न सामान्याधिकरणम्
सूत्रभाष्यम्
॥ ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॐ ॥ ५३ ॥
न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । न हि लोकापत्तिमात्रं मुक्तिः ।
‘सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात्’ इति हि नारायणतन्त्रे ॥
‘मुच्यते नात्र सन्देहो दृष्ट्या तु स्वात्मयोग्यया’ इति च ॥
‘दर्शनेनाऽऽत्मयोग्येन मुक्तिर्नान्येन केनचित्’ इति चाध्यात्मे ॥
तत्त्वप्रदीपिका
दर्शनमात्रान्मोक्ष इत्यनङ्गीकारे केषाञ्चिद्दर्शनानां नैष्फल्यं स्यात् । तथा च सर्वगतत्व-दृष्ट्यादीनामवतारादिदृष्टयो नैवाकाङ्क्षयेरन्नित्यत आह– सामान्यादित्यादि सूत्रम् ॥ ब्रह्मविषयत्वेन स्वयोग्यरूपदर्शनेन समानतयार्तमानं सामान्यदर्शनम् । तेनोर्ध्वलोकप्राप्तिरेव । यथा मृत्युमात्रादुपास-नानाम् । आरब्धकर्मक्षय एव हि मुक्तिस्तद्दर्शिनामपि ।
तत्त्वप्रकाशिका
अत्र यत्साधनमुपासनं तज्ज्ञानस्य बिम्बविषयस्य मोक्षसाधनत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा न बिम्बोपासनमावश्यकमिति सिध्यतीत्येतत्समर्थनीयम् । भगवद्दर्शनमेव विषयः । किं बिम्बरूपविषयं मुक्तिसाधनमुत यत्किञ्चिद्रूपविषयमिति सन्देहः । ‘ब्रह्मविदाप्नोति परम्’ इत्याद्युक्तेः साधारण्यं सन्देहबीजम् । यत्किञ्चिद्रूपविषयं मोक्षसाधनमिति पूर्वः पक्षः । भगवतः सर्वरूपेष्वपि साम्यात् । न हि कस्यचिद्रूपस्य मोक्षदातृत्वशक्तिः कस्यचिन्नेति विशेषोऽस्ति । तथात्वे चोक्त-विरोधः स्यात् । अतो यत्किञ्चिद्रूपविषयज्ञानस्य मोक्षसाधनत्वान्न बिम्बोपासनानियतिरपेक्षिता सिध्यतीति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ नेति ॥ न भगवद्रूपाणां साम्येन सामान्यतो दर्शनेन सर्वेषां मुक्तिः । किं नाम स्वबिम्बदर्शनादेव । यथा खलु मृत्युत्वसाम्येऽपि न मृत्युमात्रा-नन्तरं मुक्तिः । किं तु मृत्युविशेषादनन्तरमेवं भगवद्रूपाणां साम्येऽपि रूपविशेषज्ञानमेव मोक्षसाधनं न सामान्यदर्शनमिति भावः । तथा च श्रुतिः । समोऽपि भगवान् स्वबिम्बदर्शन एवैनं मोचयति’ इति । यदि न सामान्यदर्शनेन मुक्तिस्तर्हि तस्य वैयर्थ्यं स्यात् । न च तद्युक्तम् । अतो यत्फलं स मोक्ष इति मुक्तये सामान्यदर्शनं भवतीत्यत आह ॥ न हीति ॥ न भगवद्दर्शनस्यैवं सति वैफल्यम् । नापि तेन मोक्षः । तस्य महरादिलोकप्राप्तिसाधनत्वात् । न हि लोकप्राप्तिर्मुक्तिरिति भावः । सामान्यदर्शनेन लोकप्राप्तिरेव न मुक्तिरिति कुत इत्यत आह ॥ सामान्येति ॥ दर्शनेऽपि विकल्पाद्बिम्बदर्शनेऽपि सा स्यादित्यत आह ॥ मुच्यत इति ॥ दर्शनेन लोकापत्तिः क्वचिन्मुक्तिश्च किं न स्यादित्यत आह ॥ दर्शनेनेति ॥ अतो बिम्बदर्शनस्यैव मुक्तिहेतुत्वाद्बिम्ब-मेवाऽवश्यमुपास्यमिति सिद्धम् ।
गुर्वर्थदीपिका
तथात्वे चोक्तविरोध इत्यत्रोक्तं ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इत्यधिकरण उक्तमित्यर्थः । ‘सामान्यादप्युपलब्धेः’ इति सूत्रखण्डस्योपलब्धेर् दर्शनस्य सामान्यात् साधारणरूपविषयत्वान्मुक्तिर्न । यद्वा ल्यब्लोपनिमित्तपञ्चमीमपेक्ष्य सामान्यात्स्वरूपसामान्यं विषयीकृत्वोपलब्धेर्दर्शनादित्यर्थः । भाष्ये सामान्यदर्शनमात्रेणेति फलितकथनम् ।
भावबोधः
पूर्वं ‘तदुक्तं’ इत्यनेन गृहीतेन प्रमाणेन केषाञ्चिदवतारदर्शनेन मुक्तिरित्युक्ते तर्हि सर्वेषामपि तेनैव मुक्त्युपपत्तेः केषाञ्चिद्बिम्बदर्शनेनेति नियमो नेत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । किमित्यादि ॥ अत्र योगिनां भगवद्दर्शनं किं यत्किञ्चिद्रूपविषयं मुक्तिसाधनमुत बिम्बरूपविषय-मिति चिन्ता । तदर्थं बिम्बरूपविषयस्य मुक्तिसाधनत्वे यत्किञ्चिद्रूपविषयसाधनस्य वैफल्यं प्राप्नोत्युत नेति । तदर्थं यत्किञ्चिद्रूपविषयकदर्शनस्य मोक्षेतरफलकत्वं न सम्भवत्युत सम्भवतीति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । भगवतः सर्वत्र गुणसाम्याद्यस्य कस्याचिद्रूपस्य दर्शनात् सर्वेषां मुक्तिरिति न्यायविवरणानुसारेण पूर्वपक्षमाह– यत्किञ्चिद्रूपविषयमिति ॥ उक्तविरोधः स्यादिति । ‘न स्थानतोऽपि’ इत्युक्तविरोधः स्यादित्यर्थः । अत्र सौत्रं ‘अपि’ पदं ‘मात्रार्थकमुपलब्धेरित्यनेन सम्बध्यत इत्यभिप्रेत्य प्रवृत्तं न सामान्यदर्शनमात्रेण मुक्तिरिति भाष्यं व्याचष्टे– न भगवद्रूपाणामिति ॥ बिम्बदर्शनादेवेति ॥ नायं नियमः सर्वेषां, किं तु ये बिम्बदर्शनयोग्या ऋष्यादयस्तेषामेव । सर्वेषां बिम्बदर्शनायोग्यत्वात् । यथोक्तम् । ‘नोपासा त्रैविध्यादाश्रितत्वादिह तद्योगात्’ इति । ‘ऋषयोऽन्तःप्रकाशाः’ इति श्रुतेश्च । अन्यथा ‘दृष्ट्यैव ह्यवताराणाम्’ इति प्रागुक्तविरोधात् । येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित्कार्यमेवेति बृहदारण्यकभाष्यं तु अवतारादिदृष्टिविशेषार्थमेवान्तरुपास्त्यावश्यकत्वपरम् । अत एव ‘दृष्ट्यैव’ इत्यत्र ‘अञ्जसा’ इत्युक्तम् । यथोक्तं काठकभाष्ये–
