ॐ एक आत्मनश्शरीरे भावात् ॐ
३५. एकाधिकरणम्
सूत्रभाष्यं
जीवांशानां पृथगुत्पत्तेर्नानादियोग्यतापेक्षेति न मन्तव्यम् । कुतः ?
॥ ॐ एक आत्मनश्शरीरे भावात् ॐ ॥ ५५ ॥
अंशांशिनोरेकत्वमेव । अंशिकर्म(वि)निर्मितशरीर एवांशस्य भावात् ।
तत्त्वप्रदीपिका
उपासनाभेदवद्दर्शनभेदः सुखतारतम्यं च प्रतिपुरुषं योग्यताविशेषादित्युक्तम् । सा चानादिरिति युक्तम् । अन्यथा कदाचिदसुखादीनामपि मोक्षित्वापातात् । तस्य च श्रुतिभिर्निषेत्स्यमानत्वात् । न चानादित्वं नियन्तुं शक्यते । जीवांशानां पश्चादुत्पद्यमानानां भिन्नत्वोपपत्तेः । तेषु योग्यतायाः सादित्वादित्यत आह– एक आत्मनः शरीरे भावात् । यथांऽशी शरीराच्छरीरान्तरं स्वकर्मनिर्मितमेव प्राप्नोति । यदा त्वंशेन शरीरान्तरं प्राप्नोति तदाऽपि तथैव स्वकर्मनिर्मितमेव । अतः शरीरान्तरवर्ती सन्नप्यंशोंऽशिनैक एव ।
तत्त्वप्रकाशिका
अत्र भगवद्दर्शनसाधनोपासनस्य योग्यतासापेक्षत्वसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथोपास्त्य- व्यवस्थाप्रसङ्गात्तत्समर्थनीयम् । प्रकृतोपासनादि विषयः । योग्यतापेक्षं न वेति सन्देहः । योग्यायोग्य-क्रियादर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ जीवेति ॥ नोपासनाद्यर्थं योग्यतापेक्षाऽस्ति । योग्यता हि भवन्ती अनादिर्भवेत् । अन्यथा तदुपासनादेरप्यागन्तुकत्वसम्भवात् । न चानादित्वं योग्यताया युज्यते । इन्द्रादिजीवांशानामर्जुनादीनां योग्यतायास्तदभावात् । तेषामेवोत्पत्तिमत्त्वेन तद्धर्मस्या-नादित्वायोगात् । न चांशिनोऽनादित्वादंशस्योत्पत्त्यभावः । अशांशिनोः पृथक्त्वात् । कुतः । अंशिनि ज्ञानिनि सुखिनि दुःखिनि चांशे ज्ञानाद्यभावेनांशस्यांशि (वर्त्मागन्तृत्वात्) वर्त्मनागन्तृ-त्वात् । अन्यथा ज्ञानादिभेदो न स्यात् । अतोंऽशांशिनोः पृथक्त्वादंशस्योत्पत्तेरनादियोग्यताभावा-दुपासनादेर्योग्यतापेक्षा नास्तीति तदव्यवस्थितमिति भावः । पूर्वपक्षं प्रतिषेधति ॥ नेति ॥ कुतो न मन्तव्यमित्याक्षिपति ॥ कुत इति ॥ तत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे ॥ एक इति ॥ अस्त्येव सर्वेषामुपासनादौ योग्यतापेक्षा । न चांशस्योत्पत्तिमत्त्वेऽनादियोग्यताभावः । अंशोंऽशीत्येक एवेत्यंशस्योत्पत्त्यभावात् । तदैक्यमेव कुतः । आत्मनोंऽशिनः कर्मनिर्मितशरीरेंऽशस्य वर्तमानत्वात् । न च भेदे तद्युक्तम् । अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । न चांशस्य पृथक्कर्मास्ति । न चाकर्मनिमित्तः शरीरसंसर्गो युक्तः । अपवर्गाभावप्रसङ्गादिति भावः ।
