ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ
३६.अङ्गावबद्धाधिकरणम्
सूत्रभाष्यम्
॥ ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ॥ ५७ ॥
ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च नोपसंह्रियते । हिशब्दात्—
‘समत्वाद्वोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् ।
उपसंहार्यमित्याहुर्वेदसिद्धान्तवेदिनः’ इति ब्रह्मतर्कवचनात् ॥
तत्त्वप्रदीपिका
यद्यपि प्रतिशाखं प्रतिवेदं च ब्रह्मादीनां परिवारदेवतानाम् उपासनापूजानमस्काराद्युच्यते । तथाऽपि तन्नोपसंहार्यम् । केषाम् ? समानानामुत्तमानां चेति हिशब्दसूचितब्रह्मतर्कवचनादव-गन्तव्यम् ।
‘विष्णोरङ्गसमुद्भूतेर्विष्णोरङ्गानि देवताः ।
उच्यन्ते सर्ववेदेषु स्वरूपे भेदिनोऽपि तु’ इत्याध्यात्मे ॥
प्रतिशाखमित्युक्त्वा पुनः प्रतिवेदमित्युक्तिरविभक्तवेदस्य विद्यमानत्वात् ॥
तत्त्वप्रकाशिका
अत्र ब्रह्मज्ञानसाधनोपासनस्य यथायोग्याऽङ्गदेवतोपासनयुक्तत्वेन कर्तव्यताप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । अन्यथा तत्प्रतिपादकवेदवैय्यर्थ्यस्योक्ततारतम्याभावस्य च प्रसङ्गात्प्रतिपादनीय-मेतत् । प्रकृतं भगवदुपासनमेव विषयः । अन्यदेवतोपासनयुक्तं वा कर्तव्यं केवलं वेति सन्देहः । ब्रह्मोपासनविधेः साधारण्यं सन्देहबीजम् । अन्यदेवतोपासने च तस्य गुणोपसंहारपूर्वकत्वात्किमेकस्य श्रुतिप्रतीतगुणाः सर्वेषूपसंहर्तव्या न वेति सन्देहः । लौकिकपुरुषपूजादौ द्वैविध्यदर्शनं सन्देहबीजम् । केवलमेव ब्रह्मोपासनं कर्तव्यमिति पूर्वः पक्षः । ‘तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ’ ‘पूजयेन्नान्यदेवता’ इत्यादेरन्यदेवतोपासने चैकस्य प्रतीतगुणाः सर्वेषूपसंहर्तव्याः । देवत्वादिगुणानां सर्वेषूपसंहारदर्शनात् । अतोऽन्यदेवानामनुपास्यत्वात्तदभिधायकवेदवैयर्थ्यम् । उपास्यत्वे वा साम्येनोपास्यत्वान्नोक्ततारतम्योपपत्तिरिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ ओति ॥ ब्रह्मादिदेवतोपासनपरिचर्यादि कार्यमेव । न च श्रुत्यादिविरोधः । तत्र प्राधान्येनोपसनस्यैव निषिद्धत्वात् । अङ्गत्वेनोपासनस्याभ्युपगत्वात् । उपसंहारे तु विशेषोऽस्ति । सर्ववेदानां सर्वशाखा-सूक्तं यद्ब्रह्माद्यङ्गदेवतासम्बन्धिगुणजातं तत्सर्वं रुद्रादिषु नोपसंहार्यं किं तु योग्यमेवोपास्यम् । यथा खलु भगवद्वाचकवाक्यानां न सर्वेषामन्यत्रान्वयोऽपि तु योग्यानामेवेति भावः । कुत एतदित्यत आह ॥ हिशब्दादिति ॥ सूचितादिति शेषः । अङ्गदेवताद्युपासनं कार्यम् । यावद्ब्रह्मादीनां गुणजातं तत्सर्वं रुद्रादिषु नोपसंहार्यम् । कुतः । भवेत्साम्येनोपासनं युक्तं यदि तेषां साम्यमेव स्यात् । नैतदस्ति केषाञ्चित्समत्वात्केषाञ्चिदुत्तमत्वात् । तत्कुतः वेदसिद्धान्ते नानागुणत्वेन तेषां दृष्टेरिति भावः ।
