३८ नानाशब्दाधिकरणम्

ॐ नानाशब्दादिभेदात् ॐ

३८. नानाशब्दाधिकरणम्

सूत्रभाष्यम्

॥ ॐ नानाशब्दादिभेदात् ॐ ॥ ६० ॥

‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतस्सदा ।

ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥

अतः पूर्णत्वमीशस्य नानैवैषां प्रदृश्यते ।

अतः फलस्य नानात्वं नानैवोपासनं(ना)यत’ इति ब्रह्मतर्के ।

अतो भूमत्वमपि नानैवोपास्यते ।

तत्त्वप्रदीपिका

यथा नाधिकारिभेदात्तत्र तत्र सवनत्रयस्य भेदः । एवं सर्वाधिकारिणामप्येकरूप एव भूमगुणोऽ-पीत्यत आह– नाना शब्दादिभेदात् ॥ शब्दोऽनुमाऽक्ष इत्येतानि प्रमाणानि । त्रीणि चैतानि योग्यताविशेषात् । ब्रह्मादीनामेकैकमर्थं बहुधा दर्शयन्ति । अत ईशस्य पूर्णत्वं शब्दादिदृश्यं नानैव प्रदृश्यते । योग्यताविशेषादेव । न च क्रतुवदेकरूपत्वमिति वाच्यम् । सर्वसाम्याभावात् । विवक्षित-साम्येन दृष्टान्तत्वोपपत्तेः । उक्तिक्रमभेदस्तु प्रमाणानां श्रवणादिक्रममपेक्ष्य युज्यते । श्रुत्वा वेदार्थं तदनुकूलतर्कैः प्रतिकूलतर्कान् परिहृत्य ध्यानानन्तरं पश्यतीति ।

तत्त्वप्रकाशिका

अत्र ब्रह्मासाक्षात्कारसाधनभूमोपासनेऽधिकारिणां विशेषसमर्थनादस्ति शास्त्रादिसङ्गतिः । अविशेषे तूक्तानुपपत्तेरसौ समर्थनीयः । प्रकृतभूमगुण एव विषयः । किमधिकारिणामुपासने तारतम्येन प्रतीयते एकप्रकारेण वेति सन्देहः । उभयविधवस्तुप्रतीतिः सन्देहबीजम् । सर्वेषां भूमत्वमेकप्रकारेण प्रतीयत इति पूर्वः पक्षः । भूमत्वे विशेषकल्पनायोगात् । न हि केषाञ्चि-त्सम्यक्पूर्णानन्द इति केषाञ्चित् पूर्णानन्द इत्युपासनं युक्तम् । तथात्वे मिथ्योपासनप्रसङ्गात् । मिथ्योपासनस्यानर्थहेतुत्वात् । अतः सर्वेषामेकप्रकारेण भूमत्वोपासकत्वान्नोक्ततारतम्यमिति । सिद्धान्तयत्सूत्रं पठित्वा स्मृत्युदाहरणपूर्वकं व्याचष्टे ॥ नानेति ॥ भूमत्वमुपासनेऽधिकारिणां नानाप्रकारेणैव प्रतीयते । शब्दादिभिः प्रमाणैस्तत्प्रतीतेरेष्टव्यत्वात् । शब्दादीनां च प्रमाणा-नामधिकारिभेदेनानेकधैकैकार्थप्रतीतिजनकत्वान्नानोपासनाच्च फलतारतम्यमुपपद्यत इति भावः । तत्त्वनिर्णयो वेदार्थनियमोऽपरोक्षज्ञानं चेति क्रमभावीनि शब्दादिजन्यानीति शब्दादिक्रमः । न च भूमत्वे विशेषानुपपत्तिः । अतीतवत्सराणां मासानामानन्त्येऽपि विशेषवदत्राप्युपपत्तेः । अन्या-निषेधान्नान्यथोपासनम् । अतो भूमत्वदृष्टावधिकारिणां विशेषसद्भावाद्युक्तं तारतम्यमिति सिद्धम् ।

