२९ विद्याधिकरणम्

ॐ विद्यैव तु निर्धारणात् ॐ

२९. विद्याधिकरणम्

सूत्रभाष्यं

न च ‘कर्मणैव हि संसिद्धिमास्थिता जनकादय’ (भ.गी.३२०) इत्यादिनाऽन्यन्मोक्ष-साधनम् ।

॥ ॐ विद्यैव तु निर्धारणात् ॐ ॥ ४८ ॥

‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’ (श्वे.उ.३-८)इति निर्धारणाद्विद्ययैव मोक्षः ।

तत्त्वप्रदीपिका

एवं तावदतिप्रयत्नेनापि गुरुं प्रतोष्य तदुपदिष्टमार्गेण श्रवणादिभिरेव ज्ञानं जायत इत्युक्तम् । तत्रेदमाशङ्क्यते, स्यादेतदेवं यदि ज्ञानस्य मोक्षसाधनत्वम् । न तु तदस्ति । ‘कर्मणैव हि संसिद्धि-मास्थिता जनकादयः’ इत्यादिना अन्यस्य मोक्षसाधनत्वात् । सत्योपाधिबन्धस्य ज्ञान-मात्रेणानपायाच्च । न हि बन्धूकसम्बन्धकृतं स्फटिकलौहित्यं स्वच्छः स्फटिक इति ज्ञानमात्रा-न्निवर्तते । ननु क एवमाह स्वच्छः स्फटिक इतिवच्छुद्धोऽहमिति ज्ञानमात्राद्बन्धनिवृत्तिरिति । ईश्वरज्ञानादेव हि विचक्षणा बन्धमोक्षमाचक्षते । अस्तु तर्हि ज्ञातेश्वरस्य बन्धकारणच्छेदनं कर्म मोक्षहेतुः । ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ इत्यात्रापि त्यागेनैक इति वचनात् कर्मणैक इति भवति । ‘अधाते विष्णोर्विदुषा चिदर्ध्यस्तोमो यज्ञश्च राध्यो हविष्मता’इति ज्ञानिनः कर्मविधानाच्चान्यदेवान्यदपि वा मोक्षसाधनमित्यत आह– विद्यैव तु निर्धारणात् ॥ ‘तमेव विदित्वा’ इत्यन्यविद्यानिवारणात् ‘नान्यः पन्था’ इति साधनान्तरनिवारणाच्च । एवं निर्धारणात्–

‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते ॥’

‘न चेदिहावेदीन्महती विनष्टिः ।’

‘यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।

तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति’ इत्यादेश्च भगवद्विद्ययैव मोक्षः ॥

तत्त्वप्रकाशिका

अत्रेश्वरदर्शनसाधनोपासनस्य कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तं व्यर्थं स्यादिति समर्थनीयमेतत् । प्रकृतं भगवदुपासनं विषयः । कर्तव्यं न वेति सन्देहः । द्विविध-क्रियादर्शनं सन्देहबीजम् । न भगवदुपासनं कर्तव्यमिति पूर्वः पक्षः । व्यर्थत्वात् । न च ज्ञानार्थ-मुपासनं तस्यापि वैय्यर्थ्यात् । न च मोक्षार्थं तदनिश्चयात् । यथा खलु ‘तरति शोकमात्मवित्’ इति ज्ञानस्य मोक्षसाधनत्वं प्रतीयते तथा ‘कर्मणैव हि’ इत्यादिना कर्मापि मोक्षसाधनं प्रतीयते । न च ‘भाक्तं वानात्मवित्त्वात्’ इत्युक्तमिति वाच्यम् । तृतीयायाः साक्षात्करणार्थत्वात् । संसिद्धि-पदेन च साक्षान्मोक्षाभिधानाच्च । अतो ज्ञानस्य मोक्षसाधनत्वानिश्चयान्न तदर्थोपासना कर्तव्येत्युक्तं व्यर्थमिति । पूर्वपक्षं प्रतिषेधति ॥ न चेति ॥ तदुपपादनाय सूत्रमुपन्यस्य व्याचष्टे ॥ विद्येति ॥ कर्मणैवेत्यादिनान्यन्मोक्षसाधनं प्रतीयत इति मोक्षसाधनानिर्णयादनुपासनमिति न वाच्यम् । ‘नान्यः पन्थाः’ इति सावधारणविद्यावचनस्य कर्मवचनादपि प्राबल्येन तद्बलाद्विद्यैव मोक्षसाधनमिति निर्णयोपपत्तेरिति भावः ।