गुर्वर्थदीपिका
आगन्तुकत्वप्रसङ्गादित्यत्रागन्तुकत्वं नाम यस्य यस्यापेक्षा तस्य तस्य प्राप्तिरित्यर्थः । अंशांशिनोः पृथक्त्वादित्यत्रांशांशिनोः पृथक्त्वादंशस्योत्पत्तिरेव । अतस्तन्निष्ठा योग्यताऽप्युत्पन्ना । एवं च न्यायसाम्यादंशांशिष्वप्यागन्तुकमेवेति शङ्कितुरभिसन्धिः । अपवर्गाभावप्रसङ्गादित्यत्र शरीरपरम्परायाः कर्मोपाधिनिबन्धनत्वाभावे स्वाभाविकत्वप्रसङ्गेन स्वाभाविकस्य च कदाऽप्यन-पायादिति भावः ।
भावबोधः
योग्यतासाधनसापेक्षत्वादिति ॥ अत्र पूर्वाधिकरणे न्यायविवरणोक्तरीत्याऽऽनादिभूताया भक्तेः करणत्वोक्तौ जीवांशानामुत्पत्तिमत्त्वेनानादिभूततत्तद्योग्यताया एवाभावेन कथं जीव-स्वरूपानुबन्धित्वेन भक्त्यादेरनादित्वमित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ योग्यतेत्यादि ॥ अत्रोपासनायोग्यता सापेक्षा न सम्भवत्युत सम्भवतीति चिन्ता । तदर्थं योग्यताया अनादित्वं न सम्भवत्युत सम्भवतीति । तदर्थमंशानामर्जुनादीनामुत्पत्तिरस्त्युत नास्तीति । तदर्थं किम् अशांशिनो-र्भेद उताभेद इति । तदर्थं तयोः परस्परं सुखदुःखज्ञानाद्यनुसन्धानं नास्त्युतास्तीति । पृथक्त्वा-दिति । अनेन भाष्ये पृथक्त्वेनोत्पत्तिः पृथगुत्पत्तिरिति विग्रहः प्रदर्शितो भवति । पृथक्त्वे हेतुप्रतिपादकत्वेनांशिमार्गस्यांशेनागम्यत्वात् तयोर्भेद इति न्यायविवरणं संयोजयति– अंशिनीति ॥ एक एवेति ॥ अनेन पूर्वसूत्रादवधारणार्थकचशब्दस्यानुवृत्तिर्वा ‘सर्वं वाक्यं सावधारणं’ इति न्यायेन वा सौत्रएकशब्दः सावधारण इत्युक्तं भवति । अत्र सूत्रे ‘आत्मनः’ इत्यंशस्यांशांश्युभय-परत्वमंशिकर्मनिर्मितत्वं च षष्ठ्यर्थ इत्यभिप्रेत्य प्रवृत्तमंशिकर्मेत्यादिभाष्यं व्याचष्टे– आत्मनोंऽशिन इति ॥ अकृतेति ॥ अंशस्याकृताभ्यागमनमंशिनः कृतविप्रणाश इत्यर्थः ।
ननु नांशिकर्मनिर्मितशरीरे अंशस्य भावोऽस्ति, स्वकर्मनिर्मित एवावस्थानोपपत्तेरिति अत अन्यथा दृष्टं विना शरीराद्यनुपपत्तेरिति न्यायविवरणांशस्यार्थमाह– न चांशस्येति ॥ एतच्छरीरसम्बन्धात् पूर्वमर्जुनादीनामिन्द्राद्यंशिव्यतिरेकस्यैवाभावादिति भावः । अत्र सूत्रे तुशब्द एवार्थः ।
भावदीपः
