०७ फलश्रुत्यधिकरणम्

ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ

७. फलश्रुत्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ॥ ४४ ॥

‘ब्रह्मविदाप्नोति परम्’ (तै.उ.२-१) इत्यादि फलं स्वामिनां देवानामेव भवति । ‘यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाण’ इति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ।

तत्त्वप्रदीपिका

अनन्तजीवेष्वनादिसञ्चितपुण्यपूगपावितचित्तानां केषाञ्चिदेवास्मिन्ज्ञानेऽधिकारः । न चायोग्यानां केनाप्युपायेन ज्ञानोत्पत्तिः । न च योग्यता क्वापि कदाचित्केनचिदन्यथा करणीया । अयोग्यपदारुरुक्षायामधःपतनं चेत्युक्तम् । एवमवसितो योग्यताप्रसङ्गानुषङ्गिविचारः । इदानीं तु यस्य तज्ज्ञानं जायते किं तस्यैव तत्फलमथवा तत्प्रयोजकानां देवादीनामिति विचार्यते । तत्र प्राप्तं ‘ब्रह्मविदाप्नोति परम्’ इति वचनात्तस्यैव फलम् । न ह्यन्य उपास्तेऽन्यः फलमश्नुत इति समञ्जसं भवेत् । प्रेरकाणां किमप्यदृष्टं ज्ञानादिफलं तद्वदेवाङ्गीकार्यम् । अन्यथा प्रयत्नवैयर्थ्यात् । कर्तुरधिकं फलं प्रेरकाणामिति तु न प्रमाणपद्धतिमध्यास्ते । एवं प्राप्ते प्रत्याह– स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ज्ञानादिप्रवर्तकतया तत्स्वामिनां देवानामेव महत्तमं फलम् । तत्प्रवर्त्यानां प्रजानां तदधीनज्ञानानां तदपेक्षयाऽत्यल्पफलत्वात्तेषामेव फलमित्युक्तिः । ‘महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत्’ इतिवत्, ‘यदु किञ्चेमाः प्रजाः’ इत्यादिवच्च । न ह्यत्र प्रजागतं कर्म ज्ञानं च प्रतिषिध्यते । प्रत्यक्ष-विरोधात् । ‘कर्ता शास्त्रार्थवत्त्वात्’ इत्यादेश्च । किन्तु पराधीनं प्रतनु चाभिप्रेयते । ‘स्वामी हि फलमश्नुत’ इति च महत्त्वापेक्षया, अन्नवानितिवत् । ‘नास्वामी कर्म कुर्वाण’ इति च न प्रमाण-सिद्धप्रवृत्तिफलप्रतिषेधः । भृत्येष्वपि वेतनादिफलोपलब्धेः । अत उत्तमापेक्षया न फलमिति वक्तुं शक्यत इत्यभिप्रायः ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनज्ञानस्यास्वामिनोऽपि सन्निधिमात्रेण फलदानमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ज्ञानिनां मोक्षनियम इत्युक्तमयुक्तं स्यादतस्तद्वर्णनीयम् । प्रकृतं ज्ञानमेव विषयः । किं देवानां फलप्रदं प्रजानां वेति सन्देहः । प्रयोजकत्वं कर्तृत्वं च सन्देहबीजम् । किं तावत्प्राप्तमिति तत्र सूत्रमुपन्यस्य व्याचष्टे ॥ स्वामिन इति ॥ ‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुतिसिद्धं यद्भगवत्प्रात्प्यादिज्ञानफलं तद्देवानामेव भवति न प्रजानाम् । कस्मात् । तेषामेवेन्द्रियादिप्रेरकत्वेन ज्ञानस्वामित्वात् । लोके च स्वामिन एव फलदर्शनात् । न च कर्तृत्वेन प्रजानां फलम् । कर्तुरप्यस्वामिनः फलाभावदर्शनात् । न च वेतनादिरूपेण फलम् । अन्नादेर्दीयमानत्वात् । श्रुतिसिद्धं चैतत् । एवमाचार्य आत्रेयोऽपि मन्यत इति भावः । कुतो देवानां कर्मादिदेवानां ह्येतत्कर्मादिफलं भवतीत्यर्थः ।

