३० अबाधाधिकरणम्

ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ

३०. अबाधाधिकरणम्

सूत्रभाष्यम्

॥ ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ ॥ ५० ॥

सावधारणा बलवती श्रुतिः ।

‘इन्द्रोऽश्वमेधांश्छतमिष्ट्वाऽपि राजा ।

ब्रह्माणमीड्यं समुवाचोपसन्नः ॥

न कर्मभिर्न धनैर्नैव चान्यैः ।

पश्येत्सुखं तेन तत्त्वं ब्रवीहि’ इति बलवल्लिङ्गम् ॥

‘नास्त्यकृतः कृतेन’ (मुं.उ.१-२-१२) इत्युपपत्तिश्च ।

‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।

तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिन’ इति युक्तिमद्भगवद्वचनम् ॥

अतो न प्रमाणान्तरबाधः । ‘कर्मणैव’ (भ.गी.३-२०) इत्ययोगव्यवच्छेदः ॥

तत्त्वप्रदीपिका

सावधारणा बलवती श्रुतिः । ‘तमेव विदित्वा’ इति ‘द्दष्ट्वैव तं मुच्यते नापरेण’ इति च । ‘परीक्ष्य लोकान्कर्मचितानि’ इत्यादेरयमर्थः । कर्मणा सञ्चितान्मन्दिरादीन्विनाशिनः परितो वीक्ष्य तद्वत्परानपि कर्मभिश्चितान्लोकान्विनाशिन एव परीक्ष्य तेभ्यो निर्वेदमायाद् ब्रह्मनिष्ठः । ‘नास्त्यकृतः कृतेन’ इति, अकृतप्रियो भगवान् कृतेन न लभ्यत इति । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’ इति भगवद्वचनम् । ‘कर्मणात्वधमः प्रोक्तः’ इत्यादि च । तस्य प्रियज्ञानस्य विष्णोर्विज्ञानार्थं स गुरुमेवाभिगच्छेदिति । कर्मणैवेत्ययोगव्यवच्छेदः । कर्म कृत्वैव नाकृत्वेत्यर्थः ।

‘सहैव कर्मणा सिद्धिमास्थिता जनकादयः ।

ज्ञाननिष्ठा ततः कार्यं कर्माऽश्रामोचितम्’ इति भगवद्वचनम् ॥

स्वदृष्ट्या प्रसन्न ईश्वरः सर्वशक्तिर्बन्धान्मोचयतीत्यत्र न कश्चिद्दोषः । प्रमाणं च–

‘न ताद्दशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात् ।

तत्प्रीणनान्मोक्षमाप्नोति सर्व’ इत्यादिकं नैकम् । ‘त्यागेनैक’ इत्यत्रापि त्यागेनामृतत्वमानशुः, ते कियन्त इत्याकाङ्क्षायां केचिदेवेत्यर्थः । ‘मनुष्यणां सहस्रेषु कश्चित्’इत्यादिवत् । त्यागपूर्वक-ज्ञानेनेत्यभिप्रायः । ‘वेदान्तविज्ञानसुनिश्चितार्थाः परिमुच्यन्ति सर्व’ इति वाक्यशेषात् । ‘विदुषा चिदर्ध्य’ इत्यादेस्तु ज्ञानिनाऽपि कर्म कर्तव्यं मोक्षे सुखाधिक्यायेत्यर्थः । न समुच्चयोऽर्थः । वक्ष्यति चैतदुत्तरपादे । भाक्तं वेत्यादौ कर्मणा मोक्षप्रतिषेधो गत्यादिनिरूपणाप्रसङ्गप्राप्तः । अत्रायं स्वतन्त्रविचारः ।