गुर्वर्थदीपिका

अधिकारिणां विशेषसमर्थनादित्यत्राधिकारिणां विशेषो नाम ब्रह्मा सर्वेभ्योऽप्यधिकां पूर्णतां भगवद्गुणेष्वनुसन्धत्ते । ततः किञ्चिदूनं रुद्रः । एवं मनुष्योत्तमपर्यन्तं पूर्णत्वोपासने अधिकारिणां तारतम्याख्यविशेषः समर्थ्यत इति भावः । शब्दानां चेत्यस्य मानुषं प्रति भुवं पश्येत्युक्ते भूशब्दस् तद्योग्यप्रदेशविशेषमेव प्रत्याययति न सर्वम् । ततोऽप्यधिकदर्शनसमर्थं प्रति तावन्तं भागं न पाताादिभागम् । सर्वज्ञऋष्यादीन्प्रति तु सर्वं भागं प्रदर्शयति । एवं भूमशब्दोऽपीति भावः । अतीतवत्सरवासराणामित्यत्रानादिकालमारभ्यातीतवत्सरदिवसानामित्यर्थः । अव्यवहितवत्सर-वासरैस्सहाप्यनन्ता एवातीतवत्सरवासराः । ततः पूर्वतनवत्सरवासरैः सह तु येऽनन्ता अतीतवत्सरवासरास्तदानन्त्यं नैतदानन्त्यसदृशम् । एवं ततः पूर्वं ततः पूर्वमित्यानन्त्येऽप्यनन्ता अवान्तरविशेषाः सन्ति । तद्वदिति भावः । यद्वाऽतीतवत्सराणामप्यानन्त्यमस्ति । तदन्तर्गत-दिवसानामप्यानन्त्यमस्ति । तत्र वत्सरानन्त्याद्वासरानन्त्ये यथा विशेषोऽस्ति तद्वदिति भावः ।

भावबोधः

अधिकारिणां विशेषेति ॥ पूर्वाधिकरणोपक्षिप्ते भूमगुणोपासने अधिकारिणां विशेष-समर्थनादनन्तरसङ्गतिरिति भावः ॥ किमित्यादि ॥ अत्र भूमत्वं किमधिकारिणामेकप्रकारेणैव प्रतीयते उत तारतम्येनेति चिन्ता । तदर्थं भूमगुणस्य नानात्वप्रतीतिः किं भ्रान्तिरुत प्रमेति । तदर्थं भूमत्वे नानात्वं नास्त्युतास्तीति । भूमगुणोपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यं विशेषस्या-कल्पनोपपत्तेरिति न्यायविवरणानुसारेण पूर्वपक्षमाह– सर्वेषामित्यादिना ॥ अधिकारिभेदेनेति ॥ अनेन यावानेवाधिकारेष्विति न्यायविवरणोदाहृतस्मृतितात्पर्यमप्युक्तं भवति ।

ननु प्रत्यक्षस्य सर्वप्रमाणोपजीवित्वेन सूत्रे ‘प्रत्यक्षादिभेदात्’ इति वक्तव्यम् । यदि ‘तन्मुख्यं ज्ञानशब्दयोः’ इत्युक्तरीत्या करणेषु शब्दस्य प्राधान्यात् सूत्रे तदादित्वेन ग्रहणं तर्हि स्मृतावनुमानस्य शब्दानन्तरं तदनन्तरं च प्रत्यक्षस्य ग्रहणे किं निमित्तमित्यत आह– तत्त्वर्णय इति ॥

ननु प्रमाणान्यप्यविद्यमानमर्थं दर्शयेयुरित्याशङ्कां परिहरति– न चेति ॥ ननूक्तमत्र भूमत्वे विशेषसद्भावे केषाञ्चित् सम्यक्पूर्णानन्दः केषाञ्चित् किञ्चित्पूर्णानन्द इति मिथ्योपासनमित्यत आह– अन्यानिषेधादिति ॥