गुर्वर्थदीपिका

अन्नादेर्दीयमानत्वादित्यस्य देवैर्दीयमानत्वादित्यर्थः ।

भावबोधः

सन्निधिमात्रेणेति ॥ पूर्वाधिकरणे ज्ञानदानमेव देवानां विहितम् । ‘चरन्ति देवाविहितं समस्तम्’ इति न्यायविवणानुसारेण देवानां ज्ञानदानादिविहितमित्युक्तम् । ‘न चाऽधिकारिकम्’ इत्यादिसूत्रद्वयेन निषेधविभागप्रतिपादकेन ज्ञानदानादिविभागादेरप्युपलक्षणतया सूचनात् तद्देवानां ज्ञानदानं यदि तेषां फलदं न स्यात्तर्हि विधेयं न स्याद् इत्याशङ्कापरिहारायात्र ज्ञानदानादिना देवानां सम्पूर्णफलमन्येषां सन्निधिमात्रेणाल्पं फलमिति प्रतिपादनादनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ ज्ञानस्वामिनामेव देवादीनां फलं न त्वस्वामिनां प्राप्तज्ञानानामिति चेदित्यर्थः ॥ किं देवानामिति ॥ अत्र ज्ञानं किं देवानामेव प्रजानामपीति चिन्ता । तदर्थं ज्ञानफलजनकत्वे ज्ञानस्वामित्वमेव प्रयोजकमुत ज्ञानदत्वमपीति । तदर्थं देवानामेव ज्ञानफलप्रतिपादकमुनिमतश्रुत्योः किं निरवकाशत्वमुत सावकाशत्वमिति । तदर्थं प्रजानामपि ज्ञानफलसद्भावे प्रमाणं नास्त्युता-स्तीति । प्रजानां ज्ञानफलवत्त्वस्य ज्ञानस्य प्रजार्थं देवैः क्रियमाणत्वरूपयुक्तिप्रमाणकत्वे ज्ञानफलं देवानां न सम्भवत्युत सम्भवतीति । तदर्थं देवैः क्रियमाणं ज्ञानदानं किं प्रजार्थमेव क्रियते स्वार्थमपीति । तद्देवानामेव भवति । न प्रजानामिति । ब्रह्मविदित्यादिभाष्यव्याख्यानपरेणानेन देवानामेव ज्ञानफलं न किञ्चिदन्येषामिति न्यायविवरणगतप्रतिज्ञाभागोऽपि व्याख्यातो भवति । भाष्ये स्वामिनामिति हेत्वर्थगर्भविशेषणलब्धं न्यायविवरणे च स्वातन्त्र्यादित्युक्तं हेतुं विवृणोति– तेषामेवेति ॥ स्वामित्वेऽपि देवानामेव ज्ञानफलमित्येतत्कुत इत्यतः ‘स्वामी हि फलमश्नुते’ इति श्रुत्यनुसारेणाह– लोके चेति ॥ ‘कर्म कुर्वाणः’ इति श्रुतिविशेषानुसारेणाह कर्तुरपीति ॥ श्रुतिसिद्धं चैतदिति । स्वामिनामेव फलं न प्रजानामित्येतत् । ‘यत्किञ्च’ इति श्रुतिसिद्धमित्यर्थः । ‘देवा एव तदाचरन्ति देवा एव विजानते’ इत्यनेन ‘देवानां ह्येतद्भवति’ इत्यस्य पौनरुक्त्य-परिहाराय व्याचष्टे– कुतो देवानामिति ॥

भावदीपः

अस्वामिनोऽपीति ॥ पराधीनकर्तुरपि ज्ञानिन इत्यर्थः ॥ फलदानेति ॥ एतेन ज्ञानादि-फलस्य देवमात्रप्राप्यत्वादन्येषां स्वफलाहेतुज्ञानादाविच्छाया एवायोगेनान्यत्र शुभमाकाङ्क्षन्न पतेदित्युक्तिस् तथा ज्ञानप्राप्त्यर्थमन्यानाकाङ्क्षारूपाङ्गोक्तिश्चायुक्तेति पूर्वाक्षेपेण शङ्कोदयात्पूर्व-सङ्गतिरपि ध्येयेति सूचितम् ॥ इत्युक्तमिति ॥ अनियमस्सर्वेषामित्यत्रोक्तमित्यर्थः ॥ प्रकृतमिति ॥ यत्प्राप्तौ देवतापदाद्यनाकाङ्क्षाङ्गमित्युक्तं तज्ज्ञानमित्यर्थः ॥ देवानामिति ॥ देवानामेवेत्यर्थः । सम्बन्धसामान्ये षष्ठी । अस्योद्भवादिदमितिवत् ॥ प्रजानामिति ॥ ज्ञानवतीनामिति भावः । प्रयोजकत्वं कर्तृप्रेरकत्वं कर्तृत्वकृतिमत्त्वं चेति । तच्च प्रजानां कर्तेति नयसिद्धमिति भावः । क्वचित्प्रयोजकयस्यैव फलं लोके दृष्टम् । क्वचित्कर्तुरपीति भावः । इति शङ्कायामिति शेषः । तत्र प्राप्तिविषये । भाष्यं व्याचष्टे ॥ ब्रह्मेति ॥ एवकारार्थो न प्रजानामिति । देवानामेव ज्ञानादिफलं न किञ्चिदन्येषामित्यन्यत्रोक्तेरिति भावः । स्वातन्त्र्यादित्यन्यत्रोक्त्यनुरोधेन स्वामिनामित्येतद्धेतु-गर्भमिति भावेनाह ॥ कस्मादिति ॥ हेतोरप्रयोजकत्वमाशङ्क्य निरुपाधिकसहचारभङ्गप्रसङ्गो बाधक इति भावेनाह ॥ लोके चेति ॥ देवानामेवेति प्रतिज्ञायाः कर्तृत्वेन फलवत्त्वानुमान-विरोधमाशङ्कते ॥ न चेति ॥ कर्तृत्वमप्रयोजकं किन्त्वन्वयव्यतिरेकाभ्यां स्वामित्वमेवेति भावेनाह ॥ कर्तुरपीति ॥

