०२ असार्वत्रिकाधिकरणम्

ॐ असार्वत्रिकी ॐ

२. असार्वत्रिकाधिकरणम्

सूत्रभाष्यं

सर्वेषां पुरुषार्थापेक्षित्वाज्ज्ञानाधिकारितेत्यत आह —

॥ ॐ असार्वत्रिकी ॐ ॥ १० ॥

न सर्वेषामधिकारः ।

तत्त्वप्रदीपिका

किमनियमेन सर्वे ज्ञानाधिकारिणः किं वा नेत्याकाङ्क्षायां सर्वेषां निर्दुःखं सुखमाप्नुवानीति पुरुषार्थापेक्षित्वात्तस्य च ज्ञानैकहेतुकत्वादुक्तरीत्या स्वर्गादेरपि ज्ञानेन लभ्यत्वात्सर्वेषां ज्ञानाधिकार इत्यत आह– असार्वत्रिकी ॥ न सर्वेषामुच्चनीचादिभावानामुक्तसामर्थ्ये वदिष्यमाणसामर्थ्ये च ज्ञानेऽधिकारः ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनज्ञाने सर्वेषामधिकाराभावमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । सर्वाधिकारिकत्वेन तस्य यागाद्यतिशयः सिध्यतीत्येतद्वर्णनीयम् । प्रकृतं ज्ञानमेव विषयः । किं तत्र सर्वेषामधिकारोऽस्ति न वा इति सन्देहः । लोके साधनद्वैविध्यप्रतीतिः सन्देहबीजम् । पूर्वपक्ष-यति ॥ सर्वेषामिति ॥ सर्वेषामप्यस्ति ज्ञानेऽधिकारः । फलार्थी समर्थो विद्वान्हि साधनेऽधिक्रियते । तत्रास्त्येव सर्वेषां ज्ञानफले मोक्षेऽर्थिता । निर्दुःखानन्दात्मकत्वात्तस्य । तादृशस्य च पुरुषार्थत्वात् । अस्ति च सर्वेषां श्रवणादौ सामर्थ्यं तदुपयोगिनी विद्वत्ता च । एवं च सर्वेषामधिकाराभावे निरधिकारित्वं ज्ञानस्य स्यात् । अतः सर्वेषां ज्ञानेऽधिकारित्वान्न तदतिशयवदिति भावः । वक्ष्यमाणसूत्रमनुकरोति स्त्रीलिङ्गप्रयोगेण । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥

गुर्वर्थदीपिका

भगवत्प्राप्तिसाधनज्ञान इत्यत्र ज्ञानपदेन वेदान्तश्रवणादिजन्यापरोक्षज्ञानं गृह्यते । ‘याव-दधिकारमवस्थितिराधिकारिकाणाम्’ इत्यधिकरणे उपासनेऽधिकारिणां निरूपितत्वात्तज्जन्यज्ञानेऽ-प्यधिकारी निरूपितप्राय एव । तस्यैव ज्ञानेऽधिकारित्वात् । अतः किं पुनर्विचारेणेति चेत्सत्यम् । अधिकारिपदमात्रेणाधिकारिणां कथनेऽपि तल्लक्षणस्याकथितत्वेन तदर्थं पुनरारम्भस्यावश्यकत्वात् । न च वाच्यं प्रथमाधिकरणे ‘भक्तिमान्परमे विष्णौ यस्त्वध्ययनवान्नरः’ इत्यादिनाऽधिकारिलक्षणं तद्विशेषश्च भाष्यकारेण निरूपित इति । तथापि सूत्रमर्यादया निरूपणाय पुनरारम्भ इति ज्ञेयम् । अत एव ‘अध्ययनमात्रवतः’ ‘नाविशेषादिति चोपरि’ इति तत्रैव भाष्यम् ।

भावबोधः

अधिकाराभावेति ॥ ‘अधिकोपदेशात्तु बादरायणस्य’ इति ज्ञानशेषत्वेन कर्मणः सकाशा-द्योऽतिशय उक्तः । स कर्मवज्ज्ञानस्यापि सर्वाधिकारिकत्वे न सम्भवतीति पूर्वाक्षेपादनन्तर-सङ्गतिरिति भावः । अत एव वक्ष्यति– सर्वाधिकरारिकत्वेन तस्य यागाद्यतिशयः सिध्यतीति ॥ किं तत्रेति ॥ अत्र ज्ञानेऽधिकारः सर्वेषामस्त्युत नास्तीति चिन्ता । तदर्थं मोक्षार्थित्वादिमात्रस्य ज्ञानाधिकारोपयोगित्वं सम्भवत्युत न सम्भवतीति । तदर्थमर्थित्वादिव्यतिरिक्तं ज्ञानाधिकारनियामकं नास्त्युतास्तीति । ननु भाष्ये लाघवाज्ज्ञानाधिकार इत्येव वक्तव्येऽधिकारितेति किमर्थमुक्तमित्यत आह– वक्ष्यमाणसूत्रमिति ॥

