ॐ अनुबन्धादिभ्यः(श्च) ॐ
३१. अनुबन्धाद्यधिकरणम्
सूत्रभाष्यम्
॥ ॐ अनुबन्धादिभ्यः(श्च) ॐ ॥ ५१ ॥
न केवलं श्रवणादिभिर्गुरुप्रसादेन च ब्रह्मदर्शनम् । किन्तु भक्त्यादिभिश्च ।
‘सर्वलक्षणसम्पन्नः सर्वज्ञो विष्णुतत्परः ।
यद्गुरुः सुप्रसन्नः सन् दद्यात्तन्नान्यथा भवेत् ॥
तथाऽप्यनादिसंसिद्धो भक्त्यादिगुणपूगतः ।
लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत्’ इति ॥
‘भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् ।
दद्याच्छमदमादींश्च तेन चैते गुणाः पुनः ॥
तैस्सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत्’ इति च नारायणतन्त्रे ॥
तत्त्वप्रदीपिका
अम्बुवदग्रहणादित्युक्तोऽपि भक्तेः प्रधानसाधनत्वज्ञापनार्थः साधनान्तरोपसङ्ग्रहार्थश्च पुनरारम्भः ।
‘भक्त्या ज्ञानान्निषिद्धानां त्यागान्नित्यहरिस्मृतेः ।
अरागाद्विहितात्यागादित्येतैरैव संयुतैः ।
अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित्’इति सत्तत्वे ॥
तत्त्वप्रकाशिका
अत्र ब्रह्मज्ञानसाधनोपासनस्य भक्तिपूर्वकत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तवैयर्थ्य-प्रसङ्गात्समर्थनीयम् । प्रकृतं ज्ञानमेव विषयः । किं भगवद्भक्त्यादिसापेक्षं न वेति सन्देहः । ज्ञान-साधनेष्वनुक्तिरुभयथा सम्भवतीति सन्देहबीजम् । न भक्त्यादिकं ज्ञानार्थमपेक्षितमिति पूर्वः पक्षः । गुरुप्रसादासाध्यस्यैवाभावात् । ‘सम्यग्लक्षणसम्पन्नो यद्दद्यात्सुप्रसन्नधीः । शिष्याय सत्यं भवति तत्सर्वं नात्र संशयः’ इति वचनात् । न चैवमुपासनाभावः । ज्ञानस्य तदन्वयव्यतिरेकदर्शनात् । न चोपासनं भक्तिमन्तरेण न भवतीति वाच्यम् । द्वेषेणापि ध्यानसम्भवात् । स्मर्यते खलु द्वेषेण ध्यायतामपि मुक्तिः ‘द्वेषाच्चैद्यादयो नृपाः’ इत्यादि । मुक्तिश्च न ज्ञानं विनेत्युक्तम् । अतो गुरुप्रसादसहितोपासनेन यथाकथञ्चिज्ज्ञानोपपत्तेर्व्यर्थं भक्त्यादीत्यतीतपादानुपपत्तिरिति । सिद्धान्त-यत्सूत्रमुपन्यस्य व्याचष्टे ॥ अनुबन्धेति ॥ न केवलं श्रवणादिना प्रबलेनाऽपि गुरुप्रसादेन भगवद्दर्शनं किं तु हरिगुरुभक्तिशमदमादिभिश्च । प्राबल्येऽपि गुरुप्रसादस्य भक्त्यादिकं विनाऽसिद्धेः । तद्विना ध्यानासिद्धेश्च । द्वेषयुतध्यानस्यानर्थहेतुत्वेन श्रुतिस्मृत्यादिसिद्धत्वात् । वचनान्तराणां स्वभाव-भक्तविषयत्वादिति भावः । ‘अनुबन्धस्तु भक्तिः स्याद्वन्धः स्नेह उदाहृतः’ इत्यभिधानम् । अत्रार्थे नियामिकां स्मृतिमाह ॥ सर्वेति ॥ तथाऽपि भक्त्याद्यपेक्षितमिति शेषः । तर्हि भक्त्याधिकं न ज्ञानार्थमित्यत आह ॥ तस्मादिति ॥ यदनादिसिद्धमव्यक्तं भक्त्यादि तेन गुरुप्रसादस्तेन भक्त्याद्यभिव्यक्तिरभिव्यक्तभक्त्यादिना च ज्ञानमित्यर्थः । एतदेव स्पष्टयति ॥ भक्तिरिति ॥ अतो भक्त्यादेर्ज्ञानार्थमपेक्षितत्वादुक्तं युक्तमिति सिद्धम् ।
गुर्वर्थदीपिका
