परेण चशब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ
३४. ताद्विध्याधिकरणम्
सूत्रभाष्यम्
‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी’ इति माठरश्रुतेर्न परमात्मना दर्शनमिति चेन्न । ‘तस्यैष आत्मा विशते ब्रह्मधाम’ (मुं.उ.३-२-४) इति श्रुतेः । कथं तर्ह्येषा श्रुतिः—
॥ ॐ परेण चशब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ॥ ५४ ॥
परमात्मैवं(व) भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधानसाधनत्वाद्भक्तिः करणत्वे-नोच्यते । मायावैभवे च—
‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥
स्नेहानुबन्धो यस्तस्मिन्बहुमानपुरस्सरः ।
भक्तिरित्युच्यते सैव करणं परमी(मे)शितुः’इति ॥
सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ।
तत्त्वप्रदीपिका
भक्तेः सर्वसाधनेषु प्राधान्यमुक्तम् । श्रुतिं चाह– ‘भक्तिरेवैनं दर्शयति’ इत्यादि । अतस्तयैवास्य दर्शनं न परमात्मनेति शङ्कां निराकरोति नेत्यादिना । ‘एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैव आत्मा विशते ब्रह्मधाम’ इत्याथर्वणी श्रुतिः ॥
‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इति ।
पूर्ववाक्योक्तैरुपायैर्यतमानस्य ब्रह्मपुरं हृदयमेष परमात्मा विशते तत्र दृश्यत इत्यर्थः । प्रवेशस्य नित्यसिद्धत्वात् । प्रवचनादिभिर्भक्तिरहितैर्न लभ्यते । भक्तिप्रधानैरपि स्वातन्त्र्यान्न लभ्यः । किन्त्वेतैर्भक्तिप्रधानैरुपायैर्यतमानस्यैवं विदुषो हृदये तदानीं प्रविष्ट इवाभिव्यज्यत इति । कथं तर्ह्येषा भक्तिवशत्वश्रुतिरित्यत आह– परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति’ इत्यादेः परमात्मैव भक्त्या स्वात्मानं दर्शयति स्वात्मानं प्रापयति चेत्यभिप्रायः । अतः स्वातन्त्र्यं तस्यैव । साधनेषु प्राधान्याद्भक्तेर्भक्तिरेवेत्युच्यते । ‘हन्ता रामशर’ इतिवत् । अतश्च भक्तिशब्देन परमात्मा भक्त्यधिकरणे भक्तेर्नियामकः प्रोच्यते । तदेव ह्याह– ‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत्’ तद्वशोऽहमिति ज्ञापयेत् ।
‘तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा ।
औपचारिकनामानि तदन्येषामिति स्थितिः’इति शब्दनिर्णये ॥
‘दानतीर्थतपोयज्ञपूर्वास्सर्वेऽपि सर्वदा ।
अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये’ इति च भविष्यत्पर्वणि ॥
‘सर्वस्मादुत्तम इति सम्यक् स्नेहयुता मतिः ।
सुस्थिरा भक्तिरुद्दिष्टा तया मोक्षो न चान्यतः ॥
तया मोक्षो भवत्येव सा चेत्पूर्णा स्वयोग्यतः ।
अपरोक्षदृशा युक्ता सा पूर्णेत्यभिधीयते ॥
अपरोक्षदृशिश्चापि महाचार्योक्तदर्शनम् ।
सोऽपि यन्मोक्षनियतमनसा समुदीरयेत् ।
तस्य दर्शनतो याति मुक्तिं नास्त्यत्र संशयः ॥
ध्यानं च गुरुशुश्रूषा नित्यनैमित्तिकाः क्रियाः ।
तीर्थदानजपाद्याश्च स्वाध्यायो हरिकीर्तनम् ॥
द्वादश्यादिव्रतं चैव तुलस्याद्यैरथार्चनम् ।
सर्वं भक्त्यर्थमुद्दिष्टं निष्फलं तत्तया विना ॥
विष्णुभक्तियुतो मुक्तिं याति नान्यः कथञ्चन ।
एतदन्यत्तु यच्छास्त्रं न तच्छास्त्रं कुवर्त्म तत्’
इति हरिवंशेषु ॥
तत्त्वप्रकाशिका
