३२ दर्शनभेदाधिकरणम्

ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम्

३२. दर्शनभेदाधिकरणम्

सूत्रभाष्यम्

॥ ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॥ ५२ ॥

उपासनाभेदव(त्त)द्दर्शनभेदः । तच्चोक्तं कमठश्रुतौ —

‘अन्तर्दृष्टयो बहिर्दृष्टयोऽवतारदृष्टयः सर्वदृष्टय इति । देवा वाव सर्वदृष्टयस्तेषु चोत्तरोत्तरमाब्रह्मणोऽन्येषु (तु) यथोयोगं यथा ह्याचार्या आचक्षत’ इति । अध्यात्मे च—

‘दृष्ट्यैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।

दर्शनेनाऽन्तरेणान्ये देवास्सर्वत्र दर्शनात् ॥

तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गत’ इति ॥

तत्त्वप्रदीपिका

एवं भक्त्यादिमतामुपासकानां किमेकरूपं ब्रह्मदर्शनमुत तारतम्येन स्थितमिति संशये मनोवृत्तीनां भक्त्यादीनां नानारूपत्वेऽपि वस्तुन एकरूपत्वात्तद्दर्शनेनाप्येकरूपेण भवितव्यम् । अन्यथा भ्रमत्वप्रसङ्गादित्यत आह– प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॥ उपासनाभेदवद्भक्तिभेदवच्च दर्शनभेदः । युक्तेः श्रुतेश्च । न हि भक्तितारतम्यादुपास्तितारतम्याच्च जायमानं दर्शनं मुक्तौ सुखतारतम्यसाधनमेकरूपं भवितुमर्हति । एकरूपत्वेऽपि वस्तुनः पुरुषादिविशेषमपेक्ष्य दर्शनविशेषसम्भवादन्तरुपासका अन्तर्दृष्टय इत्यादि ॥

‘अन्यया विद्यया मुक्तिः सुराणामन्यया नृणाम् ।

तत्रापि योग्यताभेदात्प्रतिभेदा अवान्तराः ॥

यया यस्य विमुक्तिः स्यात्तद्दाता मुख्यतो गुरुः ।

एकदेशगुरुत्वं स्यादन्यविद्याप्रदस्य तु’ इति मानससंहितानाम् ॥

तत्त्वप्रकाशिका

अत्र यत्साधनं भगवदुपासनमुक्तं तस्मिन् ज्ञाने विशेषसमर्थनादस्ति शास्त्रादिसङ्गतिः । अविशेषे मोक्षविशेषाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतं भगवद्दर्शनमेव विषयः । किं सर्वेषामेकप्रकार-मुतानेकप्रकारमिति सन्देहः । धर्मद्वैविध्यदर्शनं सन्देहबीजम् । एकप्रकारमेवेति पूर्वः पक्षः । ‘दृष्ट्वैव तं मुच्यते नापरेण’ इति सर्वेषामविशेषितज्ञानेन मोक्षश्रवणात् । तथा ‘भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ इति सर्वेषां भक्त्यादिना पूर्णज्ञानोत्पत्तेः संपूर्णज्ञानेनैव मोक्षस्मरणात् । सामान्यवचनत्वादेव सर्वविषयत्वं ज्ञायते । अतः सर्वेषां दर्शनसाम्यादुक्तं मुक्ततारतम्यमयुक्तमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ प्रज्ञेति ॥ अनेकप्रकारमेवाधिकारिणां भगवद्दर्शनम् । तत्साधनोपासनस्यानेकप्रकारत्वात्फलस्य च साधनानु-सारित्वादिति भावः । प्रज्ञान्तरं प्रज्ञाविशेषः । अविच्छिन्नपरोक्षज्ञानसंततिर्हि ध्यानम् । नन्वनेकविधसाधनवतामपि कदाचित्कर्षकाणामिव साध्यसाम्यं किं न स्यादित्यत आह ॥ तच्चेति ॥ सर्वदृष्टयो व्याप्तिदर्शिनः । अन्येष्ववतारादिदर्शिषु । योग्यतैव कथं ज्ञायते । यथा ह्याचार्या आचक्षते । यद्यस्ति दर्शनभेदस्तर्हि न सर्वेषां मोक्षः स्यात्संपूर्णज्ञानेनैव मोक्षस्य श्रुत्यादिसिद्धत्वादित्यत आह ॥ अध्यात्मे चेति ॥ एवं विशेषबलात् श्रुतिर्यथायोग्यं दृष्ट्वेत्युपपन्ना । ‘यावान्यश्चास्मीति’ हिरण्यगर्भविषयतयोपपन्नम् । सामान्यतः सर्वज्ञानमिति सर्वविषयं वा । अतो ज्ञाने विशेषसद्भावाद्युक्तं मोक्षतारतम्यमिति सिद्धम् ।

