०१ पुरुषार्थाधिकरणम्

ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ

अथ तृतीयाध्यायस्य चतुर्थः पादः

१.पुरुषार्थाधिकरणम्

सूत्रभाष्यं

ज्ञानसामर्थ्यमस्मिन्पाद उच्यते —

॥ ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ १ ॥

यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात्सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते । ‘यं यं लोकं मनसा संविभाति विशुद्धसत्वः कामयते यांश्च कामान् तं तं लोकं जयते तांश्च कामां-स्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकाम’ (मु.उ.३-१-१०) इति शब्दात् ॥

तत्त्वप्रदीपिका

ज्ञानसामर्थ्यमस्मिन्पाद उच्यते । अयमर्थः । उक्तोपासनासमुन्नाहपरिपाकसमुत्पन्नस्य ब्रह्म-दर्शनस्य महिमाऽस्मिन्नारभ्यमाणे चतुर्थे पादेऽनुवर्ण्यते । पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ यस्य विष्णोर्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात् । तस्य प्रसादात्सञ्जाताद्दर्शनात्सर्वपुरुषार्थप्राप्ति रुच्यते– ‘यं यं लोकं मनसा संविभाति’ इत्यादौ । सा च तस्माद्विष्णोर्दृष्टादिति भावः । न चैतज्ज्ञानसामर्थ्यं न भवति । विषयमपेक्ष्य विवक्षितत्वाद् विचक्षणसमाजाधिराजेन । बादरायण इति वादे रतानामधिकतयाऽऽश्रयत्वेन भगवत्तमो वेदेश्वर उच्यते । संविभाति मनुते । भा ज्ञान इति धातोः ।

तत्त्वप्रकाशिका

एतत्पादार्थं दर्शयति ॥ ज्ञानेति ॥ भगवदपरोक्षज्ञानार्थमुपासनोक्ता तज्ज्ञानं तया भवति इति चोक्तम् । तस्य ज्ञानस्य सामर्थ्यमत्रोच्यत इत्यर्थः । अत्रादौ ब्रह्मप्राप्तिसाधनज्ञानस्य सर्वपुरुषार्थ-साधनत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । अन्यथा न तत्रातिशयेन प्रवृत्तिः स्यादिति तद्वर्णनीयम् । उपासनसाध्यतया प्रकृतं ज्ञानमत्र विषयः । किं ‘मोक्षमात्रसाधनमुत फलान्तरस्यापि साधनम्’ इति सन्देहः । निरवधारणमुक्तिसाधनत्वोक्तेरुभयथा सम्भवः सन्देहबीजम् । ज्ञानं मोक्षमात्रसाधनमिति पूर्वः पक्षः । ज्ञानिनां मोक्षेतरपुरुषार्थेषु विरक्तत्वेन तदिच्छाया एवाभावात् । ‘परीक्ष्य लोकान्कर्मचितान् ब्राह्मणो निर्वेदमायात्’ ‘प्रजहाति यदा कामान्’ इत्यादेः । इच्छाभावेऽपि तत्प्राप्तौ पुरुषार्थत्वमेव न स्यात् । अतो ज्ञानस्य मोक्षमात्रसाधनत्वान्न तत्सर्वथाऽऽपाद्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ पुरुषार्थ इति ॥ यस्य दर्शनस्यार्थे पूर्वमुपासनोक्ताऽतो दर्शनतः पुरुषैरर्थ्यमानं यावच्छुभं तावत्सर्वमाप्यत एव न तु मोक्षमात्रम् । कुतः । यं यमिति शब्दादिति भगवान्बादरायणो मन्यत इत्यर्थः । संविभाति इच्छति । जयते प्राप्नोति । न च श्रुत्यादिना ज्ञानिनां मोक्षेतरपुरुषार्थेच्छाभावान्न ज्ञानात्सर्वपुरुषार्थप्राप्तिरिति युक्तम् । श्रुत्यादेः प्रायेण ज्ञानिनामन्येच्छा-भावपरत्वात् । अस्माभिस्तु श्रुत्यवलम्बेन यस्य सौभरिकर्दमादिवद्भवतीच्छा तस्य ज्ञानादेव सर्वपुरुषार्थप्राप्तिर्भवतीत्यभ्युपगमात् ।

गुर्वर्थदीपिका

उपासनाफलीभूतापरोक्षज्ञाने मोक्षसाधनत्वस्य मन्दाधिकारिणामपि रुच्युत्पादनाय प्रसङ्ग-सङ्गत्या प्राक् निरूपितत्वादिदानीं तु तस्यैव ज्ञानस्य मोक्षेतरपुरुषार्थसाधनत्वमप्यस्तीति ज्ञानमाहात्म्यप्रतिपादनाय ‘पुरुषार्थोऽतः शब्दात्’ इति सूत्रम् । एतदेवाभिप्रेत्य ज्ञानसामर्थ्य-मस्मिन्पाद उच्यत इति भाष्यं च । निरवधारणमुक्तिसाधनत्वोक्तेरित्यत्र ज्ञानं मुक्तेरेव साधन-मित्यवधारणरहितसाधनत्वोक्तेरित्यर्थः । यद्यपि विद्यैवेत्युक्तज्ञानमेव अत इति परामर्ष्टुं शक्यते तथापि पूर्वोत्तरपादयोस्सङ्गतिसूचनाय यस्य दर्शनस्यार्थ इत्युक्तम् । इच्छाभावादित्यत्रेच्छाभाव-प्रतिपादनादित्यर्थः । तस्य ज्ञानादेवेत्यत्र ज्ञानोत्तरकालं प्रारब्धकर्मणैव भोगो भविष्यति किं ज्ञानेनेति चेन्न क्रमिककालपरिपाकानां कर्मणां क्रमिकदेहप्रापकत्वेऽपि युगपत्कायव्यूहसम्पादनं ज्ञानमहिम्नैव न कर्मणा । ज्ञानेन प्रारब्धकर्मणामप्युपमर्दस्य वक्ष्यमाणत्वाच्च । अतस्सुष्ठूक्तं ‘पुरुषार्थोऽतश्शब्दात्’ इति ज्ञेयम् ।