अत्र भगवद्दर्शनसाधनोपासनसाहित्येनोक्तभक्तेः स्वातन्त्र्यनिरासादस्ति शास्त्रादिसङ्गतिः । अन्यथाऽव्यक्तत्वाभावप्रसङ्गात्तन्निरसनीयमेव । प्रकृतं ज्ञानमेव विषयः । किं भक्तिसामर्थ्येन भवत्युत परमात्मनेति सन्देहः । कृष्यादौ राजसेवादौ च तथा दर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ भक्तिरिति ॥ भक्तिसामर्थ्येनैवापरोक्षज्ञानं न परमात्मप्रसादेन । ‘भक्तिरेवैनम्’ इति श्रुतौ भक्तेरेव स्वातन्त्र्येण दर्शनादिसाधनत्वदर्शनात् । एवं साधनसामर्थ्यादेव तद्दर्शनान्न तस्याव्यक्तत्वमिति भावः । सिद्धान्त-यति ॥ नेति ॥ न भक्तेरेव स्वातन्त्र्येण दर्शनादिसाधनत्वं वाच्यम् । किं तु तया प्रसन्नस्य परमात्मन एव । ‘एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम’ इति श्रुतेरित्यर्थः । एतैः प्रवचनाद्युपायैर्यो दर्शनार्थं यतेत(यतते)तस्यार्थे तैः प्रसन्नः परमात्मा ब्रह्मधाम वायुं विशति तस्य तत्राविर्भवतीत्यर्थः । परमात्मनैव चेद्दर्शनं कथं तर्हि भक्तेरेव तत्साधनत्वाभिधायकश्रुतिरुपपद्यत इति शङ्कते ॥ कथमिति ॥ परिहाराय सूत्रं पठित्वा व्याचष्टे ॥ परेण चेति ॥ परमात्मनैव दर्शनादिकं न तु भक्त्या । तथापि भक्तिश्रुतिरुपपद्यते । कथम् । दर्शनमोक्षयोः कर्ता परमात्मा भक्त्यैव करोतीत्यतोऽत्र भक्तेर्दर्शनादौ करणत्वेनोच्यमानत्वात् । न च वाच्यं साधनान्तराण्यनुक्त्वा किं विशिष्याभिधीयते भक्तिरिति । तस्याः साधनेषु प्रधानत्वात् । कर्तृत्वाङ्गीकारे तूक्तविशेष-श्रुतिविरोध इति भावः । अत्रैव स्मृतिमाह ॥ मायेति ॥ सैवेत्यस्यापि पूर्ववत्सङ्गतिः । एवं ‘हन्ता रामशर’ इति करणे कर्तृत्वव्यपदेशदर्शनात्करणार्थत्वेन श्रुतिमुपपाद्य प्रकारान्तरेणाप्युपपादयति ॥ सर्वेति ॥ भक्त्यादिसर्वशब्दानां परब्रह्मणि वृत्तेर्ब्रह्मैवैनं नयतीत्याद्यर्थोपपत्तेश्चोपपन्ना श्रुतिरिति भावः । अनेन परेणैव वाच्येन निमित्तेन शब्दस्य ताद्विध्यं युक्तमिति सूत्रांशस्यार्थान्तरमुक्तं भवति । अतो दर्शनादेः पुरुषशक्तिसाध्यत्वाभावाद्युक्तमव्यक्तत्वं ब्रह्मण इति सिद्धम् ।
गुर्वर्थदीपिका
अन्यथाऽव्यक्तत्वाभावप्रसङ्गादित्यत्र स्वतन्त्रसाधनशक्त्यैव दर्शने घटादिवद्विष्णोरव्यक्तत्वा-भावप्रसङ्गादित्यर्थः । ‘परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः’ इति सूत्रस्यैवं योजना । चशब्द एवार्थे । परेण परमात्मनैव दर्शनं न तु केवलं भक्तिसामर्थ्येन । तर्हि ‘भक्तिरेवैनं नयति’ इति श्रुतेः का गतिरित्यत उक्तं ‘भूयस्त्वात्त्वनुबन्ध’ इति । दर्शनसाधनेषु भूयस्त्वात् प्रधानत्वात् तु एव अनुबन्धः भक्तिः । ‘हन्ता रामशर’ इति वत् करणे कर्तृत्वोपचाराद्भक्तिः ‘भक्तिरेव’ इति श्रुतौ कर्तृतया विशिष्य चोच्यते । किञ्च ‘नामानि सर्वाणि’ इति श्रुत्या ‘भज सेवायाम्’ इति धातोः कर्मणि क्तिन्प्रत्ययकरणेन च भक्तिर्भगवानित्यभिप्रेत्योक्तं शब्दस्य ताद्विध्यमिति । शब्दस्य भक्तिशब्दस्य ताद्विध्यं तस्य नारायणादिनामसमूहस्य विधा प्रकारो यस्य स तद्विधस्तस्य भावस्ताद्विध्यं यतस्तस्माच्च ‘भक्तिरेवैनम्’ इति श्रुतिः प्रवृत्तेति । अस्यैव तात्पर्यकथनं भाष्ये परमात्मैवेत्यादि ।
भावबोधः