भावदीपः

विशेषेति ॥ पूर्वं सामान्येनोक्तस्यात्र विशेषविचारात्पूर्वसङ्गतिरपि सूचिता ॥ उक्तेति ॥ यावदधिकारमित्यादौ उक्तानन्दादितारतम्येत्यर्थः ॥ उभयविधेति ॥ किञ्चिद् घटादिवस्तु सर्वेषामेकप्रकारेणैव प्रतीयते किञ्चिच्च शास्त्रार्थादिकं वस्तु तारतम्येन प्रतीयत इति भावः । भूमगुण उपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यम् । विशेषस्य कल्पनोपपत्तेरित्यन्यत्रोक्तं व्यनक्ति ॥ सर्वेषामिति ॥ तथात्व इति ॥ किञ्चित्पूर्णानन्दत्व इत्यर्थः । एष परम आनन्दः । अनिर्देश्यं परमं सुखम् । ‘यतो वाचो निवर्तन्ते’ इत्यादेरीशानन्दस्य निरतिशयपूर्णानन्दत्वेन तरतमभावापन्न-पूर्णत्वस्याभावादिति भावः ॥ अनर्थेति ॥ ‘न प्रतीके न हि सः’ इत्यत्र तथा वक्ष्यमाणत्वादिति भावः ॥ अत इति ॥ भूमत्वे विशेषकल्पनायोगादित्यर्थः । अतो भूमत्वमपि नानैवोपास्यत इति भाष्यार्थं वक्तुमाह ॥ भूमत्वमिति ॥ अत इति भाष्यपदस्य स्मृत्युक्तार्थपरामर्शिनोऽन्यमप्यर्थमाह ॥ शब्दादिभिरित्यादिना ॥ शब्दानुमानप्रत्यक्षैरित्यर्थः । प्रदृश्यते । अत इत्युक्तस्मृत्यर्थं व्यनक्ति ॥ शब्दादीनां चेति ॥ स्मृतिशेषानुरोधेनात इत्यादिभाष्यं यतो भूमत्वमपि नानैवोपास्यते अतो नानोपासनात्फलतारतम्यमपि युक्तमित्यर्थतया प्रकारान्तरेण व्याचष्टे ॥ नानोपासनाच्चेति ॥ फलतारतम्यमिति ॥ एतच्च सर्वेषां पूर्णत्वेऽपि ‘यथोदं च न कुम्भादेः सरित्सागरयोरपि । अल्पेन महता वापि पूर्तिर्योग्यतया भवेत्’ ॥ ‘एवं नरादिब्रह्मान्तजीवानां साधनैरपि । अनादि-सिद्धैर्भक्त्याद्यैः पूर्तिर्योग्यतया भवेत्’ ॥ ‘अल्पैः पूर्तिस्तथाल्पानां पूतिर्योग्यतया भवेद् इति प्रथमबृहद्भाष्योक्तदिशा ध्येयम् । सूत्रे अक्षादिभेदादिति वाच्ये शब्दादीत्युक्तिक्रमे बीजमाह ॥ तत्वेति ॥ वेदार्थं श्रुत्वा तदनुकूलतर्कैः प्रतिकूलतर्कान् परिहृत्य ध्यानानन्तरमपरोक्षतः प्रत्येतीति श्रवणमननध्यानफलक्रमात्क्रम इत्यर्थः । पूर्वत्र तन्निर्धारणार्थनियमस्तद्दृष्टेरित्यादिसूत्रे श्रवण-मननध्यानफलानां क्रमेण निर्देशात्तदनुकरणमेतत्तत्वनिर्णय इत्यादि । अर्थनियमोऽयमेवास्यार्थ इति नियम इत्यर्थः ।

ननूक्तमत्र भूमत्वे विशेषकल्पनायामेकैकस्मिन्नेवानन्दादिगुणे तत्तद्योग्यतरतमभावापन्न-भूमत्वस्याभावेन तथोपासने मिथ्योपासनाप्रसङ्ग इतीति भावेन प्रागुक्तशङ्कामनूद्य स्मृतौ तथोपासनेन फलस्य नानात्वमेवास्तीत्युक्तिलब्धसमाधिना निराह ॥ न चेति ॥ वत्सरेति ॥ संवत्सरोऽनन्तस् तन्मध्यपतितमासा अप्यनन्ताः । तथापि संवत्सरानन्त्यापेक्षया मासानन्त्यं तदपेक्षया वासराणा-मानन्त्यं ततोऽपि क्षणलवादीनामानन्त्यमधिकमिति सर्वानुभवसिद्धमिति । प्रकृतेऽपि भगवदानन्दा-द्येकैकगुणेऽपि बहून्यानन्त्यानि सन्त्येव । तथापि तत्तद्योग्यतानुरोधेन तानि तान्येवानन्त्यानि तं तमधिकारिणं प्रतिभान्ति ध्यानकाले । नान्यानि । यथाऽनन्तकोटिसूर्यप्रकाशोऽपि हरिरधिकारि-भेदेन सहस्रलक्षामितभास्करोपम इत्युच्यते तथेत्यर्थः । उक्तं च द्वितीयगीताभाष्यटीकायां सहस्रलक्षामितकान्तिकान्तमित्येतद्व्याख्यावसरे द्रष्ट्रपुरुषयोग्यताभेदात्त्रिधोक्तिरिति । विवृतमे-तद्वैशेषिकाधिकरणानुव्याख्यानसुधयोरणुत्वाविश्रान्त्युक्तिप्रकरणे । तच्च ब्रह्मपरं साक्षात्सर्वानन्त्ययुतं सदेत्यन्तेन ग्रन्थेन । ननु तावन्मात्रोपासने कथं न मिथ्योपासनमित्यत आह ॥ अन्येति ॥ एतावदेवास्यानन्त्यं नातोऽधिकमित्यनुपासनादित्यर्थः । तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतमिति वैशेषिकनयानुभाष्योक्तेरिति भावः । अङ्गुष्ठमात्र इत्युपासनमपि व्यक्त्यपेक्षयैव । न तु वस्तुत इति हृद्यपेक्षयेत्यत्र व्यक्तम् । अत्र केनचिदर्वाचीनेनोक्तदूषणालग्नताप्रकारः कण्टकोद्धारे व्यक्तः । फलोक्त्या सूत्रार्थमुपसंहरति ॥ अत इति ॥ शब्दादिभेदादित्यर्थः । तदर्थः प्राग्विवृत शब्दादिभिरित्यादिना । नानेति सौत्रप्रतिज्ञायां भावप्रधानत्वं भूम्न इत्यनुवृत्तिं चोपेत्यार्थमाह ॥ भूमत्वेति ॥ उपासनाप्रकरणाद्दृष्टावित्युक्तम् ।

