ॐ विकल्पो विशिष्टफलत्वात् ॐ
३९. विकल्पाधिकरणम्
सूत्रभाष्यम्
॥ ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ ६१ ॥
स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवति विशिष्टफलापेक्षया ।
‘मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् ।
नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये ॥
उपास्यते यथायोगं न वा फलविभेदत’ इति (च) ब्रह्मतर्के ॥
तत्त्वप्रदीपिका
स्वयोग्यरूपं यथोक्तकालमुपास्य पश्चात्सामान्यस्य वैष्णवत्वेन समानतया वर्तमानस्य कस्य-चिद्रूपस्योपासनं विकल्पेन भवति कर्तव्यं न वेति । न स्वयोग्यं यथोक्तकालमनुपास्य ।
‘मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।
वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम्’ इति ह्यनुव्याख्याने ।
नाप्यवैष्णवस्य वैष्णवे कृतेन विरोधः । विशिष्टफलापेक्षया हि क्रियते । यद्यपि न केवलं मुक्ति-फलापेक्षया तथाऽपि मुक्तिद्वारभूता दुरिताज्ञानान्यथाज्ञानकामादिनिवृत्तिरुत्तममेव फलमपेक्ष्यते । नृसिंहादिकं नृसिंहकृष्णदिकम् । वक्ष्यति च–
‘अनादिजन्मसम्बद्धं निर्भेत्तुं पापपञ्जरम् ।
यावत्या सेवया शक्यं तावत्कार्यं न संशयः’ इति ॥ न वा क्रियते, अन्यफलापेक्षत्वात् ॥
तत्त्वप्रकाशिका
अत्र हरिदर्शनोपयोगिबिम्बोपासनस्याकर्तव्यतानिरासादस्ति शास्त्रादिसङ्गतिः । अन्यथा तापनीयादिश्रुतिवैयर्थ्यप्रसङ्गात्समर्थनीयमेतत् । तत्प्रकृतोपासनं विषयः । मुमुक्षुणा स्वबिम्बातिरिक्त-रूपविषयं कर्तव्यं न वेति सन्देहः । बिम्बोपासनोक्तेरनवधारणाया उभयथाप्युपपत्तिः सन्देहबीजम् । न कर्तव्यमिति पूर्वः पक्षः । तथा हि । किमेतदुपासनं मोक्षार्थं कर्तव्यं फलान्तरार्थं वा । नाद्यः । तदभावात् । अन्यथोक्तं व्याहन्येत । न द्वितीयः । तस्य मोक्षार्थत्वाभावादधिकारिणो मुमुक्षुत्वा-त्प्रत्युत बिम्बोपासनविघ्नाय चेति । अतो मुमुक्षुणा न तदुपासनं कार्यमिति तद्विद्यावैयर्थ्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ विकल्प इति ॥ स्वमोक्षसाधनातिरिक्तं च नरसिंहाद्युपासनं कर्तव्यं न वा । न तु न कर्तव्यमेव । तस्य मोक्षार्थोपासनानन्तरभावित्वेन दुरितादिनिवृत्ति-लक्षणमोक्षोपयोगिफलसाधनत्वेन चोक्तदोषाभावात् । किं तु विकल्पस्तु यस्य विशिष्टफलापेक्षास्ति तेन कर्तव्यम् । यस्य तु नास्ति तेन नेति । स्वयोग्योपासनयैव तीव्रया दुरितादिनिवृत्त्युपपत्तेरिति भावः । अत्रैव स्मृतिमाह ॥ मुक्त्यर्थमिति ॥ नृसिंहादिकमन्यच्चेति सामानाधिकरण्यम् । अतोऽन्योपासनस्यापि कर्तव्यत्वान्न विद्यावैयर्थ्यमिति सिद्धम् ।
गुर्वर्थदीपिका
