ॐ स्तुतयेऽनुमतिर्वा ॐ
४. स्तुत्यधिकरणम्
सूत्रभाष्यम्
‘अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव’ (बृ.उ.५-५-१) इति ज्ञानिनो यथेष्टाचरणं विधीयत इत्यत आह—
॥ ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ १४ ॥
न विधिः । ज्ञानिनः स्तुतये अनुमतिमात्रं वा । युज्यते च ॥
तत्त्वप्रदीपिका
मौनमुपासनम् । अमौनमपरोक्षज्ञानम् । निर्विद्य नितरां लब्ध्वा, विद् लाभ इति धातोः । अथ ब्राह्मणः ब्रह्मनिष्ठो भवति । स येन केनापि वर्तेत, तेनेदृश एव स्यात् । न किञ्चिदपि हीयते । एवं श्रुतियोजनायां ज्ञानिनो यथेष्टचरणं विधीयत इत्यायातम् । युज्यते च । किन्नु खल्वेवंविधं ब्रह्मदर्शनं तस्य दर्शनवतोऽभिमत न कुर्वीतेत्यत आह– स्तुतयेऽनुमतिर्वा ॥ नायं विधिर् यो ज्ञानी स यथेष्टं चरेदेवेति । प्रमाणाभावात् । अपि तु ‘केन स्याद्येन स्यात्तेनेदृश एव’ इत्युक्तिर्ज्ञानिस्तुतये । यथेष्टप्रवृत्तावनुमतिमात्रं वैतत् । ‘स्तुतिः’ सामर्थ्यप्रकटनम् । ‘अनुमतिः’ क्रियमाणस्याभ्यनुज्ञा । यथेष्टचरणेऽपि तस्य ज्ञानिनो मुक्तेर्नियतत्वात् ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनज्ञानस्यासत्प्रवृत्तावपि मोक्षसाधनत्वनियमलक्षणमहिन्मो वर्णनादस्ति शास्त्रादिसङ्गतिः । अन्यथा साधनान्तरादतिशयाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतज्ञानवानत्र विषयः । किं तस्य सदसत्प्रवृत्त्योर्विशेषोऽस्ति न वा इति सन्देहः । लौकिकदृष्टिस्तुल्यं त्वित्युक्तिश्च सन्देहबीजम् । पूर्वपक्षं सूचयति ॥ अथेति ॥ न ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषोऽस्ति । ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव इति श्रुतौ ज्ञानिनो यथेष्टप्रवृत्तिविधानात् । तथा हि । यो ब्रह्मप्राप्तियोग्योऽसावागमजं ज्ञानं लब्ध्वा युक्तिजज्ञानमापादयेत् । तदुभयलाभानन्तरं ध्यानी भवति । तेन चापरोक्षज्ञानं प्राप्नोति अथ जीवन्मुक्त उच्यते । स च सता वाऽसता वा केनाऽपि प्रकारेण वर्तेतेति । यदि ज्ञानिनः सदसत्प्रवृत्त्योरस्ति विशेषस्तर्हि सदेवाचरेन्नासदिति वक्तव्यम् । न तु यथेष्टाचरणं विधातुं युक्तम् । श्रूयते च ज्ञानिनः सदसत्प्रवृत्त्योरविशेषो येन स्यात्केन स्यात्तेनेदृश एवेति । अयुक्तश्च ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषः । न हि मोक्षादतिशयितं फलमस्ति यत्सत्प्रवृत्त्या भवेत् । न च समुच्चयसाध्यत्वं मोक्षस्य नापि ज्ञानिनो मोक्षाभावो योऽसत्प्रवृत्त्या भविष्यति । अतः सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषाभावादाद्याधिकरणोक्तमयुक्तमिति । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अस्त्येव ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषस्तर्हि कथमयं यथेष्टाचरणविधिः । मैवम् । केन स्यादित्यस्य विधित्वाभावात् । तर्हि किमर्थमुच्यते । यथा कञ्चिद् भृत्यं प्रति तत्स्तुतये कथ्यते यथेष्टं कुर्विति न तु विधिस्तथैतदपि ज्ञानिनः स्तुतय एवोच्यते । अथवा यथेष्टाचारेऽनुज्ञानमात्रमेतत् । सर्वथा तु न विधिरिति भावः । न सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषो युज्यते । तथा सत्यसत्प्रवृत्त्या कुण्ठितस्य ज्ञानस्य मोक्षसाधनत्वाभावप्रसङ्गादित्यत आह ॥ युज्यते चेति ॥ सदसत्प्रवृत्तिभ्यां विशेष इति शेषः ॥
गुर्वर्थदीपिका
न ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषोऽस्तीत्यत्र ज्ञानिनां सदसत्प्रवृत्तिभ्यां सर्वथा शुभाशुभफले न स्त इति पूर्वपक्षिणोऽभिसन्धिः । सिद्धान्तिनस्तु सत्प्रवृत्तेर्न मोक्षसाधकत्वं नाप्यसत्प्रवृत्ते-र्मोक्षप्रतिबन्धकत्वम् । मुक्तावानन्दवृद्धिह्रासफलकत्वात्सर्वथा निष्फलत्वं च नेत्याहुरिति विवेकोऽनुसन्धेयः । बाल्येन तिष्ठासेदित्यत्र युक्तयनुसन्धानाख्यबलवान्बली बलिनो भावः बाल्यमिति व्युत्पत्या बाल्यपदेन युक्तयनुसन्धानात्मकं मननं गृह्यते । प्राथमिकब्राह्मणशब्दस्य ‘अणपणगतौ’ इति धातोर् ब्रह्माणतीति व्युत्पत्या ब्रह्मप्राप्तियोग्यत्वमर्थः । यद्वा ब्रह्म वेदमणति पठतीति ब्राह्मणो वेदाध्ययनवानित्यधिकारिणस्सामान्यलक्षणमुच्यते । प्राथमिकपाण्डित्याख्य-श्रवणस्यैव मौनं निर्विद्येति पुनरनुवादः । गत्यर्थानां ज्ञानार्थत्वाद् द्वितीयब्राह्मणशब्दस्य ब्रह्मापरोक्षज्ञानित्वमर्थ इत्यनुसन्धेयम् । आद्याधिकरणोक्तमित्यत्र ‘अधिकोपदेशात्’ इत्यधिकरणे यदुक्तं तन्नेत्यर्थः ।
भावबोधः
अत्र पूर्वाधिकरणोक्तज्ञानाधिकारतारतम्यानुसारेणैव ‘केन स्यात्’ इति श्रुतिविचारादनन्तर-सङ्गतिरिति ज्ञेयम् ॥ किमित्यादि ॥ अत्र ज्ञानिनां सदसत्प्रवृत्त्योर्विशेषो नास्त्युतास्तीति चिन्ता । तदर्थं ‘केन स्यात्’ इति श्रुतिर्निरवकाशोत सावकाशेति । तदर्थं ज्ञानिनां सदसत्प्रवृत्योर्विशेषः किं न युक्त उत युक्त इति । तदर्थं सदसत्प्रवृत्त्योर्विशेषः किं मोक्षतदभावयोरन्यतर उत तदतिरिक्त इति । तदर्थं ज्ञानिनां विहितनिषिद्धकरणाकरणयोः प्रमाणं नास्त्युतास्तीति । श्रुतौ यथेष्टाचरणविधेरप्रतीतेः कथमेतदित्यतो द्वितीये ब्राह्मणो ब्रह्माणितुं योग्यः । पाण्डित्यमागमजज्ञानं, बाल्यं युक्तिसहितं बलयुक्तत्वात् । मौनमुपासनाजं, अमौनमपरोक्षज्ञानं, निर्विद्यं नितरां प्राप्य लब्ध्वा ‘विद् लाभे’ इति धातोः । अथ ब्रह्मणो मुक्तो भवतीत्यर्थ इति बृहदारण्यकभाष्यं मनसि निधाय श्रुतिव्याख्यानपूर्वकं पूर्वपक्षमुपपादयति– तथा हीत्यादिना ॥ अधिकारज्ञापकस्याद्य-ब्राह्मणशब्दस्यार्थो ब्रह्मप्राप्तियोग्य इति । ‘पाण्डित्यं’ इत्यस्यार्थम् आगमजज्ञानमिति । ‘निर्विद्य’ इत्यस्यार्थो लब्ध्वेति । यद्यपि निःपूर्वो विदिर्वैराग्ये रूढः । तथापि निर् उपसर्गः । सत्तार्थस्यैव विदेरर्थं बाधित्वा तं वैराग्यार्थं व्यवस्थापयति । निर्विद्यत इति कर्तरि प्रयोगदर्शनाद् लाभार्थस्यार्थं तु विशिनष्ट्येव केवलम् । निर्विदन्ति निविदन्त इति वैराग्ये तत्प्रयोगादर्शनादिति गीताभाष्य-टीकायामेवोक्तम् । बाल्यमित्यस्य युक्तिरूपबलसम्बन्धीत्यर्थमभिप्रेत्याह– युक्तिजज्ञानमिति ॥ तिष्ठासेदित्युक्तायाः स्थितीच्छाया अविधेयत्वात्; तदिच्छायां बाल्यस्याकारणत्वाच्च युक्तिजज्ञान-मापादयेदिति तात्पर्यमुक्तमिति ज्ञातव्यम् । अथ ‘मुनिः’ इत्यस्यार्थो तदुभयलाभादनन्तरं ध्यानी भवतीति । तेन चापरोक्षज्ञानं प्राप्नोतीति । अनेन मौनं निर्विद्यामौनं प्राप्नोतीति शेषपूरणेन वाक्यं योजितं भवति । जीवन्मुक्त उच्यत इति । ‘न चाथ ब्राह्मणो मुक्तो भवति’ इति बृहदारण्यक-भाष्यविरोधः । ब्राह्मणशब्दस्य जीवन्मुक्तपरममुक्तोभयपरत्वेन तदुपपत्तेः । अत एव तत्र–
‘प्रथमो ब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते ।
अपरोक्षविन्मुक्तियोग्यस्तुतार्तीयेनोभयोर्ग्रहः ॥’