अन्यथोक्तवैयर्थ्यप्रसङ्गादित्यत्रोक्तो भक्तिपाद इत्यर्थः । इत्यभिधानमिति वदता अनु स्वानुकूलतया बध्नाति बद्धमिव वशयति स्वप्रभुमित्यनुबन्धः स्नेह इति व्युत्पत्तिस्सूचिता । तेन च स्वप्रभोरनुकूलीकरणशक्तिर्भक्तेरस्तीति लभ्यते । अतोऽल्पाक्षरत्वलाभेऽपि भक्तिपदं विहायानुबन्ध-पदं गृहीतम् । अत एव ‘स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यज’ इति भागवतम् । स्नेहरूपोऽनु-बन्धः स्नेहानुबन्धः । तथाऽपि भक्त्याद्यपेक्षितमिति शेष इत्यत्र तथापीति पदानन्तरं भक्त्या-द्यपेक्षितमिति शेष इत्यर्थः । तथाऽपि गुरुप्रसादस्य बलवत्त्वेऽपि यतोऽनादिसंसिद्धभक्त्यादि-गुणपूगत एव तं गुरुप्रसादं लभेन्नान्यथा । अतो भक्त्यादिगुणपूगोऽप्यपेक्षित इति यत्तत्पदाध्याहारेण यथास्थितैव योजना द्रष्टव्या । आदिपदेन शमदमादिकं गृह्यते । अस्यैव तात्पर्यं भक्त्याद्य-पेक्षितमिति ॥ सर्वज्ञगुरुत्वादविद्ययाऽऽवृतामपि भक्तिं ज्ञात्वाऽनुगृह्णातीति भावेनोक्तमव्यक्तं भक्त्यादीति । ‘भक्तिर्विष्णौ’ इति श्रुतेर् गुरौ हरौ च या भक्तिः स्वरूपभूता यच्च शमदमादिस् तत्सर्वं गुरोः प्रसन्नतां दद्यात् । तेन प्रसन्नगुरुणैते गुणाः पुनः स्पष्टा भवन्ति । तैस्सर्वैर् भक्त्यादिगुणैः श्रवणादिकृतं श्रवणादिसाधनैः कृतं दर्शनं भवेदिति योजना । भक्तयादिगुणसहित-श्रवणादिकमेव ज्ञानसाधनम् । न तु तद्रहितमिति भावः ।
भावबोधः
भक्तिपूर्वकत्वसमर्थनादिति । पूर्वाधिकरणे ज्ञानस्य मोक्षं प्रत्यावश्यकसाधनत्वेऽभिहिते तर्हि तस्य ज्ञानस्य द्वेषयुतध्यानेनापि सम्भवाद्भक्तेर्वैयर्थ्यमित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ किं भगवदिति ॥ अत्र किं ज्ञानं भक्त्यादिसापेक्षं न भवत्युत भवतीति चिन्ता । तदर्थं द्वेषयुतध्यानम-परोक्षज्ञानसाधनं भवत्युत न भवतीति । तदर्थं ‘द्वेषाच्चैद्यादय’ इत्यादिवाक्यानि किं निरवकाशान्युत सावकाशानीति । तदर्थं ज्ञानस्य भक्त्यैकसाध्यत्वे प्रमाणं नास्त्युतास्तीति । न केवलं श्रवणादिभिर्गुरुप्रसादेन चेति भाष्यानुरोधेन पूर्वपक्षमाह– न भक्त्यादिकमिति ॥ तदन्वय-व्यतिरेकेति ॥ प्रमितेः प्रमाणफलत्वादिति भावः । कस्यचिद्विशेषज्ञानोपपत्तेर् भक्त्यादिकं विना मुक्तिरिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं योजयति– न चोपासनमिति ॥ ‘भक्तिर्विष्णौ गुरौ चैव’ ‘दद्याच्छमदमादींश्च’ इति स्मृत्यनुसारेण सूत्रभाष्यगत ‘आदि’पदार्थमाह– हरिगुर्विति ॥ ‘भक्त्यादिगुणपूगतः’ ‘लभेद्गुरुप्रसादं च’ इति स्मृत्यनुसारेणाह– प्राबल्येऽपीति ॥ गुरुप्रसादस्येत्यस्य पूर्वोत्तरेण च सम्बन्धः । ध्यानासिद्धेश्चेति ॥ भक्तिं विनाऽऽदरनैरन्तर्याभ्यां चित्तवृत्त्यनुपपत्तेरित्यर्थः ।
‘इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते’
‘इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु’
इत्यनुव्याख्यानं मनसि निधायाह– द्वेषयुतध्यानस्येति ॥ भक्तप्रियत्वज्ञापनार्थमिति गीताभाष्यम् ।
‘स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित्’ ।