भावबोधः

‘अस्मिन्’ इति भाष्ये ‘इदं’ शब्दप्रयोगः पूर्वपादेनास्य पादस्य सङ्गतिप्रदर्शनार्थ इत्यभि-प्रेत्याह– भगवदपरोक्षेति ॥ उक्तं ‘विद्यैव तु निर्धारणादित्यत्र’ इत्यर्थः । सामर्थ्यमिति । स्वर्गाद्यशेषपुरुषार्थसाधनत्वादिरूपमित्यर्थः । सर्वपुरुषार्थसाधनत्वमहिम्न इति ॥ पूर्वाधिकरणे ‘दर्शनाच्च’ इत्यनेनोक्तश्रुतिरूपप्रमाणमेवात्रापि ज्ञानस्याशेषपुरुषार्थसाधनत्वे ‘शब्दात्’ इत्यनेनोच्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किमित्यादि ॥ अत्र ज्ञानं किं मोक्षमात्रसाधनमुत स्वर्गादि-फलान्तरस्यापि साधनमिति चिन्ता । तदर्थं ज्ञानिनां मोक्षेतरपुरुषार्थेच्छा नास्त्युत अस्तीति ॥ तदर्थं ‘परीक्ष्य लोकान्’ ‘प्रजहाति यदा कामान्’ इत्यादिवाक्यं किं निरवकाशमुत सावकाश-मिति । ज्ञानस्याशेषपुरुषार्थसाधनत्वेऽपि किं ज्ञानकर्मणोः परस्परशेषशेषिभावो न सम्भवत्युत सम्भवतीति । तदर्थं तदुभयप्रतिपादकप्रमाणानां किं समानविषयत्वेन विरोध उत भिन्नविषयत्वेन विरोध इति ॥ निरवधारणेति ॥ ‘विद्यैव तु निर्धारणात्’ इत्यत्र ज्ञानस्यैव मुक्तिसाधनत्वोक्तावपि मुक्तिमात्रसाधनत्वस्यानुक्तत्वादिति भावः । ज्ञानिन औदार्यान्मोक्षादन्यफलेच्छाया एवासम्भवा-त्तदुक्तिः प्रशंसामात्रमिति न्यायविवरणं मनसि निधायाह– ज्ञानिनामिति ॥ सूत्रे ‘अतः’ इत्यस्य पूर्वप्रकृतपरामर्शकत्वोपपादनाय प्रवृत्तं यद्दर्शनार्थमिति भाष्यं व्याचष्टे– यस्येति ॥ सूत्रे ‘सर्व’ शब्दाश्रवणात् कथं भाष्ये सर्वपुरुषार्थेत्युक्तमित्यतः पुरुषार्थशब्दसामर्थ्यादेव तल्लब्धमित्यभिप्रेत्याह– पुरुषैरिति ॥ प्रायशो न सम्भवत्येव कस्यचित् सौभर्यादिवद्भवति चेज्ज्ञानेनैवाशेषमीप्सितं भवतीति व्यवस्थोपपत्तेरिति न्यायविवरणं मनसि निधायाह– श्रुत्यादेः प्रायेणेति ॥

भावदीपः

कतिचिन्नयैरुच्यत इति भ्रमनिरासायाह ॥ एतत्पादार्थमिति ॥ एतत्प्रदर्शनं च ‘वैराग्यतो भक्तिदाढर्््यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद्विष्णोः’ इत्यनुभाष्योक्तदिशा पूर्वपादेनास्य पादस्य सङ्गत्युक्त्यर्थमिति भावेन सङ्गतिपरतया भाष्यं व्याचष्टे ॥ भगवदिति ॥ उक्तेति ॥ तन्निर्धारणार्थनियम इत्यादौ तथा निर्णयादिति भावः ॥ उक्तमिति ॥ तत्रैवेत्यर्थः । यद्वोपासनयैव ज्ञानं न तु कर्मत इत्येतत् साधनं ज्ञानसम्पत्तौ प्रधानमिति जिज्ञासासूत्रभाष्ये प्रकाशश्च कर्मण्य-भ्यासादित्यत्र चेत्यर्थः । एतच्च तया ज्ञानं जायते न तु कर्मत इत्येतदनुक्त्वा सामर्थ्योक्तिरयुक्तेति शङ्काव्युदासाय ॥ सामर्थ्यमिति ॥ सर्वपुमर्थहेतुत्वपापालेपकरत्वयोग्यजनमात्रलभ्यत्वसन्निधिमात्रेण फलसम्पादकत्वादिसामर्थ्यमित्यर्थः । अस्मिन्नित्यस्य आद्याधिकरण इति सामर्थ्यमित्यस्य सर्वपुरुषार्थहेतुत्वरूपमहिमेत्यर्थमुपेत्यान्तर्भावसङ्गतिसूचकत्वमभ्युपेत्याह ॥ अत्रादाविति ॥ ब्रह्मेति शास्त्रे साधनेत्यध्याये ज्ञानस्य महिम्न इति पादेऽन्तर्भाव उपपादितो ज्ञेयः । एवमग्रेऽपि प्रतिनयं बोध्यम् ॥ निरवधारणेति ॥ नान्यः पन्था इति ‘दृष्ट्वैव तम्’ इत्यवधारणेऽपि ‘तं विद्वानमृत एव भवति’ इति । ‘दृष्ट्वैव तं मुच्यत’ एव न तु फलान्तरं प्राप्नोतीत्येवंरूपावधारणं विनोक्तिरित्यर्थः । ज्ञानिन औदार्यान्मोक्षादन्यफलेच्छाया एवासम्भवादित्यन्यत्रोक्तहेतुमाह ॥ ज्ञानिनामिति ॥ असिद्धिनिरासाय औदार्यशब्दार्थतया विरक्तत्वेनेत्युपपादकोक्तिः । कथं ज्ञानिनो विरक्तत्वमित्यतो वैराग्यस्य ज्ञानपूर्वभावित्वादिति भावेन तत्र श्रुतिस्मृती आह ॥ परीक्ष्येति ॥ श्रुत्यर्थो जिज्ञासासूत्रे व्यक्तः । सर्वान्पार्थमनोगतान् । ‘आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते’ इति द्वितीये गीतोक्तेरित्यर्थः । हेतोरप्रयोजकत्वं निराह ॥ इच्छेति ॥ अत इति ॥ ज्ञानिनः फलान्तरा-निच्छुत्वादनिष्टस्य चापुरुषार्थत्वादित्यर्थः । तस्माद्दर्शनादित्यन्तभाष्यं सौत्रातःशब्दारूढं कुर्वन् यद्विषयदर्शनार्थमिति धीनिरासाय भाष्यं व्याचष्टे ॥ यस्येति ॥ मुमुक्षोर्मोक्षादन्यफलप्राप्तावनिष्ट-फलकत्वशङ्कानिरासलाभाय पुरुषार्थपदं व्याचष्टे ॥ पुरुषैरिति ॥ भावस्तु अस्माभिस्त्वित्यादिनाऽग्रे व्यक्तः । यद्यपि संविभाति मनुते भा ज्ञान इति धातोरिति तत्वप्रदीपोक्तिस्तथापि धातूनामनेकार्थत्वात्प्रकृतोपयोगायाह ॥ संविभातीच्छतीति ॥ प्रागुक्तशङ्कामनूद्य तन्निवर्तकतया प्रायशो न सम्भवत्येवेत्यन्यत्रोक्तं योजयति ॥ न च श्रुत्यादिनेति ॥ परीक्ष्येति श्रुत्यादिना इच्छाभावावगमादित्यर्थः । कस्यचित् सौभर्यादिवत् सम्भवतीति चेज् ज्ञानेनैवाशेषमभीप्सितं भवतीत्यन्यत्रोक्तं सौत्रपुरुषार्थपदभावं प्रायःपदव्यावर्त्यं व्यनक्ति ॥ अस्माभिस्त्विति ॥ सौभरिकर्दमेति ॥ व्यक्तमेतन्नवमस्कन्धे । ‘जातस्पृहो नृपं विप्रः कन्यामेकामयाचत’ इत्यादिना । तथा तृतीयस्कन्धे ‘प्रियायाः प्रियमन्विच्छन्कर्दमो योगमास्थितः’ इत्यादिना ।