गुर्वर्थदीपिका

परोक्षज्ञानसन्ततिरित्यत्र लौकिकापरोक्षप्रत्यासत्त्यजन्यत्वात्परोक्षेत्युक्तम् । उपपन्नेत्यस्य व्याख्येयेत्यर्थः ।

भावबोधः

अधिकरणस्य पादान्तर्भावज्ञापनायाह– यत्साधनमिति ॥ अत्र पूर्वं ज्ञानस्य भक्तिसाध्यत्वेऽभिहिते ‘वृद्धिह्रासभाक्त्वं’ इति भक्तेर् वैचित्र्यस्योक्तेः कथं विचित्रभक्तिसाध्यत्व-मविचित्रज्ञानस्येत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । ‘वृद्धिह्रासभाक्त्वं’ इत्यत्र फलतारतम्येन भक्त्यादिसकलतारतम्यसाधनम् । अत्र तूपासनारूपसाधनवैचित्र्येणापरोक्षज्ञानलक्षणसाध्य-वैचित्र्यसाधनमिति महान् भेदः । किं सर्वेषामित्यादि । अत्र भगवद्दर्शनं किं सर्वेषामेकप्रकार-मुतानेकप्रकारमिति चिन्ता । तदर्थं ‘दृष्ट्वैव तं मुच्यते’ इति ‘यावान्’ इत्यादिवाक्यं सर्वेषाम-विशेषितज्ञानस्य मोक्षहेतुत्वप्रतिपादकं भवत्युत न भवतीति । तदर्थं ज्ञानवैचित्र्ये प्रमाणं नास्त्युतास्तीति ।

‘दृष्ट्वैव तं मुच्यते नापरेण’ ‘यावान् यश्चास्मि तत्वतः’ ‘ततो मां तत्त्वतो ज्ञात्वा’ इत्यादि-सामान्याभिलापमात्रेण दर्शनस्याविशेष इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– दृष्ट्वै-वेत्यादिना ॥ सौत्रः ‘च’शब्दः पृथक्त्वस्यानुकर्षणार्थ इत्यभिप्रेत्य प्रवृत्तं दर्शनभेद इति भाष्यं व्याचष्टे– अनेकप्रकारमेवेति ॥

ननु अत्र ‘प्रज्ञान्तरं’ इत्यस्यान्या प्रज्ञा प्रज्ञान्तरमित्यर्थत्वे उपासनारूपज्ञानविशेषस्यालाभाज् ज्ञानमात्रस्यापरोक्षज्ञानहेतुत्वाभावाच्च तद्वैचित्र्ये कारणवैचित्र्यरूपहेतुर्न प्रदर्शितः स्यात् । प्रज्ञाशब्दस्यैवोपासनापरत्वे प्रज्ञापृथक्त्ववदित्येतावता पूर्तेऽन्तरशब्दो व्यर्थः स्यादित्यतस्तद्व्याचष्टे– प्रज्ञान्तरं प्रज्ञाविशेष इति ॥ अनेनोपासनाभेदवदिति भाष्येण प्रज्ञान्तरमित्यस्य प्रज्ञाविशेष-स्योपासनस्य ‘पृथक्त्वाद्भेदवत्’ इति सौत्रपदं व्याख्यातमित्युक्तं भवति ।