‘द्वेषादिव गुणानाह’ इत्यनुव्याख्यानं मनसि निधायाह– वचनान्तराणामिति ॥ तस्मादेव गुरुप्रसादादेव तच्च भक्त्यादिकं भवेत् । विद्यमानस्य भवनायोगादभिव्यक्तं भवेत् । तस्मादभिव्यक्त-भक्त्यादेरेव तदपरोक्षज्ञानं च भवेदित्यावृत्तिमभिप्रेत्य स्मृतिं व्याख्याति ॥ तेन चेत्यादिना ॥ अन्यथा ज्ञानस्य गुरुप्रसादसाध्यत्वलाभेऽपि विवक्षितभक्तिसाध्यत्वासिद्धिरिति भावः ॥ स्पष्टयतीति ॥ ‘भक्त्यैवैनं’ इत्यादिन्यायविवरणोदाहृतागमानुसारेणाप्येतत्स्पष्टनं ज्ञातव्यम् ।
भावदीपः
भक्तीति ॥ सूत्रादावादिपदोक्तावपि पूर्वाक्षेपरूपफलोक्तिसौकर्याय भक्तीत्येवोक्तिः । भाष्ये दृष्टेर्भक्तिसाध्यत्वोक्तावपि पादसङ्गत्यर्थमुपासनस्य भक्तिपूर्वकत्वेत्युक्तम् । अतो न संशयादिग्रन्थ-विरोधः । पूर्वत्र श्रुतिस्मृत्यादिबलात्कर्मनिरपेक्षा विद्यैव मुक्तिहेतुरित्युक्तौ तर्हि भक्त्यादिनिरपेक्षो-पासनाऽपि ज्ञानहेतुः स्यात् । ‘द्वेषाच्चैद्यादय’ इति स्मृतेरिति शङ्कनाद्वा पूर्वत्र कर्मवचनं कर्मयोगपरमित्युक्तौ तर्हि द्वेषवचनमपि द्वेषयोगपरमस्तु किं भक्तिनियमेनेति शङ्कनाद्वा । पूर्वत्र कर्मस्मृतिगतिरुक्ता । अत्र तु द्वेषस्मृतिगतिरुच्यत इति वा पूर्वसङ्गतिरिति भावः । एतेन प्रदान-रूपेतिकर्तव्यताचिन्तानन्तरमेव भक्तिरूपेतिकर्तव्यता चिन्तनीयेति प्रत्युक्तम् । अन्तरङ्गकर्मचिन्ता-नन्तरमेव बहिरङ्गद्वेषचिन्तावसराच्चेति ॥ उक्तेति ॥ भक्तिपादोक्तभक्त्यर्थकमाहात्म्यादेर्वैयर्थ्य-प्रसङ्गादित्यर्थः ॥ प्रकृतमिति ॥ दर्शनाच्चेत्यादिना प्रकृतमित्यर्थः । सापेक्षमित्यनन्तरं जायत इति शेषः ॥ न वेति ॥ भक्तिं विना कृतादुपासनाज्जायत एवेत्यर्थः । ज्ञानसाधनेषु श्रोतव्य इत्यादिनोक्तश्रवणादिषु भक्त्यनुक्तिः प्रदानस्येवाङ्गत्वेऽपि वार्तादेरिवाऽनङ्गत्वेऽपि सम्भवतीत्यर्थः ॥ भक्त्यादिकमिति ॥ शमदमादिरादिपदार्थः । कुत इत्यतः सर्वलक्षणेत्यादि ॥ तथापीत्यन्त-भाष्योक्तस्मृत्या गुरुप्रसादेनेति भाष्येण च सूचितं हेतुमाह ॥ गुरुप्रसादेति ॥ तद्धि बलीय इत्युक्तेरिति भावः । प्रथमभारततात्पर्यनिर्णयोक्तस्पष्टस्मृतिं चाह ॥ सम्यगिति ॥ लक्षणानि च तत्रैवोक्तानि ‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः । सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः । असंशयः संशयच्छिद् गुरुरुक्तो मनीषिभिः’ इत्यादिना ॥ न चैवमिति ॥ गुरुप्रसादस्यैव सर्वसाधकत्व इत्यर्थः । न केवलं श्रवणादिभिरित्यनेन सूचितयुक्तिमाह ॥ ज्ञानस्येति ॥ कस्यचिद्विशेषज्ञानोपपत्तेर्भक्त्यादिकं विना मुक्तिरित्यन्यत्रोक्तं व्यावर्त्यपूर्वं व्यनक्ति ॥ न चोपासनमिति ॥ स्मर्यत इति ॥ सप्तमस्कन्धाद्येऽध्याये गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादय इति स्मर्यत इत्यर्थः । स्मृतिबलात्साक्षादेव द्वेषान्मुक्तिः कुतो न कल्प्यत इत्यत आह ॥ मुक्तिश्चेति ॥ उक्तं पूर्वनयद्वये प्रतिपादितमित्यर्थः ॥ अत इति ॥ गुरुप्रसादस्य सर्वसाधकत्वाच्छ्रवणादेरन्वय-व्यतिरेकसिद्धहेतुभावाद् द्वेषकामादिनाप्युपासनाद्वेषसम्भवाच्चेत्यर्थः ॥ यथा कथञ्चिदिति ॥ द्वेषादिनेत्यर्थः ॥ अतीतपादेति ॥ तथा च भक्तेरेवानावश्यकत्वे यदम्बुवदग्रहणादित्यत्र भक्तेर्मुक्तिरूपं फलमुक्तम् । यच्च वृद्धिह्राससूत्रे भक्तितारतम्यवर्णनं तदुभयमप्येतन्नयसिद्धभक्ते-रावश्यकत्वमुपेत्यैवेत्येतत्पूर्वपक्षे तदप्याक्षेप्यमेवेति भावः । भाष्ये श्रवणादिभिरिति बहुवचनं मननध्यानपरमिति भावेन भाष्यं व्याचष्टे ॥ केवलमिति ॥ एतेनात्र सूत्रे पूर्वसूत्राच्चकारानुवृत्तिः सूचिता ॥ प्रबलेनापीति ॥ तद्धि बलीय इत्युक्तेः । भाष्ये तस्य पृथगुक्तेश्चेति भावः । भाष्यस्थ-स्मृत्यनुरोधेनादिपदार्थोक्तिः शमदमादिभिश्चेति । कथमेतद्भाष्येणोक्तशङ्कानिरास इत्यतस्तथा-पीत्यादिस्मृत्यनुरोधेन भाष्यभावमाह ॥ प्राबल्येऽपीत्यादिना ॥ असिद्धेरिति ॥ गुरुप्रसाद-स्येत्यनुषङ्गः ॥ ध्यानेति ॥ पुमर्थहेतुध्यानासिद्धेश्चेत्यर्थः ॥ श्रुतिस्मृत्यादीति ॥ विवृतं चैतदनु-व्याख्याने द्वेषाद्यन्मुक्तिकथनश्रुतिवाक्यविरोधि तदित्यादिना इत्यादिवाक्यसन्दोहाद्द्वेषिणस्तम एव तु । नैव मोक्ष इत्यन्तेन । नवमे गीताभाष्ये च ‘मोघाशा मोघकर्माणः’ इत्येतद्व्याख्यावसरे प्रपञ्चितमेतत् । ‘द्वेषाच्चैद्यादयो नृपाः’ । ‘वैरेण यन्नृपतयः’ इत्यादि भगवतो भक्तप्रियत्व-ज्ञापनार्थमित्यादिना गीताभाष्योक्तमेव समाधिमाह ॥ वचनान्तराणामिति ॥ शिशुपालादीनां विष्णुपार्षदादित्वेन स्वभावभक्तानामेव शापाद्द्वेषित्वप्राप्तेरिति भावः । अनुबन्धादिभ्य इत्यस्य भक्त्यादिभिरिति भाष्येऽर्थ उक्तः । तत्र सप्तमस्कन्धतात्पर्योक्ताभिधानमाह ॥ अनुबन्धस्त्विति ॥ अत्रार्थे हरिगुरुभक्तिश्चेत्याद्युक्तार्थे । तस्मादेव च तद्भवेदित्यस्य वक्ष्यमाणस्मृत्यनुरोधेनार्थद्वयमुपेत्य स्मृतिं व्याचष्टे ॥ यदनादीत्यादिना ॥ एतदेव स्पष्टयतीति ॥ स्मृतौ तेन चैते भक्त्यादयो गुणा व्यज्यन्त इत्यर्थ इति भावः ॥ अत इति ॥ भक्त्यादिना विना गुरुप्रसादस्यासिद्धेरित्यर्थः ॥ उक्तमिति ॥ भक्तिपादोक्तमित्यर्थः ।
अभिनवचन्द्रिका
गुरुप्रसादासाध्यस्यैवेति ॥ केवलस्य गुरुप्रसादस्यासाध्याभावान् न सहायापेक्षेति भावः । नात्र संशय इति ॥ सहायाभावात् कार्यं भविष्यति न वेति संशयो नेत्यर्थः ॥ न चैवमिति ॥ सहायानपेक्षस्य गुरुप्रसादस्य हेतुत्वमुदाहृतप्रमाणार्थश्चेद् उपासनाभावप्रसङ्ग इति न वाच्यमित्यर्थः ॥ ज्ञानस्येति ॥ उपासनाकारणत्वस्यापि प्रामाणिकत्वात्, उपासनाव्यतिरिक्तसहायानपेक्षत्वं पूर्व-प्रमाणार्थ इति भावः । ननु नाऽस्माभिर् मुक्त्यर्थं भक्तिरुक्ता किं तु ज्ञानार्थम् । एवं च साक्षान्मुक्तिसाधनोपासनस्य भक्तिं विना द्वेषेण सम्भवेऽपि न ज्ञानार्थस्योपासनस्य भक्तिं विना सम्भव इत्यत आह– मुक्तिश्चेति ॥ साप्युपासना ज्ञानसाधनमेवेति प्रागुक्तमयुक्तमेवेति भावः ॥ अत इति ॥ यथाकथञ्चित् स्नेहेन वा द्वेषेण वा उत्पन्नेन गुरुप्रसादसहितोपासनेन, ज्ञानोपपत्तेः, व्यर्थम् अनावश्यकं भक्त्यादीत्यर्थः ॥ प्रबलेनापीति ॥ प्रबलत्वादन्यापेक्षां विना मोक्षसाधनतया सम्भावितेनापीत्यर्थः ॥ तद्विनेति ॥ ज्ञानसाधनध्यानासिद्धेरित्यर्थः । एतेन उत्तरवाक्ये भक्त्य-भावेऽपि ध्यानस्याङ्गीकृतत्वात् तद्विरोध इति परास्तम् ॥ वचनान्तराणामिति ॥ ‘द्वेषाच्चैद्यादयो नृपा’ इत्यादिवचनानामित्यर्थः । यद्यपि द्वेषो न मोक्षसाधनम्, किन्तु तदाविष्टदैत्यस्यानर्थसाधनमेव तथापि द्वेषवशात् परमात्मनि ध्यानविषये जाते आविर्भूतया स्वाभाविक््या भक्त्या ध्यायतां मुक्तिरिति द्वेषो मुक्तिसाधनतयोपचर्यत इति भावः ।
पूर्वपक्षस्तु– न ज्ञानार्थं भक्तिरपेक्षिता । प्रसादस्य ज्ञानहेतुत्वे सहायानपेक्षत्वात् । ‘सम्यक् लक्षणसंपन्नो यद्दद्यात्सुप्रसन्नधीः । शिष्याय सत्यं भवति तत्सर्वं नात्रसंशय’ इति वचनात् । न चैवमुपासनाभावः ज्ञानस्य उपासनान्वयव्यतिरेकदर्शनेन प्रसादस्य उपासनातिरिक्तानपेक्षत्वस्य प्रमाणार्थत्वात् । न चोपासनं भक्तिमन्तरेण न भवतीति वाच्यम् । द्वेषेणापि ध्यानसम्भवात् । ‘द्वेषाच्चैद्यादयो नृपा’ इति वचनात् । अतो द्वेषेण वा भक्त्या वा, उत्पन्नेनोपासनेन गुरुप्रसाद-लक्षणसहकारिवशाज् ज्ञानसम्भवेन न तदर्थं भक्त्यादिकमावश्यकमिति ।
सिद्धान्तस्तु– न केवलं ज्ञानार्थं श्रवणादिकं गुरुप्रसादश्चापेक्षितः । किन्तुु भक्त्यादिकमपि प्रसादार्थं ज्ञानार्थं चापेक्षितम् । ‘सर्वलक्षणसम्पन्नः सर्वज्ञो विष्णुतत्परः । यद्गुरुः सुप्रसन्नः सन् दद्यात्तन्नान्यथा भवेत् । तथाप्यनादिसंसिद्धभक्त्यादिगुणपूर्ण(ग)तः । लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत् । भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् । दद्याच्छमदमादींश्च तेन चैते गुणाः पुनः । तैः सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेदिति वचनात् । अतो भक्त्यादेर्ज्ञानार्थमपेक्षितत्वादुक्तं युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
प्रकृतज्ञानमिति ॥ तथा च प्रकृतस्य ज्ञानस्य भक्तिपूर्वकत्वसमर्थनादस्ति शास्त्रादिसङ्गति-रनन्तरसङ्गतिश्चेति भावः । द्वेषेण ध्यायतां संरम्भेणापरोक्षमीहतां भगवदप्रियाणामपि चैद्यादीनां मोक्षदर्शनात् । ज्ञानिप्रियत्वस्य प्रीत्या मोक्षस्य चाभावात् प्रीतिरित्युक्तन्यायोऽसिद्ध इति पूर्वन्यायमाक्षिप्य समाधानादनन्तरसङ्गतिर्वा । अत्र मोक्षसाधनज्ञानं भक्त्यादिनिरपेक्षमुत सापेक्षमिति चिन्ता । तदर्थं द्वेषयुतध्यानं तत्साधनं भवति न वेति । न केवलं श्रवणादिभिर् गुरुप्रसादेन चेति भाष्यानुरोधेन पूर्वपक्षमाह ॥ न भक्त्यादिकमिति ॥ दद्याद् उपदिशेत् । सत्यं फलाव्यभिचारि ॥ तदन्वयव्यतिरेक इति ॥ प्रमितेः प्रमाणफलत्वात् । अत एव दर्शनं विष्णोः श्रवणादिकृतं भवतीति वक्ष्यतीति भावः । तस्मादेव च तद्भवेत् । तैस्सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेदिति स्मृतेर् भक्त्यादिकं विना ज्ञानासिद्धिप्रतिपादनेन सर्वत्र ध्यानाद्यर्थं भक्त्यादिनैय्यत्यलाभात् सूचितं विशेषदर्शनेत्युक्तन्यायं दर्शयितुं तन्निवर्त्यं चोद्यमाशङ्क्य निषेधति ॥ न चेति ॥ द्वेषेणापीति ॥ कस्यचिदधिकारिविशेषस्य द्वेषाख्यसाधनविशेषेण ध्यानसम्भवात् तेन विशेषज्ञानोपपत्तेरित्यर्थः । इत्यादीत्यादिपदेन ‘वैरेण यं नृपतयः शिशुपालपौण्ड्रसाल्वादयो गतिविशेषविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमीयुरनुरक्तधियः पुनः किम्’ । संरभमार्गाभिनिविष्ट-चित्तानित्यादेर्ग्रहणम् । तत्र वैरेण ध्यायन्तः साम्यमीयुरिति स्पष्टमुक्तेरिति ज्ञेयम् । ननु वैरेण ध्यानस्यैव मोक्षसाधनत्वोक्तेर्ज्ञानमपि व्यर्थमित्यत आह ॥ मुक्तिश्चेति ॥
सूत्रे दर्शनाच्चेत्यतो विभक्तिविपरिणामेन दर्शनमित्यनुवर्तते । चशब्दश्च । तथा चानुबन्धादिभ्यश्च दर्शनमिति सूत्रवृत्तिमभिप्रेत्य व्याचष्टे ॥ न केवलमित्यादिना ॥ दद्याच्छमदमादिश्चेत्युत्तरस्मृत्यनुसारेण सूत्रभाष्यगतादिशब्दार्थमाह ॥ शमदमादिभिश्चेति ॥ ननु गुरुप्रसादस्य प्राबल्ये किं भक्त्यादिनेत्यतो गुरुप्रसादसाधनत्वे न तावत्तदपेक्षेत्याह ॥ प्राबल्येऽ-पीति ॥ गुरुप्रसादस्य फलोपकार्यगत्वाच्च तदपेक्षेत्याह ॥ तद्विनेति ॥ भक्त्यादिकं विनाऽऽदर-नैरन्तर्याभ्यां चित्तवृत्त्यनुपपत्तेरित्यर्थः । इत्यादिश्रुतिसन्दर्भाद्द्वेषिणस्तम ईयते । इत्यादिवाक्य-सन्दर्भाद्द्वेषिणस्तम एव त्वित्यनुव्याख्यानं मनसि निधायाह ॥ द्वेषयुतेति ॥ स्वभावभक्तेति ॥ स्वभावभक्तानां शिशुपालादीनां दैत्यावेशोपाधिकृतमनोदोषे प्रसक्तेऽपि सत्वमार्गेण चेतसस्तत्र प्रसक्तौ सत्यां तदनन्तरं तदुपसर्जनीकृत्य प्रवृत्तया भक्त्या प्रसन्नो भगवान् प्रामादिकमपराधमगणय्य मुक्तिं ददातीत्येवमर्थकत्वादिति भावः ॥ स्मृतिमाहेति ॥ आगम इत्युक्तन्यायं दर्शयन् स्मृतिमाहेत्यर्थः । तस्मादेव गुरुप्रसादादेव तत्र भक्त्यादिकं भवेत् । विद्यमानस्य भवनायोगात् । अभिव्यक्तं भवेत्तस्मादभिव्यक्तभक्त्यादेरेव तदपरोक्षज्ञानं भवेदित्यावृत्तिमभिप्रेत्य स्मृतिं व्याख्याति ॥ तेनेत्यादिना ॥ तदेवेति ॥ भक्त्यादिगुणपूगत इत्यादिशब्दार्थं तस्मादेव च तद्भवेदिति सामान्यवाक्यार्थं च स्पष्टयतीत्यर्थः । भक्तिः शमदमादिश्च प्रसन्नतां दद्यादिति स्मृतियोजना । नन्विदमधिकरणमम्बुवदग्रहणादित्यनेन गतार्थमिति चेन्न तत्र नित्यानन्दज्ञानादिमत्वं हि मोक्षः । तस्य च नित्यसिद्धत्वान्न भक्त्या तत्साध्यज्ञानेन तत्साध्यप्रसादेन च प्रयोजनमिति भक्तेर्ज्ञान-साधनत्वमङ्गीकृत्य परम्परया साक्षाद्वा न मुक्तिसाधनत्वमित्याक्षेपे मुक्तिसाधनत्वमुक्तम् । अत्र तु भक्तिं विनापि ज्ञानदर्शनान्न भक्तेस्तद्धेतुत्वमित्याक्षिप्य समाधीयत इति भेदात् । यद्वा अम्बुवदग्रहणादित्युक्तेऽपि भक्तेः प्रधानसाधनत्वज्ञापनार्थं शमादिसाधनान्तरोपसङ्ग्रहार्थं च पुनरारम्भ इति तत्वप्रदीपरीत्या समाधेयम् ।
वाक्यार्थविवरणम्
