ॐ ओषु यथाऽऽश्रयभावः ॐ
४१.अङ्गाधिकरणम्
सूत्रभाष्यम्
॥ ॐ ओषु यथाऽऽश्रयभावः ॐ ॥ ६३ ॥
अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वं ‘चक्षोः सूर्यो अजायत’ (क्र.सं.१०-९०-१३) इत्यादि तथा भावना कर्तव्या ॥
तत्त्वप्रदीपिका
अङ्गदेवतानामुभयविधमुपासनं, परिवारत्वेनाङ्गस्थत्वेन चेति । तत्र प्रथमं तावदुत्तरोत्तरं सन्निकर्षाधिक्येनेति न्याय्यं दर्शितं च गुरुभिरेवान्यत्र । अङ्गस्थत्वेनोपासने कुत्र कस्य भावनेत्या-काङ्क्षायामाह– ओषु यथाऽऽश्रयभावः । यस्य यस्य यथा यथा परमेश्वराङ्गाश्रयत्वमुच्यते ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’ इत्यादि तस्य तस्य देवस्य तथा तथा भावना कर्तव्या ।
तत्त्वप्रकाशिका
अत्र भगवत्साक्षात्कारसाधनाङ्गदेवतोपासनस्य कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा तद्विद्यावैयर्थ्यात्तत्समर्थनीयम् । प्रकृतं ब्रह्मादिदेवतोपासनं विषयः । भगवदङ्गाश्रितत्वेन मुमुक्षुणा कर्तव्यं न वेति सन्देहः । आश्रितत्वेन श्रुत्युक्तेरुभयथा सम्भवः सन्देहबीजम् । न तथोपासनं मुमुक्षुणा कर्तव्यमिति पूर्वः पक्षः । तथा हि किं तत्सर्वैः कर्तव्यं देवैर्वा । नाद्यः । उक्तव्याघातात् । न द्वितीयः । ‘ब्रह्मा शिरसि ललाटे रुद्रः’ इत्यादि तत्तत्प्रकरणेषु देवानामेव तदित्यनुक्तेः । न चानुक्तावप्यधिकारिविशेषः कल्पयितुं शक्यते । कल्पकाभावात् । अन्यथा चोदनाद्यविशेषादित्युक्तव्याघातात् । अतो निरधिकारित्वादङ्गाश्रितत्वेन देवतोपासनं न कार्यमिति तद्विद्यावैयर्थ्यमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ ओष्विति ॥ सूर्यादिदेवानां ‘चक्षोः सूर्यो अजायत’ इत्यादिना यथा भगवदङ्गाश्रयत्वमुक्तं तथोपासनं कार्यमेव । अन्यथा तदुक्तिवैयर्थ्यप्रसङ्गादिति भावः । यत्र जन्म तत्रैव स्थितिरित्यदोषः । ‘तदाश्रिताश्च ते सर्वे’ । इति वचनात् ।
गुर्वर्थदीपिका
अङ्गदेवतोपासनस्येत्यत्र चक्षुरादिभगवदङ्गस्थितदेवतोपासनस्येत्यर्थः । ‘समाहारात्’ इति सूत्रे सूर्याश्रयचक्षुष्ट्वादीनां समाहारस्यैव कर्तव्यत्वमुक्तम् । श्रुतौ च ‘तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत’ इति सामान्यत एव फलमुक्तम् । अतः सर्वैरपि कर्तव्यत्वशङ्का । तत्परिहारायोत्तराधिकरणम् । श्रुत्यनुसारी सूत्रकारोऽपि नाश्रुतमसूत्रयत् । एवं च पूर्वाधिकरणोक्त-सूर्यादिदेवाश्रयचक्षुष्ट्वादिभगवद्गुणोपसंहरणं ‘परमं स्थानं व्रजेत’ इत्युक्तेर्ब्रह्मण