ननु भाष्ये उपासनं नाम ध्यानं विवक्षितम् । तस्यैवापरोक्षज्ञानसाधनत्वात् । ध्यानं च न ज्ञानं किं तु मानसीक्रिया । यथोक्तं क्रिया मानसवदिति । तथा च प्रज्ञान्तरपदस्य प्रज्ञाविशेषपरत्वेऽपि कथमुपासनापदेन तद्व्याख्यानम् । मानसक्रियारूपस्य ध्यानस्य कथं प्रज्ञाविशेषत्वमित्यत आह– अविच्छिन्नेति ॥

तथा च, न ध्यानं परिस्पन्दात्मकमानसी क्रिया । तथात्वेऽतीन्द्रियाश्रितक्रियाया अतीन्द्रिय-त्वेनापरोक्षावभासविरोधात् । क्रियाया रूपरहितत्वेन ध्याने रूपावभासविरोधाच्चेति भावः । ननु न ध्यानस्य परोक्षज्ञानरूपत्वं वक्तुं युक्तम् । लिङ्गशब्दाजन्यत्वात् ।

‘नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः’

इति स्मृतौ श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसावलोकनं ध्यानमित्यङ्गी-कारादिति । सुधायां च ध्यानस्य मानसत्वोक्तेश्चेति चेत्, सत्यम् । अत्र ध्यानस्य परोक्षज्ञान-जन्यसंस्कारमयपदार्थविषयकत्वेन परोक्षत्वव्यवहारात् । अत एव सुधायां श्रवणदर्शनादिज-नितमानसवासनामयस्येति श्रवणरूपज्ञानस्यापि वासनाकारणत्वमुक्तम् । अत एव चापरोक्ष-ज्ञानजन्यसंस्कारमयमानोरथिकपदार्थविषयकज्ञानादौ न परोक्षत्वव्यवहारः । न चैवं क्रियामानस-वदिति सूत्रविरोधस् तस्य धात्वर्थक्रियावाचित्वात् । यद्वा, ध्यानस्य वासनामयपदार्थविषयकत्वेनाऽ-परोक्षरूपत्वेऽपि तस्य परमात्मविषयकत्वाभावे नैष्फल्यप्रसङ्गात्तद्विषयकत्वमावश्यकम् । तथा च, ध्यानस्य परमात्मविषयकत्वे अपरोक्षरूपत्वायोगेन ‘ज्ञातः परमाणुः’ इत्यादिवद् उपनीत-भानत्वाभ्युपगमे उपनायकस्य परोक्षत्वव्यवहारः ।

अत्र तदुक्तमित्यनेन भाष्योदाहृतश्रुतिवत्

‘यथायोग्यमेवैष आत्मानं’

इत्यादि न्यायविवरणोदाहृतश्रुतिरपि गृहीतेति ज्ञातव्यम् ॥ विशेषबलादिति ॥ विशेष-वाक्यबलादित्यर्थः । ‘यावान्यश्चास्मीति’ ब्रह्मण एव ज्ञानोपपत्तेः । ‘यावान्’ इत्यत्रापि सामान्यविशेषज्ञानोपपत्तेश्चेति न्यायविवरणं मनसि निधायाह– यावानिति ॥