उक्तेति ॥ भक्तिपादेत्यर्थः ॥ ज्ञानसाधनेषु ॥ श्रोतव्यो मन्तव्य इत्युक्तश्रवणादिषु ॥ अनुक्तिः ॥ भक्तेः ॥ उभयथेति ॥ क्वचिद् विद्यमानाविद्यमानयोरुभयोरप्यनुक्तिदर्शनात् । वस्तुतो ज्ञानसाधनाऽपि भक्तिस्तत्साधनेषु नोक्तेति ज्ञानसाधनत्वाभावादेव नोक्तेत्युभयथा सम्भवतीति अनुक्तिः सन्देहबीजमित्यर्थः । गुरुप्रसादेनैव ज्ञानसम्भवादिति भावेनाह ॥ गुरुप्रसादेति ॥ असाध्यस्यैवेति ॥ तत्सत्त्वे हि तदर्थं भगवद्भक्तिरपेक्षिता स्यादिति भावः ॥ न चैवमिति ॥ गुरुप्रसादस्यैव प्राबल्यमङ्गीकृत्य भक्तेर्वैराग्यस्य चानपेक्षितत्वोक्तौ उपासनस्याप्युपयोगाभावः प्राप्तः स्यात् । गुरुप्रसादेनैव ज्ञानोदयसम्भवादिति भावः ॥ तदन्वयेति ॥ उपासनान्वयव्यतिरेकेत्यर्थः । तथा चापरोक्षज्ञानस्य गुरुप्रसादरूपेच्छासाध्यत्वेन उपासनायाः प्रत्यक्षरूपत्वेन प्रमाणफलत्वं युज्यत इति नोपासनाभाव इति भावः ॥ भवतीति ॥ अतो भक्तिरपेक्षितेति भावः ।
ननु कथं द्वेषयुतध्यानेन मुक्तिरप्रामाणिकत्वादित्यत आह ॥ स्मर्यत इति ॥ आदिपदेन ‘वैरेण यन्नृपतयः शिशुपालपौण्ड्रशाल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधिय-श्शयनासनादौ तत्साम्यमीयुरनुरक्तधियः पुनः किम्’ । (इति भागवते) इत्यादिवाक्यपरिग्रहः । नन्वेवं द्वेषयुतध्यानेनैव मुक्तेः सम्भवादपरोक्षज्ञानस्यापि वैय्यर्थ्यं प्रसज्यत इति चेत्तत्राह
॥ मुक्तिश्चेति ॥ उक्तम् ॥ विद्यैवेत्यत्र । अतो ज्ञानमपेक्षितमेवेति भावः । यथाकथञ्चि-दुपासनेनेत्यन्वयः । भक्तिरहितेनेत्यर्थः । असिद्धिर् गुरुप्रसादस्येति वर्तते । तद्विना ॥ भक्त्यादिकं विना । ननु भक्तिं विना कथं न ध्यानसिद्धिः । द्वेषेणापि तत्सम्भवात् । तेन च मुक्ति-सम्भवादित्यत आह ॥ द्वेषयुक्तेति ॥ तर्हि द्वेषाच्चैद्यादय इत्यादिवचनान्तराणां का गतिरित्यत आह ॥ वचनान्तरमिति ॥ ‘चैद्ये च नरके चैव शाल्वे कंसे च रुक्मिणि । आविष्टास्तु हरेर्भक्ताः’ इति प्रमाणबलेन चैद्यादौ जीवद्वयसमावेशेन तत्रत्यस्वभावभक्तविषयत्वादित्यर्थः ॥ अयमभिप्रायः ॥ द्विविधानि वाक्यानि । ‘वैरेण यन्नृपतयः’ इत्यादीनि स्मरणप्रधानानि । ‘द्वैषाच्चैद्यादय’ इत्यादीनि द्वेषप्रधानानि । तत्र आद्यानामियं गतिः । यथा पिता पुत्रं प्रति किञ्चिद्विधत्ते ‘इदं कुरु’ इति । स तु श्रमादिभीरुरकुर्वाण एवावतिष्ठते । तदा क्रुद्धः पिता ब्रवीति । ‘ओ जाल्म खट्वारूढ । ‘खट्वारूढो जाल्म’ इति वचनात् । वैधवेय म्रियस्व’ इति । तस्य वाक्यस्य न पुत्रमरणविधाने तात्पर्यं किन्तु विहितकरणे । यथा वा ‘वृद्धौ च मातापितरौ साध्वी भार्या सुतश्शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्’ इत्यत्र नाकार्यकरणे तात्पर्यं किन्तु सर्वथा भर्तव्यत्वे । तथा द्वेषेण स्मरणे मुक्तिर्भवतीति पुराणवाक्यस्यापि न तद्द्वेषस्य मुक्तिसाधनत्वे तात्पर्यं, किन्तु स्मरणस्य कर्तव्यतायामेव । द्वितीयानां तु इयं गतिः । चैद्यादीनां द्वेषतो मुक्तिं प्रतिपादयद्वाक्यं भगवतः कृपालुत्वादीन् गुणानेवाह ॥ शापादिना द्वेषं कुर्वन्तोऽपि चैद्याद्यास् तात्कालिकं द्वेषमगणय्य पूर्वतनीं भक्तिमेवापेक्ष्य भगवता मोचिताः । अहो भगवतः कृपालुत्वं, निर्विकारत्वं, सत्यसङ्कल्पत्वं चेत्येवं तस्य भक्तप्रियत्वादिगुणज्ञापन एव तेषां वाक्यानां तात्पर्यमिति ॥
