेदमधीत्य यथा विधानमित्येतत्पूर्वोत्तराभ्यां सम्बध्यते, कर्मसेवारूपं दक्षिणारूपं वा अतिशेषेण अशेषेण कृत्वा कुटुम्बी गृहस्थाश्रमवान् क्वचित्कुटुम्ब इति पाठस् तदावर्तमान इति शेषः । धार्मिकान् व्यापारान् विदधत् कुर्वाण आत्मनि परमात्मनि सर्वेन्द्रियाणि प्रतिष्ठाप्य नियम्य तीर्थेभ्यो यज्ञेभ्योऽन्यत्र विना सर्वाणि भूतान्यहिंसन् वर्तमानस्तं परमात्मानं दृष्ट्वा ब्रह्मलोकमभिसम्पद्यते प्राप्नोति प्राप्तश्च पुनर्नैवावर्तत इत्यर्थः ॥ उपसंहारत्वाच्चेति ॥ उपनिषत्परिसमापनाच्चेत्यर्थः ।
ॐ कृत्स्नभावात्तु गृहीणोपसंहारः ॐ ॥ गृहिणो गृहस्थस्य मोक्षमुक्त्वोपसंहारस्तु देवविषयः कुतः देवानां कृत्स्नभावात् कार्त्स्न्येन गार्हस्थ्यवत्त्वादित्यर्थः ॥ आधिक्यनियमादिति ॥ तथा च यतेरप्याधिक्यमिति भावः । यतेः सकाशाद् गृहिभ्यो मनुष्येभ्य एकत्वं सामानाधिकरण्यम् ।