भावदीपः

ज्ञानपादान्तर्भावमाशङ्क्योपासनासाध्यचिन्तारूपत्वेन निवेश इति भावेनाह ॥ यत्साधनमिति ॥ उक्तमिति ॥ तन्निर्धारणार्थनियमस्तद्दृष्टेरित्यादावुक्तमित्यर्थः । न चैवं तदानन्तर्यमेवास्य शङ्क्यम् । साधनस्य प्रदानानुबन्धादितिकर्तव्यतानिरूपितेत्यपि तात्पर्यात् । तथा च साधने विशेषचिन्तानन्तरम् अत्र तत्साध्ये ज्ञाने विशेषचिन्तनात्पूर्वानन्तर्यमस्येति भावः ॥ मोक्षविशेषेति ॥ तथा च यावदधिकारमित्यत्रोक्तमोक्षविशेषणाधिकारनियमो न युक्त इति भावः ॥ प्रकृतमिति ॥ दर्शनाच्चेत्यादिनेति भावः ॥ धर्मद्वैविध्येति ॥ लोके कश्चिन्मनुष्यत्वादिधर्म एकप्रकारो रूपादिधर्मो भिन्नप्रकारो दृष्ट इति भावः । सिद्धान्तभाष्ये भेद इत्युक्तेस्तद्व्यावर्त्यं ‘दृष्ट्वैव तं मुच्यते नापरेण’ । ‘यावान्यश्चास्मि तत्वतः’ । ‘ततो मां तत्वतो ज्ञात्वा’ इत्यादिसामान्यालापमात्रेण दर्शनस्याविशेष इत्यन्यत्राविशेषपदोक्तमाह ॥ एकप्रकारमेवेति ॥ कुत इत्यतो दृष्ट्वैवेति यावानिति च श्रुतिस्मृतिरूपं वाक्यद्वयमित्युपेत्य तत्रोक्तमेव हेतुमाह ॥ दृष्ट्वैवेति ॥ स्वस्वयोग्यतानुसारेण दृष्ट्वैवेति श्रुतेः सावकाशत्वं मन्वान आह ॥ तथेति ॥ स्मरणाद् गीतायामन्तिमेऽध्याये । अधिकारिविशेषपराऽस्तु स्मृतिरित्यतो दृष्ट्वैवेति भाष्योक्तस्मृतिव्यावर्त्यमाह ॥ सामान्येति ॥ अत इति ॥ श्रुतिस्मृतिबलादित्यर्थः ॥ मुक्तेति ॥ साधनस्यैकरूप्ये साध्यतारतम्यस्याऽयोगादिति भावः । एकस्यैव दृष्टिभेद इति भ्रमनिरासाय भाष्यं व्याचष्टे ॥ अनेकेति ॥ प्रकृतत्वाद्भगव-दित्युक्तिः । निर्बीजत्वशङ्कानिरासाय दृष्टान्तोक्तिलब्धं हेतुमाह ॥ तत्साधनोपासनस्येति ॥ ध्यानस्येत्यर्थः । अप्रयोजकत्वशङ्कानिरासाय वतिप्रत्ययलब्धानुकूलतर्कमाह ॥ फलस्य चेति ॥ अर्थसामान्यादित्युक्तेरिति भावः । उपासना कथं प्रज्ञान्तरपदलब्धेत्यत आह ॥ प्रज्ञेति ॥ वासनामयवस्तुविषयत्वात्परोक्षेत्युक्तम् ॥ इत्यत आहेति ॥ लोके तथात्वेऽपि नेह तथा श्रुतिप्रामाण्यादिति भावः ॥ श्रुत्यादीति ॥ स्मृतिरादिपदार्थः ॥ इत्यत आहेति ॥ अधिकारिभेदेन ज्ञानतारतम्यस्य अन्यया विद्यया मुक्तिः सुराणामन्यया नृणाम् । तत्रापि योग्यताभेदात्प्रतिभेदा अवान्तरा इत्यादिषष्ठबृहद्भाष्योक्तस्मृतिसिद्धत्वान्न सर्वेषां सम्पूर्णज्ञानेन मोक्ष इति भावः । तर्हि दृष्ट्वैवेति श्रुतेर्भक्त्या मामभिजानाति यावानिति स्मृतेश्च का गतिरित्यत आह ॥ एवमिति ॥ दृष्ट्वैव ह्यवताराणामित्याद्युक्तविशेषबलादित्यर्थः ॥ यावान्यश्चास्मीति ॥ ब्रह्मण एव ज्ञानो-पपत्तेर्यावानित्यत्राऽपि सामान्यविशेषज्ञानोपपत्तेश्चेत्यन्यत्रोक्तमाह ॥ हिरण्यगर्भेति ॥ सर्वविषयं सर्वाधिकारिविषयमित्यर्थः ॥ अत इति ॥ तत्साधनोपासनस्याऽनेकप्रकारत्वाद्धेतोरित्यर्थः ।