अभिनवचन्द्रिका

एतत्पादार्थमिति ॥ ‘तर्हि अध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः साधनेऽप्यवान्तरभेदेनेति भावेन’ इति वर्तते । तस्य ‘एतत्पादार्थं दर्शयति’ इत्यनेन सम्बन्धः । अप्रसक्तत्वाज् ज्ञानस्य तत्सामर्थ्यं न निरूपणीयमित्यत आह– भगवदपरोक्षज्ञानार्थमिति ॥ ज्ञानस्य द्वेधा प्रसक्तिः । अर्थतः कण्ठतश्चेति । तत्राऽऽद्या ‘भगवदपरोक्षज्ञानार्थम्’ इत्यनेनोक्ता । द्वितीया ‘तज्ज्ञानं तया भवतीति चोक्तम्’ इत्यनेनोक्ता । ततश्च नाऽप्रसक्तनिरूपणमिति भावः । अनेन अस्य पादस्य पूर्वपादाऽऽनन्तर्ये कारणं चोक्तं भवति । अतिशयेन प्रवृत्तिरिति । अतिशयबुद्ध्या प्रवृत्तिर्न स्यात्, किन्तु स्वप्रयोजनसाधनताबुद्ध्यैव प्रवृत्तिः स्यादित्यर्थः । एतेन सर्वपुरुषार्थसाधनत्वरूपमहिम्नो निरूपणाभावेऽपि तृषार्तस्य अतिशयेन पानीये प्रवृत्तिवन् मुमुक्षोरतिशयेन ज्ञाने प्रवृत्तिसम्भवान् महिमवर्णनमयुक्तमिति परास्तम् । पुरुषार्थत्वमेव न स्यादिति । अनिष्टपुण्यवन् मोक्षविलम्बहेतुत्वाज् ज्ञानस्य पुरुषार्थत्वं न स्यादित्यर्थः । एतेन इच्छाभावेऽपि स्वर्गादिप्राप्तिरिति वदता स्वर्गादीनामपुरुषार्थत्वस्याङ्गीकृतत्वाद् इष्टापादनमिति परास्तम् । परेणेष्टतयाऽङ्गीकृतस्य ज्ञानस्यैवाऽनिष्टत्वापादनात् ॥ न तत्सर्वथेति ॥ सर्वपुरुषार्थहेतुत्वात्सर्वोत्कृष्टं साधनामिति बुद्ध्यौ नापादनीयम्, किन्तु मोक्षसाधनत्वबुद्ध्यैवाऽ-पादनीयमित्यर्थः । एतेन पुरुषार्थान्तरसाधनत्वाभावेऽपि मोक्षसाधनत्वात् तदिच्छुना सर्वथाऽऽ-पाद्यमेवेति ‘न तत्सर्वथाऽऽपाद्यम्’ इत्ययुक्तमिति परास्तम् ॥ श्रुत्यवलम्बेनेति ॥ ‘यं यं लोकम्’ इति श्रुत्यवलम्बेनेत्यर्थः । ज्ञानिनां मोक्षेतरपुरुषार्थेच्छा न भवतीत्याशङ्कापरिहाराय पुराण-सिद्धसौभर्यादिदृष्टान्तोक्तिः ।

वाक्यार्थमुक्तावली

एतत्पादार्थमिति ॥ अध्यायस्यैकार्थत्वात्पादभेदः किंनिबन्धन इत्यतः साधनेऽप्यवान्तर-भेदादिति भावेनेति पूरणीयम् । तज्ज्ञानं तया भवतीति चोक्तमिति । तन्निर्धारणार्थनियम इत्यादावुक्तमित्यर्थः ॥ सर्वपुरुषार्थेति ॥ अपवर्गस्येव स्वर्गाद्यशेषपुरुषार्थस्यापि साधनत्वमहिम्न इत्यर्थः । देवानामेवाङ्गाश्रितत्वेन तदङ्गे उपसंहारेऽधिकार इति कथनप्रसङ्गात् । तेषामेव तादृशोपासनाजन्यापरोक्षज्ञानेन सकलपुरुषार्थावाप्तिः । कर्मणा तु तत्फलेऽतिशयाधानमिति बादरायणीयमतस्य दर्शनाच्चेत्यत्रोक्तश्रुतिरूपप्रमाणेनैवात्र पुरुषार्थोऽतः शब्दाद् अधिकोपदेशात्तु बादरायणस्यैवं दर्शनादित्यनेनोपन्यासादनन्तरसङ्गतिः । अन्यथा न तत्रेति । तथा च जिज्ञासासूत्रे ज्ञानाय विचारविधानमयुक्तमिति भावः । एवमुत्तरत्रापि ॥ किं मोक्षेति ॥ ज्ञानं किं मोक्षमात्रसाधनमुत फलान्तरस्यापि साधनमिति चिन्ता । तदर्थं ज्ञानिनां मोक्षेतरपुरुषार्थेच्छा नास्त्युतास्तीति ॥ निरवधारणेति ॥ ‘विद्यैव तु निर्धारणात्’ इत्यत्र ज्ञानस्य मुक्तिसाधन-त्वोक्तावपि मुक्तिमात्रसाधनत्वस्यानुक्तत्वादिति भावः । ‘विशुद्धसत्वः कामयते यांश्च कामानिति प्रदर्शकेन शब्दात्’ इति सूत्रखण्डेन व्यवच्छेद्यमौदार्यमित्युक्तन्यायं वैराग्यमित्यर्थत्वेन प्रदर्शयति । ज्ञानिनामिति ॥ ‘यद्यपि परीक्ष्य लोकान््’ इति श्रुतिर् जिज्ञासुविषया तथापि कैमुत्येन ज्ञानि-नामन्यकामाभावे प्रमाणं भवत्येवेति तदुदाहरणं युक्तम् । प्रजहातीत्यत्र तु स्थितप्रज्ञस्तदोच्यत इति सर्वकामप्रहाणस्य ज्ञानिलक्षणत्वोक्तेः प्रकृतोपयोगः स्फुटः ।

सूत्रे पूर्वं ज्ञानस्याप्रकृतत्वादत इति कथं परामर्श इत्यतः प्रवृत्तं यद्दर्शनार्थमिति भाष्यं व्याचष्टे ॥ यस्येति ॥ सूत्रे सर्वशब्दश्रवणात् कथं भाष्ये सर्वपुरुषार्थ इत्युक्तमित्यतः स्वर्गादीत्यनुक्त्वा पुरुषैरर्थ्यत्वरूपावच्छेदकोक्त्यैव तल्लब्धमित्याह ॥ पुरुषैरिति ॥ शब्दादित्यनेन सूचितं व्यवस्थितिरित्युक्तन्यायं दर्शयन् ‘ब्राह्मणो निर्वेदमायात् । प्रजहाति यदा कामान्’ इत्यादेर् गतिमाह ॥ श्रुत्यादेरिति ॥