ननु कर्तुरस्वामिनोऽपि वेतनप्रत्युपकारान्नदानादिफलं दृश्यत इत्याशङ्क्य निराह ॥ न चेति ॥ वेतनं नाम कर्मानुगुणं मूल्यद्रव्यदानं तर्हीहापि प्रजानां कर्तृणां वेतनस्थानीयमन्नवस्त्रानिष्ट-परिहारबहुकालजीवनादिकं देवाः प्रयच्छन्तीत्यवान्तरमपि फलमस्त्येव प्रधानं फलं नास्तीत्ये-वोच्यतेऽस्माभिरिति भावेनाह ॥ अन्नादेरिति ॥ देवैः प्रजानामिति शेषः । यदु किञ्चेत्यादि-भाष्यार्थमाह ॥ श्रुतिसिद्धं चैतदिति ॥ न केवलं स्वामित्वयुक्त्येति चार्थः । एतत्स्वामिन एव प्रधानफलं नास्वामिन इत्येतदित्यर्थः । देवानां ह्येतद्भवतीति श्रुतिशेषमवतार्य व्याचष्टे ॥ कुत इति ॥ पूर्वपक्षित इत्यापाततः सम्पूर्णफलं देवानामेवेति प्रतिपाद्य प्रजानामप्यल्पफलमस्तीति प्रतिपादयन्नित्येवार्थो बोध्यः ।

अभिनवचन्द्रिका

अत्र द्वे दर्शने ‘स्वामिनः फलश्रुतेः’ इत्यारभ्य सूत्रत्रयं सिद्धान्ताभिधायकमित्येकम् । आद्यं सूत्रं पूर्वपक्षसूत्रम्, ‘आर्त्विज्यम्’ इत्यारभ्य सूत्रद्वयं सिद्धान्ताभिधायकमित्यपरम् । तत्राद्यं तत्वप्रदीपकृतो दर्शनम् । ‘इदानीन्तु यस्य तज्ज्ञानं जायते किं तस्यैव तत्फलम्, अथवा तत्प्रयोजकानां देवादीनामिति विचार्यते । तत्र प्राप्तम् ‘ब्रह्मविदाप्नोति परम्’ इति वचनात्तस्यैव फलम् । न ह्यन्य उपास्ते अन्यः फलमश्नुत’ इति समञ्जसं भवेत् । प्रेरकाणां किमप्यदृष्टं ज्ञानादिफलं तद्वत एवाङ्गीकार्यम् । अन्यथा प्रयत्नवैयर्थ्यात् । कर्तुरधिकं फलं प्रेरकाणामिति तु न प्रमाणपद्धतिमध्यास्ते । एवं प्राप्ते प्रत्याह– ‘स्वामिनः फलश्रुतेरित्यात्रेयः’ इति तत्वप्रदीपोक्तेः । अस्मिन्मते ‘सहकार्यन्तरविधिः पक्षेण तृतीयम्’ इति सूत्रे बादरायणमतस्य तृतीयसिद्धान्त-त्वोक्तिर्लिङ्गम् । न हि आत्रेयौडुलोमिमतयोः प्रथमद्वितीयसिद्धान्तत्वाभावे बादरायणमतस्य तृतीयत्वं युज्यते । तेन मन्यामहे ‘आर्त्विज्यम्’ इत्यादिसूत्रद्वयवत् ‘स्वामिनः फलश्रुतेः’ इति सूत्रमपि सिद्धान्तसूत्रमेवेति । तथा अनुव्याख्यानकारीयं ‘ज्ञानकर्मादि फलं चैषु क्रमोपगम् । स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत्’ इति ‘स्वामिनः फलश्रुतेः’ इति व्याख्यानं लिङ्गम् । यदि इदं पूर्वपक्षसूत्रं स्यात्, तर्हि ‘ज्ञानकर्मादिफलम् एष्वेवेत्यवक्ष्यत् । अवधारणस्यैव दूष्यत्वात् । तथा ‘क्रमोपगमिति नावक्ष्यत् । देवेष्विव कर्तरि महास्वातन्त्र्याभावेऽपि अल्पस्वातन्त्र्यसद्भावेन अल्पफलप्राप्तिप्रसङ्गाच्च ।

द्वितीयन्तु टीकाकृतो दर्शनम् । तत्र भाष्यकारीयं ‘ब्रह्मविदाप्नोति परम्’ इत्यादिफलं स्वामिनां देवानामेव भवति’ इति आद्यसूत्रस्य सावधारणव्याख्यानं लिङ्गम् । अन्यथा देवानामेवेत्यव-धारणस्य दूष्यतया सिद्धान्तत्वात् सूत्रार्थतयाऽवधारणं नावक्ष्यत् । किं तु अनुव्याख्यान इव ‘देवतानां तत्फलं भवति’ इत्यवक्ष्यत् । अस्मिन्मते बादरायणमतस्य तृतीयत्वोक्तिर्नानुपपन्ना । ‘स्वामिनः फलश्रुतेः’ इति सूत्रार्थे देवानामेव फलमित्येवं रूपे अवधारणमात्रस्य त्याज्यत्वेऽपि देवानां भवतीत्यंशस्य ग्राह्यत्वेन तद्विवक्षया तृतीयत्वोक्तिसम्भवात् । उक्तं च सुधायाम्– ‘तत्र देवानां ज्ञानादिफलमिति पूर्वपक्षांशो ग्राह्य एव । अवधारणमात्रमेव त्याज्यमिति ।

‘उक्तं मतद्वयं सूत्रभाष्यकारविनिश्चितम् ।

जानन्तौ बोधसिध्द्यर्थं शिष्याणामाहतुः पृथक् ॥

टीकाकारावतस्तत्र न विरोधः कथञ्चन ।’

