०३ अविशेषाधिकरणम्

ॐ नाविशेषात् ॐ

३. अविशेषाधिकरणम्

सूत्रभाष्यम्

॥ ॐ नाविशेषात् ॐ ॥ १३ ॥

न सामान्येनाधिकारो देवादीनाम् ।

‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् ।

तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम् ’ इति कौण्डिन्यश्रुतिः ॥

॥ इति अधिकारविशेषाधिकरणम् (अविशेषाधिकरणम्) ॥ ३ ॥

तत्त्वप्रदीपिका

अधिकारितारतम्यस्पष्टीकारि सूत्रमवतारयति– नाविशेषात् ॥ न सामान्येनाधिकारो देवाना-मृषिगन्धर्वाणां मनुष्याणां च, न च देवानामपि सामान्येनाधिकारः, नाप्यृष्यादीनां नापि मनुष्याणाम् । अर्थो धर्मो ज्ञानमित्युत्तरोत्तरत पुमर्थानां कामस्वर्गापवर्गाणां साधनानि । साधनं चोत्तरोत्तरमविकमित्यर्थः । तेषु त्रिष्वप्यधिकारिणो मनुष्यऋष्यादिदेवा उत्तरोत्तरं प्रत्येकं प्रत्येकं चेत्यर्थः ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनज्ञानाधिकारस्य संपूर्णस्य दौर्लभ्यलक्षणज्ञानमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । सौलभ्येऽतिशयाभावप्रसङ्गादेतत्समर्थनीयम् । प्रकृतो ज्ञानाधिकारो विषयः । किं सर्वेषां देवादीनामेकप्रकारेणाथ नानाप्रकारेणेति सन्देहः । लौकिकसाधनेषूभयथा दर्शनं सन्देह-बीजम् । सर्वेषामविशेषेण ज्ञानाधिकार इति पूर्वः पक्षः । अधिकारतारतम्यकल्पनस्य व्यर्थत्वात् । न च वाच्यं प्रज्ञान्तरपृथक्त्ववद्दृष्टिरिति ज्ञाने तारतम्यस्योक्तत्वात्तदधिकारेऽपि तारतम्यमिति । अधिकारे विशेषाभावेऽपि ज्ञानतारतम्यस्याधिकारिणामुच्चावचशक्त्यैव सम्भवात् । अतः सर्वेषां ज्ञानाधिकारसाम्येन सर्वसौलभ्यात्पूर्णाधिकारस्य न ज्ञानमतिशयितमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ नेति ॥ न देवाद्यधिकारिणां साम्येन ज्ञानाधिकारः । तथात्वे ज्ञानेऽपि साम्यप्रसङ्गात् । तस्याधिकारानुसारित्वात् । न चाधिकारसाम्येऽपि शक्तितारतम्येन ज्ञानतारतम्यमिति युक्तम् । अधिकारसाम्ये शक्तितारतम्यस्यैवायोगात् । अधिकारतारतम्यमन्तरेण तत्कारणाभावादिति भावः । ज्ञानाधिकारतारतम्ये श्रुतिं चाह ॥ अथेति ॥ पुमर्थो मोक्षः । अर्थस्य धर्मज्ञानद्वारा मोक्षसाधनत्वं धर्मस्य ज्ञानद्वारा ज्ञानस्य साक्षादिति । अतः संपूर्णज्ञानाधिकारस्य सर्वसुलभत्वाभावात्सातिशयं ज्ञानमिति सिद्धम् ॥