तत्त्वसुबोधिनी

अस्मिन्निति भाष्ये इदं शब्दप्रयोगः पूर्वयोगः पूर्वपदेनास्य सङ्गतिप्रदर्शनार्थ इत्यभिप्रेत्याह ॥ भगवदपरोक्षेति ॥ उक्तं विद्यैव तु निर्धारणादित्यत्रेत्यर्थः । सर्वपुरुषार्थत्वसाधनत्वमहिम्न इति । अत्र पूर्वाधिकरणे दर्शनाच्चेत्यनेनोक्तश्रुतिरूपप्रमाणमेवात्रापि ज्ञानस्याशेषपुरुषार्थसाधनत्वे शब्दादि-त्यनेनोच्यते इत्यनन्तरसङ्गतिरिति भावः । ननु इच्छाभावेऽपि ज्ञानेनास्तु मुक्तिस् ततः पुरुषार्थस् तस्यैव मुक्तिमानित्यत आह ॥ इच्छाभावेऽपि इति ॥ पुरुषेच्छाद्युपपादनस्यैव पुरुषार्थत्वाद् इति भावः । सूत्रे अत इत्यस्य पूर्वप्रकृतपरामर्शोपपादनाय प्रवृत्तं यद्दर्शनार्थमिति भाष्यं व्याचष्टे ॥ यस्येति ॥ सूत्रे सर्वशब्दाश्रवाणात् कथं भाष्ये सर्वपुरुषार्थेत्युक्तमित्यतः पुरुषार्थशब्दसामर्थ्यादेव तल्लाभ इत्याह ॥ पुरुषैरिति ॥ संविभाति इच्छतीति । संविभाति मनुते भा ज्ञान इति तत्वप्रदीपे वर्णकान्तरमुक्तमिति ध्येयम् ॥ श्रुत्यादिनेति ॥ परीक्ष्य लोकान्, प्रजहाति यदा कामानिति श्रुतिस्मृतिभ्यामित्यर्थः ।

वाक्यार्थविवरणम्

पुरुषार्थत्वमेवेति ॥ पुरुषैरर्थ्यस्यैव पुरुषार्थत्वादिति भावः ॥ सर्वथेति ॥ स्वर्गमात्रसाधना-त्कर्मणः सकाशादाधिक्येनेत्यर्थः । श्रुत्यादिनेति ‘परीक्ष्य लोकान्’ इत्यादिश्रुत्यादिनेत्यर्थः ॥ इच्छाभावादिति ॥ इच्छाभावावगमादित्यर्थः ।

वाक्यार्थमञ्जरी

उक्तमिति ॥ विद्यैव तु निर्धारणादित्यत्रेत्यर्थः ॥ सामर्थ्यमिति ॥ स्वर्गापवर्गाद्यशेषपुरुषार्थ-साधनत्वादिरूपमित्यर्थः । तथा च कारणनिरूपणानन्तरं कार्यनिरूपणादनन्तरसङ्गतिरिति भावः ॥ निरवधारणेति ॥ विद्यैव तु निर्धारणादित्यत्र ज्ञानस्यैव मुक्तिसाधनत्वोक्तावपि मुक्तिमात्र-साधनत्वस्यानुक्तत्वादिति भावः ॥ न स्यादिति ॥ पुरुषैरर्थ्यस्यैव पुरुषार्थत्वादिति भावः ।

ॐ पुरुषार्थोऽतःशब्दादिति बादरायणः ॐ ॥ पुरुषार्थः पुरुषैरर्थ्यो ऽपेक्ष्यः सर्वोऽपि अतः ज्ञानादेव भवति कुतः शब्दाद् यं यं लोकमिति श्रुतेरिति बादरायणाचार्यो मन्यत इत्यर्थः ॥ सौभरीति ॥ तेन युगपत्पञ्चाशद्देहग्रहणेन तावत्सङ्ख्याकस्त्रीभिः क्रीडनादिति भावः ॥ कर्दमेति ॥


ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ

सूत्रभाष्यम्

॥ ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ २ ॥

अस्त्येव मोक्षसाधनत्वं ज्ञानस्य । स्वर्गादिषु तत्साधनकर्मशेषत्वेन । ‘स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित्’ इति वदति जैमिनिः ।

तत्त्वप्रदीपिका

शेषत्वादित्यादि सूत्रम् । अस्त्येव मोक्षसाधनत्वं ज्ञानस्यान्यसमुच्चितस्य । स्वर्गादिसाधनत्वं तत्साधनकर्मशेषत्वेन । तत्र प्राधान्यं कर्मणः । एवं सर्वपुरुषार्थसाधनत्ववादो यथा ‘स्वर्गं धनात्’ इत्यादिश्रुतौ धनादिषु कर्मशेषत्वेन स्वर्गादिसाधनत्ववादस्तद्वदिति जैमिनिर्मन्यते । ननु नैवं सूत्रयोजना सम्यग्भाति । अस्त्येव मोक्षसाधनत्वं ज्ञानस्येति । मोक्षसाधनत्वमपि कर्मशेषत्वेनेति सध्रीचीना । विभाजकाभावात् । उत्तरसूत्रगतिश्च तादृशी दृश्यते । एवं च बहुश्रुत्यनुग्रहः । जैमिनिमतानुयायिनश्च कर्माङ्गत्वेन ब्रह्मज्ञानस्य पुरुषार्थसाधनत्वमाहुर्न केवलस्य, ब्रह्मवाक्यानां कर्मवाक्येनैकवाक्यतां ब्रुवन्तः । उच्यते । न तावत्सूत्रगतिनिरूपणाय मोक्षे ज्ञानस्य कर्मशेषत्व-मवगन्तुं शक्यते । भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति, विद्यैव तु निर्धारणात्, दर्शनाच्च, श्रुत्यादिबलीयस्त्वाच्च न बाध इत्यादिसूत्रविरोधात्तद्दर्शितश्रुतिविरोधाच्च । न च सूत्राणां श्रुतीनां चान्योन्यविरोधेनार्थः प्रत्येतव्यः । न चात्र श्रुतिर्दृश्यते । न च कर्मशेषत्वे ज्ञानस्य पृथक् जिज्ञासारम्भः सार्थः स्यात् । न च वाच्यम् अस्त्वनारम्भणीयत्वं तन्मतसमाश्रयादिति । जैमिनिमत आरम्भणीयत्वात् । अन्यथा स्वमतस्यैव स्वाचार्योक्तिविरोधेन शिष्टापरिग्रहप्रसङ्गात् । ‘विविदिषन्ति यज्ञेन’ इति च श्रुतिः ।