अन्यथेति ॥ अत्र स्वामिनः फलसमर्थनाभावे ज्ञानिनां मोक्ष इति स्वाम्यस्वामिसाधारण्येन उक्तो मोक्षनियमोऽनुपपन्नः स्यादित्यर्थः ॥ प्रयोजकत्वमिति ॥ किं प्रयोजकत्वमेव फलप्राप्तौ निमित्तम् उत कर्तृत्वमपि इति संदेहविषयतामापन्नं प्रयोजकत्वं, कर्तृत्वं च सन्देहबीजमित्यर्थः । अयं सन्देहबीजमिति भावः । अत्र टीकायां– ‘कुतो देवानां कर्मादि’ इति श्रूयमाणं वाक्यं न टीकावाक्यम् । अपि तु केनचिद्विदुषा प्रक्षिप्तम् । तथापि गङ्गाजलानुप्रविष्टक्षुद्रनदीजलवट् टीकाप्रवेशमात्रेण सेव्यत्वाद् व्याख्यायते । देवानां ह्येतद्भवतीति श्रुत्यंशमवतारयति– कुत इति ॥ कर्मादीत्यतः परं ‘इत्यत उक्तम्’ इति शेषः । ‘देवा एव तदाचरन्ति’ इत्यादिना कर्मणां ज्ञानानां चोक्तं देवसम्बन्धित्वं कुत इत्यत उक्तमित्यर्थः । प्रतीकमुपादत्ते– देवानां ह्येतदिति ॥ दुर्गमार्थत्वादेतत्पदार्थमाह– कर्मादिफलमिति ॥

वाक्यार्थमुक्तावली

अत्र ज्ञानभक्त्यादिफलं चेद्देवानामेव न प्रजानां स्यात्तदा निष्फले ज्ञानादौ प्रजानामधिकारा-योगाज्ज्ञानादेराकाङ्क्षायामप्यविरोधवचनं प्राचीनमयुक्तं स्यादित्याक्षेपादनन्तरसङ्गतिः । यद्वा योग्यानामेव ज्ञानं नायोग्यानामिति पञ्चमे उक्त्वा षष्टे देवादिपदस्यैवान्यप्राप्यत्वे तन्नियतज्ञान-स्याप्यन्यप्राप्यत्वमिति शङ्का पदस्यान्यायोग्यत्वोक्त्या निरस्ता । इह तु ज्ञानफलयोग्यता-विचारादनन्तरसङ्गतिः ॥ सन्निधिमात्रेणेति ॥ तदधिष्ठाने उत्पादमात्रेणेत्यर्थः ॥ किमिति ॥ अत्र ज्ञानं देवानामेव फलप्रदमुत प्रजानामपीति चिन्ता । तदर्थं फलप्राप्तौ स्वातन्त्र्यं प्रयोजकमुत कर्तृत्वमपीति ॥ प्रयोजकत्वमिति ॥ नियामकत्वमित्यर्थः । सूत्रे श्रुत्यनुसारेण स्वामिन इत्येकवचनं समुदायपरम् । स्वामी हि फलमिति श्रुतिवत्त्वादेवेति लभ्यते । फलप्रदं बुद्ध्या विवेकेनात्राप्यन्वेति । स्वामिन इति हेतुगर्भं देवानां विशेषणम् । तथा च देवानामेव ज्ञानफलं न तु प्रजानाम् । देवानामेव स्वामित्वात् । लोके स्वामिन एव फलदर्शनात् । स्वामिनः फलश्रुतेश्चेति एवमात्रेयोऽपि मन्यत इति सूत्रार्थं स्पष्टयति ॥ ब्रह्मेति ॥ स्वातन्त्र्यमित्युक्तन्यायप्रदर्शकतया स्वामिपदं व्याचष्टे ॥ तेषामेवेति ॥ स्वामी हि फलमश्नुत इति श्रुत्यनुसारेणाह ॥ लोके चेति ॥ नास्वामी कर्म कुर्वाण इति श्रुत्यनुसारेणाह ॥ कर्तुरपीति ॥ प्रसादादिनिर्मातुस्तक्ष्णः वेतनबहुमानरूपेण फलदर्शनात्तद्व-त्प्रकृतेऽपि फलमस्त्वित्यत आह ॥ न चेति ॥ अन्नादेरिति ॥ पारत्रिकातिरिक्तस्यान्नव-स्त्रादेरित्यर्थः ॥ श्रुतिसिद्धं चैतदिति ॥ स्वामिनामेव फलं न प्रजानामित्येतदित्यर्थः । देवानां ह्येतद्भवतीति श्रुत्यंशमवतारयति ॥ कुत इति ॥ कर्मादीत्यादिपदेन देवा एव तद्विजानत इत्युक्तं ज्ञानं गृह्यते । तत्परिहारकतया देवानां ह्येतदित्यनूद्यार्थकथनपूर्वं भवतीत्यंशं संयोज्य व्याचष्टे ॥ देवानामिति ॥