तापनीयविद्यापदेन नृसिंहतापनीयोपनिषद्गृह्यते । तदभावादित्यस्य बिम्बोपासनेनैव मोक्षसिद्धे-र्बिम्बातिरिक्तोपासनस्य मोक्षहेतुत्वाभावादित्यर्थः । अतो मुमुक्षुणा न तदुपासनं कार्यमित्यत्र तस्यामेवोपनिषदि तदुपासनस्यापमृत्युपरिहारादिमोक्षेतरफलकत्वोक्तेरिति भावः । तस्य मोक्षार्थो-पासानन्तरभावित्वेनेत्यत्र समग्रोपासनानन्तरमपरोक्षज्ञानोत्पत्तिनियमेन तन्मध्ये प्रतिबन्धकदुरितादेर-सम्भवात् । ज्ञानोत्तरकालमप्रारब्धसकलदुरितानां ज्ञानेनैव विनाशेन सुतरामसम्भवाच्च । उपासनापरिपाकात्प्रागेव दिने दिने क्रियमाणोपास्तौ मध्ये मध्ये दुरितवशाद्वा विघ्नकर्तृकल्यादिबलेन वा मनोविक्षेपेणोपासनविच्छेदे सति क्रियमाणोपासनं कुरुत इत्यत एकदैवाणुना मनसा उपासनद्वयानङ्गीकारान्नावान्तरोपासनं नित्योपासनविघ्नकारिनाप्यनुपयोगीति भावः ।
भावबोधः
बिम्बोपासनस्याकर्तव्यतानिरासादिति । ‘नैवा भूमा फलमेषां विधत्त’ इत्युक्तरीत्या भूमत्वस्यानुपासने फलानुदयेन सम्भृत्याद्युपासनस्येव भूमत्वोपासनस्याकर्तव्यता न युक्तेति पूर्वाधि-करणद्वयोक्तन्यायेनैवात्रापि दर्शनप्रतिबन्धकनिरासकनृसिंहाद्युपासनस्याकृतौ दर्शनादिफलानुदयेन तदुपासनस्याकर्तव्यतानिरासादनन्तरसङ्गतिरिति भावः ॥ कर्तव्यमिति ॥ अत्र नृसिंहाद्य-बिम्बोपासनं किं न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थं तदुपासनं किं मोक्षोपयोगिदर्शनस्य विघ्नहेतुरुत प्रतिबन्धकनिवर्तकतया तदुपयोगीति । तदर्थं प्रतिबन्धकनिवृत्तिः स्वयोग्यबिम्बोपासन-मात्रेण भवत्युत न भवतीति । शुद्धसाधनवैरूप्यान्मोक्षसाधनत्वेनोपदिष्टं विना विष्णावेवोपासना-न्तरस्याकर्तव्यतेति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– न कर्तव्यमित्यादिना ॥ उक्तं व्याहन्येतेति ॥ ‘न सामान्यादप्युपलब्धेः’ इत्यत्राबिम्बदर्शनस्य मोक्षसाधत्वं नास्तीत्युक्तमित्यर्थः । सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवतीति भाष्यं व्याचष्टे– स्वमोक्षसाधनेति ॥ स्वयोग्योपासनानन्तरमिति भाष्यं व्याचष्टे– तस्येति ॥ अनेन प्रत्युत ‘बिम्बोपासनविघ्नाय च’ इति दोषोद्धारः कृतः । अविघ्नतासाधनत्वादिति न्यायविवरणं व्याचष्टे– दुरितादीति ॥ अनेन ‘तदभावात्’ इति दोषो निरस्तः । विशिष्टफलापेक्षयेति भाष्यं व्याचष्टे– विकल्पश्चेति ॥
भावदीपः