योग्यतेति ॥ सूत्रे साक्षादंशांशिनोरैक्योक्तावपि तस्य प्रकृतोपयोगाय फलोक्तिरियमिति ध्येयम् । अनादियोग्यतेत्यपि योज्यम् । तेन यत्पूर्वत्रानादिभक्तेर्दृष्टिकारणत्वमुक्तं तदयुक्तम् । स्थान-विशेषादित्यत्र भाष्याद्युक्तदिशा आदिभक्त्यादिसंपत्तिरूपयोग्यतासापेक्षत्वस्यैवोपासनादावयोगादिति शङ्कनात्पूर्वसङ्गतिरपि सूचिता ॥ अव्यवस्थेति ॥ असुरादीनामपि तत्प्रसङ्गादित्यर्थः । तथा च सर्वथापि तु त एवेत्यादिवक्ष्यमाणविरोध इति भावः ॥ उपासनादीति ॥ दृष्टिरादिपदार्थः ॥ योग्यतेति ॥ अनादिभक्त्यादिगुणपूगसंपत्तिसापेक्षं न वेत्यर्थः । ऐश्वर्यात्परमाद्विष्णोर्भक्त्यादीना-मनादित इत्यादिस्मृत्या स्थानविशेषादित्यत्र तथैव योग्यतास्वरूपोक्तेः । तथाप्यनादिसंसिद्ध-भक्त्यादिगुणपूगत इत्यादिस्मृत्या अनुबन्धादिभ्य इत्यत्रोक्त्यापि तथैव प्रतीतेः । अदृष्टानियमा-दित्यत्र चन्द्रिकायां तथैव व्यवहाराच्च ॥ योग्यायोग्येति ॥ लोके पुंसां स्वयोग्यक्रिया स्वायोग्य-क्रिया च दृश्यत इति तदेव सन्देहबीजमित्यर्थः । यद्वा योग्यस्यायोग्यस्य च पुंसः क्रियादर्शन-मित्यर्थः । शेषोक्तिपूर्वं व्युत्क्रमेण भाष्यं व्याचष्टे ॥ नोपासनेति ॥ अनादीति पदं पूर्वपक्षो-पपादकत्वेन व्याचष्टे ॥ योग्यता हीति ॥ आगंतुकत्वेति ॥ तथा चासुरादीनामपि तत्प्रसङ्ग इति भावः । परंपराहेतुत्वेन भाष्योक्तं हेतुं योजयति ॥ इन्द्रादीति ॥ पृथगिति भाष्यस्थं शङ्कापूर्वं हेतुत्वेन व्याचष्टे ॥ न चांशिन इति ॥ पृथक्त्वेनोत्पत्तिरिति भाष्ये विग्रह इति भावः । पृथक्त्वहेतोरसिद्धिनिरासाय । ज्ञानादिभेद इत्यादिद्वितीयसूत्रभाष्यसूचितम् । अंशिमार्गस्यांशेना-गम्यत्वादित्यन्यत्रोक्तं हेतुं विवृण्वन्नेवात्र योजयति ॥ अंशिनीति ॥ वर्त्मागंतृत्वाद् भिन्नमार्गत्वा-दित्यर्थः । वर्त्मनेति पाठे तद्व्यापाराज्ञातृत्वादित्यर्थः । हेतोरप्रयोजकत्वं निराह ॥ अन्यथेति ॥ अंशांशिनोरपृथक्त्वे इत्यर्थः । अन्यत्रोक्तहेतुपूर्वकं भाष्यार्थमुपसंहरति ॥ अत इति ॥ ज्ञानादि-भेदेनांशस्यांशिवर्त्मागंतृत्वादित्यर्थः । फलमाह ॥ तदिति ॥ अनियतं स्यादित्यर्थः । तथा च प्रज्ञान्तरपृथक्त्ववदित्यत्रोपासनाभेदवद्दर्शनभेद इति यदुक्तं यच्च यावदधिकारमित्यत्र सुखतारतम्यं योग्यताविशेषाधीनमित्युक्तं यच्च प्राप्तेश्च समंजसमिति तत्सर्वमसमंजसं स्यादिति भावः । पूर्वभाष्य-लब्धप्रतिज्ञामाह ॥ अस्त्येवेति ॥ प्रागुक्तचोद्यमनूद्य तन्निवर्तकत्वेन भाष्यं व्याचष्टे ॥ न चांश-स्येत्यादिना ॥ अंशांशिनोरेकत्वमेवेति भाष्यमेक इति सूत्रांशारूढं करोति ॥ अंश इति ॥ कुत इति भाष्येण सामानाधिकरण्यलाभाय भाष्ये शेषमाह ॥ इत्येक इत्यादि ॥ अंशीत्यादिभाष्यं सङ्गमयन् व्याचष्टे ॥ तदिति ॥ उत्सूत्रत्वशङ्कानिरासायात्मनोंऽशिन इत्युक्तम् ॥ अकृतेति ॥ स्वाकृतकर्मनिर्मिते स्वस्यावस्थानेनाकृताभ्यागमस्यान्यकर्मनिर्मितदेहे स्थित्वा कृतस्य कर्मणः स्वाभोज्यत्वेन कृतविप्रणाशस्य प्रसङ्गादित्यर्थः । ननूक्तः सौत्रो हेतुरसिद्धः । येनांशांशिनोरेकत्वं स्यात् स्वकर्मार्जितदेहयोगस्य वा सर्वथा कर्मनिरपेक्षदेहयोगस्य वा अर्जुनाद्यंशस्योपपत्तेरित्या-शङ्क्यादृष्टं विना शरीराद्यनुपपत्तेरिति न्यायविवरणोक्तेरंश्यदृष्टं विना सर्वथादृष्टं विनेति चार्थद्वयमुपेत्य निराह ॥ न चेति ॥ न चाकर्मेति ॥ नापीत्यर्थः । कुतो न युक्त इत्यतः शरीरा-दीत्यादिपदार्थमाह ॥ अपवर्गेति ॥ कर्मानिमित्तत्वे स्वाभाविकत्वापत्त्या कर्मावसानरूपनिवर्तका-भावेन देहयोगस्य कदाप्यनिवृत्त्या मोक्षाभावप्रसङ्गादित्यर्थः ।
अभिनवचन्द्रिका
योग्यतासापेक्षत्वसाधनादिति ॥ ननु सापेक्षत्वसमर्थनादित्ययुक्तम् । सूत्रे अंशांशिनोरभेदस्यैव साध्यमानत्वेन तथैव वक्तव्यत्वादिति चेत्, सत्यम् । तथैव वक्तव्यम् । तथापि अर्थाद् योग्यता-सापेक्षत्वमपि सिध्यतीति तथोक्तम् । प्रकृतोपासनादि विषय इति ॥ यद्यपि अंशो विषयः, अंशिनो भिन्नो न वेति सन्देह इत्यादि वक्तव्यम्, तथाप्यार्थिकविचारे उपासनाया विषयत्वा-देवमुक्तम् ॥ योग्यायोग्यक्रियादर्शनमिति ॥ अत्र क्रियाया योग्यत्वाऽयोग्यत्वे कर्तृगतयोग्यतानु-सारित्वाऽननुसारित्वे एव नान्यदिति बोध्यम् ॥ अन्यथेति ॥ योग्यताया अनादित्वाभावे केनचित्प्रयोज्यत्वं स्यात् । ततश्च ‘तद्धेतोरेवास्तु तद्धेतुत्वम्’ इति न्यायेन उपासनादेर्योग्यता-प्रयोजकप्रयोज्यत्वं स्यान् न योग्यताप्रयोज्यत्वमिति भावः ॥ अंशिनीति ॥ अंशिनि सुखिनि, दुःखिनि, ज्ञानिनि चांशे ज्ञानाद्यभावेन घटनीयाद् अंशिमार्गागन्तृत्वादित्यर्थः । इन्द्रो हि खाण्डववनसंरक्षणाय प्रवृत्तः, अर्जुनस्तु तद्दाहे प्रवृत्तः । ततश्च विरुद्धक्रियया ज्ञानादिभेदसिद्धौ अंशांशिनोर्भेदसिद्धिरिति भावः । यद्यपि ज्ञानादिभेदेनैव भेदः साधयितुं शक््यस् तथापि ज्ञानादि-भेदस्य क्रियाभेदगम्यत्वात् क्रियाभेदानुसरणम् ॥ अकृताभ्यागम इति ॥ स्वेनाकृतस्यैव अंशिकृतकर्मणोऽभ्यागमः, स्वकृतस्याभोगेनैव विनाश इति अकृताभ्यागमकृतविप्रणाशौ । एवमंशिनोऽपि स्वकृतस्य अर्जुनादिदेहप्रापकस्य कर्मणोऽभोगेन विनाशः । अर्जुनादिकृतस्य स्वेनाकृतस्यैव कर्मणोऽभ्यागम इति अकृताभ्यागमकृतविप्रणाशौ अंशांशिनोरभेदानङ्गीकारे स्याता-मित्यर्थः । अंशस्याकृताभ्यागममुपपादयति– न चांशस्येति ॥ अनयैव दिशा अंशस्य कृतविप्रणाशः, अंशिनश्चोभयमुपपादनीयमिति भावः ।
