ॐ न वाऽतत्सहभावश्रुतेः ॐ
४२. नवाधिकरणम्
सूत्रभाष्यम्
॥ ॐ न वाऽतत्सहभावश्रुतेः ॐ ॥ ६७ ॥
न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहाश्रवणात् ।
तत्त्वप्रदीपिका
न वाऽङ्गदेवतानां तद्गणानां वाऽङ्गेषूपसंहारः । केषां? अवरेषाम् । ‘चक्षोः सूर्यो अजायत’ इत्यादावुपसंहार्यत्वस्य सहाश्रवणात् । शिष्टेश्चाङ्गदेवताविषयत्वोपपत्तेः । न च तावताऽऽदित्यादिमतय इति पुनरुक्तिः स्यात् । तत्रत्वन्याशक्तावप्यवश्यकरणाय तदुक्तेः ॥
तत्त्वप्रकाशिका
अत्र ब्रह्मज्ञानसाधनस्याङ्गाश्रितत्वेन देवतोपासनस्य कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तस्यानुपपत्तेस्तत्समर्थनीयम् । प्रकृतं देवानां भगवदङ्गाश्रयत्वेनोपासनं विषयः । कर्तव्यं न वेति सन्देहः । उभयविधोपासनप्रतीतिः सन्देहबीजम् । न कर्तव्यमिति पूर्वः पक्षः । तथोपासनस्य सर्वशाखास्वनुक्तत्वात् । कर्तव्यत्वे क्रियात्वादग्निष्टोमादिवत्सर्वशाखागतोपासनेन सहभावप्रसङ्गात् । अतोऽस्योपासनस्याकर्तव्यत्वादुक्तमयुक्तमिति । गूढाभिसन्धिना सूत्रमुपन्यस्य व्याचष्टे ॥ न वेति ॥ भगवदङ्गेष्वङ्गदेवतोपसंहार उपसंहृत्योपासनं न कर्तव्यमिति यदुक्तं तत्सत्यमेव । तथोपासनस्य सर्वशाखागतोपासनेन सहाश्रवणादित्यर्थः । अयमभिसन्धिः । सर्वशाखासु तथोपासनस्या-श्रवणादकर्तव्यत्वं भवत्येव । सर्वैः कर्तव्यतानभ्युपगमात् । न च केनाप्यकर्तव्यता । क्वचिदुक्तत्वात् । अन्यथोक्तिवैयर्थ्यप्रसङ्गात् । अतः क्वचिदुक्तत्वात्सर्वत्रानुक्तत्वाद्देवैः कर्तव्यमेतन्नान्यैरिति ।
भावबोधः
प्रकृतमिति ॥ अनेनानन्तरसङ्गतिरप्युक्ता भवति ॥ कर्तव्यमिति ॥ अत्र देवानां भगव-दङ्गाश्रयत्वेनोपासनं किं न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थं तदुपासनस्य सर्वशाखास्वनुक्तिः किं सर्वैरकर्तव्यत्वं विनाऽनुपपन्नोत कैश्चित् कर्तव्यत्वेनैवोपपन्ना । तदर्थं कैश्चिदेव कर्तव्यत्वे प्रमाणं नास्त्युतास्तीति । क्रियात्वादुपासनाया उपसंहारस्याग्निष्टोमादिवत् प्रतिशाखं वक्तव्येति न्यायविवरणानुसारेण पूर्वपक्षमुपपादयति– तथोपासनस्येत्यादिना ॥
ननूपासनं न कर्तव्यमिति पूर्वपक्षिते कथं न वेत्यकर्तव्यताप्रतिपादकसूत्रेण सिद्धान्त इत्यत उक्तम्– गूढाभिसन्धिनेति ॥ उत्तमाधिकारिव्यतिरिक्तैरिति अधिकारिविशेषनिर्देशाभावादभिसन्धेर् गूढत्वमिति ज्ञातव्यम् । सूत्रे ‘ओषु यथाश्रयभावः’ इत्यस्यानुवृत्तिः । ‘अतत्सहभावश्रुतेः ’ इत्यत्र तत्सहभावाश्रुतेरिति नञो व्यत्यासेनान्वय इत्यभिप्रेत्य प्रवृत्तं न वेत्यादिभाष्यं व्याचष्टे ॥ भगवदित्यादिना ॥ उपासनाविशेषाणामधिकारिविशेषाणां चागमेनावगमादिति न्यायविवरणानु-सारेणाभिसन्धिमुद्धाटयति– अयमभिसन्धिरित्यादिना ॥