अत्र सङ्गतित्रयोपपादनाय हरीति दर्शनोपयोगीति उपासनस्येति चोक्तिः । पूर्वत्र सर्व-साधारणगुणोपास्तौ विशेष उक्तोऽत्र तु रूपोपास्तौ विशेष उच्यत इति पूर्वसङ्गतिसूचनाय बिम्बेत्युक्तिः ॥ अकर्तव्यतेति ॥ नियमेनेति योज्यम् । विकल्पेन कर्तव्यतासमर्थनादित्यर्थः । उपासनान्तरस्याकर्तव्यतेति न्यायविवरणानुरोधादेवमुक्तिः । प्रागुक्तेर्विरोधाभावादाह ॥ तापनीयेति ॥ नृसिंहतापनीयहयग्रीवादिविद्यावैयर्थ्येत्यर्थः । आध्यानाय प्रयोजनाभावादित्युक्त-न्यायेन सर्वस्य ध्यानार्थत्वादिति भावः । न च प्रागुक्तप्रमेये विरोधाभावाद्व्यर्था चिन्तेति शङ्क्यम् । तापनीयाद्युक्तस्यानुपास्यत्वमिव वाक्यान्तरोक्तगुणान्तरस्यापि तथात्वसम्भवेनाध्यानायेत्यत्र गुणान्तरोपसंहारसमर्थनमयुक्तं स्यादिति तात्पर्यात् । कर्तव्यं न वेत्यनन्तरं न कर्तव्यमेव वेति पूर्वपक्षकोटिरप्यध्याहार्या । तेन न पूर्वपक्षाद्यननुगुणः सन्देह इति ज्ञेयम् ॥ बिम्बेति ॥ तद्विजिज्ञासस्व स विजिज्ञासितव्यः ‘आत्मन्येवात्मानं पश्येत्’ इत्यादिविधेरुभयथापि अन्यस्य नियमेनाकर्तव्यत्वे विकल्पेन कर्तव्यत्वे चेत्यर्थः । शुद्धमोक्षसाधनवैरूप्यान् मोक्षसाधनत्वेनोपदिष्टं विना विष्णावेवोपासनान्तरस्याकर्तव्यतेत्यन्यत्रोक्तपूर्वपक्षप्रतिज्ञां तावदाह ॥ नेति ॥ मुमुक्षुणा स्वबिम्बातिरिक्तरूपविषयमुपासनमित्यनुकर्षः । न कर्तव्यमेवेत्यर्थः । विनेत्यन्तं वाक्यं विकल्पमुखेन व्याचष्टे ॥ किमिति ॥ वैरूप्यादित्यन्तस्यार्थः । तदभावान्मोक्षार्थत्त्वाभावादिति ॥ उक्तमिति ॥ न सामान्यादपीत्युक्तमित्यर्थः । विनेत्यन्तस्य तात्पर्योक्तिरधिकारिणोऽमुमुक्षुत्वादिति । विष्णोरेवे-त्येवकारभावमाह ॥ प्रत्युतेति ॥ यद्वा वैरूप्यादित्यस्य प्रतिकूलत्वादित्यर्थान्तरमुपेत्याह ॥ प्रत्युतेति ॥ अत इति ॥ मोक्षसाधनवैरूप्यादित्यर्थः । सामान्यस्यापीत्यादिभाष्यार्थमाह ॥ स्वमोक्षेति ॥ सूत्रे न सामान्यादित्यतः सामान्यस्येत्यनुवर्तत इति भावः । विकल्पशब्दार्थः कर्तव्यं न वेति । स्वयोग्योपासनानन्तरमिति विशिष्टफलेति च भाष्यं न द्वितीय इत्यादिनोक्त-शङ्कानिवर्तकतया हेतुत्वेन व्याचष्टे ॥ तस्येति ॥ अनेन प्रत्युतेत्युक्तदोषनिरासः ।
अविघ्नत्वसाधनत्वादित्यन्यत्रोक्त्यनुरोधेन विशिष्टफलं व्यनक्ति ॥ दुरितादीति ॥ ज्ञानादि-प्रतिबन्धकदुरदृष्टं दुरितम् । अज्ञानकामक्रोधादिरादिपदार्थः । अनेन मुमुक्षुत्वादित्युक्तदोषनिरासः । साक्षान्मोक्षार्थत्वाभावेऽपि मोक्षोपयोगि यत्फलं ज्ञानादि तत्प्रतिबन्धनिवृत्तिद्वारा तत्साधनत्वा-दित्यर्थः । विकल्पः किं पूर्वविकल्प इत्युक्तगुरुविकल्पादिवदव्यवस्थित उत न वा प्रकरण-भेदादित्युक्तोपसंहारविकल्पवद्व्यवस्थित इत्यतो विशिष्टेति भाष्यं विकल्पो भवतीत्यनेनान्विततया व्यवस्थितविकल्पोपपादकत्वेन व्याचष्टे ॥ विकल्पस्त्विति ॥ षोडशिग्रहणाग्रहणवदिति भावः । ननु दुरितादिनिवृत्तेः सर्वापेक्षितत्वाद्यस्य नास्ति तेनेत्युक्तिः कथमित्यत आह ॥ स्वयोग्येति ॥ सर्वस्यापेक्षायां सत्यामपि केषाञ्चिदधिकारिणां स्वबिम्बातिरिक्तनृसिंहाद्युपासनेन विना मोक्षहेतु-स्वयोग्यबिम्बोपासनयैव पुनःपुनरनुष्ठिततया नान्तरीयकदुरितनिवृत्तेरपि सम्भवादित्यर्थः । यस्य नास्तीत्युक्तिस्तु नृसिंहाद्युपासनजन्यदुरितादिनिवृत्तिरूपफलापेक्षा यस्य नास्तीत्यभिप्रायेति भावः ॥ अत्रेति ॥ स्वयोग्योपासनमेव मोक्षाय, नृसिंहाद्युपासनं तु तदुपयोगिदुरितादिनिवृत्तये विकल्पे-नेत्युक्तार्थ इत्यर्थः । नृसिंहादिकं नृसिंहकृष्णहयग्रीवादिविष्णुरूपमन्यच्चावैष्णवं च यत्किञ्चिदिति भ्रमनिरासायाह ॥ इति सामानाधिकरण्यमिति ॥ नृसिंहादीत्यादिपदेनैव विष्णुरूपान्तराणां ग्रहणमिव देवतान्तररूपग्रहणेऽप्यविरोधो मोक्षोपयोगिफलार्थत्वादित्यप्याहुः । तथा च वक्ष्यति ‘अनादिजन्मसम्बद्धं निर्भेत्तुं पापपञ्जरम् । यावत्या सेवया शङ्क्यं तावत्कार्यं न संशयः’ इति ऐहिकमित्यत्र भाष्ये ॥ अत इति ॥ मोक्षोपयोगिदुरितादिनिवृत्तिरूपफलत्वादित्यर्थः ॥ न विद्येति ॥ ततश्चाध्यानायेत्युक्तं युक्तमिति भावः ।
अभिनवचन्द्रिका
प्रकृतोपासनमिति ॥ स्वबिम्बातिरिक्तरूपविषयम् उपासनाप्रसङ्गेन मनसि सन्निधापितम् उपासनं विषयः । मुमुक्षुणा कार्यं न वेति संदेह इत्यर्थः ॥ किमेतदुपासनमिति ॥ स्वबिम्बातिरिक्त-रूपविषयं नरसिंहाद्युपासनं किं मोक्षसाधनम्, उत फलान्तरसाधनमित्यर्थः । एतेन मुमुक्षुणा क्रियमाणस्योपासनस्य मोक्षार्थत्वनियमात् किं मोक्षार्थं कर्तव्यम्, उत फलान्तरार्थमिति विकल्पोऽनुपपन्न इति परास्तम् ॥ तदभावादिति ॥ सत्यपि नरसिंहाद्युपासने मोक्षाभावान्नर-सिंहाद्युपासनं मोक्षसाधनमिति आद्यकल्पो नेत्यर्थः ॥ न द्वितीय इति ॥ फलान्तरसाधनत्वम्, अधिकारिकर्तव्यताप्रयोजकं नेत्यर्थः । कुतो नेत्यत आह– तस्येति ॥ यदधिकारिणोऽपेक्षितं न तस्येदं साधनं यस्येदं साधनं न तत्फलमधिकारिणोऽपेक्षितमिति भावः । न केवलमिष्ट-साधनत्वाभावान् नेदं कर्तव्यम्, अपि तु इष्टविरोधित्वादपीत्याह– प्रत्युतेति ॥
उपसंहरति अत इति ॥ नरसिंहाद्युपासनस्येष्टासाधनत्वादिष्टविरोधित्वाच्चेत्यर्थः । ननु न कर्तव्यमेव नरसिंहाद्युपासनमिष्टाऽसाधनत्वेष्टविरोधित्वरूपदोषद्वयसद्भावादित्यत आह– तस्येति ॥ ‘मोक्षार्थोपासनानन्तरभावित्वेन’ इत्यनेन बिम्बोपासनविघातकत्वं परिहृतम् । ‘दुरितादिनिवृत्ति-लक्षणमोक्षोपयोगिफलसाधनत्वेन’ इत्यनेनेष्टासाधनत्व परिहृतमिति द्रष्टव्यम् । तर्हि येन नृसिंहा-द्युपासनं न क्रियते, तस्य दुरितनिवारणं न स्यादित्यत आह– स्वयोग्येति ॥