अभिनवचन्द्रिका

भक्त्यादिनेति ॥ अनेन अहं तत्वतो यावानस्मि, यश्चास्मि यद्गुणकश्चास्मि, तं मां भक्त्या अभिजानाति अपरोक्षतो जानाति । भक्तिर्मज्ज्ञानसाधनं, ततस् तस्माद् भक्त्या मां तत्वतो ज्ञात्वा ज्ञानं सम्पाद्य, अधिकारी तदनन्तरं ज्ञानानन्तरं साधनानन्तरम्, अनुष्ठायेति यावत्, मां विशते मत्सायुज्यं प्राप्नोति’ इति गीतावचनस्य योजनोक्ता भवति । ननु ‘भक्त्या मामभिजानाति’ इति वाक्यं हिरण्यगर्भपरम् । अतो न सर्वेषां सम्पूर्णज्ञानं साधयतीत्यत आह– सामान्यवचनत्वादे-वेति ॥ ननु मानसक्रियारूपस्य ध्यानस्य प्रज्ञात्वोक्तिरयुक्तेत्यत आह– अविच्छिन्नेति ॥ यद्यपि मानसवासनामयवस्तुविषये अपरोक्षमपि तदन्तर्गतभगवदंशे परोक्षमपि भवतीति भावेन परोक्षज्ञान-सन्ततिरित्युक्तम् । अविच्छिन्नपरोक्षज्ञानस्य श्रवणमननरूपज्ञानस्य सन्ततिः कार्यं ध्यानमित्यर्थ इत्यप्याहुः ॥ एवं विशेषबलादिति ॥ एवंविधविशेषप्रतिपादकवाक्यबलात् । ‘दृष्ट्वैव तं मुच्यत’ इति श्रुतिर् यथायोग्यं दृष्ट्वैवेत्यर्थपरतयोपपन्नेत्यर्थः । ज्ञानतारतम्याङ्गीकारे ‘यावान्यश्चास्मि तत्वत’ इति वचनविरोध इत्यत आह– यावानिति ॥ अनेन ‘यावान् यश्चास्मि’ इति वचनस्य योऽहं वेदोक्तगुणवत्तया यावानस्मि, तावन्तं तत्वतो ज्ञात्वा, मां विशत’ इति योजनोक्ता भवति । अनेन हिरण्यगर्भस्यापि ईश्वरविषये असर्वज्ञत्वात्, हिरण्यगर्भविषयतयोपपन्नमित्ययुक्तमिति परास्तम् । हिरण्यगर्भस्य वेदोक्तयावद्गुणदर्शित्वात् ।

पूर्वपक्षस्तु– एकप्रकारमेव सर्वेषामपरोक्षज्ञानम् । भक्त्या मामभिजानाति’ इत्यनेन सर्वेषां पूर्णज्ञानस्य, सम्पूर्णज्ञानेन मोक्षस्य चाऽभिधानात् । अतः सर्वेषां दर्शनसाम्यादुक्तं- मुक्ततारतम्य-मयुक्तमिति ॥

सिद्धान्तस्तु– अनेकप्रकारमेवाधिकारिणां भगवद्दर्शनम् । तत्साधनस्योपासनस्यानेक-प्रकारत्वात् । फलस्य च साधनानुसारित्वात् । न चैवं सम्पूर्णदर्शनाभावाद् विरिञ्चेतरेषां मोक्षाभावः । यथायोग्यदृष्टेरेव मोक्षहेतुत्वेन स्वयोग्यदर्शनेन सर्वेषां मोक्षसम्भवात् । अतो ज्ञाने विशेषसद्भावाद् युक्तं मोक्षतारतम्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