एव । सूर्यादीनां तु सूर्याश्रयचक्षुष्मान् दिग्देवताश्रयश्रोत्रवानित्येवोपासनम् । अन्यथा मोक्षे फलसाङ्कर्यप्रसङ्गात् । ब्रह्मणस्तु तत्तदङ्गाश्रितदेवान्तस्थत्वेन तत्र स्थानप्राप्तिरप्यस्तीति सूचनाय परमं स्थानमिति सामान्येनोक्तम् । कासुचिद्भाष्यसम्पुटिकासु समाहारादित्येव पाठोऽस्ति । अतः सूत्रभाष्ययोः समाहारपदं श्रुतिसूचकमित्युक्तम् ।
भावबोधः
अङ्गदेवतोपासनस्येति ॥ यद्यपीदं ‘अङ्गावबद्धा’ इत्यनन्तरमेव कर्तव्यं तथापि तत्र सर्वाधिकारिसाधारणस्य भगवदुपसर्जनतयान्यदेवतोपासनसहितस्य भगवदुपासनस्य कर्तव्यत्व-समर्थनम् । अत्र पुनर्ब्रह्माद्यङ्गदेवतानां तत्तदुत्पादकभगवदङ्गाश्रितत्वेन प्रकारेणोपासनस्य देवैरेव कर्तव्यत्वसमर्थनमिति वैलक्षण्यज्ञापनार्थं भूमाद्यधिकरणचतुष्टयस्योक्तरीत्या पूर्वपूर्वसङ्गतत्वप्राप्ते-स्तदधिकरणचतुष्टयेन व्यवधानं कृतमिति ज्ञेयम् । भगवदङ्गाश्रितत्वेनेति ॥ अत्र ब्रह्माद्यङ्ग-देवतोपासनं भगवदङ्गाश्रितत्वेन न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थं तदुपासनस्य कर्तव्यत्वा-वेदकं विध्यादिप्रमाणं व्यर्थमुत सार्थकमिति । तदर्थं तदुपासनं निरधिकारिकमुत साधिकारिक-मिति । तदर्थमधिकारिविशेषकल्पकं नास्त्युत अस्तीति ॥ देवानामिति ॥ तत्रैव विशेषवचना-भावात् । ‘ब्रह्मा शिरसि ललाटे रुद्रः’ इत्यादीनां नावश्योपास्यता देवतादीनामेवेति न्यायविवरणानुसारेण पूर्वपक्षमुपपादयति– तथा हीति ॥ उक्तव्याघातादिति ॥ ‘आनन्दादयः प्रधानस्य’ इत्युक्तव्याघातादित्यर्थः । इदं च देवादीनामेवेत्यनेन सूचितमिति ज्ञातव्यम् । ‘समाहारात्’ इति सूत्रविवर्तनीयमाह– न चानुक्तावपीति ॥
ननु ‘चक्षोः सूर्योऽजायत’ इत्यादिश्रुतौ सूर्यादीनां भगवच्चक्षुरादिजन्यत्वमेवोच्यते न तु चक्षुराद्याश्रयत्वम् । तत्कथं ‘चक्षोः सूर्योऽजायत’ इत्यादिपरमेश्वराङ्गाश्रयत्वमुक्तमित्यत आह– यत्रेति ॥
भावदीपः
कर्तव्यत्वेति ॥ निरधिकारिकत्वनिमित्तकर्तव्यत्वशङ्कानिरासेनेति भावः । द्विविधं ह्यङ्गदेवतोपासनम् । विष्णोः परिवारत्वेनाङ्गाश्रितत्वेन चेति । तत्राद्यं सर्वाधिकारिकमङ्गावबद्धा इत्यत्रोक्तम् । द्वितीयं तु पूर्वत्र काम्योपासनं मुमुक्षुणा न कार्यमित्युक्तौ तर्हि तत्प्रसङ्गादङ्गाश्रित-त्वेनाङ्गदेवतोपासनमपि मुमुक्षुणा न कार्यमिति शङ्कनाद्वा यथाकामं समुच्चीयेरन्नित्युक्तन्यायेन प्राप्यफलानुरोधेनाधिकारिकल्पनोपपत्त्योपासनकर्तव्यत्वसम्भवाद्वाऽत्र समर्थ्यत इति भावः ॥ अन्यथेति ॥ अङ्गाश्रितत्वेनाङ्गदेवानामुपासनाऽसमर्थने चक्षोः सूर्यो अजायतेत्यादिविद्यावैयर्थ्या-दित्यर्थः । आध्यानायेति न्यायादिति भावः ॥ प्रकृतमिति ॥ अङ्गावबद्धा इत्यत्र प्रकृतमित्यर्थः ॥ श्रुत्युक्तेरिति ॥ ‘चक्षोः सूर्यो अजायत’ इत्याद्युक्तेरित्यर्थः । यतो जन्म तत्रैव स्थितिरिति जन्मश्रुतेरेवाश्रितत्वश्रुतित्वात् ।
यद्वा ब्रह्मा शिरसि, ललाटे रुद्र, इत्यादि श्रुत्युक्तेत्यर्थः । काम्याकाम्यगुणोक्तेरिति भावः । ‘ब्रह्मा शिरसि ललाटे रुद्रः’ इत्यादीनां नावश्योपास्यता । देवादीनामेवेत्यन्यत्रोक्तप्रतिज्ञार्थमाह ॥ न तथेति ॥ देवादीनामेवेत्येतत्सर्वेषां वा देवानामेव वेत्यर्थकमुपेत्य विकल्पयति ॥ किमिति ॥ स्वयं हेतुमाह ॥ उक्तेति ॥ ‘आनन्दादयः प्रधानस्य’ इत्युक्तव्याघातादित्यर्थः ॥ देवानामिति ॥ तत्रैव विशेषाभावादित्यन्यत्रोक्तमेव हेतुं तत्रैवेत्यस्यार्थं वदन्नेवाह ॥ ब्रह्मेति ॥ हेतोरप्रयोजकत्वं निराह ॥ न चेति ॥ समाहारसूत्रव्यावर्त्यहेतुमाह ॥ कल्पकेति ॥ अस्याप्यप्रयोजकत्वं निराह ॥ अन्यथेति ॥ सर्ववेदान्तनये उपासनाविधिसमीपे काण्वाद्यधिकारिविशेषाश्रवणेन विशेषाधि-कारिकत्वनिराकरणं यत्कृतं तद्व्याहन्येतेत्यर्थः ॥ अत इति ॥ सर्वाधिकारिकत्वे प्रागुक्त-व्याघाताद्देवाधिकारिकत्वे कल्पकाभावादित्यर्थः । ओत्यादिभाष्यं व्याचष्टे ॥ सूर्येति ॥ अङ्गावबद्धा इत्यतोऽङ्गानामिति मण्डूकप्लुत्त्याऽनुवर्तत इति भावः । भाष्ये इत्यादीत्यविभक्तिक-मित्युपेत्योक्तम् ॥ इत्यादिनेति ॥ काम्यपदेन प्रकृतो भगवानिह सूत्रेऽङ्गेष्वित्यत्रान्वेतीति भावेनोक्तम् ॥ भगवदङ्गेति ॥ ननु चक्षोः सूर्य इति श्रुतौ देवानामङ्गाज्जन्मैवोच्यते न तु तदाश्रितत्वमित्यतोऽर्थात्तत्प्राप्तमित्याह ॥ यत्र जन्मेति ॥ यत्र जन्म तत्रैव स्थितिरित्युक्तार्थे आदित्यादिमतय इत्यत्र चतुर्थाद्यपादे भाष्योक्तस्मृतिमाह ॥ तदाश्रिताश्चेति ॥ ‘स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्य सदैव तु । तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः’ इति पूर्वशेषः ।
अभिनवचन्द्रिका
उक्तव्याघातादिति ॥ ‘आनन्दादयः प्रधानस्य’र इत्युक्तव्याघातादित्यर्थः ॥ निरधिकारि-कत्वादिति ॥ सामान्येन सर्वाधिकारित्वे उक्तव्याघातलक्षणबाधकसद्भावाद् देवगन्धर्व-मनुष्यादिविशेषाणां च प्रमाणाभावेन अनधिकारित्वात्सामान्याभावस्य यावद्विशेषाभावनियतत्वा-त्कर्तृसामान्याभाव इति भावः । ननु भगवदङ्गाश्रयत्वे ‘चक्षोः सूर्यो अजायत’ इति प्रमाणो-दाहरणमयुक्तम् । तस्य तदप्रत्यायकत्वादित्यत आह यत्र जन्मेति ॥ साक्षात्तदप्रत्यायकत्वेऽपि तल्लिङ्गोपस्थापनद्वारा तत्प्रत्यायकत्वमस्त्येवेति तदुदाहरणं युक्तमिति भावः ।