तत्त्वसुबोधिनी

सन्निधिमात्रेणेति ॥ पूर्वाधिकरणे ज्ञानदानमेव देवानां विहितम् । चरन्ति देवा हितमिति श्रुतेरित्युक्तम् । न चाधिकारिकमित्यादिसूत्रद्वयेन ज्ञानदानादिविभागादेरप्युपलक्षणया सूचनात् । तद्यदि देवानां फलदं न स्यान्न तदा विधेयं स्यादित्याशङ्कापरिहारायात्र ज्ञानं देवानामेव सम्पूर्णफलमन्येषां सन्निधिमात्रेणाल्पं फलमिति प्रतिपादनादनन्तरसङ्गतिरित्यर्थः ॥ अन्यथेति ॥ ज्ञानस्वामिनामेव देवादीनां फलं न त्वस्वामिनां प्राप्तज्ञानानामिति चेदित्यर्थः । स्वामित्वेऽपि देवानामेव ज्ञानफलम् इत्येतत्कुत इत्यतः स्वामी हि फलमश्नुते इति श्रुतेरनुसारेणाह ॥ लोके चेति ॥ नास्वामीति ॥ श्रुत्यशेषानुसारेणाह ॥ कर्तुरपीति ॥ अन्नादेरिति ॥ तथा च दीयमान-मन्नादिकमेव चेतनादिफलस्वरूपेण फलं न तु ज्ञानफलं मोक्षस् तेषामित्यर्थः । श्रुतिसिद्धमिति ॥ स्वामिनामेव फलं न प्रजानामित्येतद्यदि किञ्चेति श्रुतिसिद्धमित्यर्थः । देवा एव तदाचरन्ति देवा एव विजानते इत्यनेन देवानां तद्भवतीत्यस्य पौनरुक्त्यपरिहाराय व्याचष्टे ॥ कुतो देवानामिति ॥

वाक्यार्थविवरणम्

अस्वामिनोऽपीति ॥ मुख्यतया ज्ञानदानात् कर्तुराचार्यस्येत्यर्थः ॥ सन्निधीति ॥ आचार्ये प्रविश्य ज्ञानोपदेष्टॄणां देवानामाचार्यः सन्निधिः प्रतिमा तन्मात्रेणेत्यर्थः ॥ फलदानेति ॥ मोक्षफलदानेत्यर्थः ॥ प्रयोजकत्वमिति ॥ देवानां कर्तृभूतप्रजाप्रेरकत्वात् प्रजानां च कर्तृत्वा-दित्यर्थः । तथा च प्रयोजकानां फलं वा कर्तॄणां वेति सन्देह इति भावः ॥ फलाभावदर्शना-च्चेति ॥ प्रासादादिकर्तुस्तक्ष्णस्तत्स्वामित्वाभावेन प्रासादादिभोगरूपफलाभावदर्शनादित्यर्थः ॥ वेतनादिरूपेणेति ॥ तथा च भगवत्प्राप्त्यादिरूपो मोक्ष एव वेतनस्थानीयं फलमस्तीत्याह ॥ अन्नादेरिति ॥ प्रत्यहमित्यर्थः ॥ कुत इति ॥ देवा एव तदाचरन्तीत्यादिनोक्तं देवानां कर्मज्ञानादिकरणं कुत इति शङ्कार्थः ॥ भवतीति ॥ अन्यथा तन्न स्यादिति भावः ।

वाक्यार्थमञ्जरी

अस्वामिनः प्रेर्यजनस्य । प्रयोजकत्वं प्रेरकत्वम् । ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ॥ स्वामिनां देवानामेव ज्ञानफलं न प्रजानां कुतः स्वामी हि फलमश्नुत इति स्वामिनः प्रेरकस्यैकस्यैव फलश्रवणादित्यात्रेयाचार्यो मन्यत इत्यर्थः ॥ वेतनादीति ॥ अस्वामिनोऽ-भृत्यादेर्दृश्यत इत्यर्थः । दीयमानत्वाद् देवैः प्रजानाम् । देवा एव तदाचरन्ति देवा एव तद्विजानत इत्यनेन देवानां ह्येतद्भवतीत्यस्य पौनरुक्तयपरिहाराय व्याचष्टे ॥ कुतो देवतानामिति ॥


ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ

सूत्रभाष्यम्

॥ ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥ ४५ ॥

सत्रयागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजानामपि भवतीत्यौडुलोमिर्मन्यते । तदर्थं देवैः क्रियमाणत्वात् ॥

तत्त्वप्रदीपिका

आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥ सत्रयागेषु गृहपतेरेव न केवलं फलं ‘सत्रमुखे सन्युप्याग्नीन्यजेरन्सर्वे दीक्षेरन्सर्वे सुनुयुः’ इत्यादिश्रुतेर् ऋत्विजामिष्टप्रथमयज्ञानां स्वान्स्वानग्नीं-स्तदग्निषु समारोप्य दीक्षितानामनात्तदक्षिणानामल्पं फलं दृश्यते । गृहपतेर्द्रव्यातिस्रष्टुरसमत्वेऽपि । तथा ज्ञानयज्ञस्य देवैः क्रियमाणस्याऽऽर्त्विज्यं प्रजाभिः क्रियते । तदल्पफलदं भवत्येव । प्रजानामपि फलसिध्यर्थं हि तासु स्थित्वा तत्तत्करणानि व्यापारयद्भिर्देवैः क्रियते ॥