न भक्तेर्ज्ञानसाधनत्वं युक्तम् । तथात्वे ज्ञानस्यैकप्रकारत्वेन भक्तेरपि तथात्वापत्त्या वृद्धिह्रासभाक्त्वमित्युक्तभक्तितारतम्यायोगप्रसङ्गादित्याक्षेपोत्थानादनन्तरसङ्गतिः । ननु वृद्धिह्रास-भाक्त्वमित्यत्र तस्य च भक्तिज्ञानादेरिति ज्ञानतारतम्यस्याप्युक्तमिति गतार्थमिदमधिकरणमिति चेन्न । तत्र फले तारतम्येन भक्त्यादिसकलसाधनतारतम्यसाधनत्वम् । अत्र तूपासनारूपसाधन-वैचित्र्येणापरोक्षज्ञानरूपसाध्यवैचित्र्यसाधनमिति भेदात् । मोक्षविशेषेति । यावदधिकारमवस्थिति-रित्यत्रोक्तमोक्षविशेषाभावप्रसङ्गादित्यर्थः । किमिति । ज्ञानं किं सर्वेषामेकप्रकारमुतानेकप्रकारमिति चिन्ता । ‘तदर्थं दृष्ट्वैव तं मुच्यते नापरेण’ ‘यावान् यश्चास्मीत्यादिवाक्यं सर्वेषामविशेषितज्ञानस्य मोक्षहेतुत्वप्रतिपादकं न भवत्युत भवतीति । अध्यात्मवचने ‘दृष्ट्वैव तं मुच्यते’ इत्याद्यालापस्य यथायोग्यं दृष्ट्वेति सावकाशत्वकथनात्सूचितमालाप इत्युक्तन्यायं दर्शयन् पूर्वपक्षयति । दृष्ट्वैवेति । ब्रह्मैवं दृष्ट्वाऽदोष एवं दृष्ट्वा इत्यादिविशेषनिर्देशं विहाय दृष्ट्वा मुच्यते इति सामान्येना-विशेषितज्ञानेन मोक्षलाभादित्यर्थः । यो भक्त्या मामभिजानाति परोक्षेण सस् ततः भक्त्यादि-साधनाद् अहं तत्वतः यावत्परिमाणादिविशिष्टोऽस्मि यश्च यद्रूपविशिष्टोऽस्मि तावन्तं मामपरोक्षं ज्ञात्वा तदनन्तरं मामविलम्बेन विशत इति स्मृत्यर्थः । नन्विदं गीतावाक्यमधिकारिविशेष-नियतमित्यत आह ॥ सामान्येनेति ॥ सौत्रश्चशब्दः पृथगित्यस्यानुकर्षणार्थ इत्यभिप्रेत्य प्रवृत्तं दर्शनभेद इति भाष्यं व्याचष्टे । अनेकप्रकारमेवेति । अवधारणार्थश्चशब्दः पृथगित्येनन सम्बद्ध्यत इति भावेनानेकप्रकारमेवेत्युक्तम् । प्रज्ञान्तरपृथक्त्ववदिति न दृष्टान्तमात्रे तात्पर्यम् । तथात्वे घटपृथक्त्ववदित्यपि वक्तुं शक्यत्वेन प्रज्ञान्तरपृथक्त्वग्रहणे विशिष्यकारणाभावादतो यथा प्रज्ञान्तरपृथक्त्वं तथैव तदनुसारेणैवेति प्रतिपादने तात्पर्यमिति भावेन व्याचष्टे ॥ तत्साधनेति ॥ अन्या प्रज्ञा प्रज्ञान्तरमित्यत्र यद्यन्तरशब्दो भेदवचनस्तर्हि प्रज्ञान्तर इत्येव स्यात् पृथक्त्ववदिति व्यर्थमित्यत आह । प्रज्ञान्तरं प्रज्ञाविशेष इति । प्रज्ञान्यमानसक्रियारूपस्य ध्यानस्य कथं प्रज्ञाविशेषत्वोक्तिरित्यत आह ॥ अविच्छिन्नेति ॥ हिशब्देन ध्यानस्य प्रज्ञान्यत्वे ध्येयरूपादि-विषयत्वानुपपत्तेरिति युक्तिं सूचयति । ननु न ध्यानपरोक्षज्ञानरूपत्वं युक्तम् । लिङ्गशब्दाजन्य-त्वात् । श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानमिति सुधायामुक्ते-श्चेति चेन्न । अत्र ध्यानस्य परोक्षज्ञानजन्यवासनामयपदार्थविषयकत्वेन परोक्षत्वव्यवहारात् । अत

एव सुधायां श्रवणदर्शनादिजनितमानसवासनामयस्येति श्रवणजन्यज्ञानस्यापि वासनोपादानत्वमुक्तम् ।