‘प्रादुर्भावानृते विष्णुमिन्द्रियैर्नैव पश्यति ।
प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ॥
तदैव मुच्यते योगी न दृष्टैरिन्द्रियैः क्वचित् ॥’ इति ।
अत एव च न्यायविवरणे सिद्धान्तेऽप्यवतारदर्शनेनापि केषाञ्चिन्मुक्तिरित्यङ्गीकारात् सर्वेषामित्युक्तमित्यभिप्रेत्य न सर्वेषामित्युक्तम् । अन्यथा न सामान्यदर्शनेन मुक्तिरित्येवावक्ष्यदिति ज्ञेयम् । न्यायविवरणोदाहृतां श्रुतिमाह– तथा चेति ॥ सामान्यदर्शनस्य वैफल्यपरिहाराय सूत्रे ‘न हि लोकापत्तिः’ इत्युक्तमभिप्रेत्य प्रवृत्तं न हीति भाष्यमवतार्य व्याचष्टे– यदीत्यादिना ॥ कुत इत्यत आहेति ॥ ऋषीणां बिम्बदर्शनमेव योग्यमिति भावः ।
भावदीपः
समर्थनादिति ॥ यत्किञ्चिद्रूपज्ञानादपि मुक्तिरिति शङ्कायामिति योज्यम् । तेन पूर्वत्रावतारादिव्यवस्थितनानारूपदृष्टिनियमेन मोक्षोक्तिरयुक्ता । यत्किञ्चिद्रूपदृष्ट्यैव मुक्त्युपपत्तेरिति शङ्कनात्पूर्वसङ्गतिरपि सिद्धेति ध्येयम् । सामान्यदर्शनेन मुक्तिरिति भाष्यदिशा प्रतिज्ञामाह ॥ यत्किञ्चिदिति ॥ कुत इत्यतो भगवतः सर्वत्र गुणसाम्यादित्यन्यत्रोक्तहेतुमाह ॥ भगवत इति ॥ चेतनत्वादिना साम्यमप्रयोजकमित्यतो गुणपदविवक्षितधर्मोक्त्या साम्यं व्यनक्ति ॥ न हीति ॥ अस्तु विशेषतो सिद्धो हेतुरित्यतो गुणपदोक्तितात्पर्यलब्धार्थोक्त्या विवक्षितसाम्यरूपहेतोः सिद्धि-माह ॥ तथात्वे चेति ॥ न स्थानतोऽपीत्यत्रोक्तविरोध इत्यर्थः ॥ अत इति ॥ सर्वरूपेषु मुक्तिदातृत्वादिगुणसाम्यादित्यर्थः । पूर्वाक्षेपरूपफलमाह ॥ न बिम्बेति ॥ अन्तर्दृष्टयो बहिर्दृष्टय इत्यादिना पूर्वत्र व्यवस्थितदृष्ट्युक्त्या या तत्साधनबिम्बोपासनानियतिरपेक्षिता सा न सिध्यतीत्यर्थः । सोपस्कराणि वाक्यानि भवन्तीति न्यायेन भाष्यार्थमाह ॥ न भगवदिति ॥ तर्हि मुक्त्यभावप्रसङ्ग इत्यतः सौत्रापिपदसूचितमाह ॥ किं नाम स्वबिम्बदर्शनादेवेति ॥ बिम्बशब्दोऽत्र स्वस्वयोग्यात्मपरः । मुक्तिर्योग्यात्मदर्शनादित्युक्तेः । न तु हृदिस्था या हरेर्मूर्तिर्जीवो यत्प्रतिबिम्बकः । यद्वशे वर्तते जीव इत्येकादशस्कन्धसप्तविंशाध्यायतात्पर्योक्तहृदिस्थरूपमात्रपरः । तेन न दृष्ट्यैवेति प्रागुक्तस्मृतिविरोधः । केचित्तु बिम्बशब्दो हृदिस्थपर एव । अवतारादि-दर्शिनामपि हृदिस्थदर्शनमावश्यकम् । येषां बहिरुपासेन मोक्षस् तेषां हृद्युपासनं किञ्चित्कर्तव्यमेवेति तृतीयाध्यायबृहद्भाष्योक्तेः । अतो न दृष्ट्यैवेत्युक्तिविरोध इत्याहुः । एवेत्यस्यायोगव्यवच्छेदकत्वा-दिति । यथेत्यादि व्याचष्टे ॥ यथेति ॥ कुत इत्यतो भाष्ये प्रमाणानुक्तेर्न्यायविवरणोक्तश्रुतिमाह ॥ तथा चेति ॥ न हीत्यादिभाष्यमसङ्गतत्वनिरासाय व्यावर्त्योक्तिपूर्वं व्यनक्ति ॥ यदीति ॥ शङ्कानिवर्तकतया भाष्यं सपरिकरं व्याचष्टे ॥ न भगवदिति ॥ विकल्पादिति ॥ यथा भगव-द्रूपदृष्टीनां मध्ये योग्यात्मदृष्टिरेव मुक्तिहेतुर् न तु रूपान्तरदृष्टिरेवं बिम्बदर्शनेऽपि किंचिद्दर्शनं मुक्तिहेतुः किञ्चिन्नेति विकल्पः स्यादित्यर्थः । न केवलमुपासनायामित्यपेरर्थः ॥ अत इति ॥ सामान्यदृष्टिमात्रेण मुक्त्यभावात्स्वबिम्बदर्शन एवैनं मोचयतीति श्रुतिबलाच्चेत्यर्थः । हेतुत्वादित्य-नन्तरं प्रागुक्तबहिरन्तरादिदृष्टिव्यवस्था युक्तेति पूरणीयम् ।
अभिनवचन्द्रिका
बिम्बविषयस्येति ॥ स्वयोग्यरूपविषयस्येत्यर्थः । एतेन पूर्वाधिकरणे अवतारादिदर्शनेनापि मोक्षस्योक्तत्वात् हृदयान्तर्गतबिम्बशब्दवाच्यभगवद्रूपज्ञानेनैव मोक्ष इति समर्थनमयुक्तमिति परास्तम् ॥ अन्यथेति ॥ समर्थनाभावे आचार्योपदेशानुसारेण उपासनीयमित्येतन्न सिध्यतीत्यर्थः ॥ किं बिम्बरूपविषयमिति ॥ स्वयोग्यरूपविषयमित्यर्थः । यत्किंचिद्रूपस्य मोक्षदानसामर्थ्याभावान्न तज्ज्ञानं मोक्षसाधनमिति भ्रमनिरासाय श्रुतिमाह– तथा चेति ॥ दर्शनेऽपीति ॥ मोक्षहेतुतया ज्ञातेऽपि दर्शने ‘सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात्’ इति वचनात् सामान्यदर्शनमनायासेन चेदस्तु न चेन्मास्तु इति मनसि विकल्पाद् अनादरोदयात्, बिम्बदर्शनेऽपि विरोधिवचनान्तरशङ्कया स स्याद् अनादरः स्यादित्यतो मोक्षसाधनत्व एव प्रमाणान्तरमाहाऽऽचार्यो भाष्यकार इत्यर्थः ।
पूर्वपक्षस्तु– यत्किञ्चिद्रूपदर्शनमेव मोक्षसाधनम् । भगवतः सर्वरूपेष्वपि साम्यात् । अतो यत्किञ्चिद्रूपदर्शनस्य मोक्षसाधनत्वान् न बिम्बोपासनानियतिरपेक्षिता सिद्ध्यतीति ।