इत्युक्तमिति भावः । ज्ञानिनामात्मस्वरूपस्यैव दार्ढ्यात् सत्प्रवृत्तिविपरीतप्रवृत्त्योरविशेष इति न्यायविवरणं मनसि निधाय आह– अयुक्तश्चेति ॥ न हि मोक्षादिति ॥ मोक्षश्च ज्ञानिनां निश्चित एवेति भावः । अनेनात्मस्वरूपस्य आनन्दाविर्भावादिलक्षणस्य दार्ढ्येन निश्चितत्वादिति व्याख्यातं भवति । न मोक्षातिरिक्तातिशयितफलार्थं सत्प्रवृत्तिः । किं तु मोक्षार्थमेव । सत्प्रवृत्त्यभावे ज्ञानेन मोक्षस्यैवाजननादित्यत आह– न च समुच्चयेति ॥
‘विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।
नान्यः पन्था इति ह्येव निवारयति सादरम् ॥’
इत्यनुव्याख्यानोक्तरीत्या ‘विद्यैव तु निर्धारणात्’ इत्यत्र समुच्चयवादस्यापि दूषितत्वादित्यर्थः । ‘कामचारेण चैके’ इत्यादिसूत्रनिवर्तनीयमाह– नापि ज्ञानिन इति ॥ ज्ञानिन आत्मस्वरूप-लक्षणमोक्षस्य दृढत्वादेवेत्यर्थः । अन्यथा ‘अनियमः सर्वेषां’ इत्युक्तविरोधः स्यादिति भावः ॥ आद्येति ॥ पुरुषार्थनये ‘तद्वतो विधानात्’ । ‘नियमाच्च’ इत्यादिना कर्मावश्यकमित्युक्त-मयुक्तमित्यर्थः । ज्ञानिनः स्तुतय एवेति । सर्वाधिकारिसाधारणमिदमिति ज्ञातव्यम् ।
‘प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।
प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ॥
उपमर्द इति प्रोक्तो देवादीनां यथा क्रमम् ॥’
इत्यनुव्याख्यानानुसारेण सूत्रं व्याचष्टे– ज्ञानिनां हि विषभक्षणादिति ॥
भावदीपः
मोक्षसाधनत्वनियमेति ॥ ज्ञानिनोऽसद्वृत्तावपि मोक्षो भवत्येवेति नियमेत्यर्थः । एतेनास्तु पूर्वत्र ज्ञानरूपफले प्रज्ञान्तरेत्यत्र निर्णीतविशेषाभावप्रसङ्गात्तदधिकारे विशेषः । ज्ञाने तु नासत्प्रवृत्तिकृतो विशेषः । तत्फले मुक्तौ तत्कृतविशेषस्य निर्णीतस्य कस्यचिदभावादिति शङ्कनाद्वा पूर्वत्रेवात्रापि मुक्तिफले सम्भवत्यपि तत्रानन्दह्रासरूपविशेषेण ज्ञानेऽप्यस्ति सम्पूर्ण-मुक्त्यजनकत्वरूपविशेष इति सिद्धान्तकरणाद्वा पूर्वमाचार्यमतजैमिनिमतयोरुपन्यासव्याजेन ज्ञानस्य कर्मशेषत्ववाक्यानां कर्मणो ज्ञानशेषत्ववाक्यानां चाधिकारिभेदेनाविरोधमुक्त्वा मध्ये प्रसङ्गा-दधिकारचिन्तां च कृत्वाऽत्र पुनरेकस्मिन्नेव वाक्ये त्रिविधवाक्यैर्विरुद्धार्थत्रयपरत्वमुपेत्यात्र त्रिविधाधिकारिभेदेनाविरोधकथनाद्वा पूर्वसङ्गातिरपि सूचिता ॥ लौकिकेति ॥ लोके सदसत्प्रवृत्त्या भृत्यादेः फले विशेषदृष्टिरित्यर्थः । ज्ञानिनां सत्प्रवृत्तिविपरीतप्रवृत्तयोरविशेष इत्यन्यत्रोक्तप्रतिज्ञा-माह ॥ न ज्ञानिन इति ॥ एकवचनोक्तिर्ब्रह्मादिमानुषान्तज्ञानिसामान्यसूचनाय । कुत इत्यतो भाष्यार्थं हेतुत्वेन योजयितुं भाष्योक्तश्रुतावथपदोक्तानन्तर्यप्रतियोगिज्ञापनाय निर्विद्येत्यत्र कर्तृ-ज्ञापनाय च पूर्वशेषमाह ॥ ब्राह्मण इति ॥ इति श्रुताविति ॥ पञ्चमाध्यायपञ्चमब्राह्मण-स्थकाण्वश्रुतावित्यर्थः ॥ इति श्रुतौ ज्ञानिन इति ॥ ‘तां चतुर्थीं माहाचमस्यः प्रवेदयते’ इति व्याहृतिविद्यादाविव न ह वै देवान् पापं गच्छतीति सप्तान्नविद्यादादिव हंतकारं मनुष्या इत्यादाविव च केन स्यादिति वाक्ये कर्तृविशेषाभावेनास्य वाक्यस्य ब्रह्मादिमानुषान्तज्ञानिसामान्यपरत्वाद्यदेव विद्ययेत्यादेर्वाक्यस्य मानुषविषयत्वे ज्ञानादेव स्वर्गः । ज्ञानेनैवाप्यते सर्वमित्यादिवाक्यस्येव ज्ञानादेव स्वर्ग इत्यादेर्देवताविषयत्वे यदेव विद्ययेत्यादेरिव चेहाधिकारिविशेषपरत्वे कल्पकस्य कस्यचिदभावाच्च ।
