ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ
३७. भूमाधिकरणम्
सूत्रभाष्यम्
॥ ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ॥ ५९ ॥
सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत्सर्वत्र सहभावात् (दीक्षाप्रायणीयोदयनीय-सवनत्रयावभृथात्मकः क्रतुर् इत्यधिकः पाठः क्वचित्) ।
‘भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते ।
तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः ॥’
इति च गौपवनश्रुतिः ।
तत्त्वप्रदीपिका
इदमिदानीमालोच्यते । किं भूमगुणस्सर्वगुणैस्सामान्येनोपास्तौ वर्तते किं वा तेभ्यो वैशिष्ट्ये-नेति । ज्ञानादिचतुष्कोपासनादेव भूमगुणादृते मोक्षसिद्धेरुक्तत्वात्, अनुपसंहारप्रमाणे च आत्म-त्वस्यैव विशेषोदितत्वात्, भूमगुणस्य च महत्त्वपर्यायस्यावरेषामुपासितुमशक्यत्वान्न तस्य वैशिष्ट्य-मिति प्राप्त आह– ‘भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति’ ॥ सर्वगुणेषु भूमगुणस्य प्राधान्यं सर्वत्र सम्बध्योपासनीयत्वेन । तमृत एकगुणस्याप्यनुपासनीयत्वात् । न च तदुपासनस्याशक्यत्वम् । प्रत्यधिकारिनानात्वस्य वक्ष्यमाणत्वात् । यथा सवनत्रयात्मकः क्रतुरहीनादिषु प्रत्यहं सम्बध्यमानो विशिष्टो भवति, तमन्तरेणैकस्याप्यह्नोऽननुष्ठेयत्वेन । ‘ध्रुवाः शास्त्राणामाताना’ इति च सत्राणि प्रकृत्य याज्ञिकोक्तिः ॥ एवमिहापि ॥ अतः पूर्णज्ञानः पूर्णानन्द इत्येवोपासनं कार्यमिति सिद्धम् ।
तत्त्वप्रकाशिका
अत्र ईश्वरदर्शनसाधनस्य भूमगुणोपासनस्य सर्वोपासकसाधारण्यसमर्थनादस्ति शास्त्रादि-सङ्गतिः । अन्यथा लौकिकतयोपासनप्रसङ्गात्समर्थनीयम् । प्रकृतभगवद्गुणान्तर्गतो ‘यो वै भूमा’ इत्यादौ श्रुतो भूमगुण एव विषयः । सर्वोपास्यो न वेति सन्देहः । गुणद्वैविध्यदर्शनं सन्देहबीजम् । तत्रोपासकं प्रति भूमगुणस्य सम्भृत्यादिगुणेभ्यो न विशेषः । सर्वोपास्यो न भवतीति पूर्वः पक्षः । वैय्यर्थ्यात् । आनन्दादिकं हि सर्वाधिकारिणामिष्टम् । तच्च तद्गुणोपासनेनोपपद्यते । न हि निरतिशयत्वापरपर्यायं भूमत्वं कस्यापीष्टं येन तदुपासनं सार्थकं स्यात् । न च भूमत्वस्यानन्दादि-विशेषणत्वात्सर्वोपास्यत्वम् । विशेषणत्वेऽपि प्रियशिरस्त्वादीनामिव फलानुपयोगित्वेनानुपास्य-त्वात् । अतो भूमत्वस्य सर्वोपास्यत्वाभावान्नालौकिकतयोपासनमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ भूम्न इति ॥ सर्वैरुपास्यो भूमगुणः सर्वगुणेषु तस्य ज्यायस्त्वात् । कस्मात् । यथा खलु दीक्षाप्रायणीयोदयनीयसवनत्रयाऽवभृथात्मकस्य क्रतोः सर्वयागेष्वनुवर्तन एव साफल्यादन्यथा वैफल्याज्ज्यायस्त्वं ततश्च सर्वैः कर्तव्यत्वम् । तथा भूमत्वस्य सर्वत्रानन्दादिषु सहभावेनोपासन एवेष्टफलसिद्धेः । एतदपि कुतः । ‘भूमैव देवः’ इति श्रुतेरिति भावः । देवः सर्वैर्भूमत्वेनोपास्यः । कस्मात् । भूमा गुणो गुणराशितो यतः क्रतुवद्विशिष्टः । कथम् । यस्माद् भूमैवोपासितः फलं विधत्ते नैवाऽभूमा तस्मादित्यर्थः । अतः सर्वैरानन्दाद्याः पूर्णत्वेनोपास्या इति न लौकिक-तयोपासनमिति सिद्धम् ।
गुर्वर्थदीपिका
अत्रेश्वरदर्शनसाधनस्य भूमगुणोपासनस्येत्यत्र भूमगुणोपासनं नाम परमात्मन्यानन्दज्ञानादयो ये गुणा उपास्यन्ते तेषां सर्वेषां गुणानां भूमत्वापरपर्यायपूर्णत्वविशिष्टतयोपासनम् । अतश्चतुर्गुणो-पासकेष्वपि लौकिकानन्दादिगुणेभ्योऽप्यतिशयाय पूर्णानन्दः परमात्मा पूर्णज्ञानः परमात्मेत्यादि-रूपेणैवोपासनस्याभिप्रेतत्वेन पृथगुपासनाभावान्न चतुर्गुणोपासकत्वभङ्गः । न हि कुण्डलिनश्चत्वारः पुरुषा इत्युक्ते विशेषणीभूतकुण्डलैस्तच्चतुष्ट्वस्यासम्भव इति भावः । क्रतुवदित्यत्र क्रतुपदेन सकल-प्रधानयागाङ्गभूता अत एव सर्वत्र कर्तुं योग्यत्वात्क्रतुपदवाच्या दीक्षाप्रायणीयोदयनीयाख्य-कर्मत्रयसवनत्रये क्रियमाणकर्मत्रयावभृथस्नानाख्याः कर्मविशेषाः कथ्यन्ते ।
भावबोधः
सर्वोपासकसाधारण्येति ॥ अतीताधिकरणेऽन्यदेवतोपासनस्य कर्तव्यत्वमुक्त्वा प्रसङ्गा-द्भूमगुणोपासनस्यापि सर्वोपासकसाधारण्यमत्र समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ अन्यथाऽऽनन्दादीनाम् अपूर्णत्वेन उपासनाप्राप्तौ लौकिकतया उपासनप्रसङ्गात् ‘कार्याख्यानादपूर्वं’ इत्युक्तमयुक्तं स्यादिति भावः ॥ सर्वेति ॥ अत्र भूमगुणः सर्वोपास्यो न भवत्युत भवतीति चिन्ता । तदर्थं भूमगुणस्य सर्वत्रानन्दादिषु सहभावेनोपासनाभावेऽपि इष्टसिद्धिर्न भवत्युत भवतीति । भूमगुणस्योपासकं प्रति विशेषाभावेऽपीति पूर्ववाक्यानुसारेण विशेष इति न्यायविवरण-गतपूर्वपक्षप्रतिज्ञाभागं व्याचष्टे– तत्रोपासकं प्रतीति ॥ अनेन सम्भृत्यादिगुणेभ्य इति विशेष इत्युक्तं भवति । तस्य तात्पर्यमाह– सर्वोपास्यो नेति ॥ तत्तदिष्टगुणानुसारेण फलोपपत्तिरिति न्यायविवरणांशं व्याचष्टे– आनन्दादिकं हीति ॥
ननु भूमत्वस्यापीष्टत्वेन तदुपासनमपि सार्थकमेवेत्यत आह– न हीति ॥ ‘भूमैव देवः’ इति श्रुतेरिति । इयमेव च श्रुतिर् न्यायविवरणोदाहृतेति ज्ञातव्यम् ।
भावदीपः