स्वातन्त्र्यनिरासादिति ॥ ईश्वरप्रसादाद्वारकत्वनिरासादित्यर्थः । एवं पूर्वाधिकरणैर् अधिकारिभेदेन व्यवस्थितापरोक्षज्ञानस्य भक्तिसाध्यत्वे निर्णीते तस्याः स्वातन्त्र्येण तत्साधनत्वं निरस्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किमित्यादि ॥ अत्र भक्तिः किं स्वातन्त्र्येणापरोक्ष-ज्ञानसाधनम् उत परमात्मनः प्रसादद्वारेति चिन्ता । तदर्थं ‘भक्तिरेवैनं नयति’ इति श्रुतिर् भक्तेः स्वातन्त्र्येण ज्ञानसाधनप्रतिपादिका भवत्युत न भवतीति । तदर्थं सा श्रुतिः किं निरवकाशोत सावकाशेति । तदर्थं भक्तेः परमात्मप्रसादद्वारा ज्ञानसाधनत्वे प्रमाणं नास्त्युतास्तीति । ‘तदव्यक्त-माह हि’ इत्यनेन गतार्थताशङ्कापरिहारायाभ्यधिकाशङ्काप्रदर्शनार्थं भाष्ये ‘भक्तिरेवैनं’ इति श्रुत्युदाहरणमित्यभिप्रेत्य तद्व्याचष्टे– भक्तिसामर्थ्येनैवेति ॥ अनेन ‘भक्तिरेवैनम्’ इति भक्तेरेव पृथङ्मोचकत्वप्रदर्शनान्नेशकृत्यमिति न्यायविवरणमपि व्याख्यातं भवति । अत्र सूत्रे ‘च’शब्द एवार्थः । दर्शनादिकमिति शेष इत्यभिप्रेत्याह– परमात्मन एवेति ॥ आदिपदेन मुक्तिः । अनेन परमात्मा एवं दर्शनं प्राप्य मुक्तिं ददातीति भाष्यं सूत्रतात्पर्यकथनपरमित्युक्तं भवति । सौत्रः ‘च’ शब्दो ऽप्यर्थश्च । अपि तथापि शब्दस्य भक्तिरेवैनमिति श्रुतेस्ताद्विध्यं युक्तमिति सूत्रांशयोजना-मभिप्रेत्याह– तथापीति ॥ कथमित्यतस्तदुपपादकत्वेन परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति भक्तिः करणत्वेनोच्यत इति प्रवृत्तं भाष्यं व्याचष्टे– दर्शनमोक्षयोरिति ॥ अनेन ‘भक्त्यैव’ इति एवकारसम्बन्धः । ‘इति’शब्दस्य हेत्वर्थकथनत्वेनोच्यत इत्यनेनापि सम्बन्धः । ‘यतः’ शेषो वेत्युक्तं भवति । ‘भूयस्त्वानुबन्धः’ इति सूत्रांशव्याख्यानपरं प्रधानत्वाद्भक्तिरिति भाष्यं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न च वाच्यमित्यादिना ॥ तथा च सूत्रे ‘अनुबन्धस्तु’ इति सम्बन्धः । भाष्ये तु प्रधानत्वाद्भक्तिरेव करणत्वेनोच्यते, न तु साधनान्तरा-णीति; एवकारसम्बन्ध इति भावः । स्मृतिमाहेति ॥ उपलक्षणमेतत्–
‘अनादितो गुणाः सन्तो भक्त्याद्या न ह्यमूमुचन् ।’
इत्यादि न्यायविवरणोदाहृतमपि स्मृतिवाक्यं ग्राह्यम् ॥ सैवेत्यस्यापीति ॥ कथं तर्हि ‘भक्तिरेवैनं’ इति श्रुतिरित्यतो वा साधनान्तराण्यनुक्त्वा किं विशिष्य भक्तिरेव कारणत्वेनोच्यत इत्यतो वा ‘सैवेत्युक्तं’ इति पूर्ववत् सङ्गतिरित्यर्थः ।
अत्राद्ये– सा भक्तिः करणमेवेति ‘एव’ शब्दसम्बन्धः । द्वितीये– सैव मुख्यं न त्वन्यदित्यर्थ इति ज्ञातव्यम् ।
भावदीपः
भक्तेः स्वातन्त्र्यनिरासस्य पादानन्तर्भावमाशङ्क्योक्तम् ॥ उपासनासाहित्येनोक्तेति ॥ अनुबन्धादिभ्य इत्यत्रोक्तेत्यर्थः ॥ स्वातन्त्र्येति ॥ भगवत्प्रसादनैरपेक्ष्येणेत्यर्थः ॥ अन्यथेति ॥ प्रसादनिरपेक्षेणोपासनासहितभक्तिमात्रेण भगवद्दर्शन इत्यर्थः । तदव्यक्तमाह हीत्युक्ताव्यक्तत्वेत्यर्थः ॥ कृष्यादाविति ॥ कृष्यादौ राजादिप्रसादनैरपेक्ष्येण फलोदयो दृष्टः । राजसेवादौ च राजप्रसादद्वारा फलोदयो दृष्ट इत्यर्थः । भाष्ये न परमात्मनो दर्शनमित्यस्य परमात्मविषया-परोक्षज्ञानं परमात्मनः प्रसादेन न भवति किं तु भक्तिसामर्थ्येनेत्यर्थमुपेत्य व्युत्क्रमेण भाष्यं व्याचष्टे ॥ भक्तिसामर्थ्येनैवेत्यादिना ॥ प्रसादेनेति शेषोक्तिः । न परमात्मनो दर्शनमव्यक्तत्वमित्यपि भाष्यार्थं मत्त्वा प्रागुक्तार्थं हेतूकृत्य पूर्वाक्षेपरूपं फलमाह ॥ एवमिति ॥ न तस्येति ॥ घटादे-रिवेति भावः । भाष्ये नेत्यनन्तरं न परमात्मनो दर्शनमितीति पूर्ववाक्यमनुवर्त्य तत्तात्पर्यार्थमाह ॥ न भक्तेरेवेति ॥ आदिपदेन मुक्तिः । भाष्ये श्रुतेरित्युक्तावपि भक्तेरेव पृथङ्मोचकत्वदर्शनादिति न्यायविवरणोक्त्यनुरोधेनेयमुक्तिः । तस्येत्याथर्वणवाक्ये विवक्षितार्थस्यास्फुटत्वात्पूर्वशेषमाह ॥ एतैरिति ॥ ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यः’ इत्यादिपूर्ववाक्योक्तप्रवचनभक्त्यादिप्रकृतपरामर्शित्वमुपेत्य श्रुत्यर्थमाह ॥ एतैरित्यादिना ॥ ‘प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः । उपायैर्यो विजानीयात्प्राणस्थं परमेश्वरम्’ इत्याथर्वण-भाष्योक्तेरिति भावः । सूत्रे प्रकृतत्वाद्दर्शनादिपदान्वयमुपेत्य परेण च दर्शनादीति सूत्रांशस्यार्थमाह ॥ परमात्मनैवेति ॥ दर्शनादिकमिति ॥ मुक्तिरादिपदार्थः । उक्तसूत्रांशस्य तात्पर्यार्थोक्तिपरं परमात्मैवेत्यादिभाष्यं साध्याध्याहारपूर्वं हेतुत्वेन व्याचष्टे ॥ तथापीति ॥ परमात्मन एव दृष्ट्यादि-हेतुत्वेऽपीत्यर्थः । भक्त्यैवेति भाष्यस्थैवकारो भिन्नक्रम इति भावः ।
भाष्यस्थेतिपदं हेत्वर्थं मत्त्वोक्तमित्यत इति । अत्रेति शेषोक्तिः । श्रुतावित्यर्थः । प्रधान-साधनत्वादित्यंशं व्यावर्त्यपूर्वं व्यनक्ति ॥ न च वाच्यमिति ॥ साधनत्वहेतोरसिद्धिमाशङ्क्याह ॥ कर्तृत्वेति ॥ उक्तेति ॥ एतैरुपायैरित्युक्तेत्यर्थः । विशेषेत्युक्त्या निरवकाशत्वेन भक्तिरेवेति श्रुतितो बलवत्तोच्यते ॥ अत्रैवेति ॥ परमात्मैवेत्यादिभाष्योक्तार्थ एवेत्यर्थः । स्मृतावेनं विष्णुं स्वात्मानमेवेत्यर्थः । वशं नयेत् । वशोऽहमिति ज्ञापयेदिति तत्वप्रदीपोक्तार्थः । दर्शनादौ हरेरेव कर्तृत्वे कथं भक्तिरेवेति श्रुतिः कथं च साधनान्तराण्यनुक्त्वा भक्तेरेवोक्तिरित्यतः स्मृतौ सैव करणमीशितुरित्युक्तमिति ज्ञेयमित्याह ॥ सैवेत्यस्यापीति ॥ पूर्ववत् प्रधानसाधनत्वात्करण-त्वेनोच्यत इत्यस्यैवेत्यर्थः । तत्र करणमित्यनेनाद्यचोद्यस्य निरासोऽन्त्यस्य तु सैव परं करणमिति परपदेनेति ध्येयम् । भक्तेः प्राधान्यं च ‘तीर्थदानतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा । अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये’ इति । सर्वस्मादुत्तम इति सम्यक्स्नेहयुता मतिः । सुस्थिरा भक्तिरुद्दिष्टा तया मोक्षो न चान्यत इत्याद्यनेकवचनैर् बृहद्भाष्ये प्रथमाध्याये विवृतम् ॥ परब्रह्मणि वृत्तेरिति ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यत्र सैषा प्रकृतिरित्यादिश्रुतिगतस्त्रीलिङ्गप्रकृत्यादिशब्दानामिव भक्तिशब्दस्यापि ब्रह्मणि वृत्तेरित्यर्थः । यद्वा भक्तिस्थः परमो विष्णुरिति भक्तिस्थत्वोक्त्या ‘तत्तद्गतस्यैव हरेस्तत्तन्नामानि चांजसा । औपचारिकनामानि तदन्येषामिति स्थितिः’ इति स्मृत्युक्तदिशा शरीररूपकविन्यस्तगृहीतेरिति न्यायेन ब्रह्मणि वृत्तेरित्यर्थः । भाष्यं सूत्रारूढं करोति ॥ अनेनेति ॥ अत इति ॥ श्रुतेरन्यपरत्वेनेशप्रसादैकसाध्यत्वाद्दर्शनादेरित्यर्थः ।
अभिनवचन्द्रिका
परेणैव मोक्षो न भक्त्या । कथं तर्हि ‘भक्तिरेवैनं मोचयति’ इति श्रुतेर् भक्तिप्राधान्य-प्रतिपादकत्वमित्यत उक्तम् – शब्दस्य ताद्विध्यमिति ॥ यतो ऽनुबन्धः साधनेषु भूयस्त्वा-त्करणम्, अतः शब्दस्य श्रुतेः, ताद्विध्यं ‘भक्तिरेवैनं मोचयति’ इत्येवं रूपत्वमुपपन्नम् । ‘हन्ता रामशर’ इत्यादौ करणे कर्तृत्वव्यवहारस्य बहुलमुपलम्भादिति सूत्रार्थः । कृष्यादाविति । कृष्यादौ स्वव्यापारे फलोत्पत्तौ प्राधान्यदर्शनम् । राजसेवादौ स्वव्यापारे राजप्रसादाङ्गत्वेन अप्राधान्यदर्शनं सन्देहबीजमित्यर्थः ॥ सैवेत्यस्यापीति ॥ ‘सैव करणं परमेशितुः’ इति प्रमाणशेषस्य, पूर्ववत् सूत्रे ‘शब्दस्य ताद्विध्यम्’ इत्यंशस्येव सङ्गतिर्द्रष्टव्येत्यर्थः । तथा हि । ननु यदि परमात्मैव मोक्षं ददाति, कथं तर्हि ‘भक्तिरेवैनं मोचयति’ इति श्रुतिरित्यत आह भाष्ये सैव करणं परमेशितुरिति । परमात्मनः कर्तृत्वेऽपि भक्तेः कारणत्वात्, करणे कर्तृत्वोपचारस्य बहुमुपलम्भात्, ‘भक्तिरेवैनं मोचयति’ इति श्रुतिरुपपन्नेति भाव इति ।