यद्वा ध्यानस्य वासनामयपदार्थांशेऽपरोक्षत्वेऽपि तदन्तर्गतभगवद्विषयकत्वे परोक्षत्वात् परोक्ष-ज्ञानसन्ततिरित्युक्तमित्यविरोधः । एतेन ज्ञातःपरमाणुरितिवत् परमात्मन उपनीतत्वेन भानस्याङ्गी-कार्यत्वात् तदंशे परोक्षत्वं नास्तीति निरस्तम् । ज्ञातः परमाणुरित्यादावपि परमाण्वंशे परोक्ष-त्वाभ्युपगमादुपनायकस्य परोक्षत्वेन वा परोक्षत्वव्यवहारः । यद्वा गुणध्यानं चात्र विवक्षितम् । तदंशे परोक्षत्वमिति ॥ कदाचिदिति ॥ कदाचित्कर्षकाणामिव साध्यसाम्येन दृष्टितारतम्यस्य कदाचिदनियतत्वं किं न स्यादित्यतो दृष्टितारतम्ये नियमस्य सुस्थिरत्वं श्रुत्याहेत्यर्थः । एवं सुस्थिरत्वमिति न्यायोऽपि सूत्रारूढो भवति । न केवलं दर्शनपृथक्त्वं साधनपृथक्त्वहेतुसिद्धं किन्तु तदुक्तं चेति चशब्दस्य तदुक्तमित्यत्राप्यन्वयमभिप्रेत्य भाष्ये तच्चोक्तमित्युक्तं ज्ञेयम् । अन्तर्बहि-रवतारदृष्टयः सर्वदृष्टय इति भ्रमं वारयति । व्याप्तिदर्शिन इति । ‘देवा व सर्वदृष्टयः’ इति व्यक्तिविशेषनिर्धारणोक्ता । अवतारादिदर्शिनः क इत्यस्योत्तरमन्येषु तु यथायोगमिति ॥ तद्व्याचष्टे ॥ अन्येष्विति ॥ अवतारदर्शिषु योग्यतानुसारेण व्यक्तिविशेषनिर्धारणमित्यर्थः । यद्वावतारादिदर्शिष्वपि यथायोगमुत्तरोत्तरमधिकारिणो ज्ञेया इत्यर्थः । तदुक्तमित्यस्यादृष्टि-पृथक्त्वेऽपि सर्वज्ञानिनामुक्तेरित्येतत् स्मृतौ चोक्तमित्यर्थं मत्वा प्रवृत्तमध्यात्म इत्येतदवतारयति ॥ यद्यस्तीति ॥ विशेषबलादिति ॥ विशेषवाक्यबलादित्यर्थः । तेषु चोत्तरोत्तरमाब्रह्मण इति । व्याप्तदर्शिकाष्ठात्वेन ब्रह्मण उक्त्या सूचितं यावान् यश्चास्मीति सावकाशत्वं दर्शयति ॥ यावानिति ॥ सामान्यतः सर्वज्ञानमिति । सामान्यतः सर्वज्ञानमत्र विवक्षितमितीदं वाक्यं सर्वविषयं चेत्यर्थः ।

सूत्रे क्रियामानसवदित्येतद् विशदयितुं प्रज्ञान्तरमित्युक्तम् । दर्शनस्य पृथक्त्वेऽपि पुनर्दृष्टिग्रहणमन्तर्दृष्टय इति श्रुत्यनुसरणायेति ज्ञेयम् ।