सर्वेति ॥ एतेन पूर्वत्राङ्गदेवतोपासनस्य सर्वसाधारण्योक्तिप्रस्तावादिहापि तदुच्यत इति पूर्वसङ्गतिरपि सूचिता ॥ लौकिकतयेति ॥ परमतः सेतून्मानेत्यत्र पूर्णत्वाख्योन्मानत्वादिनैवा-लौकिकत्वोक्तेरिह सर्वोपास्यानन्दादिगुणानां भूमशब्दितपूर्णत्वानुक्तौ हेत्वसिध्या परमित्युक्ता-लौकिकत्वायोगेन लौकिकत्त्वस्य प्राप्तेः । तथा च कार्याख्यानादपूर्वमित्युक्तालौकिकमोक्षाभावः स्यादिति भावः ॥ इत्यादौ श्रुत इति ॥ भूमा सम्प्रसादादित्यत्र भावभवित्रोरभेदविवक्षया भूमा विष्णुरित्युक्तावपि आध्यात्मसम्बन्धभूमेत्यादाविवात्र भूमशब्दो बहुत्वरूपपूर्णत्ववाची । बहुः पूर्णतायामित्युक्तेरिति भावेन इत्यादौ श्रुतो भूमगुण इत्युक्तं पूर्णगुणत्व इत्यर्थः । भूमगुणस्योपासकं प्रति विशेषाभावेऽपि तत्तदिष्टगुणानुसारेण फलोपपत्तिरित्यविशेष इति न्यायविवरणं विवृण्वन् प्रतिज्ञात्वेनान्वयपूर्वं तदेकदेशमुपादत्ते ॥ तत्रेति ॥ एवं सन्देहे सतीत्यर्थः । सम्भृत्यादिभ्य इति शेषोक्तिः । किमुक्तं भवतीत्यतः यथा सम्भृतिद्युव्याप्तिप्रियशिरस्त्वादिगुणा न सर्वोपास्यास्तथा भूमगुणोऽपीत्युक्तं भवतीति भावेन तद्वाक्यस्य फलितार्थमाह ॥ सर्वोपास्यो न भवतीति ॥ कुत इत्यतः सम्भृत्यादिभ्यो न विशेष इत्युक्त्यैव सम्भृत्याद्यनुपासनेऽप्यानन्दादय इत्युक्तगुणोपासने-नैवानन्दानुभवरूपमोक्षसिद्धिवद् भूमगुणानुपासनेऽपीति भूमोपासनस्य वैयर्थ्यरूपहेतुरपि लब्ध इति भावेनाह ॥ वैयर्थ्यादिति ॥ भूमगुणोपासनस्येति योज्यम् । तत्तदिष्टगुणानुसारेण फलोपपत्ति-रित्यंशवैयर्थ्योपपादकत्वेन व्याचष्टे ॥ आनन्दादिकमिति ॥ विशेषभावेऽपीत्यंशमपि पदसूचितशङ्कां दर्शयन् तत्तदिष्टगुणोक्त्यैव निरस्तेत्याह ॥ न च भूमत्वस्येति ॥ एके तु विशेषाभावेऽपीति पाठमुपेत्य व्याकुर्वते ॥ अत इति ॥ वैयर्थ्यादित्यर्थः ॥ नालौकिकतयोपासनमिति ॥ कार्याख्या-नादपूर्वमित्यत्रोक्तमिति भावः ॥ ज्यायस्त्वोक्तेरसाङ्गत्यनिरासाय साध्यमध्याहृत्य तत्र हेतुत्वेन भाष्यं व्याचष्टे ॥ सर्वैरिति ॥ कस्मादिति ॥ ज्यायस्त्वं तेनोपास्यत्वं च कुत इत्यर्थः । सिद्धेरित्यन्तेन समाधिः । दीक्षा यजमानसंस्कारकर्म । प्रायणीयोदयनीयौ क्रतोरादावन्ते क्रमेण कर्तव्याविष्टिविशेषौ । प्रातःसवनमाध्यन्दिनसवनतृतीयसवनभेदेन सोमाभिषवरूपसवनत्रयेत्यर्थः । अवभृथो नाम अप्स्ववभृथेन चरन्तीत्युक्तेष्टिविशेषः । क्रतोरग्निष्टोमस्य सर्वयागेषु द्वादशाहाद्यह-र्गणेष्वित्यर्थः ॥ अत इति ॥ भूमत्वसहभावेनैवानन्दाद्युपासनस्येष्टफलहेतुतायाः श्रुत्युक्तत्वादित्यर्थः ।
अभिनवचन्द्रिका