तत्त्वप्रकाशिका

अत्र यत्साधनं भगवदुपास्तिस्तस्य ज्ञानस्य मोक्षसाधनत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोपासनवैयर्थ्यापातादेतत्समर्थनीयम् । प्रकृतो मोक्ष एव विषयः । किं ज्ञानसाध्य उत कर्मसाध्य इति सन्देहः । विप्रतिपत्तिः सन्देहबीजम् । कर्मसाध्य एव मोक्ष इति पूर्वः पक्षः । कर्मणैवेति वचनात् । न च वाच्यं विद्यावचनस्य सावधारणत्वेन प्राबल्यात्तद्विरोधः स्मृतेरिति । स्मृतेरपि सावधारणत्वात् । न चैतावता साम्यम् । भगवद्वाक्यत्वेन प्राबल्यात् । एतेन श्रुतिस्मृत्योः श्रुतिर्बलवती तदपेक्षत्वात्स्मृतेरिति चापहसितं भवति । अतो ज्ञानस्य मोक्षसाधनत्वाभावान्न तदर्थोपासना कर्तव्येति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ श्रुतीति ॥ मोक्षो ज्ञानसाध्य एव । न चैवं प्रमाणान्तरबाधः । ज्ञानस्य मोक्षसाधनत्वोपपादकबलवच्छ्रुत्यादिसद्भावात् । तथा हि । मोक्षस्य मानसाध्यत्वे ‘तमेवम्’ इत्यादिश्रुतिः स्मृतेर्बलवती । निरवकाशावधारणयुक्तत्वात् । तथा बहुकर्मकृतोऽपीन्द्रस्य दुःखासंभिन्नसुखरूपमोक्षार्थं तत्त्वज्ञानप्रार्थनलिङ्गं च बलवत् । निरवकाश-त्वात् । उत्पत्तिनाशवत्फलत्वेनावधृतकर्मणा नित्यपुरुषार्थो न भवतीत्युपपत्तिश्च बलवती । दूषणशून्यत्वात् श्रौतत्वाच्च । तथा ‘कर्मणा बध्यते जन्तुः’ इति वचनं च बलवत् । भगवद्वाक्यत्वेन साम्याद्युक्तिमत्त्वेनाधिक्यात् । यत एवं मोक्षस्य ज्ञानसाधनत्वे प्रत्येकं बलवच्छ्रुत्यादिभावोऽतो विद्यैव मोक्षसाधनमित्यस्य न स्मृतिबाध इति भावः । नन्वेवं चेत्सा स्मृतिरप्रमाणमेवेति प्राप्तमित्यतश्च शब्दसूचितार्थमाह ॥ कर्मणेति ॥ क्रियत इति शेषः । कर्मयोगश्च मोक्षातिशयार्थ इति ज्ञातव्यम् । अतो ज्ञानस्यैव मोक्षसाधनत्वात्कर्तव्योपासनेति सिद्धम् ।

गुर्वर्थदीपिका

यद्यपि कर्मणैवेत्यत्रैवकारः स्पष्टं श्रूयते तथाऽपि ‘पाठक्रमादर्थक्रमो ज्यायान्’ इति न्यायेन कर्मणा संसिद्धिमास्थिता एवेत्यपि योजनासम्भवेन नासौ निरवकाशः । ‘तमेवं विद्वान्’ इति श्रुतिस्तु तं परमात्मानमेवं सहस्रशीर्षत्वाद्याकारेण विद्वानमृतो मुक्तो भवति । अयनाय मोक्षायान्यः पन्था न विद्यत इति सावकाशमेवकारं विहाय साक्षात्तदर्थभूतमन्ययोगव्यवच्छेदं विविच्य वाक्य-मर्यादयैवाह । अतोऽयोगव्यवच्छेदात्यन्तायोगव्यवच्छेदरूपार्थयोरनवकाशेन निरवकाशत्वात्सैव बलवतीति भावेनोक्तं भाष्ये सावधारणा बलवती श्रुतिरिति । निरवकाशावधारणयुक्तेत्यर्थः । अतो बलवती स्मृतितोऽपि बलवती ।