भावदीपः

ज्ञाने सर्वेषामित्यादि ॥ एतेन पूर्वत्र ज्ञानादेव स्वर्ग इत्यादिश्रुत्युक्तेर्ज्ञानजन्यस्वर्गादि-रूपकाम्यफले प्रसङ्गान्न सर्वज्ञानिनामधिकार इत्युक्तम् । इह तु ज्ञान एव तत्कामिनां सर्वेषां नाधिकार इत्युच्यत इति पूर्वसङ्गतिरपि सूचिता । चिन्ताफलमाह ॥ सर्वाधिकारिकत्व इति ॥ प्रकृतमिति ॥ पुरुषार्थोऽत इत्यत्रातःशब्देन प्रकृतमित्यर्थः ॥ लोक इति ॥ भोजनादिकं सर्वाधि-कारिकम् । वाणिज्यादिकमसर्वाधिकारिकं प्रतीयत इति भावः । भाष्ये सर्वेषामधिकारितेत्यन्वय-मुपेत्याह ॥ सर्वेषामपीति ॥ अन्धपंग्वादीनामर्थिनामपि कर्मादाविव एडमूकादीनां ज्ञानेऽनधिकारेण व्यभिचारितया भाष्योक्तार्थित्वमात्रस्याधिकाराप्रयोजकत्वादुपलक्षणत्वेन हेत्वंशं व्यनक्ति ॥ फलार्थीत्यादिना ॥ सामर्थ्यवैदुष्यवत्त्वे सति तज्जन्यफलार्थित्वादिति हेतोः पक्षधर्मतामुपपाद्या-प्रयोजकत्वं निराह ॥ एवं चेति ॥ अधिकारप्रयोजके सत्यपीत्यर्थः । इतोऽन्यस्याधिकार-प्रयोजकस्याभावादिति भावः । फलोक्त्या भाष्यार्थसुपसंहरति ॥ अत इति ॥ अर्थित्वादेरधिकार-प्रयोजकस्य भावादित्यर्थः । उत्तरभाष्य इवात्रापि भाष्ये अधिकार इति वाच्ये अधिकारितेत्युक्तेः कृत्यमाह ॥ वक्ष्यमाणेति ॥ एतेन कस्याधिकार इत्युत्तरभाष्यस्थषष्ठ्यप्युक्तप्रयोजनेति ध्येयम् ॥

अभिनवचन्द्रिका

सर्वेषामिति ॥ प्राणिभृन्मात्रस्येत्यर्थः ॥ सर्वाधिकारिकत्वेनेति ॥ असर्वाधिकारिका-द्यागाद्धैन्यमेव स्यान्नाऽऽधिक््यमिति भावः । ननु ‘पुरुषार्थापेक्षित्वाज् ज्ञानेऽधिकारिता’ इति भाष्यमनुपपन्नम् । फलार्थित्वमात्रस्याऽधिकाराप्रयोजकत्वादित्यतः भाष्यमुपलक्षणपरमिति भावेनाह– फलार्थीति ॥ तत्रास्त्येवेति ॥ अनन्तकालिके संसारे सर्वेषां क्रमेण ज्ञानफले मोक्षे अर्थिता भवेदेवेत्यर्थः । एतेन पामराणां मोक्षेऽर्थित्वाभावात् ‘अस्त्येवेत्ययुक्तमिति परास्तम् । कदाचिद्भविष्यतीत्यर्थस्यैव विवक्षितत्वेन वर्तमानत्वस्याविवक्षितत्वात् कुतस्तदर्थिता भविष्यतीत्यत आह– निर्दुःखेति ॥ मोक्षस्वरूपज्ञाने तदर्थित्वमवर्जनीयमिति भावः । एवमपि सामर्थ्या-भावान्नाधिकारितेत्यत आह– अस्ति चेति ॥ श्रवणादावपि सामर्थ्यं कदाचिद्भविष्यतीति भावः । तदुपयोगिनीति ॥ विद्वत्तापि प्रयत्नेन भविष्यतीति भावः ॥ एवं च सर्वेषामिति ॥ अधिकारि-प्रयोजकस्य अर्थित्वादेः सद्भावेऽपि कस्यचिदधिकाराभावे कस्यापि न स्याद् अविशेषादिति भावः । ननु भाष्ये लाघवात् ‘ज्ञानाधिकार’ इति वक्तव्ये ‘अधिकारिता’ इति किमर्थमुक्तमित्यत आह– वक्ष्यमाणसूत्रमिति ॥