पूर्वपक्षस्तु– भक्त्यैवापरोक्षज्ञानं न परमात्मप्रसादेन । भक्तिरेवैनं मोचयति’ इति श्रुतेः । ततश्च साधनसामर्थ्येनैव दर्शनसम्भवान्न तस्याव्यक्तत्वमिति ।
सिद्धान्तस्तु– भक्त्या प्रसन्नपरमात्मनैवापरोक्षज्ञानम् । ‘एतैरुपायैर्यतते यस्तु विद्वान् तस्यैष आत्मा विशते ब्रह्मधाम’ इति श्रुत्या स्वेच्छयैव भक्तापरोक्षसिध्द्यर्थं, ब्रह्मधामशब्दवाच्यवायु-प्रवेशोक्तेः । न च पूर्वश्रुतिविरोधः भगवत्प्रसादसाधनेषु भक्तेः प्राधान्याभिप्रायेण ‘भक्तिरेवैनं मोचयति’ इत्यभिधानात् । अतो दर्शनादेः पुरुषसाध्यत्वाभावाद् युक्तमव्यक्तत्वं ब्रह्मण इति सिद्धम् ।
वाक्यार्थमुक्तावली
पूर्वाधिकरणे ईश्वरः प्रसन्नो बिम्बभूतमात्मानं प्रदर्श्य मोचयतीत्युक्तं समोऽपि भगवान् स्वबिम्बदर्शन एवैनं मोचयतीति । तदयुक्तम् । ज्ञानमोक्षयोर् भक्त्यायत्तत्वादित्याक्षेपोत्था-नादनन्तरसङ्गतिः ॥ साहित्येनेति ॥ साहित्येनानुबन्धादिभ्य इत्यत्रोक्तभक्तेरित्यर्थः ॥ स्वातन्त्र्य-निरासादिति ॥ ईश्वरप्रसादाद्वारकत्वनिरासादित्यर्थः । अन्यथेति ॥ साधनसामर्थ्येन प्रत्यक्षत्व इत्यर्थः ॥ किमिति ॥ ज्ञानं किं भक्तिसामर्थ्येनोत परमात्मनेति चिन्ता । तदर्थं भक्तिरेवैनमिति श्रुतिः किं भक्तेः स्वतन्त्रकारणत्वपरोत कारणत्वपरत्वेन भगवत्परत्वेन वा सावकाशेति ॥ कृष्यादाविति ॥ कृष्यादौ पुरुषप्रयत्नादेव फलं तेन प्रसन्नदेवतया । राजसेवादौ तु सेवया प्रसन्नेनैव फलमित्युभयथा दर्शनमित्यर्थः । अत्र पृथग्दृष्टिरित्युक्तन्यायं पृथगीश्वरप्रसादं विना भक्तिसामर्थ्येनैव दर्शनादिकमिति श्रुतेर्न परमात्मना दर्शनादीत्यर्थतया प्रदर्शयद्भाष्यं व्याचष्टे ॥ भक्तिसामर्थ्येनेति ॥
यद्वा ननु तदव्यक्तमाह हि इत्यत्रापि संराधन इति दर्शनस्य पुरुषप्रयत्नस्य अतोऽनन्तेनेति प्रसादसाध्यत्वस्य चोक्तत्वान्न पुनः शङ्कावकाश इत्यतः पृथग्दृष्टिरिति न्यायं पृथक् साधनान्तर-वैलक्षण्येन भक्तिरेवेति भक्तेरपरोक्षादिहेतुत्वावधारणाच्छ्रवणपूजादिसंराधनासाध्यत्वेऽपि भक्ति-साध्यत्वमस्त्वित्यभ्यधिकाशङ्काप्रदर्शकत्वेन व्याकुर्वद्भाष्यं व्याचष्टे ॥ भक्तिसामर्थ्येनेति ॥ यद्वा ननु व्यतिरेकानवस्थितेश्चानपेक्षत्वादितीश्वरव्यतिरेकेण कस्यापि कर्मणोऽनवस्थानोक्तेः कथं भक्तेरेव ज्ञानहेतुत्वम् । श्रुतिस्तु तेजोऽधिकरणन्यायेन द्वारकारणत्वपरा भविष्यति । समन्वयाध्यायोक्तरीत्या भगवत्परा वेति पुनर्गतार्थतेत्यतः पृथग्दृष्टिरिति न्यायं द्वारकारणान्तराणां श्रवणादीनां विद्यमान-त्वेऽपि पृथक् भक्तिरेवेति दृष्टेः श्रुतेर् भगवद्वाचकशब्दान्तरे विद्यामानेऽपि पृथग्विशिष्यभक्ति-रेवैनमिति दृष्टेः श्रुतेः, न द्वारकारणत्वपरत्वेन वा भगवत्परत्वेन वा सावकाशत्वमिति न परमात्मनो दर्शनादिकमित्यर्थकतया प्रदर्शयन् भाष्यं व्याचष्टे ॥ भक्तिसामर्थ्येनेति ॥ एतैः प्रवचनाद्यैरिति । भक्तिपूर्वकप्रवचनाद्यैरित्यर्थः । अथर्वणे तत्पूर्ववाक्ये ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन’ इति भक्तिहीनप्रवचनादेर्न ज्ञानहेतुत्वं किन्तु ‘यमेवैष वृणुते तेन लभ्यः’ यमधिकारिणमेष परमात्मा वृणुते तेन भक्तिमता प्रवचनादिसाधनैर् लभ्य इति भक्तिपूर्वकप्रवचनादेः प्रस्तुतत्वादिति भावः ।