भावबोधः

अधिकरणस्य पादान्तर्भावज्ञापनार्थमाह– यत्साधनमिति ॥ पूर्वाधिकरणे ‘तमेवं’ इत्यादिश्रुतेः सावधारणत्वेन प्राबल्यमित्युक्ते तर्हि ‘कर्मणैव’ इति स्मृतेरपि सावधारणत्वेन भगवद्वाक्यत्वेन च प्राबल्यान्न विद्याया मोक्षसाधनत्वमित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । कर्मेत्यादि ॥ अत्र मोक्षः किं कर्मसाध्य उत ज्ञानसाध्य इति चिन्ता । तदर्थं ‘तमेवं’ इति विद्यावचनं ‘कर्मणैव’ इति कर्मवचनेन बाध्यमुताबाध्यमिति । तदर्थं विद्यावचनस्य कर्मवचनात् प्राबल्यं नास्त्युतास्तीति । तदर्थं विद्यावचनस्य प्राबल्यनियामकं कर्मणैवेति कर्मवचनगतावधारणस्य सावकाशत्वं नास्त्युतास्तीति । ‘विद्यावचनस्य प्राधान्यं भ्रम’ इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– कर्मसाध्य एवेत्यादिना । विद्याकर्मवचनयोः साम्योक्त्या विद्यावचनप्राधान्यभ्रमम् उपपाद्य कर्मवचनस्य प्राबल्येनापि तमुपपादयति– न चैतावतेति ॥ श्रुतिस्मृत्योरिति ॥ ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानं’ इति जैमिनिसूत्रादित्यर्थः ।

ननु कर्मवचनस्यापि सावधारणत्वात् सावधारणा बलवती श्रुतिरित्ययुक्तमित्यत आह– निरवकाशेति ॥ तस्य तु सावकाशत्वं वक्ष्यत इति भावः ॥ युक्तिमत्वेनेति ॥ कर्मणो मोक्षसाधनत्वाभावसाधक ‘तस्मात्’ इत्युक्तमुमुक्ष्वक्रियमाणत्वरूपयुक्तिप्रतिपादकत्वेनेत्यर्थः । यद्वा, ‘कर्मणा बध्यते’ इत्युक्तबन्धकत्वरूपयुक्तिमत्त्वेनेत्यर्थः । उपलक्षणमेतत्–

‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥’

इति भगवतस्तस्मिन्नेवाधिकप्रीतिवचनात् ।

‘यमेवैष वृणुते तेन लभ्यः’

इति तत्प्रीतेरेव मोक्षवचनाच्चेति न्यायविवरणोक्तमपि ग्राह्यम् । नन्वेवं तर्हि जनकादयः कर्मणा सहैव संसिद्धिं मुक्तिं गता इत्यर्थः स्यात् । तथा चोत्पन्नापरोक्षज्ञानिनां तेषां किं कर्मयोग-व्यवच्छेदेनेत्यत आह– कर्मयोगश्चेति ॥