यत्तु कैश्चिद्विव्रियते कर्तृत्वेनाऽत्मनः कर्मशेषत्वात्तद्विज्ञानमपि व्रीहिप्रोक्षणादिवद्विषयद्वारेण कर्मसम्बन्ध्येवेत्यतस्तस्मिन्नवगतप्रयोजन आत्मज्ञाने या फलश्रुतिः साऽर्थवादः । यथाऽन्येषु द्रव्य-संस्कारकर्मसु ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृृणोति यदावृङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य वर्म यजमानस्य भ्रातृव्याभिभूत्या’ इत्यादिरिति जैमिनिर्मन्यत इति । तदयुक्तम् । न हि परमात्मज्ञानार्थं कर्मादिकं वदन् जैमिनिस्तज्ज्ञानस्य सर्वत्र कर्मशेषत्वं ब्रूयात् । उक्तं हि समाकर्षाधिकरणेऽन्यार्थमिति सूत्रे परमगुरुभगवन्मतैकदेशमाश्रित्य जगति शब्दव्यवहारस्य गतिं ब्रुवता जैमिनिना परमात्मज्ञानार्थं कर्मदेवादिकं जगद्वदति वेदराशि-रिति । जीवात्मनोऽन्यस्य परमेश्वरस्य देवानां च विग्रहिणां नाभ्युपगतिः प्रथमकाण्ड इति चेन्न । ईश्वरादिदेवतानभ्युपगमे उद्देश्याभावात्तत्तदुद्देशेन यागासम्भवात्, तद्विधेरानर्थक्यप्रसङ्गात् । अभ्युपैति च जैमिनिर्देवतास्वरूपादिकम् । तत्प्राधान्यं हि सप्रमाणकं नवमाध्याये सूत्रयामास ‘देवता वा प्रयोजयेदतिथिवद् भोजनस्य तदर्थत्वात्,’ ‘स्मृतेरुपचारादन्यार्थदर्शनाच्च,’ ‘आर्थापत्त्याच्च’ इति ॥

ननु पूर्वपक्षसूत्राण्येतानि । तथा हि देवताविग्रहादिवादिनां पक्षं सविस्तरमनुवदत्येतैर्निरस्यति चोत्तरत्र– ‘अपि वाशब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद् गुणत्वे देवताश्रुतिः’ इति । मैवम् । बहुप्रमाणोपन्यासाद्देवताप्राधान्यपक्षेऽपि वेत्यन्यपक्षेऽरुचिसूचनाच्च देवताप्राधान्यपक्ष एव प्रेयानिति गम्यते । अन्योऽपि पक्षो दर्शितः कर्मैकभक्तप्राकृतजनच्छन्दानुवृत्त्या । तत्रापि प्राधान्यं ब्रुवता न देवताविग्रहाद्यभावोऽभिप्रेतः । विद्यमानस्य हि देवतादेः स्रुगाज्यवह्न्यादिवद्गुणत्वमपि यथाश्रुतं सम्भवेत् । ‘गुणत्वे देवताश्रुतिः’ इति हि तत्र चाऽह । न च विग्रहादिकं तत्प्रमाणानि चोपन्यस्तानि प्रत्याचख्यौ । सर्वं प्रत्याचख्यावुत्तरभाष्य इति चेत्, उत्सूत्रं प्रत्याख्यानप्रयत्नेऽपि हन्त न महर्षिः प्रमाणसिद्धं स्वसिद्धान्तं परित्यजति । यदिह फलं ददाति तत्प्रयोजकमिति प्रत्याख्यानप्रयत्नोऽपि ह्याह । देवतार्थता यागस्य गम्यते । फलार्थताऽपि तु न प्रतिषिध्यते । फलं च पुरुषार्थः । पुरुषार्थाय च नः प्रवृत्तिरिति चाऽह ॥

यजिर्देवतापूजा, सा पूज्यमानप्रधाना लोके लक्ष्यत इति च न लोकवदिह भवति । पूज्यमानं पूजाप्रधानकं यद्धि फलवत्तन्नः प्रयोजकम् । तस्माद्यज्ञकर्म प्रधानमिति चेन्न । तत्पूजात्मकस्य कर्मणस्तदधीनमेव फलवत्त्वं, देवतैव हि फलदा, अतस्तज्ज्ञानपूर्विकैव तत्पूजा युक्ता । ‘यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेद्वषट् करिष्यन् यां ह्यन्यमना वाच वदत्यसुर्या वै सा वागदेवजुष्टा, आहुतिभिरेव देवताः प्रीणाति तस्मै प्रीता इषमूर्जं नियच्छन्ति’ इति हि श्रुतयः । ‘स इज्जनेन स विशा स जन्मना’ ‘पुण्येन पुण्यं लोकं नयति’ ‘एष ह्येव साधुकर्म कारयति’ ‘जगृम्मा ते दक्षिणमिन्द्र हस्तम्’ इत्यादि च । तदन्यार्थवचनं देवताविग्रहभोजनप्रसादैश्वर्य-फलदानाद्यवगमयितुं नालमिति चेत् । अपूर्वार्थो विधिः क्रियाकर्तव्यतां कथमवगमयेत् । यजिपरो वा कथं पय आदिकम् । स्युत्यादिरूपतयाऽविधिपरत्वादयथार्थत्वमर्थवादादीनमिति चेन्न । प्रमाणविरोधेऽपि वचनानां दशदाडिमादिवाक्यवदयथार्थत्वाङ्गीकारे यज्ञकर्मणः फलवत्त्वश्रुतिः कथं विश्वसनीया स्यात् । न च ते वदन्ति शतवत्सहस्रवदित्यादेरयथात्वम् । तादृशानामभिमानि-देवताविषयत्वं ह्यसीषधाम । विग्रहादिवचनानां विद्यमानवादत्वेऽपि न विरुद्धं स्तुतित्वम् । न च तुविग्रीवादिपदानां तत्तदर्थवचने वाक्यभेदः । ‘अरुणयैकहायन्या पिङ्गाक्ष्या गवा क्रीणाति’ इत्यादिवदेकवाक्यतोपपत्तेः । देवताद्यभाववादिनश्चास्येन्द्राग्न्यादिस्वरूपवादी वेदो वाच्यरहितत्वाद-प्रमाणमेव स्यात् ।

नास्माभिर्देवतास्वरूपं प्रतिषिध्यते विग्रहाद्येवेति चेन्न । स्वरूपेऽपि स्वोक्तन्यायेनैव प्रमाणा-भावस्याभिप्रेतत्वात् । इन्द्रो नाम कश्चिदस्तीत्यत्र च श्रुतिरेव हि प्रमाणम् । तथा च तद्धर्माः श्रूयमाणाः कथमप्रमाणकाः स्युः । अतो देवतादिनिरासप्रयासो व्यर्थः । न शोभते च वैदिकानाम् । जैमिनिस्तु धर्ममीमांसको न तत्प्रत्याचख्यावित्याख्यातम् । देवतामीमांसा तु भगवतैवाऽरम्भणीयेति न स्वयमारेभे । नानादरात् । तस्मात्परमात्मज्ञानार्थं कर्मदेवतादिकं वदति वेद इति जैमिनिवादो युक्तः । तत्र पुनः प्रकारविशेषाः शिष्यान्तरचिन्तिताः ।