सूत्रे चशब्द एवार्थः । दर्शनमोक्षयोः प्रकृतत्वाद् दर्शनादिकमित्यन्वेतीति भावेन व्याचष्टे ॥ परमात्मनैवेति ॥ एतेन परमात्मैव दर्शनादिकं प्राप्य मुक्तिं ददातीति भाष्यांशो व्याख्यातो भवति । सौत्रश्चशब्दोऽप्यर्थश्च । अपि तथापिशब्दस्य भक्तिरेवैनं नयतीति श्रुतेस् ताद्विध्यं तद्विधत्वं भक्तेर्दृष्टिं प्रति कर्तृत्वप्रतिपादकत्वमिति सूत्रांशयोजनामभिप्रेत्याह ॥ तथापीति ॥ एतेन भक्तिरुच्यत इति भाष्यांशः भक्तिः श्रुतावुच्यते भक्तिरेवेति श्रुतिरुपपद्यत इति व्याख्यातो भवति ॥ कथमिति ॥ यदि परमात्मैव दर्शनादिकं न तु भक्त्या स्वतन्त्रया कथं तर्हि भक्तिरेवेति भक्तेः कर्तृत्वश्रुतिरुपपन्ना विरोधादिति भावः । तत्परिहाराय शब्दस्य ताद्विध्यमित्यावर्तते । चशब्दो यस्मादित्यर्थे । अनुबन्धेनेति विपरिणम्यान्वेति । परेण दर्शनादिकमिति च । ततश्च यस्मात् परेण कर्त्रा अनुबन्धेन भक्त्यैव दर्शनादिकं भवति अतः शब्दस्य भक्तिरेवेति श्रुतेस् ताद्विध्यं तद्विधत्वमेतैरुपायैः श्रुति-समानत्वभक्तेः करणत्वप्रतिपादकत्वम् । अतः करणे कर्तृत्वोपचारा श्रुतिरुपपद्यत इति सूत्रार्थं हृदि निधाय प्रवृत्तं परमात्मैवेत्यादिसमग्रभाष्यं प्रधानत्वादित्यंशं विहाय व्याचष्टे ॥ दर्शनमोक्षयोरिति ॥ अनेन भाष्ये भक्त्यैवेत्येवकारसम्बन्ध इति शब्दस्य हेत्वर्थकस्य यथाश्रुतमुच्यत इत्यनेनापि सम्बन्ध इत्युक्तं भवति । भूयश्चाननुबन्ध इति सूत्रांशव्याख्यापरं प्रधानसाधनत्वाद्भक्तिरेव कारणत्वेनोच्यत इति भाष्यं तन्निवर्तनीयाशङ्कानिरासपूर्वं व्याचष्टे ॥ न च वाच्यमित्यादिना ॥ तथा च सूत्रेऽनुबन्धस्त्विति तुशब्दसम्बन्धः । भाष्ये तु प्रधानसाधनत्वाद्भक्तिरेव कारणत्वेनोच्यते न तु साधनान्तराणीत्येवकारसम्बन्ध इति भावः । अत्रैव स्मृतिमिति । अनादिगुणविस्तर इति न्यायं सूचयन्निति पूरणीयम् । भक्तिस्थो भक्तिनामकः परमो विष्णुरनादिभूतया स्वानुग्रहेणेषद्व्यक्त्या तया भक्त्या करणेनैनं जीवं स्वाभिमुखं कुर्यात् । यद्वा परमात्मवशोऽहमिति ज्ञापयेत् । ततः परं पुनरधिकप्रसादेनाभिव्यक्त्या दर्शनं ययाऽतः पुनरभिव्यक्त्या एतया भक्त्या मुक्तिं प्रदद्यादिति । अनादितो विद्यमानस्य भक्त्यादिगुणस्य भगवत्प्रसादेन क्रमेणाभिवृद्धस्यैव करणतया मुक्तिहेतु-त्वस्योक्तत्वेन स्वतः सामर्थ्याभावादिति भावः । तदुक्तं न्यायविवरणे । ‘अनादितो गुणाः सन्तो भक्त्याद्या न ह्यमूमुचन् । जीवं तद्गुणसुव्यक्तिं कृत्वैनं मोचयेद्धरिः’ इति । सैव इत्यस्यापीति । कथं तर्हि भक्तिरेवैनमिति श्रुतिरित्यतो वा साधनान्तराण्यनुक्त्वा किं विशिष्य भक्तिरेव करणत्वेनोच्यत इत्यतो वा सैवेत्युक्तमिति पूर्ववत्सङ्गतिरित्यर्थः ।
अत्राद्ये सा भक्तिः करणमेवेत्येव सम्बन्धः । द्वितीये सैव मुख्यं करणं न त्वन्यदित्यर्थ इति ज्ञातव्यम् ॥ सूत्रांशस्येति ॥ ननु भगवद्वाचकं साधनान्तरवाचकं च शब्दान्तरं विहाय भक्तिशब्देन तदुक्तौ किं कारणमित्यतः प्रधानसाधनवाचकत्वाद् भक्तिशब्दस्य शरीररूपकविन्यस्तगृहीतेरिति न्यायेन तत्रस्थभगवद्ग्रहणायोपादानमिति भूयस्त्वात्त्वनुबन्ध इत्यनेन सुगममिति सूत्रांशस्यार्थान्तर-मुक्तमिति भावः । अत एव भक्तिस्थः परमो विष्णुरित्युक्तम् । तत्वप्रदीपे च भक्तिनामक इत्युक्तम् ।