न च ब्रह्मैव स्वेच्छानियत इत्यादिवाक्यमेवास्य चतुर्मुखमात्रपरत्वकल्पकमिति वाच्यम् । तस्य कार्यं न विद्यत इति स्मृतिबलाज्ज्ञानिसामान्यपरत्वस्य सम्भवात् । न च तदपि विशेषपरं कल्पका-भावात् । न च प्रातरुत्थाय सन्ध्यामुपासीत इति, ब्राह्मणो न हन्तव्यः, इत्यादिवाक्यमेव तस्य कार्यमित्यादेर्विशेषपरत्वकल्पकमिति वाच्यम् । तस्याज्ञविषयत्वोपपत्तेरिति भावः । स्याच्छब्दस्य विधौ स्मरणादाह ॥ विधानादिति ॥ ननु ज्ञानिनो यथेष्टेत्याद्युक्तिरयुक्ता । बृहद्भाष्ये अथ ब्राह्मणः मुक्तो भवतीत्यर्थः । स मुक्तः येन केनापि वर्तयन्नीदृश एव भिक्षुक एव न कदाचि-त्स्वतन्त्रो भवतीति ग्रन्थेन मुक्तस्य भगवतः सकाशादात्मानं विदित्वा भिक्षाचर्यं चरन्तीति पूर्वप्रकृतानन्दभिक्षुकत्वपरतया व्याख्यातत्वेन ब्राह्मणशब्दस्य ज्ञानिपरत्वाभावादित्यतः सत्यमेवं तथापि ।
‘ततो ब्रह्माणने योग्यः पाण्डित्यं प्राप्नुयात्परम् ।
पाण्डित्यमागमज्ञत्वं बाल्यं युक्तिसहायता ।
मौनं तूपासनासिद्धिरमौनं भगवद्दृशिः ।
एतान्याप्य भवेन्मुक्तिर्मुक्तो वै भिक्षुको भवेत् ॥’
इत्यादिनैकमर्थमुक्त्वा ‘प्रथमो ब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते । अपरोक्षविन्मुक्तयोग्यस्तु तार्तीयेनोभयोर्ग्रहः’ इति ज्ञानिपरत्वस्यापि प्रमाणेनोक्तत्वादज्ञानिपरत्वमप्यविरुद्धमिति भावेनादि-तस्तदर्थमाह ॥ यो ब्रह्मेति ॥ मुनिशब्दार्थो ध्यानीति । अमौनमित्यस्यार्थोऽपरोक्षज्ञानमिति । अथ ब्राह्मण इत्यस्यार्थेऽथ जीवन्मुक्त इति । वर्तत इतीतिशब्दस्य इति विधानादिति पूर्वेणान्वयः । तेनेदृश एवेत्यस्य हेत्वंशानर्पकत्वादत्र तदर्थानुक्तिः । व्याख्यास्यते चाग्रेऽनुपदम् । हेतोर-प्रयोजकत्वमाशङ्क्य हेतूच्छित्तिरेव विपक्षे बाधिकेत्याह ॥ यदीति ॥
भाष्ये श्रुतिशेषोक्तेरुपयोगमाह ॥ श्रूयते चेति ॥ न केवलं विधानान्यथानुपपत्त्याऽनुमीयत इति चार्थः । एवमविशेषेणानुमानागमावुक्त्वा विशेषस्यायोगाच्चाविशेषः सिद्ध इति भावेन युज्यते चेति भाष्यसूचितं शमदमादीति सूत्रव्यावर्त्यमाह ॥ अयुक्तश्चेति ॥ स किं मोक्षादन्यो मोक्ष एव वेति विकल्प्याद्यमाह ॥ न हीति ॥ भवेदित्युपलक्षणम् । असत्प्रवृत्त्या न भवेदित्यपि ध्येयम् । द्वितीये ज्ञानकर्मणी द्वे अपि रज्ज्वाः सूत्रद्वयमिव मोक्षस्य साधनं स्यात् । असत्प्रवृत्त्या च मोक्षः प्रतिबध्येतेति स्यात् । तदुभयमपि नेति क्रमेणाह ॥ न चेति ॥ विद्यैव त्वित्यादौ तथोक्तेः । विस्तृतं चैतत्तत्रैवानुव्याख्यानादाविति भावः ॥ नापीति ॥ अनियमः सर्वेषामित्यत्र तथोक्तेरिति भावः । एतेन ज्ञानिनामात्मस्वरूपदाढर्््यादित्यन्यत्रोक्तहेतोर् आत्मस्वरूपरूपमोक्षस्य दृढत्वेन ततोऽतिशयस्य प्राप्तव्यस्याभावात्तत्प्रतिबन्धस्य चाभावदिति द्वेधार्थः सूचितः ॥ अत इति ॥ अविशेषसाधकयुक्तिश्रुतिबलाद्विशेषस्यायुक्तत्वाच्चेत्यर्थः ॥ आद्येति ॥ पुरुषार्थनये तद्वतो विधानान्नियमाच्चेत्यादिना कर्मावश्यकमित्युक्तमित्यर्थः ।