भावदीपः
समर्थनादिति ॥ सर्वशाखास्वनुक्तत्वेन प्राप्ताकर्तव्यत्वशङ्कानिरासेनेति भावः । तेन पूर्वेणापौनरुक्त्यम् । पूर्वोक्तप्रमेयसमर्थनात्पूर्वसङ्गतिश्चेति ध्येयम् ॥ उभयविधेति ॥ काम्याकाम्यो-पासनयोरकर्तव्यत्वकर्तव्यत्वदर्शनादिति भावः । न वेत्यादिभाष्योक्तप्रतिज्ञाहेतू एव पूर्वपक्षतयाऽह ॥ न कर्तव्यमिति ॥ हेतोरप्रयोजकत्वनिरासकतया क्रियात्वादुपासनक्रियाया अग्निष्टोमादिवत्प्रतिशाखं वक्तव्यतेत्यन्यत्रोक्तं योजयति ॥ कर्तव्यत्व इति ॥ हेतूच्छित्तिरेव विपक्षे बाधिकेति भावः ॥ अत इति ॥ सर्वशाखास्वनुक्तत्वादित्यर्थः । पूर्वपक्षस्यैव सिद्धान्ते अनुवादप्रतीतेराह ॥ गूढाभि-सन्धिनेति ॥ अधिकार्यनुक्तेर्गूढेत्युक्तम् । श्रुत्यनुरोधेनोपसंहारपदं व्याकुर्वन् भाष्यं व्याचष्टे ॥ भगवदिति ॥ उत्तरसूत्रोपात्तश्रुत्यनुरोधेन भावमाह ॥ अयमभिसन्धिरिति ॥
अभिनवचन्द्रिका
देवतोपासनस्य कर्तव्यता समर्थनादिति । नन्वस्मिन्नधिकरणे अङ्गदेवतोपासना नैव कार्या । असहभावश्रुतेरिति अकर्तव्यताया एव समर्थनात् कर्तव्यतासमर्थनादित्ययुक्तमिति चेत्, सत्यम् इहाधिकरणे अकर्तव्यता समर्थ्यते, तथापि न सर्वथा अकर्तव्यत्वम्, किं तु देवेतरैरकर्तव्यत्वम् । ततश्च देवैः कर्तव्यताया अभिमतत्वाद् देवतोपासनस्य समर्थनादित्युक्तमित्यदोषः ॥ देवा-नामिति ॥ भगवदङ्गाश्रयत्वेन देवताविषयकमुपासनमित्यर्थः ॥ न कर्तव्यमिति पूर्वपक्ष इति ॥ यद्यपि न वाऽतत्सहभावश्रुतेरिति सूत्रेण नैव कर्तव्यमिति सिद्धान्ताभिधानात् कर्तव्यमिति पूर्वपक्षो वक्तव्यः, तथापि अस्मिन्नधिकरणे देवतापदयोग्यानां कर्तव्यताया अपि समर्थनात्तन्निवर्त्यः पूर्वपक्षो दर्शितः । सर्वशाखास्वनुक्तत्वादिति ॥ परिच्छेदेन तत्तद्योग्यगुणाभिधायकवेदैकदेशविद्यासु अङ्गदेवेतोपासनस्यानुक्तत्वादित्यर्थः । एतेन कर्तव्यत्वे विहितत्वस्यैव प्रयोजकत्वाद् अकर्तव्यत्वे अविहितत्वमेव प्रयोजकमिति तदेव वक्तव्यम्, न तु सर्वशाखास्वनुक्तत्वमिति परास्तम् । परिच्छेदेन तत्तद्योग्यगुणकथनावसरे अनुक्तेरकर्तव्यताप्रयोजकत्वात् ॥ कर्तव्यत्व इति ॥ यद्युपासनस्य कर्तव्यत्वं स्यात् तर्हि क्रियात्वात् कर्तव्यत्वाद् अग्निष्टोमादिवत् तत्तच्छाखोक्तोपासनया सहोक्तिः स्यादित्यर्थः । तद्यथा ज्योतिष्टोमस्य सर्वैः शाखिभिः कर्तव्यत्वात्तत्तच्छाखिकर्मनिरूपणावसरे ज्योतिष्टोमोऽप्युच्यते तद्वद् देवतोपासनमपि तत्तद्योग्यगुणोपासननिरूपकविद्यासु निरूपणीयं स्यादिति भावः । ननु इदं सूत्रम् अतत्सहभावश्रुतेर् अङ्गदेवतोपासनं न कर्तव्यमिति यत्प्राप्तं तन्नैवेति व्याख्येयं न तु न वाऽङ्गदेवतोपसंहारः कार्य इति । पूर्वपक्षसिद्धान्तयोर्वैलक्षण्यस्यावश्यकत्वादित्यत आह ॥ गूढाभिसन्धिनेति ॥ गूढाभिप्रायेण व्याख्यानस्य च नाऽङ्गदेवातोपासनं युक्तं निरधिकारिकत्वादित्याशङ्कामभ्युपगमेन परिहर्तुमिदं सूत्रद्वयं ‘न वा प्रकरणभेदात्’ इति सूत्रवत्पूर्वाधिकरणशेषतयापि प्रवृत्तमिति सूचनं प्रयोजनम् ॥ तथोपासनस्येति ॥ विशिष्य तत्तद्योग्यगुणोपासनविधायकेषु प्रकरणेषु तथोपासनस्यानुक्तत्वादित्यर्थः । सिद्धान्तस्य पूर्वपक्षाभेदं वारयितुमाह– अयमभिसन्धिरिति ॥
पूर्वपक्षस्तु– भगवदङ्गाश्रयत्वेनोपासनं केनापि न कर्तव्यम् । तथोपासनस्य तत्तद्योग्यगुणो-पासननिरूपणपरासु सर्वशाखासु तत्तद्योग्यगुणोपासनैः सहानुक्तत्वात् । अतोऽङ्गदेवतोपासनस्याऽ-कर्तव्यत्वादुक्तमयुक्तमिति ।
सिद्धान्तस्तु– न कर्तव्य एव सर्वैर् भगवदङ्गेष्वङ्गदेवतोपसंहारः, किं नाम देवैरेव कर्तव्यः । सर्वशाखास्वनुक्तेः क्कचिदेवोक्तेः । ‘सत्यो ज्ञानः’ परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत्किञ्चित्समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते’ इति श्रुतौ तथैव दर्शनात् । अतो देवानां भगवदङ्गाश्रितत्वेनोपासनमुक्तमुपपन्नमिति सिद्धम् ।
॥ इति श्रीसत्यनिधितीर्थश्रीचरणचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्त्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिकायां तृतीयाध्यायस्य तृतीयः पादः समाप्तः ॥
वाक्यार्थमुक्तावली
अत्रानन्तरसङ्गतिः स्फुटा ॥ प्रकृतमिति ॥ अत्र देवानां भगवदङ्गाश्रितत्वेनोपासनं कर्तव्यमुत न कर्तव्यमिति चिन्ता । तदर्थं तदुपासनस्य सर्वशाखास्वनुक्तिः किं सर्वैः कर्तव्यत्वं विनानुपपन्नोत कैश्चित्कर्तव्यत्वेनान्यथोपपन्नेति । अतत्सहभावेनेति ॥ सूत्रखण्डसूचितं क्रियेत्युक्तन्यायं विशदयति ॥ तथोऽपासनस्येति ॥ अग्निष्टोमवदिति ॥ यथाग्निष्टोमं प्रतिशाखोक्तकर्मणा सहोच्यते तथेत्यर्थः । ननु कैरप्यकर्तव्यत्वे शिष्टेरित्याद्युक्तविधिविरोधः । निरधिकारिकविधेरनवधेयत्वादिति चेन्न । तद्विधानादेर्वैय्यर्थ्यस्यैवोचितत्वादिति पूर्वाधिकरणटीकायामेवोक्तत्वात् । तत्वप्रदीपे तु शिष्टेश्चेत्युक्तविधेरङ्गदेवताविषयत्वात् तद्गुणानां तदङ्गेषूपासनस्य सर्वैः कर्तव्यत्वविषयत्वाभावा-दित्युक्तम् । ननूपासनं न कर्तव्यमिति पूर्वपक्षिते कथं न वेत्यकर्तव्यता प्रतिपादकसूत्रेण सिद्धान्त इत्यत आह । उत्तमाधिकारिव्यतिरिक्तैरिति ॥ विशेषनिर्देशाभावादभिसन्धेर्गूढत्वमिति ज्ञेयम् । उत्तमाधिकारिभिरुपसंहारः कर्तव्य एवेत्यवचनेनैवं गूढत्वकरणं परोक्तासहभावस्यान्यथासिद्धि-व्युत्पादनायेति बोध्यम् । सूत्रेऽङ्गेषु यथाश्रयभाव इत्यनुवर्तते । अतत्सहभावश्रुतेरित्यत्र तत्सह-भावाश्रुतेरिति नञो व्यत्यासेनान्वय इत्यभिप्रेत्य प्रवृत्तं न चेत्यादिभाष्यं व्याचष्टे ॥ भगवदित्यादिना ॥ अधिकारिभेदेन व्यवस्थितविकल्पाभिधायकवाशब्दमनुसृत्याभिसन्धिमुद्घाटयति ।
तत्त्वसुबोधिनी
प्रकृतमिति ॥ अनेनानन्तरसङ्गतिरुक्ता भवति ॥ अन्यथेति ॥ उक्तस्य समर्थनाभावे उक्तस्याङ्गाश्रितत्वेन देवतोपासनस्यानुपपत्तिः स्यादित्यर्थः । ननूपासनं न कर्तव्यमिति पूर्वपक्षिते कथं न वेत्यकर्तव्यताप्रतिपादकसूत्रेण सिद्धान्त इत्यत उक्तं गूढाभिसन्धिरिति ॥ उत्तमाधिकारि-व्यतिरिक्तैर् इत्यधिकारिविशेषनिर्देशाभावादभिसन्धेर् गूढत्वमिति ज्ञातव्यम् । सूत्रे ओषु यथाश्रय-भाव इत्यस्यानुवृत्तिः । अतत्सहभावश्रुतेरित्यत्र तदभावश्रुतेरिति नञो व्यत्यासेनान्वय इत्यभिप्रेत्य प्रवृत्तं न वेत्यादिभाष्यं व्याचष्टे । भगवदङ्गेष्विति ॥ उपासनाविशेषाणाम् अधिकारिविशेषाणां चागमे नावगमादित्यभिसन्धिमुद्घाटयति ॥ अयमभिसन्धिरिति ॥
वाक्यार्थविवरणम्
उक्तस्येति ॥ अङ्गदेवतोपासनस्य कर्तव्यत्वमङ्गीकृत्योक्तस्य तद्विधानां सार्थक्यस्येत्यर्थः ॥ क्रियात्वादिति ॥ उपासनस्यापि मानसक्रियात्वादित्यर्थः ॥ उपासनेनेति ॥ भगवद्गुणोपासनेन ॥ सहभावप्रसङ्गात् ॥ सहोक्तिप्रसङ्गादित्यर्थः । यथा यासु शाखासु भगवद्गुणोपासनं कर्तव्यतयोच्यते तासु सर्वत्राप्यग्निष्टोमादिक्रियाणामपि कर्तव्यतोच्यत इति सहभावोऽस्ति । न तथाऽत्रेति भावः ।
॥ इति तृतीय उपासनापादः समाप्तः ॥
वाक्यार्थमञ्जरी
ननूपासनं न कर्तव्यमिति पूर्वपक्षिते कथं न वेत्यकर्तव्यताप्रतिपादकसूत्रेण सिद्धान्त इत्यत उक्तम् ॥ गूढाभिसन्धिनेति ॥ उत्तमाधिकारिव्यतिरिक्तैरित्यधिकारि विशेषनिर्देशाभावादभिसन्धे-र्गूढत्वमिति ज्ञातव्यम् ॥ ॐ न वा तत्सहभावश्रुतेः ॐ ॥ अङ्गाश्रितदेवोपासनं न वा कार्यं कुतो ऽतत्सहभावश्रुतेः । तेन सर्वशाखागतोपासनेन सहभावस्य सहत्वस्याश्रुतेरश्रवणादित्यर्थः । आशयमुद्घाटयति ॥ अयमभिसन्धिरिति ॥