वाक्यार्थमुक्तावली

यदि सर्वपुरुषार्थसाधनत्वं ज्ञानस्य तर्हि सर्वेषां पुरुषार्थापेक्षितत्वाज् ज्ञाने सर्वेऽप्यधिकारिणः स्युरिति पूर्वोक्तमुपजीव्य पूर्वपक्षोत्थानादनन्तरसङ्गतिः ॥ तत्रेति ॥ ज्ञाने सर्वेषामधिकारोऽस्ति न वेति चिन्ता । तदर्थं किमर्थित्वादिकमेवाधिकारप्रयोजकमुतान्यदिति । औदार्यमित्युक्तपूर्वपक्षन्याय-मेवार्थित्वसामर्थ्यविद्वत्वरूपोदाहरणगुणवत्वमित्यर्थतयैतदधिकरणेऽपि प्रदर्शयत्पूर्वपक्षभाष्यं व्याचष्टे ॥ सर्वेषामपीति ॥ भाष्ये पुरुषार्थापेक्षितत्वादित्येतदुपलक्षणं मत्वाऽऽह ॥ अस्ति चेत्यादिना ॥ एवं चेति ॥ एवमप्यधिकारोपयुक्तसद्भावेऽपीत्यर्थः ॥ अनुकरोतीति ॥ ज्ञानाधिकारिता न सार्वत्रिकी इत्यन्वयलाभायेति भावः । एवं सति न सर्वेषामिति भाष्यं स्वपदवर्णनपरतया पर्यवस्यतीति ज्ञेयम् ।

तत्त्वसुबोधिनी

अधिकाराभावेति ॥ अधिकोपदेशात्तु बादरायणस्येति ज्ञानस्य कर्मशेषित्वे कर्मणः सकाशाज् ज्ञानस्य यः विशेष उक्तः सः कर्मवज् ज्ञानस्यापि सर्वाधिकारिकत्वे न सम्भवतीति पूर्वाक्षे-पादनन्तरसङ्गतिरिति भावः । अधिकारप्रयोजकाभावाद् अधिकाराभाव इत्यतस् तत्त्प्रयोजकार्थि-त्वादेः सद्भावाद् युक्तोऽधिकार इत्यत आह ॥ निर्दुःखेति ॥ निर्दुःखानन्दात्मकत्वस्येत्यर्थः । ननु अधिकारप्रयोजकार्थित्वादेः सर्वेषु सत्वेऽपि कथं न सर्वेषामधिकार इत्यत आह ॥ एवं चेति ॥ ननु भाष्ये लाघवाज् ज्ञानाधिकार इत्येव वक्तव्ये अधिकारितेति किमर्थमुक्तमित्यत आह ॥ वक्ष्यमाणेति ॥

वाक्यार्थमञ्जरी

सर्वेषु विशेषत्रयं क्रमेणोपपादयति ॥ तत्रेत्यादिना ॥ पुरुषार्थत्वात्, पुरुषैरर्थ्यत्वाद् एवं च एवमपि । ननु भाष्ये लाघवायाधिकार इति वक्तव्ये अधिकारितेति किमर्थमुक्तमित्यत आह ॥ वक्ष्यमाणेति ॥ ॐ असार्वत्रिकी ॐ ॥ ज्ञानाधिकारिता असार्वत्रिकी न सर्वजननिष्ठेत्यर्थः ।


ॐ विभागश्शतवत् ॐ

सूत्रभाष्यम्

॥ ॐ विभागश्शतवत् ॐ ॥ ११ ॥

‘नवकोट््यो हि देवानां तेषां मध्ये शतस्य तु ।

सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥

यथा तथैवासङ्ख्येयाः प्रजास्तासु कियाञ्जनः ।

ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः’

इति वचनात्सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधिकारार्थम् ॥

तत्त्वप्रदीपिका

यथा नवकोटीनां देवानां मध्ये शतमेव सोमाऽधिकारिणः, प्रधानवायु (१) वसु (८) रुद्र (११) मरुत् (४९) आदित्यादयो (१२) विश्वेदेवाः (१०) बृहस्पतिः (१) पितृपतयः (३) अश्विनौ (२) ऋभवो (१) द्यावापृथिव्यन्ता (२) । द्वे ब्रह्मणी परावरे । परं विष्ण्वाख्यमवरं चतुर्मुखम् । एवमनन्तानां जीवानां मध्ये कियन्त एव ज्ञानाधिकारिणः ।