अत आहेत्युक्तं पूर्वपक्षशङ्कानिवर्तकत्वं सूत्रभाष्ययोर्विवरितुमाह ॥ अस्त्येवेति ॥ एवकारेण न त्वविशेष इति पूर्वपक्षनिरासः । तत्र हेतुत्वेन न विधिरिति भाष्यार्थमाह ॥ विधित्वाभावादिति ॥ तथा च प्रागुक्तहेतोरसिद्धिरिति भावः । सूत्रभाष्ये अवतारयति ॥ तर्हीति ॥ चतुर्थीनिर्वाहाय किमर्थमित्युक्तिः । ज्ञानिनः स्तुतय इत्यादि व्याचष्टे ॥ यथेति ॥ स्तुतिः सामर्थ्यप्रकटनम् ॥ एतदिति ॥ केन स्यादिति वचनमित्यर्थः । अनुमतिर्वेत्यस्यार्थोऽथवेति । अयुक्तश्चेत्यादिनोक्तचोद्य-मनुवदति ॥ सदसदिति ॥ साधनत्वप्रसङ्गादित्यनन्तरं तथा च विद्यैव त्वित्याद्युक्तव्याघात इति योज्यम् ।
अभिनवचन्द्रिका
असत्प्रवृत्तावपीति ॥ ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषसमर्थनव्याजेन असत्प्रवृत्तावपि ज्ञानस्य मोक्षसाधनत्वनियमलक्षणमहिम्नः समर्थनादित्यर्थः । एतेनाऽसत्प्रवृत्तौ न ज्ञानिनो मोक्ष इति पूर्वः पक्षः । असत्प्रवृत्तावपि मोक्षो भवत्येवेति सिद्धान्तश्चाभिधेयः । न तु ज्ञानिनः सदसत्प्रवृत्तिभ्यां न विशेष इति पूर्वपक्षः, अस्ति विशेष इति सिद्धान्तश्च वक्तव्य इति परास्तम् । ‘येन स्यात्केन स्यात्’ इत्यस्याऽर्थमाह– स च सता वासता वेति ॥ आद्याधिकरणोक्तमिति ॥ कर्मणो ज्ञानशेषत्वमयुक्तमित्यर्थः ॥ यथाकञ्चिद्भृत्यं प्रतीति ॥ यथा अहं स्वतन्त्रः, तथा त्वमपीति भृत्यस्तुतिलाभाय यथा यथेष्टं कुर्वित्युच्यते तथेत्यर्थः ॥ अथवेति ॥ स्तुत्यर्थमिति पूर्वोक्तः पक्षो मनुष्यविषय एव । अनुज्ञामात्रमिति पक्षस्तु देवताविषय एव । न मनुष्यविषयः । ‘विधिनियता मनुष्या अनियता हि देवा’ इति गौपवनश्रुतिरिति विवेकः । असत्प्रवृत्त्या विशेषो न युज्यत इत्यत्र हेतुमाह– तथा सतीति ॥
(अस्तु येषामसत्प्रवृत्तिस् तेषां न मोक्षो भविष्यतीत्यत आह– तथा चेति ॥ ‘अनियमः सर्वेषाम्’ इत्यत्र ज्ञानिषु केषाञ्चिन्मोक्षः केषाञ्चिदमोक्ष इति न नियमो ऽपि तु सर्वेषां मोक्ष एवेत्युक्ताऽनियमव्याघात इत्यर्थः । ‘सत्प्रवृत्त्या विशेषो न युज्यत’ इति प्राक्प्रतिज्ञातार्थे हेतुमाह– सत्प्रवृत्तिसमुच्चितस्येति ॥ इत्यत आहेति ॥ ‘कामकारेण चैके’ इति सूत्रोदाहृतश्रुत्या एतमर्थं समर्थयितुं प्रतिजज्ञ इत्यर्थः ।)
वाक्यार्थमुक्तावली
अत्र पूर्वाधिकरणोक्तज्ञानाधिकारतारतम्यानुसारेणैव केन स्यादिति श्रुतिविचारादनन्तरसङ्गतिः ॥ मोक्षसाधनत्वेति ॥ ज्ञानिनः सदसत्प्रवृत्तिभ्यामानन्दातिशयह्रासरूपविशेष एव न मोक्षहानि-रिति प्रतिपादनादित्यर्थः । एतेन संशयपूर्वपक्षसिद्धान्तानामसत्प्रवृत्तावपि मोक्षो भवतीत्ये-तद्विषयप्रवृत्तेः कथमत्र तद्वर्णनमिति निरस्तम् । सदसत्प्रवृत्तिभ्यां विशेषप्रतिपादनमुखेनास्यैवार्थस्य कामकारेणेत्यत्र स्पष्टत्वादिति भावः ॥ किमिति ॥ अत्र ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषो नास्त्युतास्तीति चिन्ता । तदर्थं सदसत्प्रवृत्तिभ्यां विशेषसद्भावे केन स्यादिति यथेष्टाचारविधिरीदृश एवेति साम्यश्रुतिर् मोक्षस्य ज्ञानैकसाध्यतया क्लृप्तत्वात्तदधिकारस्य सदसत्प्रवृत्तिभ्यां वर्धनीयस्य कुण्ठनीयस्य फलस्याभावयुक्तिश्च विरुध्यत उत न विरुध्यत इति ॥ सूचयतीति ॥ विधीयत इत्युक्त्या विशेषसद्भावे विध्यनुपपत्तिरिति सूचनात् । ईदृश एवेत्यन्तोदाहरणेन साम्यश्रुतेरिति सूचनात् । उपलक्षणतया युक्तेश्चेति वक्ष्यमाणयुक्तेरपि सूचनादिति भावः ।