तत्त्वप्रकाशिका

एवमात्रेयमतावलम्बेन पूर्वपक्षिते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ आर्त्विज्यमिति ॥ न केवलं देवानामेव फलं किं तु प्रजानामप्यस्ति । न चास्वामित्वात्फलाभावः । यथा खलु सत्रयागे-ष्वयजमानानामप्यृत्विजां च यज्ञफलम् । तथाऽस्वामित्वेऽपि प्रजानां ज्ञानफलसम्भवात् । न च श्रुतिमुनिमतविरोधः । प्रजानामल्पफलाभ्युपगमात् । तदभिप्रायकत्वाच्च श्रुत्यादेः । अल्पस्वे निःस्व-प्रयोगदर्शनादित्यौडुलोमिराचार्यो मन्यत इति भावः । भवेदेतद् यदि प्रजानां फलभावः सिद्ध्येत् । स एव कुत इत्यत आह ॥ तदर्थमिति ॥ देवैरपि प्रजार्थमेव ज्ञानस्यापाद्यमानत्वाद्युक्तं तासां ज्ञानफलम् । तथा लोके दर्शनादिति भावः । उक्तं च । ‘त्वरयैव मनुष्याणां सिद्धिरत्वरयैव तु । देवानां तत्प्रसादेन मुक्तिरेव सतां नृणाम्’ । इति ।

गुर्वर्थदीपिका

आत्रेयमतावलम्बनेन पूर्वपक्षित इत्यत्र कर्तुरल्पफलत्वेन स्वामिन एव बहुफलत्वेन च तस्यैवोक्तेरित्यात्रेयमतमजानानेन सर्वथा कर्तॄणां फलं नास्तीति पूर्वपक्षिते सतीत्यर्थः । सत्रयागो नाम बहुभिः स्वस्वगृहात्तण्डुलादिकमानीयैकत्र सर्वेषां सहभोजनम् । तत्तु भोजनमयजमानानामपि सहकारिणां भवतीति भावेन सत्रयाग एव गृहीतः ।

भावबोधः

ननु श्रुत्यादेः प्रजानामल्पफलसद्भावाभिप्रायकत्वं स्यात् । ‘नास्वामीकर्मकुर्वाणः’ इति निषेधादित्यत आह– अल्पस्व इति ॥ देवैरपीति ॥ अत्रायं प्रयोगः । प्रजा ज्ञानफलोपेताः । प्रजार्थमेव देवज्ञैर्नास्यापाद्यमानत्वादिति । न च वैयधिकरण्यं दोषः । यो यदर्थं यदापादयति स तत्फलवानिति व्याप्तौ सत्यां तस्यादोषत्वादिति भावः । यद्वा, देवैरापाद्यमानं ज्ञानं, प्रजास्वपि फलजनकं देवैः प्रजार्थमेवापाद्यमानत्वात् । यद्यदर्थमापाद्यते तत्तदन्वयिफलजनकं यथा सम्प्रतिपन्न-मिति प्रयोगो द्रष्टव्यः । अत्र न्यायविवरणोदाहृतप्रमाणमप्याह– उक्तं चेति ॥

भावदीपः

प्रजानामपीत्यपिपदार्थं वदन् भाष्यं व्याचष्टे ॥ न केवलमिति ॥ अपिपदार्थमाह ॥ अयजमानानामपीति ॥ गृहपतिव्यतिरिक्तानामित्यर्थः । तेन ये यजमानास्ते ऋत्विज इति वाक्यविरोधः । अल्पमित्युक्तितात्पर्यं व्यनक्ति ॥ न च श्रुतीति ॥ प्रागुक्तश्रुत्या प्रागुक्तमुनिमतेन च विरोध इत्यर्थः । ननु श्रुतौ नास्वामी फलमश्नुत इत्युक्तिः कथमित्यत आह ॥ अल्पस्व इति ॥ दृष्टान्तवैषम्यशङ्कानिरासकत्वेन भाष्यशेषं व्याचष्टे ॥ नन्विति ॥ तथा लोक इति ॥ यदर्थं यत्पाकादिकं क्रियते तत्फलभोगस् तस्य दृश्यते इत्यर्थः । हेतोरसिद्धिमव्याप्यत्वं चाशङ्क्याऽ-न्यत्रोक्तश्रुत्यैव निराह ॥ उक्तं चेति ॥ न्यायविवरणे मानुषमुक्त्यर्थमेव देवानामत्वरया सिद्धिरित्यत उक्तं च श्रुतावित्यर्थः ।