तत्त्वप्रकाशिका

नन्वर्थित्वादेः सर्वेषामपि सद्भावात्कथं नाधिकारितेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ विभाग इति ॥ यथा खलु देवत्वसाम्येऽपि नवकोटीनां न साधारण्येन सोमाधिकारः किं तु परापरब्रह्मद्वयाधिकशतस्येति विभाग एव । तथा सर्वेषां पुरुषार्थापेक्षासाम्येऽपि न ज्ञानाधिकारः किं तु ज्ञानाधिकारार्थं पुरुषविभागोऽङ्गीकार्यः । यद्युच्येत न देवत्वं सोमाधिकारोपयोगीति तर्हि नार्थित्वादिमात्रं ज्ञानाधिकारोपयोगीति वक्तव्यमिति भावः ।

भावदीपः

भाष्यं स्पष्टार्थमित्यव्याख्याय प्रागुक्तहेतोरप्रयोजकत्वोक्तिपरतयोत्तरसूत्रमवतारयति ॥ नन्विति ॥ सुखेत्यादिभाष्यं वचनोक्तदृष्टान्तोक्तेरुपलक्षणं मत्त्वा व्याचष्टे ॥ यथेति ॥ परापरब्रह्मेति ॥ विष्णुविरिञ्चेत्यर्थः । सूत्रे शतेत्युपलक्षणमिति भावः ॥ शतस्येति ॥ प्रधानवायुः (१) वसवः (८) रुद्राः (११) मरुतः (४९) आदित्या उरुक्रमसहिताः (१२) विश्वेदेवाः (१०) बृहस्पतिः (१) पितृपाः (३) अश्विनौ (२) ऋभुगणः (१) द्यावापृथिव्यौ (२) इति । प्रधानवायुवसुरुद्रमरुदादित्या विश्वेदेवा बृहस्पतिः पितृपतयो ऽश्विनावृभवो द्यावापृथिव्यन्तास् तत्वप्रदीपोक्ताः । हेतोः को दोष उक्त इत्यतः सौत्रवतिप्रत्ययसूचितप्रतिबन्दीमुखेनाह ॥ यदीति ॥

वाक्यार्थमुक्तावली

नवकोटिदेवानां मध्ये सोमार्थं द्व्यधिकशतस्येव सर्वेषामर्थित्वादिसाम्येऽपि ज्ञानाधिकारार्थं पुरुषेषु विभागोऽङ्गीकार्य इति सोपस्करं सूत्रार्थं स्पष्टयति ॥ यथा खल्वित्यादिना ॥ अनेन व्यवस्थेत्युक्तपूर्वाधिकरणसिद्धान्तन्याय एवात्रापीति सूत्रारूढो दर्शितो भवति । सोमाधिकारिशत-देवाश्च तत्वप्रदीपे यथा नवकोटिदेवानां मध्ये शतमेव सोमाधिकारिणः प्रधानवायुवसुरुद्र-मरुदादित्या विश्वेदेवा बृहस्पतिः पितृपतय अश्विनावृषभो द्यावापृथिव्यन्ताः । द्वे ब्रह्मणी परापरे । परं विष्ण्वाख्यम् । अपरं चतुर्मुखाख्यमिति निरूपिताः ।

तत्त्वसुबोधिनी

परापरब्रह्मद्वयाधिकशतस्येति ॥ प्रधानवायुवसुरुद्रादित्या मरुदादयो विश्वेदेवा बृहस्पतिः पितृपतयोऽश्विनावृभवो द्यावापृथिव्यन्ताः परंब्रह्मविष्णाख्यम् अपरं चतुर्मुख इति परापरब्रह्म-द्वयाधिकशतस्येत्यर्थः ।

वाक्यार्थविवरणम्

परापरेति ॥ परं ब्रह्म नारायणाख्यं, अपरं ब्रह्म चतुर्मुखः ॥ शतस्येति ॥ प्रधानवायुना सहैकोनपञ्चाशन्मरुत इति पञ्चाशत् । रुद्रा एकादश । उरुक्रमव्यतिरिक्ता एकादशादित्याः । विश्वे देवा दश । वसवोऽष्टौ । पितरस्त्रयः । ऋभवस्त्रयः । द्यावापृथिव्यौ द्वे । अश्विनौ द्वौ । इति पञ्चाशत् । इति शतस्येत्यर्थः ।

वाक्यार्थमञ्जरी

ज्ञानाधिकारः केषाञ्चिदस्ति केषाञ्चिन्नास्तीति विभागः व्यवस्था शतवद् यथा द्व्यधिक-शतदेवानां सोमपानाधिकारो नान्येषामिति व्यवस्था तथेत्यर्थः ।