ब्राह्मणो ब्रह्माणितुं योग्यः पाण्डित्यमागमजं ज्ञानं बाल्यं युक्तिसहितं ज्ञानं बलरूपत्वान् मौनमुपासनममौनमपरोक्षज्ञानं निर्विद्य निरन्तरां प्राप्य ‘विद् लाभे’ इति धातोर् अथ ब्राह्मणो मुक्तो भवतीति बृहद्भाष्यं मनसि निधाय श्रुत्यर्थमाह ॥ तथाहीत्यादिना ॥ तदुभयलाभानन्तरं ध्यानी भवति । तेन चापरोक्षज्ञानं प्राप्नोतीति । अनेन मौनं निर्विद्य प्राप्यामौनं प्राप्नोति । मौनं तत्साध्यममौनं च निर्विद्येति शेषपूरणेन वाक्यं योजितं भवति । अनेन केन स्यादित्यादेरर्थः सतामेवेति ॥ युज्यते चेत्युत्तरभाष्यसूत्रनिरस्यम् आत्मस्वरूपदार्ढ्यमित्युक्तन्यायविरोधमप्याह ॥ अयुक्तश्चेति ॥ यदि ज्ञानिनः सत्प्रवृत्त्या विशेषः स्यात्तर्हि मोक्षादतिशयफलं स्यादिति तर्कस्य विपर्यये पर्यवसानमाह ॥ न हीति ॥ एतच्च शमाद्युपेतः स्यादित्यादावुत्तरभाविसत्कर्मणानन्दाति-शयसमर्थनात्तन्निरसनीयमिति ज्ञेयम् । यदि मोक्षादधिकफलाभावेऽपि ज्ञानिनः सत्प्रवृत्त्या विशेषः स्यात्तर्ह्ययं ज्ञानसहकार एवेति मोक्षस्य केवलज्ञानसाध्यत्वाभावात् समुच्चयसाध्यत्वं स्यादिति तर्कस्य विपर्यये पर्यवसानमाह ॥ न चेति ॥ एतच्चात एव चाग्नीन्धनेति सूत्रनिरस्यं बोध्यम् । यद्यसत्प्रवृत्त्या विशेषो भवेत्तर्हि ज्ञानिनो मोक्षाभावः स्यादिति तर्कस्य विपर्यये पर्यवसानमाह ॥ नापीति ॥ एतच्च कामकारेणेति सूत्रनिरस्यम् । एवमापाद्य विपर्यये पर्यवसानमुक्त्वा तद्धेतूकृत्यापादकविपर्यये पर्यवसानमाह ॥ अत इति ॥ मोक्षादतिशयफलाभावान् मोक्षस्य समुच्चयसाध्यत्वाभावादसत्प्रवृत्त्या ज्ञानिनो मोक्षकुण्ठनाभावाच्चेत्यर्थः ॥ आद्याधिकरणेति ॥ पुरुषार्थाधिकरणोक्तं कर्मणो ज्ञानफलेऽतिशयाधायकत्वमित्यर्थः ।
सूत्रेऽचोदनेत्येतच् चोदनमाकृष्यते । किन्त्विति शेषः । तथा च केन स्यादिति श्रुतिरचोदना न यथेष्टाचारविधिः किन्तु ज्ञानिनः स्तुतये उच्यते । यदि सता वासता वा कर्मणावर्तेत तदापीदृश एव मोक्षवान् भवत्येवेति ज्ञानिनो गुणवर्णनायैवोच्यते । अथवानुमतिरनुष्ठेयानां सदाचाराणां मध्ये येन केनापि वा सदाचारेण वर्तेत तदापीदृश एव तस्यावश्यकार्याभावादनियतत्वादिति क्रियमाणस्याभ्यनुज्ञामात्रं वेति सूत्रार्थं स्पष्टयति । अस्त्येवेत्यादिना ॥ यथा किञ्चिदिति ॥ यथेष्टकरणेऽपि मत्प्रीतिभावात् तवाधिकारश्रुतिर्नास्तीति प्रियभृत्यस्य श्रुतिर्लभ्यत इति भावः ।
तत्त्वसुबोधिनी
पूर्वाधिकरणोक्तज्ञानाधिकारतारतम्यानुसारेणैव किं न स्यादिति श्रुतिविचारादनन्तरसङ्गतिरिति भावः । ननु श्रुतौ यथेष्टाचारणविधिरप्रतीतेः कथमेतदित्यतः द्वितीयो ब्राह्मणो ब्रह्माणितुं योग्याः पाण्डित्यमागमजं ज्ञानं, बाल्यं युक्तिसहितं बलयुक्तत्वात्, मौनमुपासनं, अमौनमपरोक्षज्ञानं, निर्विद्य नितरां प्राप्य लब्ध्वा ‘विद् लाभे’ इति धातोः । अथ ब्राह्मणः मुक्तो भवति इति श्रुतिव्याख्यानपूर्वकं पूर्वपक्षमुपपादयति ॥ तथा हीति ॥ अधिकारज्ञापकस्याद्यब्राह्मणशब्दस्यार्थो ब्रह्मप्राप्तियोग्य इति । पाण्डित्यमित्यस्यार्थो आगमजं ज्ञानमिति ॥ निर्विद्येत्यस्यार्थो लब्ध्वेति । यद्यपि निःपूर्वो विदिर् वैराग्ये रूढः, तथापि निरुपसर्गस्य सत्तार्थस्यैवंविधकथनबाधित्त्वात्तं वैराग्यार्थं व्यवस्थापयतीति भावः । ज्ञानमिति ॥ तिष्टासेदित्युक्तायाः स्थितीच्छाया अविधेयत्वात् तदिच्छायां बाल्यस्याकरणत्वाच्च युक्तिजज्ञानमापादयेदिति तात्पर्यमुक्तम् इति ज्ञातव्यम् । अथ मुनिरित्यस्यार्थस् तदुभयलाभानन्तरं ध्यानी भवतीति । तेनापरोक्षज्ञानं प्राप्तोतीति । अनेन मौनं निर्विद्यामौनं प्राप्नोति इति शेषपूरणेन व्याख्यातम् । जीवन्मुक्त उच्यत इति । न चाथ ब्राह्मणो मुक्तो भवतीति बृहदारण्यकभाष्यविरोधः । ब्राह्मणशब्दस्य जीवन्मुक्तपरममुक्तोभयपरत्वोपपत्तेः ॥ न हि मोक्षादिति ॥ मोक्षश्च ज्ञानिनां निश्चित एवेति भावः ।