गुर्वर्थदीपिका

नन्वपरोक्षज्ञानस्य मोक्षसाधनत्वप्रतिपादकं ‘विद्यैव तु निर्धारणात्’ इति सूत्रं चतुर्थपादस्यादौ निबन्धनीयम् । उपासनापादमध्ये कुतो निबबन्धेति चेत्सत्यम् । ज्ञानस्येष्टानिष्टप्राप्ति-परिहाररूपत्वाभावेन साक्षात्पुरुषार्थत्वाभावात्तदर्थं विहिते कष्टसाध्ये उपासने न निश्शङ्का प्रवृत्तिः स्याद् यावज्ज्ञानस्येष्टानिष्टप्राप्तिपरिहाररूपमोक्षसाधनता नोच्यते । अतः फलाशयाधिकारिणो निश्शङ्कतया प्रवर्तयितुं मध्ये ज्ञानफलनिरूपणस्य सार्थकत्वादिति ज्ञेयम् ।

भावबोधः

उपासनस्य कर्तव्यतासमर्थनादिति ॥ पूर्वाधिकरणे श्रवणादिना परोक्षज्ञानार्थं पूर्वप्राप्तगुरुं परित्यज्य समग्रानुग्रहकर्ता पश्चात्तनः सम उत्तमो वा मुमुक्षुणाऽवश्यं स्वीकार्य इत्युक्ते कर्मणा मोक्षस्य सम्भवान् निष्फलज्ञानार्थं गुरुस्वीकारो व्यर्थ इत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ कर्तव्येत्यादि ॥ अत्र किं भगवदुपासनं कर्तव्यमुताकर्तव्यमिति चिन्ता । तदर्थमुपासनस्य ज्ञानद्वारा मोक्षसाधनत्वं न सम्भवत्युत सम्भवतीति । तदर्थं मोक्षस्य कर्मादिसाधनान्तरसाध्यत्वमुत ज्ञानैकसाध्यत्वमिति । ज्ञानैकसाध्यत्वेऽपि किं साधनस्यावश्यकत्वं नास्त्युतास्तीति । तदर्थं ‘तमेव’ इत्यादौ श्रुतो विद्याशब्दः ज्ञानसामान्यपर उतापरोक्षज्ञानरूपविशेषपर इति । विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णय इति न्यायविवरणानुसारेण ‘कर्मणैव’ इत्यादिभाष्यं व्याचष्टे– यथा खल्वित्यादिना ॥ भाष्ये ‘अपाम सोमं’ इति श्रुतिमनुदाहृत्य ‘कर्मणा’ इति श्रुत्युदाहरणं ‘भाक्तं वा’ इत्येनास्य गतार्थताशङ्कापरिहारायाभ्यधिकाशङ्का प्रदर्शनार्थमित्यभिप्रेत्य तमाह– तृतीयाया इति ॥ तथा च ‘वा’शब्दज्ञापितः परंपराकारणत्वं न सम्भवतीत्यर्थः ॥ संसिद्धपदेनेति ॥ तथा च ‘भाक्तं’ इत्युक्तस्वर्गादिकारणत्वमपि न सम्भवतीत्यर्थः । ‘नान्यः पन्था अयनाय विद्यते’ इत्यवधारणाद्विद्यावचनस्य प्राधान्यादिति न्यायविवरणानुसारेण ‘तमेवम् इत्यादिभाष्यं व्याचष्टे– नान्यः पन्था इति ॥