वाक्यार्थमुक्तावली
प्रकृतमिति ॥ ब्रह्मादिदेवानामङ्गावबद्धा इत्यत्र परिवारत्वेनोपासनस्येष्टत्वाद्ब्रह्माद्युपासनं प्रकृतमिति भावः । यद्यपीदमङ्गावबद्धा इत्यनन्तरमेव कर्तव्यं तथापि विकल्पो विशिष्टफलत्वा-दित्यत्र फलापेक्षायाः सत्वान्नृसिंहाद्युपासनं मुमुक्षुभिः कार्यम् । काम्यास्त्वित्यत्र तु तदाभावात् काम्योपासनं न कार्यमित्युक्तं तन्न्यायेनात्रापि । समाहारसूत्रे स्थानं ‘मुमुक्षुः परमं व्रजेत’ ‘ध्यायेदङ्गेष्वङ्गदेवताः,’ ‘परस्य विशिष्टा हि गुणा मुक्तौ देवानां भवन्तीति फलविशेषेणैव मुमुक्षुष्वपि देवानामधिकारः । न वेति सूत्रे तदभावान्न वान्येषामिति व्यवस्थितविकल्पाभिधान-दनन्तरसङ्गतिः ॥ भगवदङ्गेति ॥ अत्र देवादीनां भगवदङ्गाश्रितत्वेनोपासनं मुमुक्षुणा न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थमुपासकानां मुमुक्षूणां देवतदन्यतरत्वात् तयोरन्यतरस्याधिकारकल्पकं नास्त्युतास्तीति ॥ उक्तव्याघातादिति ॥ ‘आनन्दादयः प्रधानस्य’ इत्युक्तचतुर्गुणनियति-व्याघातादित्यर्थः । यद्वा अङ्गावबद्धाधिकरणे पुरुषाणां विशेषाद्वेत्यनेनोक्तस्योत्तमाधिकारिभिरेव विशेषोपसंहारः कार्य इत्यस्य व्याघातादित्यर्थः । समाहारसूत्रनिरस्यमविशेषदृष्टिरित्युक्तन्यायं दर्शयन् द्वितीयं प्रतिक्षिपति ॥ न द्वितीय इत्यादिना ॥ अन्यथेति ॥ कल्पकाभावेऽ-प्यधिकारिविशेष कल्पनेऽध्ययनविध्यादावप्यधिकारिविशेषकल्पनसम्भवाच्चोदनाद्यविशेषादित्युक्त-व्याघातादित्यर्थः ।
सूत्रेऽङ्गेष्वित्यावर्तते । आद्यं षष्ठ्यन्तं विपरिणम्यते । यथेति वीप्सायां द्विरावर्तनीयम् । अनतिक्रमे च यथाशब्द उक्त इति शेषः । आश्रयस्य भाव आश्रयभावः । आश्रितत्वमिति यावत् । आश्रियन्त इत्याश्रिताः । तथा चाश्रितत्वेन भावना चाश्रयभावः । तथा च सूर्याद्यङ्ग-देवानामङ्गेषु भगवदङ्गेषु यथा यथाश्रयभाव आश्रितत्वमुक्तं तथा तेनैव प्रकारेणोक्तिमनति-क्रम्याङ्गेष्वाश्रयभावो ऽङ्गाश्रितत्वेन भावो भावना कार्येति भावेन भाष्यं व्याचष्टे ॥ सूर्यादीति ॥ यद्वा भगवदङ्गेषु यथा यथा आश्रयत्वमङ्गदेवताश्रयत्वमुक्तं तथा तथोपासनं कार्यमिति सूत्रार्थं मनसि निधाय व्याचष्टे ॥ सूर्यादीति ॥ ननु चक्षुराद्यङ्गाश्रितत्वे कथं जन्माभिधायकश्रुतिः प्रमाणमित्यत आह ॥ यत्र जन्मेति ॥