गुर्वर्थदीपिका
अङ्गावबद्धा ब्रह्माद्याः परिवारदेवता अङ्गतयाऽवबद्धास्सन्त उपास्याः । ‘रमाब्रह्मादयस्तस्य परिवारतयैव तु’ इति वचनात् । न तु परमात्मवन्मुख्यतया । तत्रापि सर्ववेदोक्तास्तत्तद्देवगुणाः सर्वदेवेषु न सामान्येनोपास्याः । किन्तु विशेषोऽस्ति । प्रतिवेदं शाखासु ये गुणा ब्रह्मणः प्रोक्ताः ‘‘वेदाहमेतं पुरुषं महान्तम्’ इत्याद्या असाधारणगुणास्ते ब्रह्मण्येवोपास्याः । रुद्रादिषु न हि नोपास्या हि । तेषां गुणानां रुद्रादिष्वसम्भवप्रसिद्धिमयोग्योपासनयाऽनर्थप्रसिद्धिं च हिशब्देनाह । एवं रुद्रेऽपि प्रतिवेदं प्रतिशाखं ये गुणाः प्रोक्ताः ‘त्रियम्बकाय त्रिपुरान्तकाय कालाग्निरुद्राय नीलकण्ठाय’ इत्याद्यास् ते इन्द्रादिषु नोपास्याः । एवं पूर्वपूर्वासाधारणगुणा उत्तरोत्तरेषु नोपास्याः किन्तु तेषु तेषु योग्या एवोपास्याः । देवत्ववैष्णवत्वादयस्तु साधारणगुणाः सर्वत्रोपास्या इति सूत्रभाष्ययोर्योजनामभिप्रेत्याह- ब्रह्मादीति ॥ परिचर्यादीत्यत्र परिचर्या पूजा । आदिपदेन स्तुतिनतिप्रदक्षिणादिकं गृह्यते । ब्रह्माद्यङ्गदेवतेत्यत्रादिपदेन वायुः सरस्वती भारती च गृह्यन्ते । अन्यत्रोपसंहाराभावमित्यत्र अन्यत्रापरेष्वित्यर्थः ।
भावबोधः
यथायोग्येति ॥ पूर्वाधिकरणे योग्यतायां समर्थितायां तदनुसारेणाङ्गदेवतोपासनकर्तव्यता अत्र समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ अन्यदेवतेति ॥ अत्र भगवदुपासनं किं केवलं कर्तव्यम् उत ब्रह्माद्यङ्गदेवतोपासनं युक्तमेवेति चिन्ता । तदर्थम् अन्यदेवताप्रतिपादकवेदवाक्यजातं निष्प्रयोजनम् उत सप्रयोजनमिति । तदर्थं ‘अन्या वाचो विमुञ्चथ’ ‘पूजयेन्नान्यदेवताः’ इति निषेधवाक्यं निरवकाश-मुत सावकाशमिति । अन्यदेवतोपासनापक्षेऽपि उपासनाङ्गभूतगुणोपसंहारो न युज्यत उत युज्यत इति । तदर्थमेकैकस्य प्रतीता गुणाः सर्वेष्वविशेषेणोपसंहर्तव्या उत व्यवस्थया वोपसंहर्तव्या इति । तदर्थं व्यवस्थानियामकं नास्त्युतास्तीति । गुणान्तरानुसन्धानस्य क्वचिद् दर्शनमात्रेण समाधिकाङ्ग-देवतान्तरगुणा अप्यङ्गदेवतान्तरे उपसंहर्तव्या इति न्यायविवरणानुसारेणाह– अन्यदेवतोपासने त्विति ॥ ‘अङ्गावबद्धास्तु’ इत्येतन्निवर्तनीयमाह– तमेवैकमिति ॥ उपासनादीति भाष्यगत-परिचरणादिपरादिपदानुरोधेनाह– पूजयेदिति ॥ सूत्रे ब्रह्माद्या उपास्या इति शेषः । ‘तु’शब्द एवार्थः । तस्य उपास्य एवेति सम्बन्धः । ब्रह्माद्या इत्येव वक्तव्ये ‘अङ्गावबद्धाः’ इति वचनं ‘अन्या वाचो विमुञ्चथ’ इत्यादिवाक्यविरोधपरिहारार्थमित्यभिप्रेत्य प्रवृत्तं ब्रह्माद्यङ्गदेवतावबद्धो-पासनादीति भाष्यं व्याचष्टे– ब्रह्मादीति ॥ अनेन भाष्ये आदिपदेन परिचर्यादिसङ्ग्रहः, ‘कर्तव्यं’ इति शेष इत्युक्तं भवति । सूत्रे प्रतिवेदं शाखास्विति सम्बन्धः । उक्तं गुणजातमुपसंह्रियत इति शेष इत्यभिप्रेत्य प्रवृत्तं प्रतिशाखं प्रतिवेदं चेत्यादिभाष्यमनिषिद्धगुणानां वाक्यान्वयन्यायेन उपसंहारान्न शाखास्वित्यादिविशेष इति न्यायविवरणानुसारेण व्याचष्टे– उपसंहारे तु विशेषो अस्तीत्यादिना ॥ स्मृतावङ्गदेवताद्युपासनमित्यतःपरं कार्यमुत्तमानां गुणजातं सर्वमध्यमेष्विति शेषः । नोपसंहार्यमित्यन्वयः । उपसंहाराकर्तव्यत्वे समत्वादित्यादिहेतुकथनं तस्यासिद्धिपरिहारार्थं वेदसिद्धान्तेत्युक्तमित्यभिप्रेत्य स्मृतिं व्याचष्टे– अङ्गदेवताद्युपासनमित्यादिना ॥ वेदसिद्धान्त इति ॥ अनेन नानागुणत्वेन तेषां श्रुतिषु दृष्टेरिति न्यायविवरणांशोऽपि व्याख्यातः ।
भावदीपः
यथा योग्याङ्गदेवतेति ॥ तत्तद्देवतायोग्यतानुसारि यदुपासनं तत्तद्योग्यगुणविशिष्टत्वेन परिवारदेवताध्यानं यत्तद्युक्तत्वेनेत्यर्थः । एतेन यासामिन्द्रादिदेवतानामर्जुनाद्यंशैरेकत्वोक्त्योपासनाया योग्यतासापेक्षत्वं सिद्धम् । तासामेवेह योग्यतानुसार्युपासनं साध्यत इति पूर्वसङ्गतिरपि सूचिता । अस्मिन् पक्षे प्रागुक्तप्रमेये विरोधाभावादाह ॥ तत्प्रतिपादकेति ॥ संज्ञातश्चेदित्याद्युक्तदिशा सर्वस्य परममुख्यवृत्त्या भगवत्प्रतिपादकत्वेऽपि अन्यार्थं तु जैमिनिरित्याद्युक्तदिशाऽमुख्यावृत्त्याग्नीन्द्र-मित्रावरुणादिसूक्तादिरूपवेदस्य देवताप्रतिपादकत्वमप्यस्तीति भावः ॥ वैय्यर्थ्यस्येति ॥ आध्यानाय प्रयोजनाभावादित्युक्तदिशा तदुक्तेरुपासनैकार्थत्वात् । न चेन्द्रादिकर्मानुष्ठानोपयोगितया इन्द्रादिज्ञानार्थं तदुक्तिः । स्वातन्त्र्येण तज्ज्ञानस्याऽनर्थत्वात् । स आत्मा अङ्गान्यन्या देवता इत्यादावीशपरिवारत्वोक्तिवैयर्थ्यादुपासनार्थत्वस्य मुख्यत्वाच्चेति भावः । यथा योग्येत्युक्तेः फलमाह ॥ उक्ततारतम्येति ॥ एकैकदेवतागुणानां सर्वत्रोपासने मिथ्योपासनस्य न प्रतीके न हि स इति वक्ष्यमाणदिशा निषिद्धत्वेन सर्वत्र सर्वदेवतागुणानां सत्यतापत्त्या यावदधिकारमित्यत्रोक्त-तारतम्यपरिलोपः स्यादित्यर्थः । प्रागुक्तप्रमेयाक्षेपलाभायैव मिथ्योपासनत्वापत्तिरित्यनुक्त्वैवमुक्तम् ॥ ब्रह्मेति ॥ तद्विजिज्ञासस्वेत्यादिविधेरित्यर्थः । आत्मानमेव लोकमुपासीत तमेवैकं जानथ इत्यादिविशेषादर्शनदशायामिति भावः । सौत्रतुशब्दव्यावर्त्यपूर्वं पूर्वपक्षोपयोगिसंशयमाह ॥ अन्यदेवतेति ॥