ननु न मोक्षातिरिक्तातिशयितफलार्थं सत्प्रवृत्तिः, किन्तु मोक्षार्थमेव सत्प्रवृत्यभावे ज्ञानेन मोक्षस्यैवाजननादितित्यत आह ॥ न च समुच्चयेति ॥ ‘विना कर्म न मोक्षः स्याज् ज्ञानेनापीति सा श्रुतिः । नान्यः पन्था इति ह्येवं निवारयति सादरं’ इत्यनुव्याख्यानोक्तरीत्या ‘विद्यैव तु निर्धारणात्’ इत्यत्र समुच्चयवादस्यापि पठितत्वादित्यर्थः । असत्प्रवृत्तौ ज्ञानिनो मोक्ष एव न स्यादित्यत आह ॥ तावतापीति ॥ ज्ञानिन आत्मस्वरूपलक्षणमोक्षस्य दृढत्वादेवेत्यर्थः । अन्यथा ‘अनियमः सर्वेषां’ इत्युक्तविरोधः स्यादिति भावः । आद्याधिकरणोक्तमिति । कर्मण आधिक्यम् अधिकोपदेशादित्यत्रोक्तं तद्युक्तमित्यर्थः ॥ ज्ञानिन स्तुतये इति ॥ सर्वाधिकारि-साधारणमिति ज्ञातव्यम् । स्तुतिः सामर्थ्यप्रकटनम् । अनुमतिः क्रियमाणस्यानुज्ञा इति ज्ञेयम् । कामितवरणमिति तत्वप्रदीपे स्पष्टम् ।
वाक्यार्थविवरणम्
मोक्षसाधनत्वेति ॥ लिङ्गशरीरभङ्गरूपमोक्षेत्यर्थः ॥ अन्यथेति ॥ असत्प्रवृत्तावपि मोक्षसाधनत्वाभाव इत्यर्थः ॥ साधनान्तरादिति ॥ स्वर्गादिसाधनात्कर्मरूपादित्यर्थः । अस-त्प्रवृत्तिपूर्वकं कर्मकरणे तस्यापि स्वर्गसाधनत्वाभावेन तत्साम्यापत्त्या तस्मादतिशयो न स्यादित्यर्थः ॥ लोकदृष्टिरिति ॥ लोकेऽसत्प्रवृत्त्यादिनाऽसंव्यवहार्यत्वादिरूपविशेषो दृश्यत इत्यर्थः । तमेव विशेषमुपपादयितुं तावत्सत्प्रवृत्त्याऽविशेषमुपपादयति ॥ न हीति ॥ असत्प्रवृत्त्याप्यविशेषमुप-पादयति ॥ नापीति ॥ आद्याधिकरणोक्तमिति ॥ अधिकोपदेशादित्यत्र यथा यथा कर्म कुरुते तथा तथाऽधिको भवतीति सत्प्रवृत्त्या विशेषकथनमित्यर्थः ॥ अनुज्ञामात्रमेतदिति ॥ दैवात् कदाचिज्ज्ञानिनां कामचरणेच्छा चेत् क्रियतामित्यनुज्ञामात्रमेवैतत् । न विधिरित्यर्थः । सत्प्रवृत्तिसापेक्षत्वे दूषणमाह ॥ सत्प्रवृत्तिसमुचितस्येति ॥ तच्च भवतामनिष्टमिति भावः ॥ मोक्षं लिङ्गभङ्गरूपम् ॥ एवमुत्तरत्रापि मोक्षशब्दस्यायमेवार्थो ज्ञातव्यः ।
वाक्यार्थमञ्जरी
तुल्यं त्विति ॥ तत्र कर्मकरणाकरणयोर्ज्ञानस्य तुल्यत्वोक्तिरित्यर्थः । आद्यब्राह्मणशब्दार्थो ब्रह्मप्राप्तियोग्य इति । पाण्डित्यमित्यस्यागमजन्यज्ञानमिति, निर्विद्येत्यस्य लब्ध्वेति, ‘विद्लृ लाभे’ इति धातोः । बाल्यमित्यस्य युक्त्यनुसन्धानमिति, तिष्ठासेदित्यस्यापादयेदिति, मुनिरित्यस्य ध्यानी भवतीति, अमौनशब्दार्थो ऽपरोक्षज्ञानमिति, ब्राह्मणशब्दार्थो जीवन्मुक्त इति, ईदृशः विशिष्टस् तदेव व्यनक्ति ॥ न हीत्यादिना ॥ मोक्षश्च ज्ञानिनां निश्चित एवेति भावः । ननु न मोक्षातिरिक्तातिशयितफलार्थं सत्प्रवृत्तिः किं तु मोक्षार्थमेव, सत्प्रवृत्त्यभावे ज्ञानेन मोक्षस्यैवाजननादित्यत आह ॥ न च समुच्चयेति ॥ ‘विद्यैव तु निर्धारणात्’ इत्यत्र समुच्चयवादस्य दूषितत्वादिति भावः ॥ नापीति ॥ तथात्वे ‘अनियमः सर्वेषाम्’ इत्युक्तज्ञानिनां मोक्षानियमविरोध इति भावः ॥ आद्याधिकरणोक्तमिति ॥ ज्ञानस्य सर्वपुरुषार्थसाधनत्वरूपमाहात्म्यमित्यर्थः ।
ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ स ब्राह्मण इति श्रुत्युक्तं यथेष्टाचरणं स्तुतये ज्ञानिस्तुत्यर्थो ऽनुमतिरनुज्ञामात्रं वा न विधिरित्यर्थः । उत्तरमाह ॥ यथेति ॥