तत्त्वसुबोधिनी
अङ्गदेवतोपासनस्येति ॥ यद्यपि इदम् अङ्गावबद्धा इत्यनन्तरमेव कर्तव्यं तथापि तत्र सर्वाधिकारिसाधारणस्य भगवदुपसर्जनतयाऽन्यदेवतोपासनासहितस्य भगवदुपासनस्य कर्तव्यता-समर्थनम् । इह तु ब्रह्माद्यङ्गदेवतानां तत्तदुपपादकभगवदङ्गाश्रितत्वेन प्रकारान्तरेणोपासनस्य देवैः कर्तव्यत्वसमर्थनमिति वैलक्षण्यज्ञापनार्थम् । भूमाद्यधिकरणचतुष्टयस्योक्तरीत्या पूर्वपूर्वसंमतत्वेन प्राप्तेस् तद्विचार्य अवसरप्राप्तमिदानीं विचार्यत इति अनन्तरसङ्गतिरिति भावः ॥ उक्तव्याघाता-दिति ॥ आनन्दादयः प्रधानस्येत्युक्तव्याघातादित्यर्थः ॥ अन्यथेति ॥ कल्पकाभावेऽपि कल्पन इत्यर्थः ॥ चोदनादिति ॥ तत्र चोदनारूपकल्पकविशेषाभावे कल्पना कर्तव्येत्युक्तत्वेन व्याघातः स्यादित्यर्थः । ननु ‘चक्षोः सूर्यो अजायत’ इत्यादिश्रुतौ सूर्यादीनां भगवच्चक्षुरादिजन्यत्वमेवोच्यते । न तु तदाश्रितत्वम् । तत्कथं चक्षोः सूर्योऽजायत इत्यादिपरमेश्वराङ्गाश्रयत्वमुक्तमित्युच्यत इत्यत आह ॥ यत्रेति ॥ ननु नियमग्राहकप्रमाणाभावान्न नियमसिद्धिरित्यत आह ॥ तदाश्रिताश्चेति ॥
वाक्यार्थविवरणम्
उभयथेति ॥ तथोपासनाकर्तव्यत्वाभिप्रायकत्वेन तदभावाभिप्रायकत्वेन चेत्यर्थः ॥ उक्तव्याघातादिति ॥ ‘आनन्दादयः प्रधानस्य’ इत्यनेनानन्दादीनामेवोपास्यत्वोक्ति व्याघाता-दित्यर्थः ॥ तत्प्रकरणेषु ॥ अङ्गदेवतोपासनाप्रतिपादकप्रकरणेष्वित्यर्थः । ननु यथा विश्वजिता यजेत इत्यत्राप्यनुक्तोऽप्यधिकारी स्वर्गकामः कल्प्यते तद्वदत्रापि किं न स्यादित्याशङ्क्य तत्र विश्वजिद्यागस्य ज्योतिष्टोमाङ्गत्वावगमात् प्रधानफलफलकत्वप्रधानाधिकार्यधिकारिमत्त्वादेरेव तदङ्गशब्दार्थत्वात् श्रुताङ्गाङ्गिभावान्यथानुपपत्त्यैव विश्वजिति अश्रुतोऽपि प्रधानाधिकार्येव अधिकारितया कल्प्यते । एवं च तत्राङ्गत्वादिरूपकल्पकवदत्र तदभावान्नाधिकारिविशेषः कल्पयितुं शक्यत इत्यत आह ॥ न चानुक्तावपीति ॥ अन्यथा ॥ कल्पकाभावेऽपि अधिकारिविशेषकल्पने ॥ चोदनादीति ॥ सर्वशास्त्रोक्तं सर्वैर्ज्ञातव्यमित्यत्र हेतुतया चोदनाद्यविशेष उक्तः । ‘आत्मेत्येवेति उपासीत’ इति विधीनां ‘अत्र ह्येते’ इत्यादितदुक्तयुक्तीनां च सर्वाधिकारिसाधारणान्विनाधिकारि-विशेषकल्पनायोगादित्युक्तम् । तदेवं सति व्याहन्येत । अश्रुतस्याधिकारिविशेषस्य तत्रापि कल्पयितुं शक्यत्वेन सर्वेषां सर्वशाखापरिज्ञानं न स्यादित्यर्थः ॥ अङ्गाश्रितत्वमुक्तमिति ॥ तथा चाङ्गेषु भगवदङ्गेषु देवानां यथा आश्रयभाव आश्रयत्वं परमेश्वराङ्गम् आश्रयो येषां ते तथा । तेषां भावस्तत्त्वम् । अङ्गाश्रितत्वमिति यावत् । यथा चक्षुरादिभगवदङ्गाश्रितत्वमस्ति तथा भावना उपासना कर्तव्येति शेष इति सूत्रार्थः । ननु ‘चक्षोः सूर्योऽजायत’ इति श्रुतौ सूर्यादीनां चक्षुरादिजन्यत्वमेवोच्यते । न तु तेषां तदाश्रितत्वमित्यत आह ॥ यत्रेति ॥ यस्मादङ्गादित्यर्थः ॥ तदाश्रिताश्चेति ॥ ‘स्वोत्पत्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु’ इति पूर्ववाक्यमप्यत्र ग्राह्यम् ।
वाक्यार्थमञ्जरी
तद्विद्या चक्षोः सूर्योऽजायत इत्यादिका ॥ उक्तव्याघातादिति ॥ आनन्दादयः प्रधानस्य इति सर्वैश्चतुर्गुणमात्रस्योपास्यत्वोक्त्या तद्विरोधादित्यर्थः ॥ चोदनाद्यविशेषादिति ॥ तत्र ‘स्वाध्यायोऽध्येतव्यः’ इत्यत्राधिकारिविशेषकल्पकाभावेनैव विशेषाधिकारिकत्वाभावस्योक्तत्वादिति भावः ।
ॐ ओषु यथाऽऽश्रयभावः ॐ ॥ ओषु भगवदवयवेषु सूर्यादीनामाश्रयभाव आश्रयत्वं यथोक्तं तथोपासनं कार्यमित्यर्थः । ननु ‘चक्षोः सूर्यो अजायत’ इति श्रुतौ सूर्यादीनां भगव-च्चक्षुरादिजन्यत्वमेवोच्यते न तु चक्षुराद्याश्रयत्वं, अतः कथं ‘चक्षोः सूर्यो अजायत’ इत्यादिना परमेश्वराङ्गाश्रयत्वमुक्तमित्यत आह ॥ यत्रेति ॥
ॐ शिष्टेश्च ॐ
सूत्रभाष्यम्
॥ ॐ शिष्टेश्च ॐ ॥ ६४ ॥
‘यस्मिन्यस्मिन्यो हि चाङ्गे निविष्टः परस्य चिन्त्यः स तथा तथैव’ इति पौत्रायणश्रुतेः ।
तत्त्वप्रदीपिका
यथा ज्ञानानन्दादीनां गुणानां सर्वेषामुपसंहारोऽनुशिष्टः, नात्र तथाऽङ्गदेवानामित्यत आह– शिष्टेश्च ॥
तत्त्वप्रकाशिका
न केवलमङ्गाश्रितत्वेनोक्त्यन्यथानुपपत्त्या तथोपासनस्य कर्तव्यता किं तु श्रुतौ तथा विधाना-च्चेत्यर्थप्रतिपादकं सूत्रं पठित्वा तां श्रुतिमुदाहरति ॥ शिष्टेश्चेति ॥ शिष्टिः शिक्षाविधिरिति यावत् ।
भावदीपः
सौत्रचशब्दार्थं वदन्नेवावतारयति ॥ न केवलमिति ॥ भाष्ये श्रुतेरिति पञ्चम्यास् तथा भावना कर्तव्येत्यन्वयमुपेत्योक्तम् । तथोपासनस्य कर्तव्यता । किन्तु श्रुतौ तथा विधानाच्चेति । श्रुतेश्चेति चशब्दाध्याहार इति भावः ।
वाक्यार्थमुक्तावली
अङ्गदेवानामङ्गेष्वाश्रितत्वेन भावः कर्तव्य इत्यनुवर्तते ।
वाक्यार्थविवरणं
तथेति ॥ अङ्गाश्रितत्वेनोपासनेत्यर्थः ।
वाक्यार्थमञ्जरी
यस्मिन्निति श्रुतावङ्गदेवतोपासनाकर्तव्यस्य शिष्टैर् विधानाच्च तत्कार्यमित्यर्थः ॥