भावदीपः

ज्ञानचिन्ता चतुर्थपादे सङ्गतेत्यत आह ॥ यत्साधनमिति ॥ तथा च यत्प्रागुपास्तेर्ज्ञानद्वारा मुक्तिहेतुफलकत्वोक्त्या कर्तव्यत्वमुक्तं तदेवेह मुक्तेः कर्मजत्वस्मृतेः प्राबल्यहेतूनाऽऽक्षिप्य समाधीयत इत्येतत्पादान्तर्भावः । पूर्वानन्तर्यं चास्य नयस्येति भावः ॥ प्रकृत इति ॥ विद्यासाध्य-त्वेन पूर्वप्रकृत इत्यर्थः । अत्र यद्यपि तमेवेति श्रुतिः कर्मणैव हीति स्मृतिबाधिता न वेत्येव चिन्ताप्रदर्शनायात्र सूत्रे न बाध इत्येवोक्तेस्तथाऽपि विद्यैवेत्यत्रोक्तमेवैतच्चिन्ताफलमिति द्योतनाय न च कर्मणैव हीत्यादिपूर्वभाष्यमेव हृदि कृत्वा संशयधर्माद्युक्तिरिति ध्येयम् । विप्रतिपत्तिर्वादि-विप्रतिपत्तिरित्यर्थः । पूर्वेणागतार्थत्वाय कर्मणैवेत्ययोगव्यवच्छेद इत्येवकारगत्युक्तिपरभाष्य-सूचितयुक्तिं व्यावर्त्यपूर्वमाह ॥ न च वाच्यमिति ॥ भाष्ये न प्रमाणान्तरबाध इत्युक्तिसूचितयुक्तिं व्यावर्त्यपूर्वं व्यनक्ति ॥ न चैतावतेति ॥ एतेनेति ॥ स्मृतेर्भगवद्वाक्यत्वकथनेनेत्यर्थः ॥ तदपेक्षत्वादिति ॥ धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति पूर्वतन्त्रस्थस्मृत्यधिकरणे स्मृतेः श्रुतिमूलकत्वेनैव प्रामाण्योक्तेरिति भावः ॥ अपहसितमिति ॥ यदि वयं स्मृतेः श्रुतिमूलत्वेन प्रामाण्यं ब्रूमस्तदोपजीव्यमूलश्रुतिविरोधाद् विरोधे त्वनपेक्षं स्यादिति जैमिनीयविरोधाधिकरणोक्त-न्यायेन स्मृतिरमानं स्यात् । न चैवम् । भगवत्प्रत्यक्षमूलत्वेन श्रुत्यनपेक्षत्वादिति भावः । एतेन वचनस्य प्राधान्यभ्रम इति न्यायविवरणे भ्रमत्वोक्तिरुपपादिता ध्येया ॥ अत इति ॥ विद्यावचनस्य कर्मवचनबाधितत्वादित्यर्थः ॥ तदर्थेति ॥ ज्ञानार्थेत्यर्थः । विद्ययैव मोक्ष इति पूर्वभाष्यमनुवृत्त्यार्थ-माह ॥ मोक्ष इति ॥ अतो न प्रमाणान्तरबाध इति भाष्यस्थप्रतिज्ञाहेतू व्याचष्टे ॥ न चैवमिति ॥ अत इत्युक्तहेतूपपादकत्वेन सावधारणेत्यादिपूर्वभाष्यं व्याचष्टे ॥ तथा हीत्यादिना ॥ स्मृतेरिति पञ्चमी ॥ निरवकाशेति ॥ नान्यः पन्था इत्यस्यैवकारवदवकाशान्तराभावादिति भावः ॥ युक्तिमत्त्वेनेति ॥ बन्धकत्वमोचकत्वाननुष्ठेयत्वाख्ययुक्तिमत्त्वेनेत्यर्थः । अत इत्यादिभाष्यं योजयति ॥ यत इति ॥ प्राप्तं तर्हि ज्ञानसमकक्षत्वमित्यत आह ॥ कर्मेति ॥ कर्म कृत्वैवेति कर्मयोगव्यवच्छेदरूपकर्मयोगश्चेत्यर्थः ॥ मोक्षातिशयेति ॥ पुरुषार्थनये तथा वक्ष्यमाणत्वादिति भावः । ‘ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा’ इत्यादि तु पापादिमुक्तिः स्तुतिपरता चेत्यादितृतीयगीताभाष्योक्तदिशा सावकाशम् ॥ अत इति ॥ श्रुत्यादिबलीयस्त्वेन विद्यावचनस्य कर्मवचनबाधाभावादित्यर्थः ।

अभिनवचन्द्रिका

शास्त्रादिसङ्गतिरिति ॥ उपासनासाध्यविचारस्यापि उपासनासम्बन्धित्वात् पादान्तर्भावोऽप्य-स्तीति भावः । ननु इदं सूत्रं पूर्वाधिकरणशेष एव नाऽधिकरणान्तरम् । पूर्वाधिकरणोक्तदर्शनस्य मोक्षहेतुत्वे बाधपरिहारात् । नापि किञ्चित्साध्यं प्रतिज्ञायते नापि भाष्यकारीयम् । अस्य सूत्रस्य अधिकरणान्तरत्वे ज्ञापकं पश्यामः । ततश्च पूर्वाधिकरणशेषत्वादस्य सूत्रस्य सङ्गत्यादिनिरूपण-मयुक्तमिति चेत्, सत्यम् । इदं सूत्रं पूर्वाधिकरणशेष एव । नाधिकरणान्तरम् । तथापि इदमधिकरणम् आर्थिकार्थविवक्षया वाचनिकार्थविवक्षया च प्रवृत्तमिति ‘कारणानिर्णयो भ्रमः’ इति पूर्वपक्षभेदकयुक्तिद्वयं, तथा ‘प्राधान्यं, प्रीतिः’ इति सिद्धान्तभेदकयुक्तिद्वयं च, वदताऽनु-व्याख्यानकृता सूचनात्, तदनुसारेण द्वेधा व्याख्यातमित्यदोषः । अनुव्याख्या कृता न तु सर्वेष्वप्यधिकरणेषु यावानार्थिकोऽर्थः स सर्वोऽपि विवक्षित इति ज्ञापनाय इदमधिकरणम् आर्थिकार्थपरतया, वाचनिकार्थपरतया च, प्रवृत्तमिति सूचनं कृतम् । इयांस्तु विशेषः । आद्य-व्याख्याने चरमसूत्रं न व्याख्यातमित्येव, परं तु बाधकपरिहाराय इदं सूत्रं तत्रापि योजनीयम् । द्वितीयव्याख्याने तु आद्यं सूत्रद्वयं प्रागेव व्याख्यातमिति न व्याख्यातमित्येव । परं तु इहापि सूत्रद्वयं टीकाकृतो विवक्षितम् । अत एव प्राक् उपासनस्य कर्तव्यतासमर्थनादित्युक्तम् । इह तु ज्ञानस्य मोक्षसाधनत्वसमर्थनादित्युक्तम् । अन्यथा प्रागेव ज्ञानस्य मोक्षसाधनत्वसमर्थनादित्य-वक्ष्यदिति ।