ॐ कामकारेण चैके ॐ
सूत्रभाष्यम्
॥ ॐ कामकारेण चैके ॐ ॥ १५ ॥
‘कामचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमुत्सृज्याथ परात्परमीयुरना रम्भणम्’(सामशाखा) इति चैके पठन्ति ॥
तत्त्वप्रदीपिका
अत्र प्रमाणमाह– कामकारेण चैके ॥ एके शाखिनः कामकारेणापि ज्ञानिनो मोक्षं पठन्ति । अत उक्तं युज्यते । ‘कामकारः’ कामितकरणम् । तत्कामचारभक्षवादेषु त्रिष्वपि समम् ।
तत्त्वप्रकाशिका
असत्प्रवृत्त्या कुण्ठितशक्तेर्ज्ञानस्य मोक्षसाधनत्वाभावप्रसङ्गात्कथं युज्यते इत्याशङ्कां परिहर-त्सूत्रमुपन्यस्य व्याचष्टे ॥ कामेति ॥ नासत्प्रवृत्त्या कुण्ठितत्वेन ज्ञानस्य मोक्षसाधनत्वाभावः प्रसज्जते । यतो यथेष्टाचारेणापि ज्ञानिनो मोक्षमेके शाखिनः पठन्ति इति भावः । अनारम्भणमनादि ॥
गुर्वर्थदीपिका
‘स्तुतयेऽनुमतिर्वा’ इत्यधिकरणे ‘केन स्याद्येन स्यात्’ इत्युक्तं सदसत्कर्मिणोः कामचरणं ज्ञानिनस्स्तुतये कथ्यते । आज्ञामात्रं वा न तु विधिरित्युक्तम् । इदं तु देवताविषयम् । ‘कामकारेण चैके’ इति सूत्रे कदाचिदसत्प्रवृत्तावपि मोक्षप्रतिबन्धो न । असत्प्रवृत्तेश्च संसारध्वंसाख्यमोक्ष-कारणत्वं च नेत्युच्यते । किन्तु मोक्षे सत्प्रवृत्त्या आनन्दवृद्धिर् असत्प्रवृत्त्याऽऽनन्दह्रासश्च भवतीत्युच्यते । इदं च मानुषविषयम् । ‘गुणदोषैस्सुखस्यापि वृद्धिह्रासौ विमुक्तिगौ । नृणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम्’ इत्यणुभाष्ये कथनात् ।
भावबोधः
एके शाखिन इति ॥ अनेन ‘च’शब्दः पूर्वसूत्रगतस्य ‘एके’ इत्यनुकर्षणार्थ इत्युक्तं भवति ।
भावदीपः
सत्प्रवृत्तिसमुच्चितस्येत्यादिचोद्यमत एव चाग्नींधनेत्यत्र निरसिष्यत इति भावेनान्यनरचोद्य-निरासकत्वेनैव सूत्रमवतार्य व्याचष्टे ॥ असत्प्रवृत्त्येति ॥ साध्यमध्याहृत्य तत्र हेतुत्वेन भाष्यं व्याचष्टे ॥ नासदिति ॥ चशब्दस्य वाऽयमर्थः । यद्वा चोऽप्यर्थे । यथेष्टाचारेणापीत्याद्युक्त्यैव तात्पर्यतो लब्धार्थस्योक्तिर्नासत्प्रवृत्त्येत्यादि । युज्यते च विशेष इति पूर्वभाष्यभावार्थो वा । अनारम्भणमिति श्रौतपदानुवादोऽनादीति व्याख्या ।
वाक्यार्थमुक्तावली
चशब्दो हेतावप्यर्थे च वर्तत इति भावेन व्याचष्टे ॥ नासत्प्रवृत्त्येति ॥ यथेष्टाचारेणेति ॥ अत्राचारपदं चरणभक्षवादक्रियासामान्यपरम् । अत एव तत्वप्रदीपे कामकारः कामितकरणम् । तत्कामचरणभक्षवादे चतुर्ष्वपि समर्थमित्युक्तम् । ननु तर्कस्य किमनेन दूषणमुक्तम् । प्रमाणबाध इति चेदापाद्यानिष्टत्वोपपादकत्वेन तदङ्गत्वात् । श्रुतावसत्प्रवृत्तावपि मोक्षोक्त्या तर्कस्या-प्रयोजकत्वमुक्तमिति चेन्नासत्प्रवृत्तिकृतविशेषस्यैवापादकत्वेन श्रुतौ तत्सद्भावेऽपि मोक्षोक्तभावादिति चेत्सत्यम् । श्रुतौ कामचाराणामपि मोक्षोऽस्तीत्येतावन्मात्रमुक्तमिति । तथापि श्रुत्या कामचारस्य मोक्षविघातकत्वाभावलाभात् । कामचारकृतविशेषो मोक्षविघातरूपो न भवतीति तर्कस्या-प्रयोजकत्वमिति पर्यवसानादिति भावः ।
तत्त्वसुबोधिनी
न आरभ्यत इत्यनारम्भणमित्यन्यथाप्रतीतिनिरासायाह अनारम्भणमनादीति ॥ एवं च न आरम्भणं यस्य तद् अनारम्भणमिति विग्रहः सूचितः ॥ एके शाखिन इति ॥ अनेन चशब्दः पूर्वसूत्रगतस्यैक इत्यस्यानुकर्षणार्थ इत्युक्तं भवति ।
वाक्यार्थमञ्जरी
ज्ञानिनः कामकारेण यथेष्टाचारेणापि मोक्षमेके शाखिनः कामकारा इति पठन्तीत्यर्थः ।