अभिनवचन्द्रिका

अत्र गुणसूत्रम् – ‘आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते’ इति । तस्यार्थः देवैः क्रियमाणस्य ज्ञानयज्ञस्य आर्त्विज्यमधिकारिणा क्रियते । अतस्तस्यापि ज्ञानफलम् । न च ज्योतिष्टोमादिषु ऋत्विजां यज्ञफलादर्शनाद् आर्त्विज्येऽपि न मुमुक्षोर् ज्ञानफलाभावः । यज्ञमात्रे ऋत्विजां फलादर्शनेऽपि सत्रयागे तद्दर्शनेन असम्भावनाभावात् । तमेव विद्वानिति श्रुतिबलेन ज्ञानफलनिश्चयसम्भवात् । किं च । तस्मै मुमुक्षवे फलसिद्ध्यर्थं तत्करणानि व्यापारयद्भिर्देवै र्ज्ञानयज्ञस्य क्रियमाणत्वात्, तस्यापि ज्ञानफलं मोक्षो भवतीत्यौडुलोमिराचार्यो मन्यत इति ॥ यथा खल्विति ॥ अयजमानानामिति ॥ ज्योतिष्टोमाद्यपेक्षया । ततश्च ज्योतिष्टोमादियागेषु याजमान्य-रहितानामपि ऋत्विजां, सत्रयागे याजमान्यसद्भावात्, यथा यज्ञफलं भवति तथा प्रजानामन्यत्र स्वामित्वाभावेऽपि अत्र स्वामित्वसद्भावाज् ज्ञानफलसम्भवादित्यर्थः । एतेन ‘सप्तदशावराः सत्रमासीरन्’ इति वचनात्, तथा ‘सत्रमुचेत् सन्युप्यग्नीन् यजेरन्, सर्वे दीक्षेरन्, सर्वे सुनुयुः’ इति वचनात्, ‘ये यजमानास्त ऋत्विज’ इति वचनाच्च, सर्वेषां यजमानत्वाद् अयजमानानामित्य-युक्तम् । तथा ‘अस्वामित्वेऽपि फलसम्भवादित्युक्तम् । भृत्यानामपि कृष्यादिफलप्रसङ्गादिति परास्तम् ॥ अल्पफलाभ्युपगमादिति ॥ अनुत्तममोक्षरूपफलाभ्युपगमादित्यर्थः । एतेन अल्पफलाभ्युपगमे मोक्षैकदेशप्राप्त्या मोक्षालाभात्, ‘ज्ञानिनां मोक्षो भवत्येव’ इत्युक्तनियमविरोध इति परास्तम् ।

वाक्यार्थमुक्तावली

अत्र तस्मै इत्येतत्षष्टीबहुवचनान्ततयापि विपरिणम्यते । ऋत्विजामिदमार्त्विज्यमिति लुप्तोपमा । सूत्रे ऋत्विजां फलमिव प्रजानामपि ज्ञानादिफलमस्तीत्यौडुलोमिर्मन्यत इति भावेन व्याचष्टे ॥ न केवलमित्यादिना ॥ आर्त्विज्यमिति दृष्टान्तकथनस्योपयोगमाह ॥ न चेति ॥ न च सर्वे यजमानाः सर्वे ऋत्विज इत्युक्तेः कथं सत्रयागे ऋत्विजामयजमानत्वमिति चेन्न । अयजमाना-नामित्यस्यागृहपतीनामित्यर्थाङ्गीकारात् । तदुक्तं तत्त्वप्रदीपे । सत्रयागेषु गृहपतेरेव न केवलं फल-मित्यादि ॥ तथा अस्वामित्वेऽपीति ॥ बाह्ययज्ञ इव ज्ञानयज्ञेऽपि देवैः क्रियमाणस्य आर्त्विज्यं प्रजाभिः क्रियत इति प्रजानामपि फलं भवतीति भावः । कुत इत्यत आह ॥ तदर्थमितीति ॥ एतेन तस्मै इत्येतत्तादर्थ्ये चतुर्थी । हिशब्दो हेतौ । तथा च हि यस्मात्तस्मै प्रजानां फलार्थमेव प्रजासु स्थित्वा तत्करणानि व्यापारयद्भिर्देवैर्ज्ञानादिकं परिक्रियते तस्मादित्यर्थ उक्तो भवति । तथा च प्रयोगः । प्रजा ज्ञानयज्ञोपेतास्तदर्थं देवैरापादितसाधनवत्त्वात् । यो यदर्थं समर्थापादित-साधनवान् स तत्फलवान् यथा सम्प्रतिपन्न इति ।

ननु सत्रयागे ऋत्विजामिव ज्ञानयज्ञेषु ऋत्विजां प्रजानां ज्ञानफलमल्पमस्तीति यदुक्तं तदयुक्तमिति शङ्कते ॥ नन्विति ॥ अस्वामित्वेऽपीति ॥ अगृहपतितया द्रव्यास्वामित्वेऽपि दक्षिणामस्वीकृत्य कर्तृत्वात् । अस्तु सत्रे ऋत्विजां फलं ज्ञानयज्ञे तु दक्षिणाप्रतिनिधित्वेनान्नादि-स्वीकारात् कथं तद्दृष्टान्तेन प्रजानां फलमिति शङ्कार्थः ॥ प्रजार्थमेवेति ॥ प्रजाधिष्ठाने ज्ञानापादनस्य तेषां फलसिध्द्यर्थमेव । अन्यथा तदधिष्ठाने ज्ञानापादनं न स्यादिति भावः ॥ तथा लोक इति ॥ अन्नादिकं शिष्यार्थं, व्याख्यानेऽपि शिष्याणां ज्ञानदर्शनादित्यर्थः । एतेन सौत्रो हिशब्दः लोकप्रसिद्धिद्योतकश्चेति व्याख्यातं भवति । प्रजानां मोक्षार्थं ज्ञानस्य देवैः क्रियमाणत्व-हेतुरसिद्ध इत्यतो हिशब्दसूचितमत्वरयासिद्धिरित्युक्तन्यायसूचकं प्रमाणमाह ॥ उक्तं चेति ॥ तत्प्रसादेनेत्यस्यायमर्थः । अपरोक्षानन्तरं त्वरया देवानां मोक्षाङ्गीकारे तदा पदप्राप्त्यवकाशाभावेन प्रेरकाभावान्मनुष्याणां तत्प्रसादासादितज्ञानद्वारा मोक्षो न स्यात् । अतो मनुष्याणां करणनियमन-पूर्वं ज्ञानोत्पादनेन मोक्षार्थमत्वरयासिद्धिः । तथा च तदन्यथानुपपत्त्या तदर्थं देवैः क्रियमाणत्वं सिध्द्यतीति ।