पूर्वपक्षस्तु– नाऽधिकारिणा नरसिंहाद्युपासनं कार्यम् । तस्य मोक्षहेतुत्वाभावात् । फलान्तरस्या- नपेक्षितत्वात् । प्रत्युत बिम्बोपासनविरोधित्वाच्च । ततश्च तत्प्रतिपादकविद्यावैयर्थ्यमिति ।
सिद्धान्तस्तु– नरसिंहाद्युपासनं न कर्तव्यमेवेति न भवति किंतु बिम्बोपासनमनुष्ठाय, विशिष्ट-फलापेक्षा चेत्कर्तव्यं, न चेन्न कर्तव्यमिति विकल्पः । न च नरसिंहाद्युपासनाभावे दुरितनिवृत्त्य-सिद्धिस् तीव्रया स्वबिम्बोपासनयापि दुरितनिवृत्तिसिद्धेः । ततश्च अन्योपासनस्यापि कर्तव्यत्वान् न तद्विद्याया वैयर्थ्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
पूर्वमानन्दाद्युपासनस्य फलवत्वाय पूर्णत्वं यथायोग्यमुपास्यमित्युक्तम् । तेनैव न्यायेन नरसिंहाद्युपासनाभावे ज्ञानमोक्षप्रतिबन्धकदुरितनिवृत्त्यभावेन तदर्थं तदुपास्यमिति सिद्धन्तकरणा-दनन्तरसङ्गतिः ॥ प्रकृतोपासनमिति ॥ सर्ववेदान्तप्रत्ययमिति तापनीयविद्याया बुद्धि-सन्निधापितत्वात्तया प्रकृतं तदुक्तरूपोपासनं विषय इत्यर्थः । विषयमेव व्यञ्जयन्सन्देहमाह ॥ मुमुक्षुणेति ॥ स्वबिम्बातिरिक्तविषयमुपासनं मुमुक्षुणा न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थं किं तदुपासनं मोक्षहेतुबिम्बोपासनप्रतिबन्धकमुत तन्निवर्तकमिति । अत्र बिम्बपदमुपलक्षणम् । स्वयोग्यरूपमात्रं द्रष्टव्यम् । यद्वा व्याप्तदर्शिप्रभृतिभिः स्वयोग्यरूपस्यैव हृदि प्राज्ञसंज्ञितबिम्बाभेदे-नोपास्यत्वाद् बिम्बपदेनैव तद्ग्रहः ॥ अनवधारण इति ॥ बिम्बमेवोपास्यमित्यवधारणाभाव-स्येत्यर्थः । विशिष्टफलत्वादिति सूत्रखण्डनिवर्त्यं शुद्धवैरूप्यमित्युक्तन्यायं विशदयन् पूर्वपक्षयति ॥ तथा हीति ॥ तदभावादिति ॥ मोक्षार्थत्वाभावादित्यर्थः । एतेन शुद्धसंज्ञितमोक्षवैरूप्याद् वैमुख्यात् तदर्थत्वाभावादिति न्यायार्थ उक्तो भवति ॥ उक्तमिति ॥ न सामान्यादप्युप-लब्धेरित्युक्तमित्यर्थः ॥ न द्वितीयः ॥ शुद्धस्य मोक्षाधिकारिणो मुमुक्षुत्वेन फलान्तरविमुखत्वान्न फलान्तरार्थं तदुपासनम् । प्रत्युत शुद्धमोक्षसाधनीभूतबिम्बोपासनविरोधित्वात् तद्विघ्नाय च तद्भवतीति न कर्तव्यमित्यर्थः ।
सूत्रे सामान्योपासनस्येति शेषः । विकल्पो विविधः कल्पः कर्तव्यो न वेति न तु न कार्यमेवेति नियम इति भावेन प्रवृत्तं सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवतीति भाष्यं व्याचष्टे ॥ स्वमोक्षेति ॥ सामान्यस्यापीत्यस्य मोचकतया यत्स्वसाधारणं रूपं तदतिरिक्तस्येत्यर्थ उक्तो भवति । यद्यपि नरसिंहादिकं केषाञ्चिद्योग्यरूपमेव तथापि तदतिरिक्ताधिकारिणां तत्सामान्यमिति ज्ञेयम् । स्वयोग्योपासनानन्तरमिति भाष्यं व्याचष्टे ॥ तस्येति ॥ तस्य मोक्षार्थोपासनानन्तरभावित्वेनोक्तदोषाभावादित्यन्वयः । अनेन प्रत्युत बिम्बोपासनविघ्नाय चेत्युक्त-दोषः परिहृतो बोध्यः । एतेनाविघ्नतेत्युक्तन्यायः नृसिंहाद्युपासनस्य योग्यरूपोपासनविघ्नत्वाभाव इति विवृतो भवति ॥ पूर्वपक्षिणा तदभावादिति ॥ नृसिंहाद्युपासनस्य मोक्षयोगित्वाभाव उक्तः । तद्दोषपरिहारायाविघ्नतेत्युक्तन्यायप्रदर्शकविशिष्ट-फलत्वादित्यंशं व्याकुर्वद्विशिष्टफलापेक्षयेति भाष्यं व्याचष्टे ॥ दुरितादीति ॥ आदिपदेनाज्ञानमिथ्याज्ञानकामादिर्गृह्यते । एतेन विशिष्टफलापेक्षयेत्यस्य ज्ञानमोक्षविघ्नरूप-दुरितादिनिवृत्तिरूपं यद्विशिष्टं मोक्षोपयोगितयोत्तमं फलं तद्वत्वात्कस्यचिदुपासनं कर्तव्यमित्यर्थ उक्तो भवति । अविघ्नतेति न्यायस्य विघ्नविरोधितेत्यप्यर्थ उक्तो भवति ।
ननु यदि तापनीयादिश्रुतिविहितत्वाद्दोषद्वयाभावाच्च नृसिंहकृष्णाद्युपासनस्य कर्तव्यता तर्हि तस्यावश्यमपेक्षणीयत्वे विकल्पः कथमिति शङ्कते ॥ किन्त्विति ॥ तदुत्तरत्वेन विकल्पेन भवति विशिष्टफलापेक्षयेति भाष्यं प्रकारान्तरेण व्याचष्टे ॥ विकल्पश्चेति ॥ यस्य नृसिंहाद्युपासनयैव दुरितादिनिवृत्तिरूपविशिष्टफलापेक्षाऽस्ति तेन कर्तव्यम् । यस्य तु नृसिंहाद्युपासनेन दुरितादिनिवृत्तिर्नेष्टा तस्य तन्न कर्तव्यमित्यर्थः । तर्हि तद्दुरितादिनिवर्तकं किमित्यत आह ॥ स्वयोग्ययेति ॥ फलविभेदत इति भाष्यस्यायमर्थः । दुरितादिनिवृत्तिरूपफलाकाङ्क्षाभावाभावभेदत इत्यर्थः ।
तत्त्वसुबोधिनी
नैव भूमा फलमित्युक्तरीत्या भूमत्वस्यानुपासने फलानुदये सम्भृतिद्युपासनस्येव भूमत्वो-पासनस्याकर्तव्यता न युक्तेति पूर्वाधिकरणद्वयोक्तन्यायेनैवात्रापि दर्शनप्रतिबन्धकनिरासकनरसिंहा-द्युपासनस्याकृतौ दर्शनादिफलानुदयात् तदुपासनस्याकर्तव्यतानिरासादानन्तरसङ्गतिरिति भावः ॥ उक्तं व्याहन्येतेति ॥ न सामान्यादप्युपलब्धेरित्यत्र बिम्बदर्शनस्य मोक्षसाधनत्वं नास्तीत्युक्त-मित्यर्थः । सामान्यस्यापीति भाष्यं व्याख्याति ॥ स्वमोक्षेति ॥ स्वयोग्योपासनानन्तर-मित्येतद्व्याचष्टे ॥ तस्येति ॥ अनेन प्रत्युत बिम्बोपासनविघ्नाय चेति दोषोद्धारः कृतः । तदभावादित्युक्तदोषं निरस्यति ॥ दुरितादिति ॥ तर्हि किमित्यत आह किं तु विकल्पश्चेति । तमेव प्रकटयति ॥ यस्येति ॥ विशिष्टफलानपेक्षस्य दुरितादिनिवृत्तिः कथमित्यत आह ॥ स्वयोग्यो-पासनयेति ॥
वाक्यार्थविवरणम्