प्रकृतो मोक्ष एव विषय इति ॥ यद्यपि ज्ञानस्य मोक्षसाधनत्वसमर्थनादिति स्वयमेवाभिधानाज् ज्ञानमेव विषयः, मोक्षसाधनं न वेति सन्देह इत्यादि वक्तव्यम्, न तु मोक्ष एव विषय इत्यादि, तथापि अस्याधिकरणस्य मोक्षसाधनत्वमिव मोक्षस्य ज्ञानसाध्यत्वमपि प्रमेयमिति । तथोक्तम् अवधारणयुक्तत्वादिति ॥ अवधारणसमानार्थक ‘नान्यः पन्था’ इति शब्दयुक्तत्वादित्यर्थः । एतेन ‘तमेवम्’ इति श्रुतौ अवधारणाश्रवणान् निरवकाशावधारणयुक्तत्वादित्ययुक्तमिति परास्तम् । ज्ञानस्यैव मोक्षसाधनत्वे कर्मयोगो व्यर्थ इत्यत आह कर्मयोगश्चेति ॥

पूर्वपक्षस्तु– कर्मसाध्य एव मोक्षः । ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति वचनात् । श्रुतिस्मृत्योः सावधारणत्वेऽपि भगवद्वाक््यत्वेन स्मृतेरेव बलवत्वात् । ततश्च श्रुतेः स्मृतिबाधितत्वेन ज्ञानस्य मोक्षसाधनत्वाभावान् न तदर्थमुपासनं कार्यमिति ।

वाक्यार्थमुक्तावली

पूर्वाधिकरणे तमेवमित्यादिश्रुतेः सावधारणत्वे प्राबल्यमित्युक्ते तर्हि कर्मणैव संसिद्धिमिति स्मृतेः सावधारणत्वेन भगवद्वाक्यत्वेन च प्राबल्याद् विद्यावचनस्य तद्बाध इत्याक्षेपोत्थानादनन्तर-सङ्गतिः । यद्यप्यस्य पूर्वशेषत्वेनाधिकरणान्तरत्वमयुक्तम् । तथापि पृथङ्न्यायसूचकत्वात् पृथगधि-करणत्वं न्यायमालायां दर्शितमिति टीकायामधिकरणान्तरं कृतं बोध्यम् ॥ किमिति ॥ अत्र मोक्षः कर्मसाध्य उत ज्ञानसाध्य इति चिन्ता । तदर्थं स्मृतेः प्राबल्यमुत श्रुत्यादीनाम् । सूत्रे बाधपदेन विद्यावचनस्य प्राधान्यप्रतीतेर् भ्रमत्वे स्मृतिबाधरूपयुक्त्यभिधानात् सूचितं भ्रम इत्युक्तन्यायं व्यञ्जयितुमाह ॥ स्मृतेरपीति ॥ एतेनेति ॥ सर्वज्ञतमभगवत्प्रत्यक्षमूलत्वेन श्रुतिनिरपेक्षत्वेनेत्यर्थः ।