भावदीपः

कर्तव्यतेति ॥ कारणानिर्णयेनाकर्तव्यत्वप्राप्ताविति भावः । एवं चोक्तदिशाऽतिप्रयत्नेन गुरुं प्रतोष्य तदुपदिष्टमार्गेण श्रवणादिभिरेव ज्ञानं लभते । ततश्च मोक्षमिति प्रागुक्तमयुक्तम् । उपायान्तरस्यापि सम्भवेन ज्ञानस्यैव मोक्षोपायत्वानिर्णयादिति शङ्कनाद्वा पूर्वत्र विकल्पोक्तौ तर्हि साधनेऽपि अयं वाऽयं वेति विकल्प एव न निर्णय इति शङ्कनाद्वा पूर्वसङ्गतिरपि सूचिता ध्येया ॥ उक्तमिति ॥ गुरुप्रदानादिकमित्यर्थः ॥ प्रकृतमिति ॥ तदपीत्यनेन प्रकृतमित्यर्थः । यद्वाऽतिदेशा-च्चेत्यत्रोक्तश्रुतावित्यर्थः ॥ द्विविधक्रियेति ॥ अन्नादनविषभक्षणक्रिययोर्दर्शनमित्यर्थः । विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णय इति न्यायविवरणोक्तसौत्रैवकारव्यावर्त्यं कारणानिर्णय-हेतुं परंपरया योजयति ॥ व्यर्थत्वादित्यादिना ॥ तदिति ॥ ज्ञानमित्यर्थः ॥ अनिश्चयादिति ॥ ज्ञानस्य मोक्षार्थत्वानिश्चयादित्यर्थः । विद्या कर्म वेत्यन्यत्रोक्त्यनुरोधेन शेषोक्त्या भाष्यं व्याचष्टे ॥ यथेति ॥ वाक्यविशेषोक्तेः कृत्यं व्यनक्ति ॥ न चेति ॥ ज्ञानद्वारा परंपरया मोक्षकारण-मित्युक्तमित्यर्थः ॥ करणेति ॥ कर्तृकरणयोस्तृतीयेति विहितायाः कर्मणेति तृतीयायाः करणार्थत्वादित्यर्थः । एतेन श्रुतितः स्मृतिर्दुर्बला सती न निर्णयप्रतिबन्धिकेति प्रत्युक्तम् । स्मृतेर्भगवद्वाक्यत्वेन साक्षात्करणत्वार्थविभक्तियुक्ततया च श्रुतिसाम्योपपत्तेरिति भावः । एतेनैव वचनद्वयप्रामाण्यादाग्नेयादिषड््यागवत्समुच्चयोऽस्तु ज्ञानकर्मणोरित्यपि निरस्तम् । तृतीयया निरपेक्ष-करणत्वप्रतीतेः । अत एव व्रीहियववन्न विकल्पः । द्वयोर्नित्यवच्छ्रवणविरोधात् । पक्षे बाध-प्रसङ्गात् । तरतिवाक्येऽधिकारिभेदानुक्त्या कल्पकाभावेन व्यवस्थितविकल्पस्याप्ययोगादिति भावेन फलोक्त्योपसंहरति ॥ अत इति ॥ कर्मणोऽपि ज्ञानवन्मोक्षार्थत्वप्रतीतेरित्यर्थः । ज्ञानचिन्ता ज्ञानपादे सङ्गतेत्यतः शेषाक्तिपूर्वं सौत्रैवकारान्तविद्यापदव्यावर्त्योक्तिपरतया भाष्यं व्याचष्टे ॥ कर्मणैवेति ॥ अवधारणाद्विद्यावचनस्य प्राधान्यादिति न्यायविवरणं भाष्ये संयोज्य सूत्रारूढं दर्शयति ॥ नान्य इति ॥ भाष्ये विद्यते अयनायेत्युक्तम् । न्यायविवरणे चायनाय विद्यत इति । तथा च भेदेनोक्तवाक्यद्वयस्याप्युपादानाय नान्यः पन्था इति साधारणपूर्वभाग एवोपात्तः । विद्यैवेति परोक्षज्ञानम् ।