तत्त्वसुबोधिनी
स्वातन्त्र्यनिरासादिति ॥ ईश्वरप्रसादाद्वारकत्वनिरासादित्यर्थः । एवं पूर्वाधिकरणैरधिकारि-भेदेन व्यवस्थितापरोक्षज्ञानस्य भक्तिसाध्यत्वे निर्णीते तस्य स्वातन्त्र्येण तत्साधनत्वं निरस्यत इत्यनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ सामर्थ्येन व्यक्तत्वे स्वतः परमात्मनो व्यक्तत्वं न स्यादित्यर्थः ॥ तथा दर्शनमिति ॥ कृष्यादिकं स्वसामर्थ्येनापि सफलं भवति परमात्मनाप्येवं राजसेवादिकमपि स्वसामर्थ्येनापि सफलं राजसेवयापीत्यर्थः । तदव्यक्तमाह हीत्यनेन गतार्थता-शङ्कापरिहाराय भाष्ये भक्तिरेवैनं नयति इति श्रुत्युदाहरणमित्यभिप्रेत्य तद्व्याचष्टे ॥ भक्तिसामर्थ्ये-नेवेति ॥ अत्र सूत्रे चशब्द एवार्थः । दर्शनादिकमिति शेष इत्यभिप्रेत्याह ॥ परमात्मनैवेति ॥ आदिपदेन मुक्तिः ॥ अनेन परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति भाष्यं सूत्रतात्पर्य-कथनपरमित्युक्तं भवति । सौत्रश्चशब्द अप्यर्थो ऽपि तथापि शब्दस्य भक्तिरेवैनमिति श्रुतेस्ताद्विध्यं युक्तमिति सूत्रांश योजनामभिप्रेत्याह ॥ तथापीति ॥ कथमित्यतस्तदुपपादकत्वेन परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति मुक्तिकारणत्वेन उच्यत इति प्रवृत्तं भाष्यं व्याचष्टे । दर्शनमोक्षयो-रिति ॥ अनेन भक्त्यैवेत्येवकारसम्बन्ध इतिशब्दस्य हेत्वर्थकत्वेन उच्यते इत्यनेनापि सम्बन्ध इत्युक्तं भवति । भूयस्त्वात्त्वनुबन्ध इति सूत्रांशव्याख्यानपरं प्रधानसाधनत्वाद्भक्तिरिति भाष्यं तन्निवर्तनीयाशङ्कापरिहारपूर्वकं व्याचष्टे ॥ न च वाच्यमित्यादिना ॥ तथा च सूत्रे अनुबन्ध-स्त्विति सम्बन्धः । भाष्ये तु प्रधानाद्भक्तिरेव कारणत्वेनोच्यते इति न तु साधनान्तराणीत्येवकार-सम्बन्धः । सैवेत्यस्यापि इति ॥ कथं तर्हि भक्तिरेवैनमिति श्रुतिरित्यतो वा साधनान्तराण्यनुक्त्वा किं विशिष्य भक्तिरेव कारणत्वेनोच्यत इत्यतो वा सैवेत्युक्तमिति पूवसङ्गतिरित्यर्थः । आद्ये सा भक्तिः कारणमेवेत्येवशब्दसम्बन्धः । द्वितीये सैव मुख्यं न त्वन्यदित्यर्थ इति वाच्यम् । अनेनेवैति प्रकारान्तरेण श्रुत्युपपादनेनेत्यर्थः सूत्राक्षरार्थस्तु चशब्द एवार्थः । एवं च परेणैव परमात्मनैवदर्शनादिकं भवतीति सम्बन्धः । चो ऽप्यर्थे । तथापि शब्दस्य ताद्विध्यं तादृशार्थ-प्रतिपादकत्वं स्वातन्त्र्येण साधनत्वाप्रतिपादकत्वं युक्तं परमात्मदर्शनोक्तेर् मुख्यतः कारणत्वेनोच्य-मानत्वात्तथापि साधनान्तराण्यपहाय किं भक्तिरैव विशिष्याभिधीयत इत्यत उक्तम् अनुबन्धस्तु भक्तिस्तु भूयस्त्वात् प्रधानत्वादिति विशिष्योच्यते । यद्वा परेणैव वाच्येन निमित्तेन भक्तिरेवैनमिति शब्दस्य ताद्विध्यं स्वातंत्र्येण कर्तृत्वप्रतिपादकत्वं युक्तमित्यर्थः ।
वाक्यार्थविवरणम्
उपासनसाहित्येनोक्तेति ॥ उपासनं प्रति सहकारित्वेनोक्तभक्तिरित्यर्थः ॥ स्वातन्त्र्येति ॥ भगवदपरोक्षज्ञानादिजनन इत्यर्थः । अव्यक्तत्वेऽपि भक्तेरेव स्वातन्त्र्ये भक्तिरूपपुरुषप्रयत्नेनैव भगवतो व्यक्तत्वप्राप्त्या ‘तदव्यक्तमाह हि’ इत्यत्रोक्तमव्यक्तत्वं न स्यादित्यर्थः ॥ कृष्यादाविति ॥ धान्यादिरूपफलं कर्षणादिसाधनसामर्थ्येनैव दृष्टम् । भृत्येन राजसेवादौ कृते सति धनप्राप्तिरूपं फलं प्रसन्नेन राज्ञैव भवददृष्टम् । ज्ञानमपि फलम् । अतस्तत्किं भक्तिरूपसाधनसामर्थ्येनैव भवति उत प्रसन्नेन परमात्मनैवेति सन्देह इत्यर्थः । ‘भक्तिरेवैनम्’ इति श्रुतिः (श्रुताः) भक्तिरेवैनं जीवं प्रति एनं परमात्मनं दर्शयति भक्तिरेवैनं जीवम् एनं परमात्मानं नयति प्रापयति । पुरुषः हरिर्भक्तिवशः भक्तिपराधीन इत्यर्थः । प्रवचनं व्याख्यानम् । आदिपदेन भक्त्यादिपरिग्रहः । तस्यार्थं तदर्थं तद्दर्शनार्थमित्यर्थः । तत्र वायुरूपाधिष्ठाने । तस्य अधिकारिणः । सर्वैरपि वासनामयी मूर्तिर्ध्यातव्या । तदन्तस्तदाकारा मुख्यप्राणमूर्तिर्ध्यातव्येति । ‘प्रतिमां प्रतिमान्तस्स्थाम्’ इत्यादिना तन्त्रसारे स्पष्टम् । अतो वायुरूपाधिष्ठाने आविर्भवतीत्युक्तं युक्तमिति ज्ञातव्यम् । करोति दर्शनमोक्षौ जीवस्य ददातीत्यर्थः । अत्र ‘भक्तिरेवैनम्’ इति श्रुतौ । तथा च हन्ता रामशर इतिवत् करणे कर्तृत्वोपचार इति भावः ॥ उक्तविशेषश्रुतीति ॥ एतैरुपायैर्यतते इति प्रवचन-भक्त्याद्युपायानां करणत्वाभिधायकविशेषश्रुतीत्यर्थः । भाष्ये भक्तिस्थः भक्तिविषयः । परमः विष्णुस् तयैव भक्त्यैव एनं जीवं वशं स्ववशम् । नयेत् प्रापयेत् । स्ववशं कुर्यादित्यर्थः । यातः प्राप्तः सन् ॥ पूर्ववदिति ॥ परमात्मन एव दर्शनादिकर्तृत्वे कथं तर्हि भक्तेरेव तत्साधनत्वाभि-धायकश्रुतिरुपपद्यत इत्यत आह– सैवेति ॥ दर्शनादिकं विष्णुर्भक्त्यैव करोतीत्येवम् ईशितुर् विष्णोः सा भक्तिः करणमेव । अन्तःकरणे कर्तृत्वोपचारेण श्रुतिरुपपन्ना । साधनान्तराण्यनुक्त्वा किं भक्तिरेव विशिष्याभिधीयत इत्यतः परमित्युक्तम् । प्रधानकरणमित्यर्थः । तथा च प्रधानसाधनत्वा-द्विशिष्य तदुक्तिरिति पूर्ववत्सङ्गतिरित्यर्थः । तथा च सूत्रे चशब्द एवार्थोऽप्यर्थश्च । दर्शनादिकं भवतीति शेषः । एवं च परेणैव परमात्मनैव दर्शनादिकं भवति, न भक्त्या । अपि तथापि शब्दस्य ‘भक्तिरेवैनम्’ इति श्रुतेः ॥ ताद्विध्यम् ॥ मोक्षप्रतिपादकत्वं युज्यते । परमात्मैव भक्त्या दर्शनादि करोतीति करणे कर्तृत्वोपचाराङ्गीकारात् । ‘हन्ता रामशरः’ इतिवत् । साधनान्तराण्यनुक्त्वा विशिष्य भक्तिः कस्मादुच्यत इत्यत उक्तम् भूयस्त्वादिति ॥ अनुबन्धः भक्तिरितरसाधनान्तराणि विहाय विशिष्योच्यते । भूयस्त्वात् साधनेषु प्रधानत्वादिति सूत्रार्थः । एवं सति ‘भक्तिरेवैनमिति श्रुत्यर्थः कथमित्यत उक्तम् ‘ब्रह्मैवेनं नयति’ इत्यादीति । वाच्येन भक्तिशब्दवाच्येन शब्दस्य ताद्विध्यं ‘भक्तिरेवैनम्’ इति श्रुतेः स्वातन्त्र्येण दर्शनादिकर्तृत्वप्रतिपादकत्वमित्यर्थः ॥ पुरुषशक्तीति ॥ भक्त्यादिरूपपुरुषप्रयत्नेनेत्यर्थः ।
वाक्यार्थमञ्जरी
स्वातन्त्र्यानिरासादिति ॥ भगवत्प्रसादाद्वारकत्वनिरासादित्यर्थः ॥ अव्यक्तत्वाभावेति ॥ भक्तिसामर्थ्येनैव दृष्टत्वादिति भावः ।
ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ॥ ज्ञानं परेण च परमात्मनैव भवति न भक्त्या तर्हि ‘भक्तिरेवैनम्’ इति श्रुतेः का गतिरित्युक्तम् ॥ शब्दस्य ताद्विध्यमिति ॥ शब्दस्योक्तश्रुतेस्ताद्विध्यं तु भक्तिहेतुत्वप्रतिपादकत्वं भक्तेः करणत्वादुपपन्नम् । साधनान्तरत्यागेन भक्तेरेवेत्युक्तिः कुत इत्यत उक्तम् ॥ भूयस्त्वात्त्वनुबन्ध इति ॥ अनुबन्धस्तु भक्तिस्तु करणेषु भूयस्त्वात्प्रधानत्वादुक्त इत्यर्थः ॥ सैवेत्यस्यापीति ॥ साधनान्तराण्यनुक्त्वा किं विशिष्य भक्तिरेव करणत्वेनोच्यत इत्यतः सैवेत्युक्तमिति पूर्वसङ्गतिरित्यर्थः । तथा च सैव मुख्यं न त्वन्यदित्यर्थः ।
॥ इति ताद्विध्याधिकरणम् ॥ ३४ ॥