सूत्रे विद्यैव मोक्षसाधनमित्यस्येति योज्यम् । न बाधः न स्मृतिबाधः । कुतः? श्रुत्यादीनां चतुर्णां बलीयस्त्वान् निरवकाशत्वादिनातिप्रबलत्वात् । चशब्दात्परकीयस्मृतेः सावकाशत्वेन दुर्बलत्वाच्चेत्यर्थं विवक्षित्वा व्याचष्टे । मोक्ष इत्यादिना ॥ दुःखासम्भिन्नेति । दुःखे सत्यपि सुखं न पश्ये इत्युक्त्या दुःखासमानाधिकरणसुखं (न) लभ्यत इति भावः । निरवकाशत्वादिति । मोक्षसाधनत्वं विना तदर्थप्रार्थितत्वस्य गत्यन्तराभावादिति भावः । यद्यपि न कर्मभिरिति वचनाद् आगमविधय एव कर्मणो मोक्षहेतुत्वे प्रमाणम् । तथापि ज्ञानं न मोक्षहेतुरित्युक्तत्वात् तत्वज्ञान-प्रार्थनं ज्ञानं मोक्षसाधनं तदर्थं प्रार्थ्यमानत्वात् । यद्यदर्थं प्रार्थ्यते तत्तत्साधनम् । यथा कर्म स्वर्गस्येति ज्ञानस्य मोक्षसाधनत्वे लिङ्गमिति भावः ॥ श्रौतत्वाच्चेति ॥ कर्म न नित्यपुरुषार्थसाधकं तद्विरुद्धफलकत्वात् । यद्यद्विरुद्धफलकं न तत्तत्साधनम् । यथा पापं स्वर्गस्येति भावेनाकृतो मोक्षः कृतेनोत्पत्तिनाशवत्फलकेन कर्मणा नास्ति । तत्तस्य मोक्षस्य तस्मात् कार्यत्वे सत्यन्यासाध्यत्वात् तत्साधनविज्ञानार्थं गुरुमेवाभिगच्छेदिति मोक्षो ज्ञानैकसाध्य इत्यत्रोपपत्तेः । श्रुतावेवोक्तत्वादित्यर्थः । यद्यपि मोक्षार्थं तत्वज्ञानप्रार्थनलिङ्गमपि श्रौतम् । तथापि मोक्षार्थं तत्वज्ञानप्रार्थनात् तत्वज्ञानं मोक्षफलकमित्यश्रवणान् निरवकाशत्वादित्येवोक्तम् । अनेनैव विशेषणेन लिङ्गमुपपत्तिरिति च द्वेधोक्तिः ॥ युक्तिमत्वेनेति ॥ कर्मणा बध्यत इत्युक्तकर्मणः बन्धकत्वरूपयुक्तिमत्वेनेत्यर्थः । यद्वा तस्मात् कर्म न कुर्वन्तीत्युक्तमुमुक्ष्वक्रियमाणत्वरूपयुक्तिमत्वेनेत्यर्थः । ‘विद्ययैव विमुच्यत’ इत्यनेन विद्याभावे न मुच्यते तया विना मोचकप्रसादाभावात् प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । इति ज्ञानिप्रियत्ववचनात् । ‘यमेवैष वृणुते तेन लभ्यः’ इति तत्प्रतीतेरेव मोक्षवचनाच्चेति सूचितप्रीतिरित्युक्तयुक्तिमत्वेनेत्यर्थः । नन्वेवं तर्हि जनकादयः कर्मणा सह कर्म कुर्वन्त एव मुक्तिं गता इत्यर्थः स्यात् । न चासौ युक्तः । अपरोक्षज्ञानिनां तेषां कर्म विनापि मोक्षसम्भवेन तद्वैय्यर्थ्येन तदयोगव्यवच्छेदायोगादित्यत आह ॥ कर्मयोगश्चेति ॥