पूर्वपक्षस्तु– नोपासना अनादियोग्यतासापेक्षा । इन्द्राद्यंशजीवानाम् उत्पत्तिमत्त्वेन तद्योग्यताया अनादित्वाभावात् । न चेन्द्रादियोग्यतैवार्जुनादीनां योग्यता । अंशस्यांशिमार्गवृत्तित्वाभावात् । ज्ञानादिभेदेन तयोर्भिन्नत्वात् । ततश्चोपासनस्यानादियोग्यतानपेक्षत्वात् तदव्यवस्थितमिति ।
सिद्धान्तस्तु– अस्त्येव सर्वेषामुपासनादौ अनादियोग्यतापेक्षा । न च अर्जुनादीना-मुत्पत्तिमत्त्वेनाऽनादियोग्यताभावः । तेषामंश्यभिन्नत्वेन तद्योग्यताया एव तद्योग्यतात्वात् । तदैक््यं च ‘अंशोंऽश्यभिन्नः । तत्कर्मनिर्मितशरीरवृत्तित्वादित्यनुमानसिद्धम् । न चांऽशिनि सुखिनि, दुःखिनि, अंशस्य तदनुसन्धानाभावाद् भेदो ऽसिद्धेः । अंशिनोंऽशगतसर्वानुसन्धानभावात् । अंशस्याचिन्त्येश्वरशक्तिवशात्सर्वानुसन्धानाभावेऽपि प्रधानसाधनोपासनादिफलानुसन्धानात् । अतः सर्वेषामुपासनादावनादियोग्यताऽपेक्षितेति युक्ता तव्द्यवस्थेति सिद्धम् ।
वाक्यार्थमुक्तावली
उपादानस्य योग्यतासापेक्षत्वसमर्थनादिति । अत्रोपासनस्येत्युपलक्षणम् । तत्साहित्ये-नोक्तभक्तेरिति च ग्रहणम् । अत एवोपासनादिविषय इति वक्ष्यति । तथा चानादित्वेनोक्ताया भक्तेर् योग्यतासापेक्षतासमर्थनादनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ योग्यतासापेक्षत्वाभावे योग्यतानुसारेण गुणनियमोपदेशभावेनोपास्त्यव्यवस्थाप्रसङ्गात् । इतरे त्वर्थसामान्यादित्युक्तं स्यात् । भक्तेरनादित्वं चोक्तं न स्यादिति भावः ॥ प्राकृतेति ॥ उपासनादियोग्यतासापेक्षं न भवत्युत भवतीति चिन्ता । तदर्थं योग्यताया अनादित्वं न सम्भवत्युतसम्भवतीति । तदर्थमिन्द्राद्यंशाना-मर्जुनादीनामंशभेदेनोत्पत्तिरस्त्युत भेदेनोत्पत्तिर्नास्तीति । भाष्ये नानादियोग्यतापेक्षेत्यनादि-योग्याताक्षेप उच्यते । स च द्वेधा सम्भवति । योग्यापेक्षामङ्गीकृत्य योग्यताया अनादित्वाक्षेपेण वा योग्यातानादित्वमङ्गीकृत्योपासनादेस् तदपेक्षत्वमात्राक्षेपेण वोभयाक्षेपेण वा । नाद्यः । पादासङ्गतेः । न द्वितीयः । जीवांशानां पृथगुत्पत्तेरिति हेत्वसङ्गतेः ॥ न तृतीयः ॥ योग्यता-नादित्वस्योपासनाङ्गतया सिद्ध्या नातिवक्तव्यत्वेन तदाक्षेपवैय्यर्थ्यात् । उपासनायोग्यतानपेक्षत्वे हेत्वनुक्तेश्चेत्यत उभयाक्षेपोऽत्र विवक्षितः । तत्र योग्यतापेक्षत्वाभावे तस्या अनादित्वाभावो हेतुः । सिद्धान्तिना योग्यतापेक्षत्वायैव तदनादित्वस्यावश्यमङ्गीकार्यत्वादिति भावेन व्याचष्टे नोपासनाद्यर्थमित्यादिना ॥ अनादिर्भवेदिति ॥ अनादिरिति त्वयाङ्गीकर्तव्या भवेदित्यर्थः । अन्यथेति ॥ सादित्वे योग्यता व्यर्था । ब्रह्मादिषु योग्यतावैचित्र्यवत् । उपासनावैचित्र्य-स्याप्यागन्तुकत्वसम्भवादित्यर्थः । उपलक्षणमेतत् । अन्यथा कदाचिदसुराणामपि मोक्षित्वापातात् । तथा चोपास्तिव्यवस्थायोग इति तत्वप्रदीपरीत्याप्यतिप्रसङ्गो द्रष्टव्यः । पृथक्त्वादिति ॥ अनेन भाष्ये पृथगित्यस्य पृथक्त्वेनेत्यर्थ उक्तो भवति । पृथगित्यस्य जीवांशानामंशिनः पृथक्त्वेन विलक्षणत्वेनांशिगतज्ञानाद्यननुसन्धातृत्वेन पृथक्त्वात्तद्वार्तानभिज्ञतया तन्मार्गगन्तृत्वादित्यर्थं मनसि निधायागम्य वर्त्मेत्युक्तन्यायप्रदर्शकतया व्याचष्टे ॥ कुत इत्यादिना ॥
सूत्रे पूर्वसूत्रावधारणार्थकश्चशब्दोऽन्वेति । आत्मनीति षष्ठ्यन्तं विभक्तिविपरिणामेन प्रथमान्तं च विवक्षितम् । तथा चात्मांशोंऽशीत्येक एव । कुतः । आत्मनोंऽशिनः सम्बन्धिनि तत्कर्मनिर्मिते शरीर एवात्मनोंऽशस्य भावादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ अंश इति ॥ अकृताभ्यागमेति ॥ अंशस्याकृताभ्यागमः । अंशिनस्त्विंद्रादेरर्जुनादिदेहप्रापककर्मनाशप्रसङ्ग इत्यर्थः । तदुभय-मुपपादयति । न चांशस्येति । अर्जुनदेहापादकम् इन्द्रकर्म विनाऽर्जुनस्य पृथक्कर्म न चास्तीत्यर्थः । तथा चेन्द्रकर्मवैयर्थ्यमर्जुनशरीरं चाकारणकमिति भावः । अकृताभ्यागमः को दोष इत्यत आह ॥ न चेति ॥ अपवर्गेति ॥ कर्माभावेऽपि बन्धकशरीरसंयोगेऽपि मोक्षोऽपि तथा स्यादिति भावः ।
तत्त्वसुबोधिनी
योग्यताया एव अभावेन तत्स्वरूपानुबन्धित्वेन भक्त्यादेरादित्वमित्याक्षेपोत्थानादनन्तर-सङ्गतिरिति भावः ॥ अन्यथेति ॥ योग्यतासापेक्षत्वाभाव इत्यर्थः । तद्वद् योग्यताया आगन्तुकत्ववत् । तदभावात् ्अनादित्वाभावात् ॥ एक एवेति ॥ अनेन पूर्वसूत्राद् अवधारणार्थ-कचशब्दस्यानुवृत्तिं मत्वा सर्वं वाक्यं सावधारणमिति न्यायेन वा सौत्र एकशब्दसावधारण इत्युक्तं भवति । अत्र सूत्रे आत्मन इत्यस्यांशाभ्युपगमपरत्वमंशिकर्मनिर्मितत्वं च षष्ट्यर्थ इत्यभिप्रेत्य प्रवृत्तिमंशिकर्म इत्यादिभाष्यं व्याचष्टे ॥ आत्मनोंंऽशिन इति ॥ अकृतेति ॥ अंशस्याकृताभ्यागतमंशिनः कृत प्रमाणांश इत्यर्थः । ननु नांशिकर्मनिर्मितशरीरेंऽशस्य भावोऽस्ति स्वकर्मनिर्मित एवावस्थानोपपत्तेरित्यत आह ॥ न चांशस्येति ॥ एतत् शरीरसम्बन्धात्पूर्वम् अर्जुनादीनाम् इन्द्राद्यंशव्यतिरेकस्य चाभावादिति भावः । न च कर्मानिर्मित एवास्य शरीरसंयोगः किन्न स्यादित्यत आह ॥ न चेति ॥ अपवर्गेति ॥ कर्मानिमित्तकतच्छरीरसंसर्गस्य कदाप्यपगमा-सम्भवादिति भावः ।