सिद्धान्तस्तु– न भगवद्रूपाणां साम्येन सामान्यतो दर्शनेन सर्वेषां मुक्तिः । किं नाम स्वबिम्बदर्शनादेव । ‘दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केनचित्’ इति वचनात् स्वयोग्यज्ञानस्यैव मोक्षहेतुत्वात् । मृत्युत्वसाम्येऽपि लिङ्गभङ्गस्यैवानन्दाविर्भावहेतुत्वात् । न च दर्शनान्तरवैयर्थ्यम् । ‘सामान्यदर्शनाल्लोका’ इति वचनबलेन तेषां महरादिलोकप्राप्तिहेतुत्वात् । न च लोकप्राप्तिरेव मोक्षः । महरादिलोकं गतानां प्रलयानन्तरं मोक्षश्रवणात् । अतो बिम्बदर्शनस्यैव मोक्षसाधनत्वात् तदेवोपास्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
बिम्बविषयस्य मोक्षसाधनत्वेति ॥ बिम्बविषयज्ञानस्य सर्वेषां मोक्षसाधनत्वसमर्थनादित्यर्थः ॥ अन्यथेति ॥ अन्तर्दृष्टयः दर्शनेनान्तरेणान्य इत्युक्तरीत्या बिम्बदर्शनस्य केषाञ्चिदेव मोक्ष-साधनत्वं न सर्वेषामित्यङ्गीकारे ‘दहर उत्तरेभ्यस् तदभावो नाडीषु’ ‘अदृष्टानियमात्,’ ‘स्थान-विशेषात्,’ ‘आभास एव चेत्यादिसूत्रोपात्तासु रूपं रूपं प्रतिरूपो बभूव तदस्य प्रियमभिचक्षणाय । यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदुपासितव्य- मित्यादिश्रुतिस्मृतिदूषितं न बिम्बोपासनमावश्यकमिति सिध्यतीत्यर्थः । अनन्तरसङ्गतिस्तु अन्तर्दृष्टय इत्यधिकारिविशेषनियतस्यापि बिम्बापरोक्षस्य सर्वेषामावश्यकत्वेऽवतारादिदृष्टेरपि सर्वेषामावश्यकत्वं स्यात् । ब्रह्मविषयत्वसाम्यादित्याक्षेपोत्थानादिति ज्ञेयम् ॥ किमिति ॥ भगवद्दर्शनं यत्किंचिद्रूपविषयमपि सर्वेषां मोक्षसाधनमुत बिम्बविषयमेवेति चिन्ता । तदर्थं भगवद्रूपाणां सर्वेषां मोक्षसाधनमिति पूर्वपक्ष इत्यर्थः । सामान्यादिति सूत्रसूचितं गुणसाम्य-मित्युक्तन्यायं दर्शयति भगवत इति ॥ यत्किञ्चिद्रूपस्य हृदिस्थबिम्बरूपस्य कस्यचिदवतारादे-र्बहिष्ठस्य मोक्षदातृत्वशक्तिरित्यत्र सर्वेषामिति पूरणीयम् ॥ उक्तेति ॥ न स्थानत इत्युक्त-विरोधादित्यर्थः ।
सूत्रे विद्यैव तु निर्धारणादित्यादौ प्रकृता मुक्तिरन्वेति ॥ सामान्यादपीत्यावर्तते ॥ साम्येऽपीत्यर्थः । आद्यस्यावतारदृष्टय इति प्रकृतभगवद्रूपाणामित्यनेनान्वयः । द्वितीयस्योपलब्धे-र्यत्किञ्चिद्रूपोपलब्धेर् ब्रह्मविषयत्वमादाय बिम्बदर्शनसाम्येऽपीत्यर्थः । यद्वा सामान्यादप्युपलब्धे-र्हेतुगर्भं विशेषणम् ॥ अत एव पञ्चमी ॥ लिङ्गविपरिणामस्तु भगवद्रूपाणामित्यनेनान्वयं दर्शयितुम् । अत्र सौत्रमपिपदमुपलब्धेरित्यन्वेति । तच्च मात्रार्थकम् । अत एव भाष्ये न च सामान्यदर्शनमात्रेणेत्युक्तम् । स्वस्वमात्रगोचरबिम्बरूपविषयविज्ञानं विना सर्वसाधारणावतारादि-विषयोपलब्धिमात्रेण पर्यवस्यति । मृत्युवदित्यत्र सामान्यमृत्युवदिति बुद्ध्या विवेकेन योज्यम् ॥ सप्तम्यर्थे वतिः ॥ सति सप्तमी चेयम् । तथा च साधारणमृत्यौ सत्यां तदनन्तरं यथेति लभ्यत इति भावेन व्याचष्टे । न भगवद्रूपाणामित्यादिना ॥