अभिनवचन्द्रिका

विशेषसमर्थनादिति ॥ उपासने विशेषसमर्थनादित्यन्वयः ॥ उक्तानुपपत्तेरिति ॥ तारतम्यानुपपत्तेरित्यर्थः । उभयविधवस्तुप्रतीरिति ॥ रत्नघटादिदर्शनं सन्देहबीजमित्यर्थः ॥ न च भूमत्व इति ॥ भूमत्वं हि निरवधिकपरिमाणम् । न च निरवधिकपरिमाणे उत्कृष्टत्वमपकृष्टत्वं नाम धर्मद्वयमुपपद्यते । ततश्च केषाञ्चित्सम्यक्पूर्णत्वस्य, केषाञ्चित् किञ्चित्पूर्णत्वस्य दर्शनानुपपत्तिरिति न वाच्यमित्यर्थः ॥ अतीत इति ॥ अतीतवत्सरवासराणामानन्त्येऽपि निरवधिकायामपि सङ्ख्यायां विशेषवदत्रापि विशेषोपपत्तेरित्यर्थः । भूमत्वस्य तु नाधिकरणभेदः । आनन्त्यस्य तु वत्सरवासर-रूपाधिकरणभेद इति तु वैषम्यमात्रम् । निरवधिकसङ्ख्यायां विशेषस्योपपत्तिवन् निरवधिक-परिमाणेऽपि विशेषसम्भवादिति भावः । अपकृष्टत्वभूमत्वोपासकानां प्रागुक्तमिथ्योपासकत्वप्रसङ्गो नास्तीत्याह– अन्याऽनिषेधादिति ॥ भूमत्वं तावदुपास्ते । तच्चास्ति । नाप्यतिशयं निषेधति । येन मिथ्योपासनं स्यादिति भावः ।

पूर्वपक्षस्तु– सर्वेषां भूमत्वमेकप्रकारेणैव प्रतीयते । भूमत्वे विशेषाभावात् । विशेषाभावेऽपि तारतम्येन प्रतीत्यङ्गीकारे मिथ्योपासनप्रसङ्ग इत्येकप्रकारेणोपासकत्वान्नोक्ततारतम्यमिति ।

सिद्धान्तस्तु– नानाप्रकारेणैव भूमत्वं प्रतीयते । शब्दादिभिः प्रमाणैस् तत्प्रतीतेरेष्टव्यत्वात् । शब्दादीनां च तत्तद्योग्यतानुसारेणार्थप्रत्यायकत्वात् । न च भूमत्वे विशेषानुपपत्तिर् आनन्त्ये तारतम्यवद् भूमत्वे तारतम्योपपत्तेः । अतो भूमत्वदृष्टौ अधिकारिणां विशेषसद्भावाद् युक्तं तारतम्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