अन्यथेति ॥ भूमगुणोपासनस्य सर्वसाधारण्यसमर्थनाभावे, चतुर्गुणोपासकानां प्रियशिर-स्त्वादीनामिव भूमत्वोपासनेऽप्यनर्थशङ्कया, लौकिकतयोपासनप्रसङ्गात् । भूमत्वपरित्यागेनाऽऽ-नन्दादिमात्रोपासनप्रसङ्गादित्यर्थः । अत्र टीकायाम् ‘सन्देहबीजम्’ इत्यतःपरं श्रूयमाणं ‘तत्रोपासकं प्रति भूमगुणस्य सम्भृत्यादिगुणेभ्यो न विशेष’ इति वाक््यं प्रक्षिप्तं, न टीकावाक््यम् । अनन्वितत्वादनावश्यकत्वाच्चेति द्रष्टव्यम् । भगवद्गुणेषु स्वतस् तारतम्याभावात्केनहेतुना ज्यायस्त्वमुक्तमिति पृच्छति– कस्मादिति ॥ दीक्षाद्यात्मकस्य क्रतो राजसूयाद्यपकृष्टस्यापि सर्वयागोपकारित्वेनोपाधिना प्राधान्यवत्, भूमगुणस्य साम्याविरोधेनैव सर्वोपासनाफलहेतुत्वेन प्राधान्यवत्, भूमगुणस्य साम्याविरोधेनैव सर्वोपासनाफलहेतुत्वेन ज्यायस्त्वमिति समाधानमाह– यथाखल्विति ॥ अत्र टीकायां ‘अन्यथा वैफल्याज् ज्यायस्त्वम्’ इत्यतः परं ‘ततश्च सर्वैः कर्तव्यत्वम्’ इति वाक््यं प्रक्षिप्तम् । अवश्यं चैददेवं विज्ञेयम् । सूत्रभाष्ययोर् भूमगुणस्य ज्यायस्त्वमात्रे क्रतोर्दृष्टान्तत्वेनोपादानात् ‘क्रतोर्यथा सर्वयागेष्वनुवर्तन एव साफल्यादन्यथा वैफल्याज् ज्यायस्त्वम्, तथा भूमत्वस्याऽऽनंदादिषु सहभावेनोपासन एवेष्टसिद्धेः’ इत्येव वक्तव्यत्वेन ‘ततश्च सर्वैः कर्तव्यत्वम्’ इति वाक््यस्यासङ्गतत्वात् ।
पुर्वपक्षस्तु– न भूमगुणः सर्वोपास्यः । वैयर्थ्यात् । न हि कस्यापि निरतिशयापरपर्यायं भूमत्वमिष्टम् । न चाऽऽनन्दविशेषणत्वादुपास्यत्वम् । प्रियशिरस्त्वादौ व्यभिचारात् । अतो भूमत्वस्य सर्वोपास्यत्वाभावाद् लौकिकतयोपासनमिति ।
सिद्धान्तस्तु– सर्वैरपि उपास्यो भूमगुणः । यथा खलु दीक्षाप्रायणीयोदयनीयसवनत्रयाव-भृथात्मकस्य क्रतोः सर्वयागेष्वनुवर्तन एव साफल्यात्, अन्यथा वैफल्याज्ज्यायस्त्वम्, तथा भूमत्वस्य सर्वत्राऽऽनन्दादिषु सहभावेनोपासन एवेष्टसिद्धेर्ज्यायस्त्वात् । तदुक्तम् ‘भूमैव देवपरमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः सर्वमध्ये विशिष्ट’ इति । अतः सर्वैरानन्दाद्याः पूर्णगुणत्वेनोपास्या इति न लौकिकतयोपासनमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्र यथा देवेषु गुणोपसंहारः सर्वाधिकारिको न भवति तत्साध्यफलातिशयस्य सर्वेषा-मनपेक्षितत्वादित्युच्यत एवमेव भूमत्वमपि न सर्वैरुपास्यम् । तत्साध्यनिरतिशयपूर्तेः सर्वेषामनिष्ट-त्वादिति न्यायसाम्येनाक्षेपोत्थानादनन्तरसङ्गतिः ॥ अन्यथेति ॥ आनन्दादेर् भूमत्वानुपासन इत्यर्थः । तथा च कार्याख्यानादपूर्वमित्युक्तमयुक्तं स्यादिति भावः । यो वै भूमा तत्सुखमित्यादौ श्रुतो भूमगुण इति । यद्यपि भूमा सम्प्रसादादित्यत्र भूमशब्दः पूर्वपक्षे सिद्धान्ते च गुणिपरत्वे-नोक्तस्तथापि तत्र भावभवितृभेदेन धर्मिपरत्वेन स्वीकारेऽपि वस्तुतो भाववाचकशब्दत्वाद्गुण इति साधूक्तम् ॥ सर्वेति ॥ अत्र भूमगुणः सर्वोपास्यो न भवत्युत भवतीति चिन्ता । तदर्थं तदुपासनं व्यर्थमुतानन्दाद्युपासनस्य फलवत्त्वात्सार्थकमिति । अत्र सूत्रे भूम्नो ज्यायस्त्वमिति सम्भृत्यादि-गुणेभ्य उपासकं प्रति भूमगुणस्य वैशेष्योक्त्या निरसनीयं पूर्वपक्षमाह ॥ अत्रेति ॥ तदुक्तं न्यायविवरणे । भूमगुणस्योपासकं प्रत्यविशेष इति । ततश्च किमित्यत आह ॥ सर्वोपास्य इति ॥ कथमविशेषो येनोपास्यत्वाभाव इत्यतस् तद्वत्फलानुपयोगित्वेन व्यर्थत्वादित्याह ॥ वैय्यर्थ्यादिति ॥ वैय्यर्थ्यमेवेष्टं फलमिति न्यायप्रदर्शनपूर्वकमाह ॥ आनन्दादिकमिति ॥ भूमत्वस्यापि सर्वाधि-कारिणामिष्टत्वे तदप्युपास्यमेवेत्यत आह ॥ न हीति ॥ अधिकारिवर्गे निरतिशयतत्वस्य हिरण्यगर्भस्येष्टत्वेऽपि तदितरस्य कस्यापीत्यर्थः ॥ विशेषणत्वेऽपीति ॥
ननु प्रियशिरस्त्वादीनामानन्दविशेषत्वादिति सामान्यविशेषभावः प्रागुक्तः । इह तु पूर्ववत्तद्विशेषणमुच्यते । कथमविरोध इति चेन्न । प्रियशिरस्त्वं हि प्रियशिरसो भावः । तच्च शिरोरूपमुपकारजं सुखम् । तस्यानन्दविशेषवत्वेऽप्युपकारजत्वनारायणात्मकशिरोरूपत्वादिकं सुखस्य विशेषणमेवेति तद्विवक्षयाऽयं ग्रन्थः प्रवृत्त इत्यविरोधोपपत्तेः सूत्रोक्तं ज्यायस्त्वं हेतुरिति भावेन साध्यमध्याहरति ॥ सर्वैरिति ॥ यद्वा ज्यायस्त्वमित्यस्यैव सर्वोपास्यत्वमित्यर्थं मत्वोक्तं सर्वैरिति । तद्धेतुतया प्रकारान्तरेण व्याचष्टे ॥ सर्वगुणेष्विति ॥ कस्माद्धेतोर्ज्यायस्त्वं भगव-द्गुणत्वाविशेषादिति भावः । क्रतुवदिति दृष्टान्तबलाल्लब्धं क्रतुवत्सर्वत्र सहभावादित्युक्तं हेतुं विशदयति ॥ यथेति ॥
ननु क्रतुशब्दस्य दीक्षाद्यङ्गकलापविशिष्टज्योतिष्टोमवाचित्वात्कथं तस्य विश्वजिदादियागेषु अनुवर्तनीयत्वमित्यत उक्तं भाष्ये । दीक्षाप्रायणीयोदयनीयसवनत्रयावभृथात्मकः क्रतुरिति । नात्र क्रतुपदेनाङ्गकलापविशिष्टो ज्योतिष्टोम उच्यते । किं नाम दीक्षाद्यात्मकः दीक्षादिरूपाङ्गकलाप एव क्रतुपदेन विवक्षित इति । तदेतदज्ञात्वा यत्केनचित्प्रलपितम् । दीक्षादिविशिष्टक्रतोः सर्वत्र सहभावप्रतिपादनं भाष्यकारीयं मीमांसाज्ञानमूलमिति तदपास्तं वेदितव्यम् । शिष्टिरित्युक्त-न्यायप्रदर्शकं तथा च दर्शयतीति सूत्रखण्डमवतार्य व्याचष्टे ॥ एतदपीति ॥ क्रत्वङ्गानां सर्वेष्व-न्वयेनैव फलहेतुत्वं तद्दृष्टान्तेन भूमत्वस्य सर्वत्रानन्दादिषु सहभावेनैवानन्दादिगुणानां फलहेतुत्वेन ज्यायस्त्वम् । अत एवोपास्यत्वमित्येतदेवेत्यर्थः । अभूमा भूमत्वेनानुपासितः । यद्यपि मायावादखण्डने भूम्नो ज्यायस्त्वमित्युक्तं सूत्रेष्विति । महाभारततात्पर्यनिर्णये च भूम्नो भूमगुणस्य ज्यायस्त्वं मुख्यतः सर्ववेदादिप्रतिपाद्यत्वमित्यर्थ उक्तः । तथापि बह्वर्थत्वादविरोधः । तथा चायं सूत्रार्थः । भूम्नो भूमस्य सर्वोपास्यत्वम् । कुतः । च यस्मात् सर्वेषु ज्यायस्त्वम् । तदपि कुतः । क्रतुवद् दीक्षाद्यङ्गकलापस्य सर्वयागेष्विव भूमत्वस्य पूर्णानन्दः पूर्णज्ञान इत्यादिप्रकारेण सर्वगुणेषु विशेषणतः सहोपास्त्यैव फलप्रापकत्वात् । न चेदमप्रामाणिकम् । च यस्माद्दर्शयति तथा श्रुतिरिति ।
तत्त्वसुबोधिनी
सर्वोपासकसाधारण्येति ॥ अतीताधिकरणेऽन्यदेवतोपासनस्य सर्वैः कर्तव्यत्वमुक्त्वा प्रसङ्गाद् भूमगुणोपासनस्यापि सर्वोपासकसाधारण्यमत्र समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ अन्यथा आनन्दादीनामपूर्णत्वेन उपासनाप्राप्तौ लौकिकतया उपासनप्रसङ्गात् कार्याख्यानाद-पूर्वमित्युक्तमयुक्तं स्यादिति भावः । पूर्वपक्षमाह ॥ तत्रोपासकं प्रतीति ॥ तस्य तात्पर्यमाह ॥ सर्वोपास्यमिति ॥ ननु भूमत्वस्यापीष्टत्वेन तदुपासनमपि सममेवेत्यत आह ॥ न हीति ॥ दीक्षेत्यादिभाष्यस्यायं भावः । यथा सवनत्रयात्मकः क्रतुरहितादिषु प्रत्यक्षसम्बध्यमानविशिष्टो भवति । तमन्तरेण कस्याप्ययं हेतुत्वे न त्वत एकगुणस्यामनुष्टेयत्वं न ध्रवाः शस्त्रायातामताना इति सूत्राणि प्रकृत्यपातिकोक्तिरेवमिहापि सर्वगुणेषु भूमगुणस्य प्राधान्ये सर्वत्रसम्बध्य उपासनावत्वेन तत एकगुणस्याप्यनुपासनीयत्वादिति । अप्रतीतार्थत्वात् श्रुतिं व्याचष्टे ॥ देव इति ॥
वाक्यार्थविवरणम्
अन्यथा ॥ पूर्णज्ञानेत्यादिरूपेण ज्ञानादिविशेषणतया पूर्णत्वापरपर्यायभूमगुणस्यानुपास्यत्वे भगवद्ज्ञानादिगुणानां लौकिकत्वेन उपास्यत्वप्राप्त्या कार्याख्यानादित्युक्तालौकिकतयोपासनम् अयुक्तं स्यादिति भावः । भूमगुणस्योपासकं प्रति विशेषाभाव इति पूर्वपक्षकथनपरन्यायविवरणमपेक्षिता-ध्याहारेण व्याकुर्वन्नेव तदनुसारेण पूर्वपक्षमाह ॥ तत्रोपासकं प्रतीति ॥ तस्याभिप्रायमाह ॥ सर्वोपास्य इति ॥ यथा सम्भृत्यादिगुणानां न सर्वोपास्यत्वं तथा भूमगुणस्यापीत्यर्थः ॥ वैय्यर्थ्यादिति ॥ भूमगुणोपासनस्येत्यर्थः ॥ तद्गुणेति ॥ स चासौ गुणश्चेति विग्रहः । आनन्दादिगुणेत्यर्थः ॥ फलानुपयोगित्वेनेति ॥ तदुपासनस्यायोग्यतयेत्यर्थः ॥ नालौकिकत-येति ॥ आनन्दादेः पूर्णत्वेनोपासने खलु अलौकिकतयोपासनं भवति । भूमत्वस्य सर्वोपास्य-त्वाभावे आनन्दादीनां लौकिकत्वेन उपासनमेव प्राप्तमिति भावः । यथा खलु दीक्षाप्रायणीयो-दयनीयेत्यादि । प्रायणीयोदयनीयनामकमिष्टिद्वयम् ।