तथा चायं सूत्रार्थः । भगवद्रूपाणां शक्तिसाम्येऽपि अत एव यत्किञ्चिद्रूपोपलब्धेर् ब्रह्म-विषयत्वमादाय बिम्बदर्शनसाम्येऽपि स्वस्वमात्रगोचरं स्वबिम्बविषयविज्ञानं विना सर्वसाधारणा-वताराद्युपलब्धिमात्रेण न मुक्तिः, किन्तु मुक्त्यर्थमात्मयोग्यं तु विज्ञानं तदुदाहृतम् । समोऽपि भगवान् स्वबिम्बदर्शन एवैनं मोचयतीत्यादिश्रुतेः । उप स्वसमीपे वर्तमानस्य बिम्बस्योप-लब्धेर्दर्शनादेव तत्र दृष्टान्तो मृत्युवदिति । यथा मृतित्वसाम्येऽपि न साधारणमृतौ सत्यां तदनन्तरं न मुक्तिः । किन्तु प्रारब्धकर्मावसाने चरममृत्यनन्तरमेव मुक्तिरेवं प्रकृतेऽपीति । यदि न सामान्यदर्शनमात्रेणेति । सर्वेषामप्यधिकारिणां मुक्त्यर्थं स्वस्वयोग्यरूपसाक्षात्कारेण मुक्त्यन्तरङ्ग-बिम्बरूपसाक्षात्कारेण च मोक्षो न तदितररूपसाक्षात्कारेण तर्हि तेषामेव श्रुतं सामान्यदर्शनं विफलं स्यादित्यर्थः । न हि लोकापत्तिरित्यत्र सामान्यादप्यनुपलब्धेर् लोकापत्तिर्भवति । न हि लोकापत्तिर्मुक्तिः । न हि लोकापत्तिर्मुक्तिरिति योजनामभिप्रेत्य व्याचष्टे ॥ तस्य महरादीति ॥ लोकप्राप्तिमात्रं मुक्तिर्नेति प्रसिद्धमिति हिशब्दः । सामान्यदर्शनेन लोकप्राप्तिरित्यत्र प्रमाण-सूचकत्वेनापि हिशब्दं व्याकुर्वन्नवतारयति ॥ सामान्येति ॥ दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा इत्युक्तरीत्या येषां प्रादुर्भावादिदर्शनेन मोक्षस् तेषां तत्सामान्यदर्शनमेव न भवतीति ज्ञेयम् ॥ दर्शनेऽपीति ॥ दर्शनेति सामान्यदर्शनेन न मुक्तिः । बिम्बदर्शनेन मुक्तिरिति भगव-द्दर्शनेऽपि विकल्प इत्यर्थः । यद्वा केषाञ्चिदवतारादिदर्शनेन मुक्तिः । केषाञ्चिदवतारादिदर्शनेन मुक्तिर्नेति विकल्पदर्शनात् । बिम्बदर्शनेऽपि पुरुषभेदेन विकल्पस्स्यादित्यर्थः ॥ क्वचिन्मुक्तिश्चेति ॥ अधिकारिविशेषाणामवतारादिदर्शनं सामान्यदर्शनमेव न भवतीति नेष्टापत्तिः । न सर्वेषां बिम्बदर्शनस्यावश्यकत्वेऽन्तर्दृष्टयो बहिर्दृष्टयः, दृष्ट्टैव ह्यवताराणामित्यादिविरोध इति चेन्न । प्राक् तुर्याभिप्रायेण तत्प्रवृत्तेः । ईषदन्तरुपास्त्या तदपरोक्षस्य सार्वत्रिकत्वेऽप्यविरोधात् । अत्र यद्वक्तव्यं तत्सर्वं प्रमेयमुक्तवल्यामनुसन्धेयम् । विस्तरभयादुपरम्यते । अत्र कृतप्राप्तिरिति सिद्धान्तन्यायः हिशब्देन समोऽपि भगवान् स्वबिम्बदर्शन एवैनं मोचयति यथा समेष्वपि कर्मसु स्वकृतमेवैनं भोजयतीति सूचनादुक्तो बोध्यः ।
तत्त्वसुबोधिनी
पूर्वं तदुक्तमित्यनेन गृहीतेन प्रमाणेन केषाञ्चिदवतारदर्शनेन मुक्तिरित्युक्ते तर्हि सर्वेषामपि तेनैव मुक्त्यापत्तेः केषाञ्चिद्बिम्बदर्शननियमेनेत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । ननु बिम्बातिरिक्त-रूपस्य मोक्षदातृशक्त्यभावात्तच्छक्तिमद्बिम्बमेवोपास्यमित्याह ॥ न हीति ॥ उक्तविरोधः स्यादिति । न स्थानतोऽपीत्युक्तविरोधः स्यादित्यर्थः । अत्र सौत्रमपिपदं मात्रार्थकम् उपलब्धि-रित्यनेन सम्बध्यत इत्यभिप्रेत्य प्रवृत्तं न सामान्यदर्शनमात्रेण मुक्तिरिति भाष्यं व्याचष्टे ॥ न भगवद्रूपाणामिति ॥ बिम्बदर्शनादेवेति ॥ नायं नियमः सर्वेषां किन्तु ये बिम्बदर्शनयोग्या ऋष्यादयस् तेषामेव सर्वेषां बिम्बदर्शनायोग्यत्वात् । यथोक्तं नोपासात्रैविध्यादाश्रितत्वादिह तद्योगा-दिति । ऋषयो ऽन्तः प्रकाशा इति श्रुतेश्च । अन्यथा दृष्टस्यैव खरनराणामिति प्रागुक्तविरोधात् । येषां बहिरूपासनेन मोक्षस् तेषामपि हृद्युपासनं किंचित्कार्यमेवेत्यादि बृहदारण्यकभाष्यं तदवतारादि- दृष्टिविशेषार्थमेवान्तरूपास्त्यावश्यकत्वपरम् । अत एव दृष्ट्वैवेत्यत्रांजसेत्युक्तम् । यथोक्तं काठक-भाष्ये । ‘प्रादुर्भावा इमे विष्णुमिन्द्रियेणैव पश्यति । प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति । तदैवमुच्यते योगी न दृष्टैरिन्द्रियैः क्वचिदिति । सामान्यदर्शनस्य वैकल्पपरिहाराय सूत्रे ‘न हि लोकापत्तिरित्युक्तमभिप्रेत्य प्रवृत्तं न हीति भाष्यं व्याचष्टे ॥ न यदीत्यादिना ॥ नन्वस्तु लोकप्राप्तिरेवेत्युक्तिरित्यत आह ॥ न हीति ॥ कुत इत्यत आह ॥ दर्शनेनेतीति ॥ ऋषीणां बिम्बदर्शनमेव योग्यमिति भावः ।
वाक्यार्थविवरणं