तत्त्वसुबोधिनी

अधिकरणस्य पादान्तर्भावज्ञापनार्थं तत्साधनमिति । पूर्वाधिकरणे तमेवमित्यादिश्रुतेः सावधारणत्वेन प्राबल्यमित्युक्ते तर्हि कर्मणैवेति स्मृतेरपि सावधारणत्वेन भगवद्वाक्यत्वेन प्राबल्यान् न विद्याया मोक्षसाधनत्वमित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ विप्रतिपत्तिरिति ॥ कर्मसाध्यो मोक्षः ज्ञानसाध्य इति विरुद्धवाक्यजन्यविप्रतिपत्तिरित्यर्थः । विद्याकर्मवचनयोः साम्योक्त्या विद्यावचनस्याप्राबल्यभ्रममुपपाद्य कर्मवचनप्राबल्येनापि तमुपपादयति ॥ न चैतावतेति ॥ एतेनेति ॥ भगवद्वाक्यत्वेन प्राबल्यकथनेनेत्यर्थः ॥ श्रुतिस्मृत्योरिति ॥ विरोधेत्वनपेक्षं स्यादसति ह्यनुमानमिति जैमिनिसूत्रादित्यर्थः । ननु कर्मवचनस्यापि सावधारणत्वात् सावधारणा बलवती श्रुतिरित्युक्तमित्यत आह ॥ निरवकाशेति ॥ तस्य तु सावकाशत्वं वक्ष्यते इति भावः ॥ उत्पत्तिनाशवदिति ॥ एवं च कृतेन उत्पत्तिनाशवत् फलवता कर्मणा अकृतनित्यपुरुषार्थो नेत्यर्थ इति स्मृतियोजना सूचिता ॥ युक्तिमत्वेनेति ॥ कर्मणो मोक्षसाधनत्वाभावसाधकस् तस्मादित्युक्त-मुमुक्षुसाधनमिति महान् भेदः । तथा भक्त्येति ॥ अहं तत्वतः यावान् यस्मिन् एवं भूतं मां भक्त्या पुमान् तत्वतो ऽभिजानाति ततो ऽनन्तरं मां तत्वतः ज्ञात्वा मां विशते इत्यर्थः । नन्वस्य वचनस्य असर्वाधिकार्यविशेषविषयत्वात् कथमेकप्रकारत्वं ज्ञानस्येत्यत आह ॥ सामान्य-वचनत्वादेवेति ॥ सौत्रश्चशब्दः पृथुक्त्वस्यानुकर्षणार्थ इत्यभिप्रेत्य प्रवृत्तं तद्दर्शनभेद इति भाष्यं व्याचष्टे ॥ अनेकप्रकारमेवेति ॥ नन्वत्र प्रज्ञान्तरमित्यर्थत्वे उपासनारूपज्ञानविषयस्यालाभात् । ज्ञानमात्रस्य अपरोक्षज्ञानहेतुत्वाभावाच्च । तद्वैचित्र्ये कारणवैचित्र्यरूपहेतुर्न प्रदर्शितः स्यात् । प्रज्ञाशब्दस्यैव उपासनापरत्वे प्रज्ञापृथुक्त्ववदित्येतावता पूर्तेरन्तरशब्दो व्यर्थः स्यादित्यतस् तद्व्याचष्टे– प्रज्ञान्तरं प्रज्ञाविशेष इति ॥ अनेनोपासनाभेदवदिति भाष्येण प्रज्ञान्तरमित्यस्य प्रज्ञाविशेषस्य उपासनस्य पृथुक्त्ववद्भेदवदिति सौत्रपदं व्याख्यातमित्युक्तं भवति ।