ननु कौशीतकिब्राह्मणगतबालाक्यजातशत्रुसंवादसमन्वयप्रतिपादनेन तत्र जीवप्राधान्यं निरस्य परमात्मज्ञापनार्थं ‘एष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते’ इत्यादिको जीवपरामर्श इति वदति जैमिनिरिति केचि-दन्यार्थमित्यादिसूत्रं योजयन्ति । मैवम् । जीवस्य परमात्मनोऽन्यत्वाभ्युपगमे स्वसिद्धान्तविरोधात् । न स्वसिद्धान्तोऽयं जैमिनेरेवेति चेन्न । अप्रत्युक्तत्वात् । एवं च नेष्टसिद्धिः । उत्तरत्र आश्मरथ्यौडुलोमिपक्षयोर्भेदस्पर्शित्वमुपन्यस्य भेदलेशस्याप्यविषह्यत्वेनाभेदविषयत्वेनोपन्यस्तम् । काशकृत्स्नमतमेव हि स्वाभिमतमिति परिजल्पितम् । अन्यत्वेन भ्रान्त्या प्रतीतस्य सम्यग्ज्ञापनार्थं जीवपरामर्श इति चेद्बूयात्स स्वयं ब्रह्मात्मदर्शी कस्येदं व्याचक्षीत । स्वप्नस्थवदन्यं ददर्शेति चेन्न । प्रबुद्धस्य तदभावात् । अप्रबुद्धत्वेन तद्वचनं पुमर्थेच्छवो गृह्णीयुः । प्रपञ्चितं चैतत्प्रागेव प्रथमाध्याये । समन्वयादन्यद्वक्तुमयुक्तमित्युक्तमिति चेत्सत्यम् । अत एव सामान्यतः प्रतिज्ञातं समन्वयं प्रतिवाक्यं प्रतिपदादिकं च प्रतिपाद्य अन्ततो निगमयाञ्चक्रे ‘एतेन सर्वे व्याख्याता’ इति सर्वशब्दसमन्वयमिति ब्रूमः ॥

न च वाच्यम् एतेन सांख्यनिराकरणोक्तन्यायेनावशिष्टा अप्यण्वादिकारणवादिनस्सर्वेऽपि निराकृता व्याख्याता इति सूत्रयोजनेति । समन्वयसम्बन्धादृते केवलसांख्यनिराकरणस्यैवासमञ्जस-त्वात् । प्रधानस्य वैदिकत्वं निराक्रियत इति चेन्न । महदादिविकारवतः परतन्त्रस्य प्रधानस्या-मुख्यार्थतया वैदिकत्वाविरोधात् । स्वतन्त्रं तूपरिष्टात्प्रत्यादिष्टम् । अतः सर्वशब्दानां ब्रह्मणि प्रवृत्तिप्रतिपादने तैर्जगति व्यवहारस्य सर्वजनीनस्य गतिर्वक्तव्येति तदर्थं युक्तं समाकर्षादिति कथनम् । अधिकारिभेदान्मतभेद इत्यवादि । न च वाक्यान्वयादित्यधिकरणान्तरकल्पना युक्ता । विवेचकाभावात् । एकाधिकरणत्व उक्तसम्बन्धसम्भवाच्च । कर्मादिवाक्यानां शिष्यान्तरमतेऽपि परमात्मसम्बन्धकथनस्य युक्तत्वात् । तत्पक्षे भगवतः स्वमताभावप्रसङ्गाच्च । काशकृत्स्नीयं मतं हि स्वीक्रियत इति चेत्, काशकृत्स्नस्तावत्किं मन्यते? जीवेशैक्यमिति चेन्न । दत्तोत्तरत्वात् । न ह्यवस्थितिशब्दस्तद्वाचक इति ।

अथाप्येवं तत्र सूत्रगतिमुपगच्छन्ति बृहदारण्यके मैत्रेयीब्राह्मणे ‘न वा ओ पत्युः कामाय’ इत्यारम्भ ‘आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा ओ द्रष्टव्यः श्रोतव्यः’ इत्यादिना द्रष्टव्यत्वादिनोपदिश्यमानो जीवः परमात्मा वेत्याकाङ्क्षायां प्रियसंसूचितेन जीवेनोपक्रमात्स एवेत्याशङ्क्य वाक्यस्यावयवशः परमात्मन्येवान्वयात्स एव द्रष्टव्यत्वादिनोपदिश्यत इति प्रक्रान्ते सिद्धान्ते प्रियसंसूचितेन जीवेनोपक्रमस्य गतिरुच्यते ‘प्रतिज्ञासिद्धः’ इत्यादिसूत्रे । ‘आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति’ इदं सर्वं यदयमात्मा’ इति प्रतिज्ञासिध्यर्थमभेदांशेनोपक्रम इत्याश्मरथ्यः । देहेन्द्रियाद्युपाधिबद्धस्य ज्ञानध्यानयोगेन तस्मादुत्क्रमिष्यतो ब्रह्मभावप्राप्तेर्जीवेनोपक्रमः कृत इत्यौडुलोमिः । परस्यैव जीवरूपेणाप्यवस्थितेरभेदेनोपक्रम इति काशकृत्स्नो मन्यते । अधिकृतः पर एव जीव इति तन्मतं भवतीति तदनुसृतमाश्मरथ्येन । भेदांशस्याप्यभ्युपगतत्वाद् द्वितीयपक्षस्य चावस्थापेक्षया भेदाभेदप्रणयित्वादिति ॥

अत्र ब्रूमः । नात्र जीवेनोपक्रमोऽस्ति । येन तद्गतिरन्विष्येत । परमात्मन एव सर्वतः प्रियत्वमुच्यते यतस्तत्प्रियत्वेनैवान्यस्य प्रियत्वं भवति । तथा च भागवते–

‘प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।

यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः’ इति ।

तत्र ह्यात्मनोऽपि परमात्मार्थे प्रियत्वमुदितम् । आव्याकृतब्राह्मणे च ‘आत्मेत्येवोपासीत’ इति परमात्मानमुपास्यत्वेनोपदिश्य ‘अनेन ह्येतत्सर्वं वेद’ इत्यादिना तत्प्रसादात्सर्वज्ञत्वादिकमुक्त्वा ‘तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मात्’ इति तस्य सर्वतः प्रेष्ठत्वं कथयति ॥