तत्त्वसुबोधिनी

सत्रयागेष्वित्यादि ॥ सत्रयागेषु गृहपतेरेव न केवलं फलं, सत्रमुचेत्सन्युपोग्नीन् जयेरन् सर्वे दीक्षेरन् सर्वे सुनुयुरित्यादिश्रुते ऋत्विजामभिप्रथमयज्ञानान्तान्स्वानग्नितदग्निषु समाप्य दीक्षितानां दक्षिणानामत्यल्पफलं दृश्यते । गृहपतेर् द्रव्यादिस्रष्टुः समत्वेऽपि तपोज्ञानयज्ञस्य देवैः क्रियमाणस्यार्त्विज्यं प्रजाभिः क्रियते । तदाल्पफलं प्रजानामपि भवत्येवेति भावः । अत्र च यजमानपदेन गृहपतिभिन्नत्वविवक्षणादिति न कश्चित् क्षुद्रोपद्रव इति ध्येयम् । ननु कथं श्रुत्यादेः प्रजानामल्पफलसद्भावाभिप्रायकत्वं, ‘नास्वामी कर्मकुर्वाण, इति प्रतिषेधादित्यत आह ॥ अल्पस्व इति ॥ देवैरपीति ॥ अत्रायं प्रयोगः । प्रजा ज्ञानफलोपेताः प्रजार्थमेव देवैर् ज्ञानस्यापाद्य-मानत्वादिति । न च वैय्यधिकरण्यं दोषः । यो यदर्थं यदापादयति स तत्फलवानिति व्याप्तौ सत्यां दोषाभावादिति भावः । यद्वा देवैर् आपाद्यमानं ज्ञानं प्रजान्वयिफलजनकं देवैः प्रजार्थ-मेवापाद्यमानत्वादिति यद्यदर्थम् आपाद्यते तत्तदन्वयिफलजनकं यथासम्प्रतिपन्नमिति प्रयोगो द्रष्टव्यः । अत्र प्रमाणमप्याह ॥ उक्तं चेति ॥ मनुष्याणां च त्वरया सिद्धिर् देवानामत्वरया सिद्धिः । तत्र देवानामत्वरया सिद्धौ किं निमित्तमित्यतस् तदाह ॥ तत्प्रसादेनेति ॥ सतां नृणां तत्प्रसादेन मुक्त्या एवेत्यन्वयः । मुक्त्या एवेति तादर्थे चतुर्थी । तथा च सज्जनानां मनुष्याणां तत्प्रसादेन तेषां देवानां प्रसादेन इन्द्रियादिप्रेरणेन मुक्त्यर्थमेव भवति । अन्यथा त्वरयासिद्धौ मनुष्याणामिन्द्रियादिप्रेरणाभावेन ज्ञानाद्यलाभे मुक्तिर् न स्यादिति भावः । एवं मनुष्यमुक्त्यर्थमेव देवानामत्वरयासिद्धेर् मनुष्याणामपि ज्ञानफलमोक्षप्राप्तिरित्युक्तमिति भावः ।

वाक्यार्थविवरणं

तथा लोक इति ॥ पुत्रार्थमेव सम्पादितस्य धनादेः पुत्रभोगहेतुत्वस्य दर्शनादित्यर्थः । तथा च प्रज्ञा ज्ञानफलवन्तः प्रजार्थमेव देवैर्ज्ञानस्यापाद्यमानत्वात् । यो यदर्थं यदापादयति स तत्फलवान् यथा सम्प्रतिपन्न इति प्रयोगो द्रष्टव्यः । कुतो देवानामत्वरया सिद्धिरित्यत आह ॥ मुक्त्या एवेति ॥ सतां नॄणां मुक्ते एव मुक्त्यर्थमेवेत्यर्थः । देवानां ज्ञानानन्तरमेव त्वरयैव मुक्तौ मनुष्याणां ज्ञानाभावप्रसङ्गेन अत्वरयैव शनैरिति यावत् सिद्धिरिति भावः । उत्तरत्रैतत्स्पष्टम् ।

वाक्यार्थमञ्जरी

आर्त्विज्यम् ऋत्विजां फलमिव प्रजानामपि फलं भवति कुतः हि यस्मात्तस्मै प्रजार्थं देवै-र्ज्ञानादिपरिक्रियते तस्मादित्यौडुलोमिराचार्यो मन्यत इत्यर्थः । ननु कथं श्रुत्यादेः प्रजाना-मल्पफलसद्भावाभिप्रायकत्वं स्यान् नास्वामी कर्म कुर्वाण इति निषेधसद्भावादित्यत आह ॥ अल्पस्व इति ॥ अल्पधनवतीत्यर्थः ॥ तथा लोक इति ॥ यदर्थं पद्येन क्रियते तत्फलं तस्येति लोके दर्शनादित्यर्थः । उक्तं च न्यायविवरणे । मनुष्याणां त्वरयैव सिद्धिर्देवानां त्वरयैवासिद्धि-स्तेषां महाफलभाक्त्वात् । तेषां देवानां प्रसादेनैव सतां नृणां मुक्तिरित्यर्थः ।