ननु भाष्ये उपासनं नाम ध्यानं विवक्षितं तस्यैव अपरोक्षज्ञानसाधनत्वात् । ध्यानं च न ज्ञानं किन्तु मानसीक्रिया । यथोक्तं क्रियामानसवदिति ॥ तथा च प्रज्ञान्तरशब्दस्य प्रज्ञाविशेषपरत्वेऽपि कथमुपासनापदेन तद्व्याख्यानमित्यत आह ॥ अवच्छिन्नेति ॥ तथा च न ध्यानं परिस्पन्दात्मिका मानसक्रिया तथात्वे अतीन्द्रियाश्रितक्रियाया अतीन्द्रियत्वेन अपरोक्षावभासविरोधात् । क्रियाया रूपरहितत्वेन ध्यानरूपावभासविरोधाच्चेति भावः । न च ध्यानस्य परोक्षज्ञानरूपत्वं लिङ्गशब्दा-जन्यत्वात् । श्रवणादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानमित्यंगीकारादिति वाच्यम् । अत्र ध्यानस्य परोक्षज्ञानजन्यसंस्कारमयपदार्थविषयकत्वेन परोक्षत्वव्यवहारात् । न चैवं क्रियामानसवदिति सूत्रविरोधः । तस्य धात्वर्थक्रियावाचित्वात् । यद्वा ध्यानस्य वासनामयपदार्थ-विषयकत्वेनापरोक्षरूपत्वेऽपि तस्य परोक्षविषयकत्वाभावे नैष्फल्यप्रसङ्गात्तद्विषयत्वमावश्यकम् । तथा च ध्यानस्य परमात्मविषयकत्वे परोक्षरूपत्वायोगेन ज्ञातः परमाणुरित्यादिवदुपनीत-भानत्वाभ्युपगमे उपासनस्य परोक्षत्वात्परोक्षव्यवहारः । शङ्कते । योग्यतैव कथं ज्ञायते इति ॥ परिहरति ॥ आचार्य आचक्षत इति । विशेषबलादिति । विशेषवाक्यबलादित्यर्थः । तर्हि यावानिति वाक्यस्य का गतिरित्यत आह ॥ यावानिति ॥

वाक्यार्थविवरणं

साम्यम् ॥ ज्ञानसाध्यत्वकर्मसाध्यत्ववचनयोरुभयोरपि सावधारणत्वेन साम्यमित्यर्थः ॥ भगवदिति ॥ कर्मणैवेति गीतावचनस्य कृष्णवाक्यत्वेनेत्यर्थः ॥ एतेनेति ॥ भगवद्वाक्यत्वेन कर्मणेति स्मृतेः प्राबल्यकथनेनेत्यर्थः ॥ बलवती ॥ मूलप्रमाणनैरपेक्ष्यादिति भावः ॥ तदपेक्षत्वात् ॥ मूलप्रमाणसापेक्षत्वात् । सापेक्षनिरपेक्षयोश्च निरपेक्षस्य स्वीकार्यत्वादिति भावः ॥ बहुकर्मकृत इति ॥ ‘अश्वमेधाञ्छतमिष्ट्वा’ इत्युक्तत्वादिति ध्येयम् ॥ शतम् ॥ शतसङ्ख्याकान् अश्वमेधान् इत्यर्थः । अत एव स शतक्रतुरिति ध्येयम् । कृतेनेत्यस्यार्थ उत्पत्त्यादीति । अकृत इत्यस्यार्थो नित्यपुरुषार्थ इति मोक्ष इत्यर्थः ॥ साम्यात् ॥ कर्मणैवेति स्मृतिवचनेनेत्यर्थः । न केवलं साम्यमपि तर्हि कर्मणा बध्यते इति भगवद्वचनमेव मुमुक्ष्वक्रियमाणत्वबन्धकत्वयुक्तियुक्तत्वेन बलवत्त्वेनाधिकमेवेत्याशयेनाह ॥ युक्तीति ॥ स्मृतिः ॥ कर्मणैवेति स्मृतिः ।

वाक्यार्थमञ्जरी

न चैतावतेति ॥ तथा च न कर्मपक्षपातो युक्त इति भावः ॥ अपहस्तितमिति ॥ स्मृतेः स्वतःसर्वज्ञभगवत्प्रत्यक्षमूलत्वेन श्रुत्यनपेक्षणादिति भावः ।

ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ । ज्ञानस्य मोक्षहेतुत्वोक्तौ न बाधः नोक्तस्मृतिबाधः । कुतः श्रुत्या बलीयस्त्वात्, तथा प्रतिपादकानां श्रुतिलिङ्गयुक्तिस्मृतीनां बलवत्त्वादित्यर्थः ॥ असंभिन्नेति ॥ अमिश्रेत्यर्थः । कृतशब्दार्थ उत्पत्त्यादीति । अकृत इत्यस्य नित्यपुरुषार्थेति ॥ युक्तिमत्त्वेनेति ॥ कर्मणो बन्धकत्वरूपयुक्तिमत्त्वेनेत्यर्थः ॥ अतिशयार्थेति ॥ न तु मोक्षार्थः येन ज्ञानकर्मसमुच्चयसाध्यत्वं मोक्षस्येति भावः ।

॥ इति अबाधाधिकरणम् ॥ ३० ॥