वाक्यार्थविवरणम्
अव्यवस्थाप्रसङ्गादिति ॥ अयोग्येनापि कर्तव्यताप्रसङ्गादित्यर्थः । तद्वद् योग्यतावत् । प्रसङ्गाज् जीवधर्मत्वाविशेषादित्यर्थः । तदिति अनादित्वेत्यर्थः । कुत इत्यत आह– तेषामेव जीवांशानामिति ॥ तद्धर्मस्य तद्धर्मभूतयोग्यतायाः । तथा च जीवांशानामुत्पत्तेरिति सम्बन्धो द्रष्टव्यः । पृथगित्यस्य निवर्त्याशङ्कामाह– न चेति । पृथक्त्वाद् भेदादित्यर्थः । तथा च पृथक् पृथक्त्वादित्यर्थो द्रष्टव्यः । अन्यथा पृथक्त्वाभावे । ज्ञानादिभेदो ऽंशाशिनोरित्यर्थः । तत्तु उपासनम् । सूत्रे एक इत्यस्यापेक्षितपूरणेनार्थमाह अंशो ऽंशी चेत्येक एवेति ॥ आत्मन इत्यस्य अर्थान्तरमाह– अंशस्येति ॥ न चेति ॥ अंशांशिनोर्भेदे तद् अंशकर्मनिर्मितशरीरे अंशस्य वर्तमानत्वं न हि युक्तमित्यर्थः । कुतो न युक्तमित्यत आह– अकृतेति ॥ अंशस्य कर्माभावेऽपि शरीरप्राप्त्या अकृताभ्यागमः । अंशिकर्मणोंऽशिनं प्रत्यप्रयोजकतया अंशिनः कृतप्रणाश इत्यर्थः । नन्वेतावता अंशिकर्मनिर्मितशरीरे अंशस्य वर्तमानत्वाभावेऽपि स्वकर्मनिर्मित एवावस्थानोपपत्तेर्ना-कृताभ्यागमप्रसङ्ग इत्यत आह– न चांशस्येति ॥ पृथक्कर्मेति ॥ अंशिकर्मव्यतिरिक्तकर्मेत्यर्थः । ननु नाकृताभ्यागमो दोषाय । मया कर्माभावेऽपि शरीरसबन्धप्राप्त्यङ्गीकारादंशस्येत्यत आह– न चाकर्मेति ॥ अकर्मनिर्मितशरीरसम्बन्धः कर्मनिर्मितशरीरसंसर्गाभावः ॥ कर्माभावेऽपि शरीर-सम्बन्ध इति यावत् । कुतो न युक्त इत्यत आह– अपवर्गेति ॥ यदि कर्माभावेऽपि शरीरसम्बन्धोऽङ्गीक्रियते तर्हि सर्वदा शरीरसम्बन्धस्यैव प्राप्त्या अंशस्यापवर्ग एव न स्यादिति भावः ।
वाक्यार्थमञ्जरी
अंशिवर्त्मनेति ॥ अंशिमार्गेण गन्तृत्वादित्यर्थः । अन्यथा अभेदे ॥ ॐ एक आत्मनश्शरीरे भावात् ॐ ॥ अंशोऽर्जुनो ऽंशिनेंद्रेणैको ऽभिन्न एव कुत आत्मनोंऽशिनः कर्मनिर्मिते शरीरे आत्मनोंऽशस्य भावात्सत्वादित्यर्थः ॥ अकृतेति ॥ अंशस्याकृत कर्मभोगापत्तिरंशिनः कृतकर्मनाशादित्यर्थः । ननु नांशिकर्मनिर्मिते शरीरेंऽशोऽस्ति किन्तु स्वकर्मनिर्मित एवेत्यत आह ॥ न चांशस्येति ॥ एतच्छरीरसम्बन्धात्पूर्वमर्जुनस्येन्द्रशरीरं विना कर्मापादकशरीरान्तराभावादिति भावः । तर्हि मास्तु कर्मेत्याह ॥ न चेति ॥ अपवर्गेति ॥ शरीरसंसर्गस्य कर्मनिर्मितत्वे यावत्कर्मनाशेन सर्वथा शरीरसम्बन्धध्वंस रूपो मोक्ष उपपद्यते कर्मानियतत्वे च तस्यानागन्तुकत्वेन कदाप्यनपायादुक्तमोक्षाभावप्रसङ्ग इत्यर्थः ।