न हीति ॥ तथात्व एव हि बिम्बरूपविषयं ज्ञानं मोक्षसाधनम्, न यत्किञ्चिद्रूपविषयमिति वक्तुं युज्यत इति भावः ॥ उक्तविरोधस्स्यादिति ॥ ‘न भेदादिति चेन्न प्रत्येकम् इति भगव-द्रूपेष्वविशेषस्योक्तत्वादिति भावः । साम्येन समत्वेन तरतमभावशून्यत्वेनेत्यर्थः । सामान्यतो दर्शनेन बिम्बव्यतिरिक्तयत्किञ्चिद्रूपदर्शनेनेत्यर्थः । मृत्युविशेषादनन्तरमिति प्रारब्धकर्मावसाने चरमदेहपातानन्तरमित्यर्थः ॥ न च तदिति ॥ सामान्यभगवद्रूपदर्शनस्य वैफल्यायोगात् किञ्चित्फलं वक्तव्यमिति भावः । सम्भवति साधनत्वेनेति शेषः ॥ एवं सति ॥ मुक्तिरूप-फलाभावकथनेऽपि ॥ लोकेति ॥ महरादिलोकेत्यर्थः । दर्शने विकल्पाद्बिम्बदर्शनेऽपि स स्यादिति यथा भगवद्रूपज्ञानमध्ये बिम्बज्ञानमेव मोक्षसाधनं न सामान्यज्ञानमिति विकल्प उक्तः, एवं बिम्ब-दर्शने बिम्बज्ञानमध्येऽपि किञ्चिद्विम्बज्ञानमेव मोक्षसाधनं किञ्चिन्नेत्यपि विकल्पस्स्यादित्यर्थः । भाष्ये ‘स्वात्मयोग्यया दृष्ट्या’ स्वबिम्बज्ञानेन मुच्यते । नात्र सन्देह इत्युक्त्या न बिम्बदर्शने विकल्प इत्युक्तं भवति । भाष्ये ‘नान्येन केनचित्’ सामान्यदर्शनेनेत्यर्थः ।
वाक्यार्थमञ्जरी
उक्तेति ॥ ‘न स्थानतो’ इत्युक्तसर्वरूपाविशेषेत्यर्थः ॥ ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॐ ॥ उपलब्धेः सर्वरूपविषयज्ञानस्य सामान्यात्समानत्वाद् यत्किञ्चिज्ज्ञानरूपेण मुक्तिरिति न, किं तु रूपविशेषदर्शनेनैव कथं मृत्युवत् । यथा मृतित्वसाम्येऽपि मृतिविशेषादेव मोक्षस्तथा रूपान्तरज्ञानस्य वैफल्यायोगात्तेन यत्फलं भवति सैव मुक्तिरित्यत उक्तम् ॥ न हीति ॥ तत्फलं महरादिलोकानामापत्तिः प्राप्तिर् न हि सा मुक्तिरित्यर्थः ॥ दर्शने विकल्पादिति ॥ किञ्चिन्मूर्तिदर्शनं मुक्तिहेतुः, किञ्चिन्नेति यथा विकल्पस् तथा बिम्बदर्शनेऽपि कस्यचिन्मोक्षः, कस्यचिन्नेति विकल्पः स्यादित्यर्थः । अत्रोक्तो बिम्बदर्शननियमो न सर्वेषां किन्तु ये बिम्बदर्शन-योग्या ऋष्यादयस्तेषामेव सर्वेषां बिम्बदर्शनायोग्यत्वात् । यथोक्तमुपासात्रैविध्यादाश्रितत्वादिह तद्योगादिति, ‘ऋषयोऽन्तः प्रकाशा’ इति श्रुतेश्च । अन्यथा दृष्ट्यैव ह्यवताराणामिति प्रागुक्त-विरोधात् । यत्तु येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित्कार्यमेवेति बृहदारण्यकभाष्यं तदप्यवतारादि दृष्टिविशेषार्थमेव न तूपास्त्यावश्यकत्वपरम् अत एव दृष्ट्यैव ह्यवताराणामित्य-त्रांजसेत्युक्तं तथोक्तं काठकभाष्ये । ‘प्रादुर्भावानृते विष्णुमिन्द्रियैर्नैव पश्यति । प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति’ तदैव मुच्यते योगीति ।
॥ इति न सामान्याधिकरणम् ॥ ३३ ॥