वाक्यार्थविवरणम्

प्रज्ञाविशेषः ॥ उपासनेत्यर्थः । सूत्रे दृष्टिर् दृष्टिपृथक्त्वमित्यर्थो द्रष्टव्यः । ध्यानरूपो-पासनाया मानसपरिस्पन्दक्रियारूपायाः कथं प्रज्ञान्तरपदेन ज्ञानरूपत्वमुच्यते इत्यतस्तदुपपादयति ॥ अविच्छिन्नेति ॥ ननु एवं वासनामयवस्तुनो मनसाऽवलोकनं ध्यानमिति मानसा परोक्षत्वोक्ति-विरोध इति चेदुच्यते । वासनामयवस्त्वंशेऽपरोक्षरूपं तदन्तस्स्थभगवद्रूपविषये च परोक्षरूपमिति नरसिंहाकारज्ञानाङ्गीकारादविरोध इति गुरुचरणाः ॥ अनेकविधेति ॥ भिन्नभिन्नोपासनारूपानेक-साधनेत्यर्थः ॥ साध्यसाम्यम् ॥ भगवद्दृष्टिरूपफलसाम्यम् । तत्र दृष्टान्तः ॥ कर्षकाणामिवेति ॥ तत्रानेकविधं साधनम् । लाङ्गलादिना भूम्याः कर्षणादिसाध्यं धान्यादि । भाष्ये ॥ अन्तः ॥ स्वरूपहृदयान्तः ॥ बहिः ॥ स्वरूपाद् बाह्यहृदये । पूर्णज्ञानेन सर्वेषामिति शेषः ॥ विशेषेति ॥ विशेषवचनेत्यर्थः । अन्ये ऋषयः । आन्तरेण दर्शनेन केवलस्वबिम्बदर्शनेन । पूर्वप्रमाणे बहिर्दृष्ट-योऽवतारदृष्टयः’ इत्यत्र मध्यमाधिकारिव्यतिरिक्ताधर्माधिकारिप्रभेदग्रहणम् । ‘बहिर्दृष्टय’ इति चतुर्गुणोपासकाः । अवतारदृष्टय इत्यात्मत्वोपासका इति ध्येयम् ।

वाक्यार्थमञ्जरी

अविशेषितेति ॥ दर्शने तारतम्यानुक्तेरिति भावः ॥ भक्त्येति ॥ अहं यावान् यश्चास्मि तावन्तं मां भक्त्या सम्यग्जानाति तदनन्तरं समृद्धेन ज्ञानेन मां प्रपद्यत इत्यर्थः । उक्तं यावदधि-कारमित्यत्र ॥ ॐ प्रज्ञान्तरपृथक्त्ववद् दृष्टिश्च तदुक्तं ॐ ॥ प्रज्ञान्तरस्य ध्यानस्य पृथक्त्ववन् नानात्ववद् दृष्टिर्ज्ञानं च पृथक् नाना तदुक्तं तज्ज्ञानतारतम्यमन्तर्दृष्टय इति श्रुतावुक्तमित्यर्थः । ननु भाष्ये उपासनानाम ध्यानं विवक्षितं तस्यैवापरोक्षज्ञानसाधनत्वात्ध्यानं न ज्ञानं किं तु मानसी-क्रिया । तथा च प्रज्ञान्तरशब्दस्य ज्ञानविशेषपरत्वे कथमुपासनापदेन तद्व्याख्यानमित्यत आह ॥ अविच्छिन्नेति ॥ तथा च न ध्यानं मानसीक्रिया तथात्वेऽतीन्द्रियमनोनिष्ठक्रियाया अप्यतीन्द्रियत्वेनापरोक्षावभासविरोधात् क्रियाया रूपरहितत्वेन ध्याने रूपावभासविरोधाच्चेति भावः । ननु न ध्यानस्य परोक्षज्ञानरूपत्वं वक्तुं युक्तं तस्य मानसत्वेनापरोक्षत्वात् । नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैरिति स्मृतेः । श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसावलोकनं ध्यानमित्यंगीकारादिति सुधोक्तेश्च । तस्य लिङ्गशब्दाजन्यत्वाच्चेति चेत् सत्यं, ध्यानस्य वासनामयमूर्तिविषयकत्वेनापरोक्षरूपत्वेऽपि परमात्मस्वरूपविषये अपरोक्षरूपत्वायोगेन ज्ञातः परमाणुरित्यादिवदुपनीतभानाभ्युपगमेनोपनायकागमजन्यज्ञानस्य परोक्षत्वेन ध्यानेऽपि परोक्षत्वव्यवहार इत्यदोषः । न च तस्य भगवद्विषयकत्वमेव नेति वाच्यम् । तथात्वे नैष्फल्य-प्रसङ्गात् ॥ कर्षकाणामिति ॥ विषमसाधनवतामपि कृषीवलानां समानफलवत्त्वदर्शनादिति भावः । विशेषबलाद् विशेषवाक्यबलात् ॥ हिरण्यगर्भेति ॥ तस्यापि श्रुत्युक्तं यावत्त्वं बोध्यम् ।

॥ इति दर्शनभेदाधिकरणम् ॥ ३२ ॥