अत्रानन्तरसङ्गतिः स्पष्टा ॥ प्रकृत इति ॥ आनन्दादिविशेषतयोपास्यतया प्रकृतो भूमगुणः किमधिकारिणामेकप्रकारेण प्रतीयते, उत तारतम्येनेति चिन्ता । तदर्थं भूमत्वे विशेषकल्पना न सम्भवत्युत सम्भवतीति ॥ उभयविधेति ॥ अनर्घ्यरत्नादिकं हि परीक्षकदृष्ट्यनुसारेण तारतम्येन प्रतीयते । स्तम्भो हि सर्वान् प्रत्येकप्रकारेणेत्युभयविधवस्तुदर्शनमित्यर्थः । शब्दादिभेदादित्यंश-व्यावर्त्यमकल्पनेत्युक्तन्यायं दर्शयति ॥ भूमत्वे इति ॥ भूमत्वे तारतम्यकल्पनायोगात् । ततश्च भूमत्वे विशेषकल्पनायास् तारतम्येनोपासनायाश्चायोगादित्यर्थः । भूमत्वे तारतम्येनोपासना-योगमुपपादयति ॥ न हीति ॥

सूत्रे भूमत्वमित्यनुवर्तते । उपास्यत इति शेषः । सर्वं वाक्यं सावधारणमिति नानैवेति लभ्यत इति भावेन प्रवृत्तं भूमत्वमपि नानैवोपास्यत इति भाष्यं व्याचष्टे ॥ भूमत्वमिति ॥ तद्धेतुत्वेनानूनतेत्युक्तसिद्धान्तन्यायप्रदर्शकं शब्दादिभेदादित्यंशं प्रमाणेन व्याकुर्वच्छब्द इत्यादिभाष्यं व्याचष्टे ॥ शब्दादिभिरिति ॥ एतेन शब्दादीनां प्रमाणानां भेदादधिकारिभेदमपेक्ष्य भेदादनेकधा एकार्थप्रतीतिजनकत्वात् प्रतीतेः प्रमाणजन्यत्वेन मिथ्योपासनाभावाद् भूमत्वमुपासने नानाप्रकारेणैव प्रतीयते इत्यर्थ उक्तो भवति । ‘शब्दोऽनुमा तथैवाक्ष’ इति क्रमनियामकमाह ॥ तत्वनिर्णय इति ॥ ननु निरवधिकपूर्णत्वरूपभूमत्वस्यैकप्रकारत्वात् प्रमाणान्यपि विद्यमानमर्थं कथं दर्शयेयुरित्यत आह ॥ न चेति ॥ यथा वत्सराणां मासानां चानन्त्येऽप्येकैकवत्सरस्य द्वादशमासात्मकत्वेन वत्सरानन्त्यान् मासानन्त्ये विशेषोऽस्ति । एवमानन्दादौ स्वस्वाधिकारानुसारेणोपस्थिते पूर्णत्वेऽपि विशेषो विद्यत इति भावः । ननु स्वस्वाधिकारानुसारेणोपस्थिते पूर्णत्वस्य मासानन्त्यापेक्षया वत्सरानन्त्यस्येवासम्यक्पूर्णत्वेन केषाञ्चिन्मिथ्योपासनाप्रसङ्ग इत्यत आह ॥ अन्येति ॥

तत्त्वसुबोधिनी

अधिकारिणां विशेषेति ॥ पूर्वाधिकरणोक्तभूमगुणोपासने अधिकारिणां विशेषसमर्थना-दनन्तरसङ्गतिरिति भावः ॥ उक्तानुपपत्तेरिति ॥ उक्तातारतम्यानुपपत्तेरित्यर्थः । कुतो न इत्यत आह ॥ तथात्वेति ॥ ननु प्रत्यक्षस्य सर्वप्रमाणोपजीवित्वेन सूत्रे प्रत्यक्षादिभेदादिति वक्तव्यम् । यदि तन्मुख्यमित्युक्तरीत्या करणेषु शब्दस्य प्रधान्यात् सूत्रे तदादित्वेन ग्रहणम् । तर्हि स्मृता-वनुमानस्य शब्दानन्तरं तदनन्तरं च प्रत्यक्षस्य ग्रहणे किं निमित्तमित्यत आह ॥ तत्वनिर्णय इति ॥ ननु प्रमाणान्यप्यविद्यमानार्थं दर्शयेयुर् इत्याशङ्क्य परिहरति ॥ न चेति ॥ विशेष-वदतीतवत्सराणामानन्त्येऽपि अन्योन्यम् अवान्तरविशेषवदित्यर्थः । नन्वत्र भूमत्वे विशेषसद्भावे केषांचित् किंचित्पूर्णानन्द इति मिथ्योपासनप्रसङ्ग इत्यत आह ॥ नान्यनिषेधकत्वादिति ॥