भावबोधः

सम्पूर्णस्येति ॥ उत्तमस्येत्यर्थः । पूर्वं सामान्यतोऽधिकारस्वरूपं विचार्येदानीं तद्विशेष-विचारादनन्तरसङ्गतिरिति भावः ॥ किं सर्वेषामिति ॥ अत्र ब्रह्मज्ञाने देवादीनां सर्वेषामेक-प्रकारेणाधिकार उतानेकप्रकारेणेति चिन्ता । तदर्थं ‘प्रज्ञान्तरपृथक्त्ववद्दृष्टिः’ इत्युक्तापरोक्षज्ञान-तारतम्यमधिकारतारतम्यं विना सम्भवत्युत न सम्भवतीति । तदर्थं साधकानामुच्चावचशक्ति-रधिकारानुसारिणी न भवत्युत भवतीति । तदर्थमधिकारतारतम्ये प्रमाणं नास्त्युतास्तीति । न सामान्येनाधिकारो देवादीनामिति भाष्यानुरोधेन पूर्वपक्षमाह– सर्वेषामविशेषेणेति ॥ अधिकारे समेऽपि तेषामेवोच्चावचशक्तियोगात् फलभेदोपपत्तेर् अधिकारिविशेषकल्पनं व्यर्थमिति न्यायविवरणं संयोजयति– अधिकारतारतम्येति ॥ भक्त्याद्यधिकारतारतम्यानुसारेण शास्त्रात् फलप्राप्तेः सर्वेषामविशेषादिति न्यायविवरणं तात्पर्यतो व्याचष्टे– तथात्व इति ॥ उच्चावचशक्तेरपि तन्निबन्धनत्वादिति न्यायविवरणं पूर्वपक्षहेत्वसिद्धिप्रतिपादकत्वेन व्याचष्टे– अधिकारसाम्य इति ॥ श्रुतिं चाहेति ॥ अनेन दृश्यमानत्वाच्च भक्त्याद्यधिकारतारतम्यस्येति न्याविवरणमप्युक्तार्थं भवति । श्रौतस्य ‘ज्ञानमित्युत्तरोत्तरं’ इत्यस्याभिप्रायमाह– अर्थस्येति ॥ ‘यावदधिकारमवस्थिति-राधिकारिकाणां’ इत्यत्र ‘वृद्धिह्रासं’ इत्यत्रोक्तस्य मोक्षगततारतम्यस्य प्रयत्नादिनान्यथासिद्धि-शङ्कानिरासाय उपासनायाम् अधिकारतारतम्यसमर्थनम् । अत्र पुनः ‘प्रज्ञान्तरपृथक्त्ववद्दृष्टिः’ इत्युक्तापरोक्षज्ञानरूपफलतारतम्यस्य प्रयत्नादिनान्यथासिद्धिशङ्कानिरासाय ज्ञानाधिकारतारतम्य-समर्थनमिति महान् भेदः ।

भावदीपः

सम्पूर्णस्येति ॥ पुष्कलस्येत्यर्थः । अधिकारो हि पुष्कलाध्ययनभक्तिशमादिसम्पत्तिरूपा योग्यता सा दुर्लभेत्येवंरूपमहिम्न इत्यर्थः । एतेन पूर्वोक्तसामान्यस्यात्र विशेषचिन्तनाद्वा यथाशक्त्यखिलवेदाध्ययनवतोऽधिकारित्वोक्तौ तर्हि तत्तदीयोच्चावचशक्त्यैव फलभेदसिद्धौ किमधिकारभेदकल्पनयेति शङ्कनाद्वा पूर्वसङ्गतिरपि सूचिता । सामान्येनाधिकारो देवादीनामिति भाष्योक्तमाह ॥ सर्वेषामिति ॥ अधिकारिणामित्यर्थः । सामान्येनेत्यस्य व्याख्येयसौत्रपदानु-कारोऽविशेषेणेति । अधिकारविशेषकल्पनं व्यर्थमित्यन्यत्रोक्तं हेतुत्वेन योजयति ॥ अधिकारेति ॥ अधिकारे समेऽपि तेषामेवोच्चावचशक्तियोगात्फलभेदोपपत्तेरिति न्यायविवरणांशं गतार्थताशङ्का-निवर्तकतया योजयति ॥ न चेति ॥ प्रज्ञान्तरपृथक्त्ववदुपासनातारतम्यवद् दृष्टिश्च पृथङ्-नानाप्रकारेत्युपासनापादीयद्वात्रिंशन्नये उक्तत्वादित्यर्थः । यद्यपि तत्र साधनतारतम्येनैव दृष्टि-तारतम्यमुक्तं तथापि तस्याप्यधिकारतारतम्यमूलकत्वात्तदधिकारेऽपि तारतम्यमित्युक्तम् । ज्ञानेत्युप-लक्षणम् । मुक्तितारतम्यस्येत्यपि ध्येयम् । तेन यावदधिकारमवस्थितिरित्यत्र मुक्तितारतम्या-न्यथानुपपत्त्या प्राचीनाधिकारतारतम्यं सिद्धमिति तदप्याक्षिप्तं ध्येयम् । अत एव न्यायविवरणे फलभेदानुपपत्तेरिति सामान्योक्तिः ॥ उच्चावचेति ॥ महदल्पेत्यर्थः ॥ अत इति ॥ शक्तिभेदेनैव फलभेदोपपत्त्या अधिकारिविशेषकल्पनस्य व्यर्थत्वादित्यर्थः । सर्वेषामध्ययनवतामित्यर्थः । भाष्यं व्याचष्टे ॥ न देवेति ॥ सौत्राविशेषपदार्थः साम्येनेति । अविशेषप्रसङ्गादित्यर्थांतरं चोपेत्याह ॥ साम्यप्रसङ्गादिति ॥ तस्येति ॥ ज्ञानेऽपि साम्यस्येत्यर्थः । तच्च नेत्युक्तम् । प्रज्ञान्तरेत्यत्रेति भावः । प्रागुक्तशङ्कामनूद्योच्चावचशक्तेरपि तन्निबन्धनत्वादित्यन्यत्रोक्तयुक्तिविवरणेन निराह ॥ न चेति ॥ न केवलं ज्ञानेऽप्यविशेषप्रसङ्गरूपयुक्तिरिति चार्थः । उत्तरोत्तरमित्यस्यार्थोऽर्थस्येत्यादि ॥ अत इति ॥ अधिकारिभेदस्य युक्तिश्रुतिसिद्धत्वादित्यर्थः ।