द्वैविध्येति ॥ केषुचित्साम्येन पूजानमनसेवादि केषुचिद्विषमपूजादि चोपलभ्यत इति । एकत्र कृतपूजादेरन्यत्राप्युपसंहारतदभावदर्शनमित्यर्थः । नन्वेवं द्विरूपविचारपरत्वादधिकरणभेदः स्यादिति चेन्न । यथा ईक्षत्यधिकरणस्य ब्रह्म वाच्यं न वा, वाच्यं चेदपि सर्वशास्त्रार्थो न वेति द्विरूपविचारपरत्वेऽपि संशब्दार्थविचारत्वेनैकीकरणादेकत्वं तथा देवतोपासनविचारत्वेनैकीकरणा-देकत्वमिति तात्पर्यात् । अत एव पूर्वतन्त्रेऽर्थवादाधिकरणस्य द्विरूपविचारपरत्वेऽप्येकत्वम् । विवृतं च जिज्ञासासूत्रचन्द्रिकायां द्विपर्वाविचार इत्यादिना । भाष्यादौ द्वितीयविचारमात्रप्रतीतावपि परिवारतया ग्राह्या अपि हेयाः प्रधानत इति ईक्षतिनयानुभाष्योक्त्या सौत्राङ्गपदोक्त्या उपासनाङ्गदेवानामिति भाष्योक्तस्मृत्या चात्र विचारान्तरस्यापि सूचनात् । देवतोपासना-सामान्यस्यासिद्धौ तद्विशेषचिन्ताया अनवसरदुःस्थत्वादन्यस्य चैतच्चिन्तापरस्याभावादत्र सम्भवाच्च । क्रमेण पूर्वपक्षद्वयं व्यनक्ति ॥ केवलमेवेत्यादिना ॥ अपि हेया इत्युक्तिसूचितहेतुमाह ॥ तमेवेति ॥ गुणान्तरानुसन्धानस्य क्वचिद्दर्शनमात्रेण समाधिकाङ्गदेवतान्तरगुणा अप्यङ्गदेवतान्तरे उपसंहर्तव्या इति न्यायविवरणमूलकं द्वितीयपूर्वपक्षमाह ॥ अन्यदेवतेति ॥ देवत्ववैष्णवत्वादि-गुणानामित्यर्थः ॥ अत इति ॥ तमेवेत्यादिवचनादित्यर्थः । आदिपदार्थं वदन् तदन्तभाष्यं शेषोक्त्या आद्यसिद्धान्तपरतया तावद्व्याचष्टे ॥ ब्रह्मादीति ॥ अङ्गपदं तमेवेत्यादेर्गतिसूचकमिति व्याचिकीर्षुणा ब्रह्मादिदेवतेत्युक्तम् । नमस्कारादिरादिपदार्थः । एतेन सूत्रे अङ्गावबद्धा और्ब्रह्मादिदेवैरवबद्धाः सम्बद्धास् तद्विषया उपासनापूजानमस्कारादयः कार्या इत्यर्थ उक्तो भवति । विष्णोरङ्गसमुद्भूतेर्विष्णोरङ्गानि देवताः । उच्यन्ते सर्ववेदेष्विति दशमेऽष्टत्रिंशाध्याय-तात्पर्योक्तेरङ्गपदसूचितम् अपि हेयाः प्रधानत इत्यनुभाष्योक्तं हेतुमाह ॥ तत्रेति ॥ द्वितीय-सिद्धान्तमाह ॥ उपसंहारे त्विति ॥ तुशब्दार्थमाह ॥ विशेषोऽस्तीति ॥ कथमित्यतो भाष्ये उपासनादीति पदं तद्विषयगुणजातपरमुपेत्य समग्रभाष्यमेकान्वयतया व्याचष्टे ॥ सर्वेति ॥ उक्तमिति शेषोक्तिः । अवबद्धशब्दार्थः सम्बन्धीति । रुद्रादिष्विति शेषोक्तिः । एतेनाङ्गानां ब्रह्मादिदेवानामवबद्धाः सम्बन्धिनो गुणा रुद्रादौ नोपसंहार्या इति सूत्रांशस्यार्थ उक्तो भवति । अनिषिद्धे गुणानां वाक्यान्वयन्यायेनोपसंहारादिति न्यायविवरणोक्तं व्यंजयन् भाष्येण संयोजयति ॥ योग्यमेवेत्यादिना ॥ भाव इत्यन्तेन । एतेन प्रतिवेदं शाखासूक्ता अङ्गावबद्धा ब्रह्माद्यङ्गदेवता-सम्बन्धिनो गुणा रुद्रादिषु नोपास्या इति सूत्रार्थो दर्शितो भवति । हिशब्दाद्वचनादित्यनयोरन्वया-प्रतीतेराह ॥ सूचितादिति शेष इति ॥ स्मृतौ नांगदेवताद्युपासनमुपसंहार्यमित्येतत्स्वोक्त-सिद्धान्तद्वयोपयोगित्वाय भिन्नवाक्यतया व्याचष्टे ॥ अङ्गदेवतेति ॥ कर्मणि ल्युडन्तमुपासनपदं गुणजातपरं चोपेत्यांगदेवाद्युपासनमित्यस्यार्थमाह ॥ ब्रह्मादीनां गुणजातमिति ॥ आद्यपादं व्याचष्टे ॥ कुत इत्यादिना ॥ नानागुणत्वेन तेषां श्रुतिषु दृष्टेरित्यन्यत्रोक्त्यनुरोधेनांत्यपादभावमाह ॥ वेदसिद्धान्त इति ॥ नानागुणत्वेन सर्वोत्तमत्वविद्यापुत्रसंपदादिभिन्नभिन्नफलदातृत्वोमापतित्व-वाणीपतित्वादिनानागुणत्वेनेत्यर्थः । व्यक्तमेतत्प्रथमाध्यायबृहद्भाष्योक्तपैङ्गिश्रुत्यादौ ।
अभिनवचन्द्रिका
अङ्गावबद्धा अङ्गदेवतासहिता ब्रह्मोपासनादयः कार्याः । अङ्गदेवतोपासने च विशेषोऽस्ति । प्रतिवेदं सर्वशाखासु चाङ्गदेवतासम्बन्धित्वेनोक्ता गुणा न रुद्रादिषु उपसंहर्तव्याः । किंतु तत्तद्योग्या एवेति सूत्रार्थः । अन्तर्भेदाधिकरणमिदम् । अङ्गदेवतोपासनाकर्तव्यत्वस्य, अङ्गदेवेषु यथायोग्य-गुणोपसंहारस्य च समर्थनात् ॥ अन्यथेति ॥ प्रमेयद्वयस्य प्रतिपादनाभाव इत्यर्थः । अङ्गदेवतो-पासनायुक्तत्वसमर्थनाभावे तद्विधायकवेदवैयर्थ्यस्य, अङ्गदेवेषु यथायोग्यगुणोपसंहारसमर्थनाभावे च, सर्वेषां सर्वगुणयुक्ततया ध्यानेन महाफलदर्शनात्, सर्वसाम्यस्यैव तात्विकत्वापत्त्या तारतम्याभावस्य प्रसङ्ग इति विवेकः । ‘अङ्गावबद्धास्त्विति सूत्रखण्डस्य विषयसंशयौ दर्शयति– प्रकृतं भगव-दुपासनमेवेति ॥ ‘न शाखासु प्रतिवेदम्’ इति सूत्रखण्डनिवर्त्यसंशयं दर्शयति– अन्यदेवतोपासन इति ॥ आद्यपूर्वपक्षमाह– केवलमेवेति ॥ द्वितीयं पूर्वपक्षमाह– अन्यदेवतोपासन इति ॥ आद्यपूर्वपक्षमुपसंहरति– अत इति ॥ द्वितीयं पूर्वपक्षमुपसंहरति– अत इति ॥ द्वितीयसिद्धान्तमाह ॥ उपसंहारे त्विति ॥
वाक्यार्थमुक्तावली