‘स एष विष्णुर्भगवान् पुत्राद्वित्तात्तथाऽऽत्मनः ।

अन्यस्मादपि सर्वस्मात्प्रेष्ठ एव स्वभावतः ॥

आत्मनोऽपि प्रियत्वं तु तेनैव कृतमञ्जसा ।

आत्मनो निरयायैव कुर्यात्कर्माणि नित्यशः ॥

यतोऽतस्स्वात्मनश्चापि स्वाप्रियत्वमुदाहृतम् ।

स चेदप्रियकृद्विष्णुर्नाऽत्माऽपि प्रियतां व्रजेत् ॥

अस्मिन्प्रिये प्रियं सर्वं तस्मादेकः प्रियो हरिः ।

स चाऽत्मशब्देनोद्दिष्टो यस्मादात्तगुणः प्रभुः’ इत्याध्यात्मे ॥

अतो जीवेनोपक्रमस्य गतिरुच्यत इत्येतद्दुरुक्तम् ॥

न च बहुभिस्सूत्रैस्तत्र तत्राभेदाशङ्कां निरस्य प्रतिपादितभेदस्य भगवतः शिष्यस्य काश-कृत्स्नस्याभेदाभिप्रायो भवति । तद्भावे च स्वसिद्धान्तं किं न पृथक् सूत्रयेत् । न च पूर्वपक्षपर्यवसानं निर्णयशास्त्रे शोभत इत्यास्तां विस्तरः । अतः स सन्देहो व्यपोढः, जैमिनिमतानुसारेण पूर्वपक्षसूत्राण्येतानीति । ‘व्यासचित्तस्थिताकाशात्’ इत्यादिप्रमाणैः सिद्धान्तैकदेशे योजयितुं सुशकत्वाच्च सूत्राणाम् । अतो विभाजकाभावो नाऽशङ्कनीयः । ये तु ज्ञानस्य मोक्षसाधने कर्मशेषत्वं ब्रूयुस्ते न जैमिनिमतमनुसरन्तीत्यवोचाम । अकुशला व्युत्पत्तावबोद्धारो विधिशेषाणामकर्तारः परमधर्माणामगन्तारः फलवितानानामित्यस्याः पदव्या दूरतो निरस्ता इति न किल पुरस्ता-त्प्रास्तविषयः ।

तत्त्वप्रकाशिका

एतमर्थमाक्षिपत्सूत्रमुपन्यस्य व्याचष्टे ॥ शेषत्वादिति ॥ यदुक्तं मोक्षादिसमस्तपुरुषार्थसाधनं ज्ञानमिति तत्रास्तु ज्ञानस्य मोक्षसाधनत्वं न तु स्वर्गादिसाधनत्वम् । तत्साधनं तु कर्मैव । न चैवं यं यं लोकमिति ज्ञानस्य सर्वपुरुषार्थसाधनत्ववादविरोधः । ज्ञानस्यापि कर्मशेषत्वेन स्वर्गादि-साधनत्वाभ्युपगमात् । न च वाच्यं ज्ञानस्य कर्मशेषत्वाभ्युपगमेऽपि पुरुषार्थवादविरोधानतिवृत्तिः । पुरुषार्थवादे ज्ञानस्य प्राधान्यदर्शनात् । न हि शेषत्वे तथा प्रयोगो दृष्ट इति । स्वर्गसाधनकर्मशेषेऽपि धनादौ स्वर्गं धनादिति प्राधान्यप्रयोगदर्शनात् । तद्वदत्राप्युपपत्तेरिति जैमिनिराचार्यो मन्यत इति भावः । अत्र ज्ञानस्य कर्मशेषत्वं नाम कर्मणैव सिध्यत्स्वर्गस्याधिक्यापादकत्वम् ।

गुर्वर्थदीपिका

स्वर्गं धनादितीत्यस्य स्वर्गं धनादिति वाक्येनेत्यर्थः ।

भावबोधः

प्राधान्यदर्शनादिति ॥ ‘ज्ञानादेव स्वर्गः’ इत्यादिनिर्देशबलादिति भावः । ननु धनादेर्यज्ञादि-कर्मजनकत्वेन भवतु तच्छेषत्वं, न ज्ञानस्य । अज्ञानिनामपि यज्ञादिदर्शनेन तस्य तदजनकत्वा-दित्यत आह– अत्र ज्ञानस्येति ॥ स्वरूपोपकारकस्येव फलोपकारस्यापि प्रयाजादेः शेषत्व-दर्शनादिति भावः ।

भावदीपः

एतमिति ॥ अस्माभिस्त्वित्यादिनोक्तमर्थमित्यर्थः । आक्षिपदित्यापाततः । वस्तुतस्तु देवेतराधिकारिणां ज्ञानस्य मोक्षान्यपुमर्थसाधकत्वं कर्मशेषत्वेनेति प्रतिपादयत्सूत्रमित्यर्थो ज्ञेयः । सर्वान्प्रति साक्षादेव ज्ञानं सर्वपुमर्थहेतुरिति पूर्वसूत्रार्थं भ्रान्तिमत्पुरुषाभिप्रायेणाक्षिपदित्युक्तम् । भाष्यं व्याचष्टे ॥ यदुक्तमिति ॥ तत्रास्त्वित्यादि ॥ एतच्च मोक्षेऽपि ज्ञानस्य कर्मशेषताशङ्काव्युदासाय भाक्तं वा, विद्यैव त्वित्यादिसूत्रनिर्णीतार्थस्मारणायोक्तमिति ध्येयम् । शेषत्वेनेति पदतात्पर्यं शङ्कापूर्वं व्यनक्ति ॥ न चैवमिति ॥ स्वर्गमित्यादिभाष्यशेषं शङ्कापूर्वं व्याचष्टे ॥ न च वाच्यमिति ॥ वक्ष्यमाणेति पदेनान्वयः ॥ पुरुषार्थवादेति ॥ यं यं लोकमिति पुरुषार्थसाधनत्ववादविरोधेत्यर्थः ॥ प्राधान्यदर्शनादिति ॥ यं यमिच्छति ज्ञानी तं तमाप्नोतीति साक्षाद्धेतुत्वप्रतीतेरिति भावः ॥ तद्वदत्राप्युपपत्तेरिति ॥ तदुक्तिः प्रशंसामात्रमिति न्यायविवरणोक्तरीत्या ज्ञानप्रशंसार्थत्वेन साक्षाद्धेतुत्वोक्त्युपपत्तेरित्यर्थः । ज्ञानस्य साधनादेरिव कर्मस्वरूपानिष्पादकत्वात्कथं तच्छेषत्व-मित्यतस् तन्निष्पादकत्वाभावेऽपि प्रयाजादिवदारादुपकारकत्वरूपं शेषत्वं भविष्यतीत्याह ॥ कर्मशेषत्वं नामेति ॥ यदेव विद्ययेति श्रुतेरिति भावः ।

अभिनवचन्द्रिका

ननु न मोक्षसाधनस्य ज्ञानस्य कर्मशेषत्वं वक्तुं युक्तम् । अपरोक्षज्ञानविधुराणां कर्मिणां फलाभावप्रसङ्गात् । शेषविधुरस्य शेषिणः फलजनकत्वासम्भवादित्यत आह– अत्र ज्ञानस्येति ॥ न ब्रूमो वयमपरोक्षज्ञानस्य प्रयाजादिवत्फलसाधनसहकारितयाऽङ्गत्वमिति, येनोक्तदोषः स्यात्, किं नाम कर्मणैव जायमाने स्वर्गेऽतिशयाधायकत्वम् । ततश्च अपरोक्षज्ञानविधुराणां कर्मिणा-मतिशयाऽसम्भवेऽपि स्वर्गस्तु भविष्यत्येवेति भावः । ननु यथाश्रुतमपि ज्ञानस्य प्राधान्यं कर्मप्राधान्यवचनानुरोधान् न स्वीक्रियते, तथा ज्ञानप्राधान्यवचनानुसारात् कर्मणोऽपि प्राधान्यं परित्याज्यम्, किन्तु ज्ञानस्य कर्मशेषत्वमिव कर्मणो ज्ञानशेषत्वमङ्गीकार्यम् । न च परस्परशेषत्व-मयुक्तमिति वाच्यम् । क्कचिज् ज्ञानस्य प्राधान्यं, कर्मणः शेषत्वम्; क्वचित्तु कर्मणः प्राधान्यं, ज्ञानस्य शेषत्वमिति व्यवस्थासम्भवात् ।