अभिनवचन्द्रिका

पूर्वपक्षस्तु– सर्वेषामेकप्रकारेणैव ज्ञानाधिकारः । अधिकारतारतम्यकल्पकाभावात् । न च ज्ञानतारतम्यान्यथानुपपत्त्या तत्सिद्धिः । अधिकारसाम्येऽपि प्रयत्नतारतम्यादेव तत्सिद्धेः । अतो न ज्ञानं कर्मणः सकाशादतिशयवदिति ।

सिद्धान्तस्तु– न देवादीनां साम्येन ज्ञानाधिकारः । ज्ञानसाम्यप्रसङ्गात् । न च शक्ति-तारतम्येन ज्ञानतारतम्यमुपपन्नमिति वाच्यम् । अधिकारतारतम्याभावे शक्तितारतम्यस्यैवायोगात् । अतः संपूर्णज्ञानाधिकारस्य सर्वसुलभत्वाभावात् सातिशयं ज्ञानमिति सिद्धम् ।

वाक्यार्थमुक्तावली

सम्पूर्णस्येति ॥ पूर्वं ब्रह्मज्ञानाधिकारो न सर्वेषां किन्तु वैष्णवानामेवेत्युक्तमधुना वैष्णवेष्वपि सम्पूर्णज्ञानाधिकारस्य सार्वत्रिकत्वनिरासादनन्तरसङ्गतिरिति भावः । किं सर्वेषामिति । अत्र ब्रह्मज्ञाने देवादीनां सर्वेषामेकप्रकाराधिकार उतानेकप्रकार इति चिन्ता । तदर्थमधिकारतारतम्यं निष्प्रयोजनमुत सफलमिति । तदर्थं फलत्वेनाभिमतं ज्ञानतारतम्यं शक्तितारतम्येनैवान्यथासिद्धमुत नेति । न देवादीनामविशेषादधिकार इति साक्षात्सूत्रनिरस्यं पूर्वपक्षमाह ॥ न सर्वेषामविशेषेनेति ॥ सिद्धान्तेऽधिकारतारतम्याभावेऽविशेषात् तत्फले ज्ञाने विशेषाभावप्रसङ्गादित्युक्त्या निरस्यां युक्तिमाह ॥ अधिकारितारतम्यकल्पनस्येति ॥ कुतो न वाच्यमित्यत उच्चावचशक्तिरित्युक्तन्यायो नोपपादयति ॥ अधिकारेति ॥ सूत्रे देवादीनां ज्ञानाधिकार इत्यध्याहारः । तथा चाविशेषाद-विशेषेण साम्येनैकप्रकारतया देवादीनां न ज्ञानाधिकार इत्यर्थपरं न साम्येनेति भाष्यं व्याचष्टे ॥ न देवादीनामिति ॥ कुतो नेत्यतो ऽविशेषादित्युक्तसिद्धान्तन्यायप्रदर्शकस्याविशेषादित्यस्य ज्ञानेऽविशेषप्रसङ्गादित्यर्थान्तरं भाष्येऽपि साम्येनेत्यस्य साम्यप्रसङ्गेनेत्यर्थं मत्वा व्याचष्टे ॥ तथात्व इति ॥ अधिकारज्ञानयोरविशेषेण साम्येनैकप्रकारत्वेनेत्यर्थं मत्वा व्याचष्टे ॥ तस्याधिकारानु-सारित्वादिति ॥ अधिकारसाम्ये शक्तितारतम्यस्यैवायोगादिति । एतेनाधिकारशक्त्योरविशेषेण साम्येनैकप्रकारत्वेनेत्यर्थान्तरमुक्तं भवति । अर्थो धर्मो ज्ञानमित्येतान्युत्तरोत्तरं द्वारद्वारिभावेन पुमर्थसाधनानि । तत्र तेषु मनुष्या ऋषयो देवा उत्तमोत्तमाधिकारिण इति श्रुत्यर्थमभिप्रेत्याह ॥ पुमर्थो मोक्ष इत्यादिना ॥