ननु दीक्षा प्रायणीयोदयनीयसवनत्रयावभृथात्मकस्य क्रतोः सर्वत्र यज्ञेषु सहभावाज्ज्यायस्त्वमुक्तं तत्रेदं शङ्क्यते । एतादृशक्रतोः कथं सर्वत्र सहभावः । दीक्षावभृथयोः सर्वत्र सहभावेऽपि प्रायणीयोदयनीयेष्टयोः सर्वत्र कथं सहभावः । सवनत्रयस्य तु सहभावः सर्वथा असम्भावित एव । सुत्यासवनशब्दौ तु पर्यायत्वेन सम्मतावित्युक्तेः । यस्मिन् अह्नि सोमः कण्ड््यते स कालः सुत्येति व्याख्यानाच्च । सवनत्रयस्य सोमयागसाधारणधर्मतया तदितराश्वमेधादिसर्वयज्ञेषु सोमकण्डनाभावेन सवनत्रयस्याप्रामाणिकत्वादिति । तत्रेदमुत्तरम् । सर्वत्रेत्यनेन न सर्वयज्ञा विवक्षिताः । किन्तु सोमयागप्रभेदरूपा या अग्निष्टोमात्यग्निष्टोमातिरात्रषोडश्युक्थवाजपेयात्पुर्यामसंज्ञकाः सप्त संस्था एव विवक्षिताः । तासु च सर्वत्र प्रायणीयोदयनीयसवनत्रयाणामस्त्येव सहभावः । तदभिप्रायेणैव सर्वत्रेत्युक्तम् । न च प्रधानयाग एव सवनत्रयम् । न तदङ्गभूतसप्तसंस्थास्त्विति वाच्यम् । य षोडशीरूपसंस्थायां तावत्सवनत्रस्य सद्भावः । ‘पीतवद्वै प्रातःसवनम्’ इत्यादिना महानाम्नीना-मित्यादिखण्डे स्पष्टं प्रतिपादितः । तद्वदग्निष्टोमादिषट्कसंस्थास्वपि सवनत्रयमस्तीति न कोऽपि दोष इति ध्येयमित्याहुः ।
वाक्यार्थमञ्जरी
अन्यथेति ॥ पूर्णत्वस्यानुपास्यत्वे आनन्दादीनामपूर्णत्वेनोपासनाप्राप्तौ लौकिक तयोपासन-प्रसङ्गादित्यर्थः । तथा च कार्याख्यानादपूर्वमित्युक्तालौकिकत्वानुपपत्तिरिति भावः । ततः किमित्यत आह ॥ सर्वोपास्यो नेति ॥ सम्भृत्याद्यविशेषेऽपि कुतो न सर्वोपास्यत्वमत आह ॥ वैय्यर्थ्यादिति ॥ तदेव व्यनक्ति ॥ आनन्दादिकं हीति ॥ ननु भूमत्वस्यापीष्टत्वेन तदुपासनमपि सार्थकमेवेत्यत आह ॥ न हीति ॥ ॐ भूम्नः क्रतुवज्जायस्त्त्वं तथा च दर्शयति ॐ ॥ भूम्नः भूमगुणस्य सर्वगुणेषु जायस्त्वं प्राधान्यं कथं क्रतुवद् यथा दीक्षाद्यङ्गकलापस्य विश्वजिदादि-सर्वयागेष्वनुवृत्तावेव तद्योग्यानुष्ठानफलहेतुत्वेन प्राधान्यं तथा तद्वद्भूमगुणस्य सर्वगुणानुवृत्तत्वेन फलहेतुत्वं कुत इत्यत उक्तम् ॥ तथा च दर्शयतीति ॥ च यस्माद्भूमैव देव इति श्रुतिस् तथा उक्तार्थं दर्शयत्यत इत्यर्थः । यद्यपि क्रतुशब्दो दीक्षाद्यङ्गविशिष्टयागवाचकत्वेन मीमांसकप्रकरण-सिद्धस् तथाप्यत्र तदङ्गकलापमात्रपरो ग्राह्यः सहभावेन तद्विशेषणत्वेन ।
॥ इति भूमाधिकरणम् ॥ ३७ ॥