यथायोग्याङ्गदेवतोपासनेति ॥ यस्यां देवतायां ये गुणा उपासितुं योग्यास् तदनतिक्रमेणाङ्ग-देवतोपासनं यथायोग्याङ्गदेवतोपासनं तद्युक्तत्वेन कर्तव्यता समर्थनादित्यर्थः । एतेन देवादीना-मनादियोग्यतायां समर्थितायां तदनुसारेण तेषामुपास्यत्वसमर्थनादनन्तरसङ्गतिरप्युक्ता वेदितव्या ॥ अन्यथेति ॥ अङ्गदेवतोपासनाभावे तत्प्रतिपादकवेदवैयर्थ्यस्य तेषु स्वयोग्यगुणानुपसंहारे सर्वेषु सर्वोपसंहारे मिथ्योपासनस्यानर्थहेतुत्वेन सर्वेषां सर्वगुणवत्त्वापत्त्या तारतम्याभावस्य च प्रसङ्ग इत्यर्थः । तथा च सर्ववेदान्तप्रत्ययं, इयदामननादित्युक्तमयुक्तमिति भावः ॥ अन्यदेवतेति ॥ अत्र भगवदुपासनं केवलमेव कर्तव्यमुतान्यदेवतोपासनायुक्तमिति चिन्ता । तदर्थं तमेवैकं जानथात्मान-मन्या वाचो विमुञ्चथ, पूजयेन्नान्यदेवता इत्यादिकं सर्वथान्यदेवतोपास्तिनिषेधकमुत प्राधान्येन तन्निषेधकमिति ॥ ब्रह्मोपासनविधेरिति ॥ ब्रह्मोपास्व ब्रह्मोपचरस्वेति विधेरित्यर्थः ॥ किमे-कस्येति ॥ किमेकस्य देवस्य श्रुतिप्रतीतगुणाः सर्वेषूपसंहर्तव्या उत नोपसंहर्तव्या इति चिन्ता । तदर्थं देवत्वादिगुणानां सर्वेषूपसंहारवद्गुणान्तराणामप्युपसंहारे बाधकं नास्त्युतास्तीति ॥ लौकिकेति ॥ लौकिकपुरुषेषु क्वचिन्नीचोच्चभावेन पूजादर्शनमित्यर्थः । ननु प्रमेयद्वये पृथक् संशयपूर्वपक्षसिद्धान्तकरणात् कथमिदमेकमधिकरणम् । देवतोपास्तिविषयत्वेनेकाधिकरणत्वेऽङ्गेषु यथाश्रयभाव इत्यत्र विचार्यमप्यत्रैव स्यादिति चेन्न । अत्र प्राधान्येनाङ्गदेवतासु यथायोग्यगुणोप-संहार एव विचार्यते । गुणोपसंहारपादत्वात् । अत एव तत्रैव पूर्वपक्षसिद्धान्तन्यायौ न्यायमालायां पठितौ । विवृतौ च न्यायविवरणे । गुणोपसंहारविचारदेवतोपास्तेः कर्तव्यत्वसिद्धावेव भवतीति तद्विचारोपसंदृब्धत्वाद्विचारद्वयनिरूपणपरमेतदन्तर्भेदाधिकरणमिति न दोषः ।
अङ्गावबद्धा इत्यंशव्यावर्त्यं पूर्वपक्षमाह ॥ केवलमेवेति ॥ सिद्धान्तेऽङ्गपदेन सावकाश-यितव्यश्रुतिमुक्तार्थे प्रमाणत्वेनाह ॥ तमेवैकमिति ॥ समग्रसूत्रव्यावर्त्यपूर्वपक्षं सन्निधानमित्युक्तन्यायं प्रदर्शयन्नाह । अङ्गदेवतोपासने चेति ॥ देवतागुणानामिति ॥ देवत्वे एकान्तभक्तत्वादिगुणानां सर्वेषु तत्वदेवेषु सन्निधानापरपर्यायोपासनादर्शनादित्यर्थः । भाष्ये उपासनादीत्यादिपदानुरोधादाह ॥ परिचर्यादीति ॥ अत्रादिपदेन नमस्कारादिर्गृह्यते ।
सूत्रे तुशब्दोऽवधारणे । कार्या इत्यध्याहृतेन सम्बद्ध्यते । भाष्ये कार्यमित्यध्याहृतेनेति भावेनाह ॥ कार्यमेवेति ॥ सूत्रे ब्रह्मादिदेवतावबद्धेति ब्रह्मादिवाचकप्रसिद्धपदे प्रयोक्तव्ये अङ्गपदग्रहणेन व्यावर्त्यमाशङ्क्य निषेधति ॥ न चेति ॥ एतेनाङ्गोत्पन्नत्वादङ्गाश्रितत्वा-त्परिवारत्वाच्चाङ्गपदेन ब्रह्माद्या उच्यन्ते । ‘विष्णोरङ्गसमुद्भूतेर् विष्णोरङ्गानि देवताः । उच्यन्ते सर्ववेदेषु स्वरूपभेदिनोऽपि तु’ इति वचनात् । तथा चाङ्गावबद्धा अङ्गसंज्ञकब्रह्मादिदेवेष्वबद्धाः सम्बद्धा उपसनाद्याः कर्तव्या एव विहितत्वात् । न चान्या वाचो विमुंचथ, पूजयेन्नान्यदेवता इति श्रुतिस्मृतिविरोधः । अङ्गत्वेनोपासनस्यात्र विधानात् । श्रुत्यादौ प्राधान्योपासनानिषेधादिति सूत्रखण्डार्थ इत्युक्तं भवति । भावबोधे तु सूत्रे ब्रह्माद्या उपास्या इति व्याख्यातम् । तेषामङ्गावबद्धा अङ्गतयावबद्धाः स्थिता इत्येतदध्याहृतं ब्रह्मादिविशेषणमिति हृदयम् । द्वितीयपूर्वपक्षप्रतिक्षेपाय सूत्रं व्याख्यातं प्रतिशाखं प्रतिवेदं च नोपसंह्रियत इति भाष्यं तत्र प्रतिवेदं प्रतिशाखमित्यतः परमुक्तं ब्रह्माद्यङ्गदेवतासम्बन्धिगुणजातं रुद्रादिष्वित्यध्याहारः ।
सूत्रे तुशब्दो विशेषार्थः । रुद्रादिषूपास्या इति शेषः । तथा च प्रतिवेदं प्रतिशाखं चोक्ता अङ्गदेवतावबद्धा ब्रह्माद्यङ्गदेवतासम्बन्धिनो गुणास्तु रुद्रादिषु नोपास्याः, किन्तु योग्या एवोपास्या इत्यर्थं मनसि निधायाह ॥ उपसंहारे इत्यादिना ॥ प्रतिवेदं शाखासु विद्यमानं भगवत्परं वाक्यजातं यथा ब्रह्मादौ नोपसंह्रियते नान्वीयते तथेति दृष्टान्तपरत्वेनापि सूत्रभाष्ये योजयति ॥ यथा खल्विति ॥ सर्वेषां सहस्रशीर्षेत्यादीनां योग्यानां हिरण्यगर्भः समवर्तताग्र इत्यादीनाम् । दृष्टान्ता-नभिप्राये भाष्ये नोपसंहार्यमिति स्यात् । नोपसंह्रियत इति स्मृतावङ्गदेवताद्युपासनं कार्यमित्यन्वयः । उपसंहारस्य कर्तव्यत्वे समत्वादित्यादिहेतुस् तस्यासिद्धिपरिहारार्थं नानादृष्टिरिति न्यायं प्रदर्शयितुं वेदसिद्धान्तवेदिनेत्युक्तमित्यभिप्रेत्य स्मृतिं व्याचष्टे । अङ्गदेवताद्युपासनमित्यादिना ॥
तत्त्वसुबोधिनी
यथायोग्येति ॥ पूर्वाधिकरणे योग्यतायां समर्थितायां तदनुसारेणाङ्गदेवतोपासनाकर्तव्यताऽत्र समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ अङ्गदेवतोपासनाकरणेति द्विधा वैय्यर्थं यथायोग्यतदकरणे च तारतम्यानुपपत्तिरित्यर्थः ॥ तस्येति ॥ उपासनस्येत्यर्थः । एकस्याङ्गदेवस्य । सर्वेष्वङ्गभूतदेवेषु । भाष्यगतपरिचर्यादिपदानुरोधेनाह ॥ पूजादिष्विति ॥ सूत्रे ब्रह्माद्या उपास्या इति शेषः । तुशब्द एवार्थः । तस्य उपास्या एवेति सम्बन्धः । ब्रह्माद्या इत्येव वक्तव्ये ‘अङ्गाव-बद्धा इति वचनम् अन्यावाचो विमुञ्चथेत्यादिवाक्यविरोधपरिहारार्थमित्यभिप्रेत्य प्रवृत्तं ब्रह्माद्यङ्ग-देवतावबद्धोपासनादिति भाष्यं व्याचष्टे ॥ ब्रह्मादीति ॥ सूत्रे प्रतिवेदं प्रति शाखास्विति सम्बन्ध उक्तं गुणजातमुपसंह्रियत इति शेष इत्यभिप्रेत्य प्रवृत्तं प्रतिशाखमित्यादिभाष्यं व्याचष्टे । उपसंहारे तु विशेषोऽस्तीति । तावदङ्गदेवताद्युपासनं कार्यमित्यतःपरं कार्यमुत्तमानां गुणजातं सर्वधर्मेष्विति शेषः । नोपसंहार्यमित्यन्वयः । उपसंहाराकर्तव्यत्वे समत्वादिति हेतुकथनं तस्यासिद्धिपरिहारार्थम् । वेदसिद्धान्तेत्युक्तमित्यभिप्रेत्य स्मृतिं व्याचष्टे ॥ अङ्गदेवताद्युपासनमिति ॥
वाक्यार्थविवरणम्
अन्यथा अङ्गदेवतोपसनायुक्तत्वेनाकर्तव्यत्वे ॥ तत्प्रतिपादकेति ॥ ब्रह्माद्यङ्गदेवता-प्रतिपादकेत्यर्थः ॥ उक्ततारतम्येति ॥ साम्येनोपासने इति शेषः । ‘इयदामननात्’ इत्यनेनोक्तं यद्देवानां तारतम्यं, तदभावप्रसङ्गादित्यर्थः । एकस्य देवस्य ॥ द्वैविध्येति ॥ एकस्य गुणा महत्त्वाद्या अन्यत्रोच्यमानाश्च दृष्टा इत्यर्थः । भाष्ये अङ्गदेवतावबद्धोपासनादि अङ्गदेवता-सम्बन्ध्युपासनादिकार्यमित्यर्थः । ननूक्तम् उपासनस्य गुणोपसंहारपूर्वकत्वादेकस्य श्रुतिप्रतीता गुणाः सर्वेषूपसंहर्तव्या इति तत्राह– उपसंहारे त्विति ॥ अङ्गदेवतागुणोपसंहारविषये इत्यर्थः ॥ सर्ववेदा-नामिति ॥ सर्ववेदानां सम्बन्धिन्यो याः सर्वशाखास्तास्वित्यर्थः । भगवद्वाचकवाक्यानां विष्णुपुरुषसूक्तादीनाम् ॥ अन्यत्र ॥ लक्ष्म्यादौ । यथा लक्ष्म्यादेः सर्ववेदप्रतिपाद्यत्वेऽपि भगवत्परत्वेन प्रसिद्धविष्णुसूक्तादिव्यतिरिक्तवेदप्रतिपाद्यत्वमेव । अतस्तदीयसूक्तादौ तस्योक्तगुणा न लक्ष्म्यादौ युक्ताः किन्तु तद्योग्याः । एवं रुद्रादेर् वेदप्रतिपाद्यत्वेऽपि ब्रह्माद्युत्तमदेवताप्रतिपादकत्वेन प्रसिद्धहिरण्यगर्भादिसूक्तव्यतिरिक्तवेदप्रतिपाद्यत्वमेव । अतस्तत्सूक्तादौ हिरण्यगर्भादेरुक्ता गुणा रुद्रादिदेवेष्वनुपसंहर्तव्याः । किन्तु तद्योग्या एवेत्यर्थः । तथा च अङ्गावबद्धा अङ्गदेवतासम्बद्धास् तद्विषयका उपासनाद्याः कार्या एव । अन्यदेवतोपासनेन तद्गुणोपसंहारविषये विशेषोऽस्तीति उच्यते ॥ नेति ॥ प्रतिवेदं शाखासु । प्रतिशाखं तच्छाखासु च ब्रह्मादिदेवतानां प्रतीतं गुणजातं रुद्रादिषु नोपसंहर्तव्यमिति सूत्रार्थः । तत्र विशेषमाह ॥ यावदिति ॥ नानागुणत्वेन ॥ परस्परायोग्यगुणत्वेन ।
वाक्यार्थमञ्जरी
उक्तेति यावदधिकारमित्यत्रेत्यर्थः ॥ ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ॥ अङ्गावबद्धा औरप्रधानैर्ब्रह्मादिभिरवबद्धाः सम्बद्धास्तद्विषया इति यावत् । उपास्त्यादयः कार्या एव उपसंहारे च तु विशेषोऽस्ति स कः प्रतिवेदं याः शाखास् तासूक्तमुत्तमगुणजातं नो चेन्नोपासनं कर्तव्यमित्यर्थः । वेदसिद्धान्ते वेदादिशास्त्रे ।