ननु भक्तिवैराग्यादिरूपस्य ज्ञानाधिकारस्य तारतम्यसमर्थनं गतार्थम् । भक्तिपादे वृद्धिह्रास-भाक्त्वमित्यत्र फलतारतम्येन भक्त्याद्यधिकारतारतम्यस्य समर्थितत्वात् । उपासनापादे याव-दधिकारमित्यत्र च वृद्धिह्रासभाक्त्वमित्यत्रोक्तस्य फलतारतम्यस्याधिकारतारतम्यं विहाय प्रयत्नतारतम्येनान्यथासिद्धेर्निरस्तत्वाच्चेति चेन्न । तत्र मुक्त्याख्यफलतारतम्यस्योपासनादिप्रयत्न-तारतम्येनान्यथासिद्धिशङ्कानिरासायोपासनायामधिकारतार तम्यसमर्थनम् । इह तु प्रज्ञान्तरपृथक्त्व-मित्युक्तापरोक्षज्ञानरूपफलतारतम्यस्य प्रयत्नादिनान्यथासिद्धिशङ्कानिरासाय ज्ञानाधिकारतारतम्य-समर्थनमिति भेदात् । तदुक्तं न्यायविवरणे । भक्त्याद्यधिकारानुसारेण शास्त्रफलप्राप्तेरिति ।

तत्त्वसुबोधिनी

सम्पूर्णस्येति ॥ उत्तमस्येत्यर्थः । पूर्वं सामान्यतोऽधिकारस्वरूपं विचार्य इदानीं तद्विशेष-विचारादनन्तरसङ्गतिरिति भावः । ज्ञानतारतम्यस्यान्यथासिद्धत्वान्नाधिकारतारतम्यकल्पकत्व-मित्याह ॥ अधिकारेति ॥ श्रौतस्य प्रथमस्योत्तरोत्तरमित्यस्याभिप्रायमाह ॥ अर्थस्येति ॥ तत्राधिकारिण इत्यादेरयमर्थः । तत्र मोक्षसाधनज्ञाने मनुष्याः, ऋषयः, देवाः, अधिकारिणस् ते च पूर्वपूर्वापेक्षया उत्तरोत्तरं विशिष्टा एव न तु समाना इति । एतच्च ज्ञानाधिकारतारतम्ये श्रुतिं चाहेत्यवतारिकाग्रथेनैव व्याख्यातप्रायत्वान्न तत्र टीकाकृता पृथक्व्याख्यातम् । तत्वप्रदीपे तु साम्येनाधिकारो देवानाम् ऋषिगन्धर्वाणां मनुष्याणां च न च देवानामपि सामान्येनाधिकारः नापि ऋष्यादीनां नापि मनुष्याणाम् अर्थो धर्मो ज्ञानमित्युत्तरोत्तरतः पुमर्थानां कामस्वर्गापवर्गाणां साधनानां साधनत्वं चोत्तरोत्तरमधिकम् । एतेषु अधिकारिणो मनुष्यादिदेवा उत्तरोत्तरं प्रत्येकं प्रत्येकं चेत्यर्थ इति प्रकारान्तरेण व्याख्यातमिति ज्ञातव्यम् । यावदधिकारमित्यत्र वृद्धिह्रास-मित्यत्रोक्तस्य मोक्षगततारतम्यस्य प्रयत्नादिनाऽन्यथासिद्धिशङ्कापरिहाराय उपासनायामधिकारतम्य-समर्थनमिति महान् भेदः ।

वाक्यार्थविवरणं

लौकिकसाधनेष्विति ॥ कृषीवलानां धान्यसाधनीभूतकर्षणादिसाधनानामेकप्रकारत्वं दृष्टम् । धनप्राप्तिसाधनानां कुसीदराजसेवादीनामनेकप्रकारत्वं दृष्टमित्यर्थः ।

वाक्यार्थमञ्जरी

उच्चेति ॥ उत्तमम् । अवचेति ॥ नीचेत्यर्थः ॥ ॐ नाविशेषात् ॐ ॥ अविशेषा-द्विशेषतारतम्यं विना ज्ञानाधिकारिता न कुतो ऽविशेषान् मानस्याप्यविशेषप्रसङ्गादित्यर्थः ।

॥ इति अविशेषाधिकरणम् ॥ ३ ॥