वाक्यार्थविवरणं

विशेषस् तारतम्यम् । अन्यथा भूमोपासने अधिकारविशेषाभावे ॥ उक्तेति ॥ उपासकतार-तम्येत्यर्थः ॥ उभयविधेति ॥ दूरस्थं वस्तु दूरवर्तिभिस्तारतम्येन प्रतीयते । समीपस्थं वस्तु सर्वैरेकप्रकारेण प्रतीयत इत्यर्थः । शब्दादिभेदादिति सूत्रखण्डार्थमाह ॥ शब्दादीनां चेति ॥ नानोपासनाच्चेति ॥ पूर्णत्वस्य तरतमभावेनोपासनादित्यर्थः । तत्त्वनिर्णयश्रवणरूपशब्दफलम् । वेदार्थनियमो मननरूपानुमितिफलम् । अपरोक्षज्ञानं च ध्यानरूपप्रत्यक्षफलमिति ध्येयम् ॥ शब्दादिक्रमः ॥ ‘शब्दोऽनुमा तथैवाक्ष्’’ इति क्रमः । विशेषस् तारतम्यम् । विशेषवत् तारतम्यवत् ॥ अत्रापीति ॥ पूर्णत्वेऽपि तारतम्योपपत्तेरित्यर्थः । ‘समुद्रः पूर्णः, घटः पूर्णः’ इत्युक्ते पूर्णत्वेऽपि तारतम्यप्रतीतिदर्शनादित्यपि द्रष्टव्यम् ॥ अन्येति ॥ अल्पपूर्णत्वं स्वयोग्यतानुसारेण यैरुपास्यते तैरल्पपूर्णत्वमेवास्ति हरेर्नाधिकं पूर्णत्वमस्तीति यद्युपास्येत तर्ह्यैव अन्यथोपासनं स्यात् । न चैवमुच्यते । अन्यनिषेधेन तैरुपासनाया अकरणात् । निरवधिकपूर्णे च हरौ किञ्चित्पूर्णत्वादेरपि सत्त्वात् । न हि निरवधिकपूर्णे समुद्रे घटनिष्ठपूर्णतासदृशं पूर्णत्वं नास्तीति शक्यते वक्तुम् । तथात्वे निरवधिकपूर्णत्वस्यैवाप्राप्तेरिति ॥ तथोक्तं ‘महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् । तावत्त्वमेव नैव स्यात्’ इतीति सम्प्रदायविदः ॥ भूमत्वदृष्टौ भूमत्वोपासने ॥ विशेषस् तारतम्यम् । तारतम्यं तदुपासकानामिति शेषः ।

वाक्यार्थमञ्जरी

उक्तेति यावदधिकारमित्युक्तफलतारतम्यमित्यर्थः ॥ भूमत्व इति ॥ न हि विभूनां देशतः पूर्णत्वे विशेषोऽस्तीति भावः । सत्यपि विशेषेऽनुपपत्तिमाह ॥ न हीति ॥ मिथ्येति ॥ भगवदानन्दे किञ्चित्पूर्णत्वाभावादिति भावः ॥ ॐ नानाशब्दादिभेदात् ॐ ॥ भूमत्वं नाना तारतम्येनैव प्रतीयते कुतः शब्दादिप्रमाणानां भेदात् । तारतम्येन ज्ञानजनकत्वस्वाभाव्यादित्यर्थः । ननु प्रत्यक्षस्य सर्वप्रमाणोपजीव्यत्वेन प्राधान्यात्सूत्रे प्रत्यक्षादीति वक्तव्यम् । यदि ‘तन्मुख्यं ज्ञानशब्दयोः’ इत्युक्तरीत्या करणेषु शब्दस्य प्राधान्यात्तदादित्वेन ग्रहणं तर्हि स्मृतौ शब्दानन्तरं प्रत्यक्षमनुक्त्वानुमानग्रहणे किं निमित्तमित्यत आह ॥ तत्त्वनिर्णय इति ॥ ननु प्रमाणान्यप्य-विद्यमानार्थं कथं दर्शयेयुरित्याशङ्क्य परिहरति ॥ न चेति ॥ अतीतेति ॥ वर्षापेक्षया वासराणां बहुत्वादिति भावः ॥ अत्रापीति ॥ घटकूपादीनां जलपूर्णत्वे विशेषदर्शनादिति भावः । ननूक्तमत्र मिथ्योपासनप्रसङ्ग इति तत्राह ॥ अन्यानिषेधादिति ॥ एतावदेव नाधिकमित्यनिषेधादिति भावः ।

॥ इति नानाशब्दाधिकरणम् ॥ ३८ ॥