॥ यथोक्तम् ॥ (अनुव्याख्याने)‘स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् । द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् । यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् । प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम्’ इत्यादि । भाष्ये भवेदित्यनन्तरम् अतो भक्त्याद्यनपेक्षितमिति यद्यपीत्येतावान् वाक्यशेषः । भाष्ये कथं भक्त्याद्यपेक्षितमित्यतस्त्वया आवश्यकत्वेनोच्यमानगुरुप्रसादसाधनत्वा-दित्याह ॥ अनादीति ॥ न ज्ञानार्थमिति ॥ किन्तु गुरुप्रसादार्थमेवेति प्राप्तमिति भावः । यदनादिसिद्धमव्यक्तभक्त्यादिकं तेन गुरुप्रसाद इत्यस्य ‘तस्मादेव च तद्भवेत्’ इत्येतद्व्याख्यान-परत्वे अनादिसिद्धेत्यादिना पुनरुक्तिप्रसङ्गात् । तस्मादित्येतदर्थानुवादपरमिति ज्ञेयम् ॥ तथा हि ॥ तस्मादित्यस्य तेनेत्यर्थः । तथा च यदनादिसिद्धाव्यक्तभक्त्यादिकं तेन गुरुप्रसादो भवतीत्युक्तम् । तस्मात्तेन च ॥ गुरुप्रसादेनेति ॥ एवं च तस्माद्गुरुप्रसादेन च तत्तु भक्त्याद्यभिव्यक्तिर्भवेत् । तस्मादभिव्यक्तभक्त्यादिना च तदपरोक्षज्ञानं भवेदिति योजना ज्ञातव्या ॥ एतदेव ॥ पूर्वप्रमाणोक्तमेव । भाष्ये गुरौ चैव भक्तिरित्यनन्तरं शमदमादिश्चेति योज्यम् । तेन च गुरोर्नित्य-प्रसादेनैव ते हरिगुरुभक्तिशमदमाद्या गुणाः पुनर्व्यज्यन्ते । तैः सर्वैरभिव्यक्तैर्भक्त्यादिभिर्गुणै-र्विष्णोर्दर्शनं भवेदित्यर्थः । श्रवणादिकृतमित्युक्त्या तदप्यपरोक्षज्ञानसाधनं भक्त्यादिगुणवदिति सूचितमिति द्रष्टव्यम् ।
वाक्यार्थमञ्जरी
उक्तेति ॥ द्वितीयपादोक्तभक्तीत्यर्थः ॥ न चैवमिति ॥ तत्साध्यज्ञानस्यापि गुरुप्रसादेनैव सिद्धेरिति भावः ॥ तदन्वयव्यतिरेकेति ॥ प्रमितेः प्रमाणफलत्वादिति भावः । द्वेषेण ध्यानमात्रसम्भवेऽपि न तस्य ज्ञानहेतुत्वमित्यत आह ॥ स्मर्यते खल्विति ॥ चैद्यः शिशुपाल उक्तं विद्यैव निर्धारणादित्यत्र । तथा च चैद्यादीनां द्वेषपूर्वकध्यानेन ज्ञानमुत्पन्नमित्यवश्य-मङ्गीकार्यमिति भावः ।
ॐ अनुबन्धादिभ्यः ॐ ॥ ब्रह्मज्ञानमनुबन्धादिभ्यः भक्त्यादिभ्यो भवतीत्यर्थः । प्रसाद-स्येत्यस्य पूर्वेण चोत्तरेण च सम्बन्धः ॥ तद्विनेति ॥ भक्तिं विना आदरनैरंतर्याभ्यां चित्तवृत्त्यनुपपत्तेरित्यर्थः ॥ स्वभावभक्तेति ॥ पूतनाकंसनरकशिशुपालादिषु द्विधा । जीवाः सन्तोऽसन्तश्चेति दशमतात्पर्योक्तेरिति भावः । अभिधानं सप्तमतात्पर्योक्तम् ॥ अभिव्यक्तिरिति ॥ विद्यमानस्य पुनर्भावनायोगादिति भावः । तस्मादित्यादेरावृत्तिं मत्वाऽह ॥ अभिव्यक्तेरिति ॥
॥ इति अनुबन्धाद्यधिकरणम् ॥ ३१ ॥