वाक्यार्थमुक्तावली

अस्त्येव मोक्षसाधनत्वं ज्ञानस्येत्युपस्कार्यप्रदर्शकभाष्ये मोक्षसाधनत्वमेवास्तीत्येवकारान्वयं मत्वा तद्व्यवच्छेदार्थं दर्शयति ॥ न त्विति ॥ तत्साधनकर्मेत्यंशस्यार्थमाह ॥ तत्साधनं त्विति ॥ सूत्रे पुरुषार्थवादस्य गतिप्रदर्शनात् तत्सङ्गमयितुं तद्व्यवच्छेद्यं विरोधमाशङ्क्य निषेधति ॥ न चेति ॥ सूत्रेऽत इत्येतद्विपरिणम्यास्येत्यनुवर्तते । अस्य ज्ञानस्य पुरुषार्थवादः स्वर्गादिपुरुषार्थ-साधनत्ववादः शेषत्वात् स्वर्गादिहेतुकर्मशेषत्वान् न साक्षादिति मत्वा प्रवृत्तं ज्ञानस्य स्वर्गादिसाधनत्वं तत्साधनकर्मशेषत्वेनैवेति भाष्यं व्याचष्टे ॥ ज्ञानस्यापीति ॥ प्राधान्यदर्शनादिति । ‘विशुद्धसत्वः कामयते यांश्च कामान् तान् कामान् जयते तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः’ इति ज्ञानस्यानन्यशेषतया पुरुषार्थसाधनत्वदर्शनात् । कामी यान्कामान् कामयते इति शेषीभूतकर्म-प्राधान्यं प्रतीयेत । तस्मात् कर्मिणमर्चयेदित्यविधिः स्यात् । नत्वात्मज्ञमर्चयेदिति प्रयोग इति भावः । यथाऽन्येष्वित्यत्र पुरुषार्थवाद इत्यनुवर्तत इति व्याचष्टे ॥ स्वर्गसाधनेति ॥ स्वर्गसाधन-कर्मशेषेऽपि दक्षिणादिरूपेण दीयमाने धनादौ देहतः केवलदेहसाध्यान् नमस्कारपरिचर्यादेर् गृहाद् गृहस्थैरनुष्ठीयमानत्वाज् ज्योतिष्टोमादेश्चेति कर्मसमानयोगक्षेमत्वे स्वर्गं धनादिति धनस्योक्त्या प्राधान्यप्रतीतेरिति भावः ।

ननु ज्ञानस्य कर्मशेषत्वं नाम व्रीहिमोक्षणादीनां प्रधानात् पूर्वस्वरूपनिष्पत्तावुपयोगि-त्वेनाङ्गत्ववन् न कर्मस्वरूपोपकारकाङ्गत्वम् । अज्ञानिनामपि कर्मदर्शनात् । नापि प्रयाजादिवत् फलसम्पादने सहकारितयाङ्गत्वम् । अज्ञानिकर्मणापि स्वर्गादिदर्शनात् । तदभावेऽपि फलोत्पत्तौ तस्य सहकारित्वानुपपत्तेः । दक्षिणादेरपूर्वनिष्पत्तावेवाङ्गत्वे दृष्टान्तानानुगुण्याच्च । मन्त्रहीनम-दक्षिणम् । ‘श्रद्धाविरहितं यज्ञं तामसं परिचक्षते’ इति भगवद्वचनात् । स्वर्गहेतुभूतापूर्वस्यैव दक्षिणाभावेऽनुत्पादात् । नापि कर्मसाध्ये स्वर्गे सुखविशेषाधायकत्वं शेषत्वं विवक्षितम् । दृष्टान्तानानुगुण्यादित्यत आह ॥ अत्र ज्ञानस्येति ॥ दार्ष्टान्तिक इत्यर्थः । शेषत्वमात्रे दृष्टान्त इति भावः । यद्वा यस्य यागस्य यावद्दक्षिणा क्लृप्ता । तावत्याः स्वरूपोपकारकत्वेन कर्मशेषत्वेऽपि तदपेक्षया द्वित्रिगुणाधिकायास् तत्फलेऽतिशयासाधकत्वं न सम्भवत्येवेति तदिह दृष्टान्तत्वेन विवक्षितमित्यदोषः ।

तत्त्वसुबोधिनी

विरोधानतिवृत्तिमेव दर्शयति । पुरुषार्थवाद इति प्राधान्यदर्शनादिति । ज्ञानादेव स्वर्ग इत्यादीति भावः । ननु दोषत्वेऽप्यस्तु प्राधान्यप्रयोग इत्यत आह ॥ न हीति ॥ ननु धनादेर् यज्ञादिकर्मजनकत्वेन भवतु तच्छेषत्वम् ॥ न ज्ञानस्य ॥ अज्ञानिनामपि यज्ञादिदर्शनेन तस्य तदजनकत्वादिति तत्राह ॥ अत्र ज्ञानस्येति ॥ स्वरूपोपकारकावघातादेरिव फलोपकारकस्यापि प्रयाजादेः शेषत्वदर्शनादिति भावः ।

वाक्यार्थविवरणम्

पुरुषार्थवादेति ॥ ज्ञानस्य प्राधान्येन सर्वपुरुषार्थसाधनत्वप्रतिपादक ‘यं यं लोकम् ’ इति श्रुतिविरोधानतिवृत्तिश्रुतिविरोध एव स्यादित्यर्थः । तदुपपादयति ॥ पुरुषार्थवाद इति ॥

वाक्यार्थमञ्जरी

पुरुषार्थवादः ज्ञानादेवाशेषपुरुषार्थो भवतीत्युक्तिः शेषत्वाज् ज्ञानस्य कर्मोपकारकत्वात् कथं यथान्येषु धनादिषु कर्मोपकारकत्वेन पुरुषार्थवादस्तथेति जैमिनिराचार्यो मन्यत इत्यर्थः ॥ प्राधान्यदर्शनादिति ॥ ज्ञानादेव स्वर्ग इति निर्देशबलादिति भावः । ननु धानाक्षेती विकर्म-जनकत्वेन भवतु तच्छेषत्वं न ज्ञानस्याज्ञानिनामपि यज्ञादिदर्शनेन कर्मणस्तदजन्यत्वादित्यत आह ॥ अत्र ज्ञानस्येति ॥ स्वरूपोपकारकस्येव फलोपकारकस्यापि प्रयाजादेः शेषत्वदर्शनादिति भावः ।