बिम्बोपासनस्य ॥ बिम्बरूपभिन्ननृसिंहादिभगवद्रूपोपासनस्य ॥ तापनीयादीति ॥ तापनीयादिश्रुतीनां नृसिंहाद्युपासनाप्रतिपादकत्वादिति भावः ॥ बिम्बोपासनोक्तेः ॥ सामान्य-दर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनादित्युक्तेरित्यर्थः ॥ अनवधारणाया इति ॥ यदि मुक्तिर्योग्यात्म-दर्शनादेवेति बिम्बोपासनोक्तिः सावधारणा स्यात्तदैव नोभयथाऽप्युपपत्तिः स्यात् । न चैवम् । तदुक्तेर्निरवधारणत्वात् । अतोऽबिम्बोपासनकर्तव्यतानिषेधकत्वाभावाद्बिम्बोपासनोक्तिः सावकाशे-त्युभयथाऽप्युपपत्तिरिति भावः ॥ तदभावादिति ॥ तदुपासनेन मोक्षाभावादित्यर्थः ॥ उक्तमिति ॥ न सामान्यादित्यत्र सामान्यदर्शनाल्लोका इति स्वबिम्बातिरिक्तरूपविषयोपासनस्योक्तमोक्षेतर-फलकत्वं व्याहन्येतेत्यर्थः । बिम्बभिन्नरूपान्तरोपासनस्य मोक्षार्थत्वाभावेऽपि फलान्तरार्थमे-तदुपासनमित्युक्तम् । अतोऽसङ्गतमेतदित्यत आह ॥ अधिकारिण इति ॥ तथा चाधिकारिणो मोक्षेच्छुत्वेन मोक्षेतरफलानिच्छुत्वात् फलान्तरार्थं तेनाधिकारिणा एतदुपासनं न कार्यमिति भावः ॥ उक्तदोषेति ॥ परम्परया यथाकथञ्चिन्मोक्षोपयोगिफलकत्वेन तदभावादित्युक्तदोषाभावादित्यर्थः ॥ विशिष्टफलेति ॥ दुरितादिनिवृत्तिलक्षणमोक्षोपयोगिफलेत्यर्थः ।
ननु यस्य नास्ति तेन नेत्युक्तमयुक्तं, प्राप्तदुरितपरिहारोपायाभावादित्यत आह ॥ स्वयोग्येति ॥ स्वबिम्बेत्यर्थः । स्मृतौ न वेति । दुरितारिनिवृत्तये नोपास्यते । कुतः । फलविभेदतः दुरित-निवृत्तिलक्षणभिन्नफलस्य सत्त्वात् । तस्य चाधिकारिण एतदुपासनया दुरितपरिहारेच्छाभावात् । तीव्रबिम्बोपासनयैव तदुपपत्तेरित्यर्थः । दुरितादिनिवृत्तये नृसिंहादिकं, तदन्यद् बिम्बरूपं च दुरितादिनिवृत्तये उपास्यत इत्यन्यथाप्रतीतेराह ॥ नृसिंहादिकमन्यच्चेति ॥ सामानाधिकरण्यमिति ॥ तथा च बिम्बरूपादन्यद् यन् नृसिंहादिकं तद् इत्यर्थो द्रष्टव्यः ॥ विद्येति ॥ तापनीयादिश्रुतिरूपा नृसिंहाद्युपासनाभिधायकविद्येत्यर्थः ।
वाक्यार्थमञ्जरी
अबिम्बोपासनस्येति ॥ बिम्बातिरिक्तरूपोपासनस्येत्यर्थः ॥ तापनीयेति ॥ तस्यान्यरूपो-पास्तिपादकत्वादिति भावः ॥ अन्यथेति ॥ अबिम्बोपासनस्य मोक्षहेतुत्वे न सामान्यादप्युप-लब्धेर्मृत्युरित्यत्रोक्तबिम्बातिरिक्तदर्शनस्य मोक्षसाधनत्वं नास्तीत्येतद्व्याहन्येतेत्यर्थः ॥ मुमुक्षु-त्वादिति ॥ तथा च मोक्षेतरफले विरक्तस्य न फलान्तरापेक्षया तत्करणमिति भावः ॥ विघ्नायेति ॥ अबिम्बोपासनं भवतीति शेषः ।
ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ अबिम्बोपासनस्य विकल्पो विविधकल्पोऽनियम इति यावत् । कुतः विशिष्टफलत्वाद् विलक्षणफलकत्वादित्यर्थः ॥ उक्तदोषद्वयेति ॥ उक्तहेतुद्वयेन क्रमेण विघ्नकारित्वमुमुक्ष्वतत्वयोर्निरासादिति भावः । नृसिंहादितोऽन्यदिति भ्रमं निवारयति ॥ नृसिंहादिकमिति ॥ तथा च योग्योपासनादन्यनृसिंहादिकमित्यन्वय इति भावः ।
॥ इति विकल्पाधिकरणम् ॥ ३९ ॥