अभिनवचन्द्रिका

कर्तव्यतासमर्थनादिति ॥ अर्थादिति शेषः । एतेन सूत्रस्य विद्यामोक्षसाधनत्वस्यैव प्रतिपादकत्वादुपासनस्य कर्तव्यतासमर्थनादित्ययुक्तमिति परास्तम् ॥ भगवदुपासनमिति ॥ यद्यपि अस्याधिकरणस्य विद्याविषयः, तथापि आर्थिकविचारे उपासनस्य विषयत्वात्तथोक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् । व्यर्थत्वादिति ॥ सुखदुःखाऽवाप्तिहान्योरन्यतरहेतुत्वाभावादित्यर्थः । साक्षात्तद्धेतुत्वाभावेऽपि ज्ञानद्वारा तद्धेतुत्वमिति अनुष्ठेयमेवोपासनमित्याशङ्क्य निषेधति ॥ न च ज्ञानार्थमिति ॥ तस्यापीति ॥ ज्ञानस्यापि सुखदुःखावाप्तिहान्योरन्यतरहेतुत्वाभावादित्यर्थः । ज्ञानस्य मोक्षार्थत्वान् मोक्षस्य सुखरूपत्वाद् असिद्धं ज्ञानवैयर्थ्यमित्यनुष्ठेयमेवोपासनमित्याशङ्क्य निषेधति ॥ न च मोक्षार्थमिति ॥ ज्ञानस्य मोक्षसाधनत्वात्, तत्साधनमुपासनं कार्यमिति नेत्यर्थः ॥ तदनिश्चयादिति ॥ अस्तु वैयर्थ्यमसिद्धम्, तथापि नोपासनं युज्यते । सफलत्वा-निर्णयात् । यद्यपि फलसन्देहादपि कृष्यादौ प्रवृत्तिर्दृश्यते तथापि बहुवित्तव्ययायाससाध्या पारत्रिकी प्रवृत्तिर्न तथा भवितुमर्हतीति भावः । एतेन असिद्धिं परिहरतः सन्दिग्धासिद्धिरापन्नेति परास्तम् । असिद्धिमङ्गीकृत्य प्रकारान्तरेण उपासनाकर्तव्यतानिषेधस्येहाभिमतत्वात् ।

वाक्यार्थमुक्तावली

अन्यथेति ॥ ज्ञानवैय्यर्थ्येनोपासनाया अकर्तव्यत्वे उपासनाया योग्यगुणोपदेशार्थमुक्त-मुत्तमगुरुस्वीकरणं व्यर्थं स्यादित्यर्थः । अत एवानन्तरसङ्गतिरिति भावः ॥ कर्तव्यमिति ॥ भगवदुपासनं न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थमुपासनाजन्यस्य ज्ञानस्य मोक्षसाधनत्वं तरति शोकमात्मविद् इति श्रुत्युक्तं कर्मणैव हि संसिद्धिमित्यादिसत्प्रतिपक्षवचनविरुद्धं न वेति । अत्र कारणानिर्णय इति पूर्वपक्षन्यायप्रदर्शकत्वेन कर्मणैव हीत्यादि भाष्यं व्याकुर्वन्पूर्वपक्षमाह । न भगवदुपासनमित्यादिना ॥ तदनिश्चयादिति ॥ ज्ञानस्य मोक्षकारणत्वनिश्चायकप्रमाणा-भावादित्यर्थः । ‘तरति शोकमात्मवित्’ इति निश्चायकं प्रमाणमस्तीत्यत आह ॥ यथेति ॥ इत्यादिनेति ॥ आदिपदेन ‘त्यागेनैके अमृतत्वमानशुः’ ‘प्रयागमरणेन वा’ इत्यादेर्ग्रहणम् ॥ कर्मापीति ॥ एतेनेत्यादिना अन्यन्मोक्षसाधनमिति भाष्ये न चेत्यत्रान्यश्चशब्दोऽन्वेति । तथा च ज्ञानादपीत्यर्थो लभ्यत इत्युक्तं भवति । भाष्ये ‘अपाम सोमममृता अभूम’ इति श्रुतिमनुसृत्य कर्मणेति श्रुत्युदाहरणं भाक्तं वेत्यन्तेनास्य गतार्थताशङ्कापरिहारायाभ्यधिकाशङ्काप्रदर्शनार्थ-मित्यभिप्रेत्य तामाह ॥ तृतीयाया इति ॥ कर्मणैवेति तृतीयाया इत्यर्थः । तथा च वाशब्द-ज्ञापितपरम्परया कारणत्वं न सम्भवतीत्यर्थः ॥ साक्षान्मोक्षेति ॥ लिङ्गभङ्गरूपेत्यर्थः ।

सूत्रे मोक्षसाधनमिति शेषः । तुशब्दः कर्मणैवेत्यतोऽपि ‘नान्यः पन्थाः’ इत्यस्य प्राबल्य-सूचकः । निर्धारणम् अवधारणम् । निरवयोरुपसर्गमात्रत्वात् । नान्यः पन्थेत्यवधारण-व्यावर्त्यकथनेन विदित्वैवेति लाभात् । यद्वा निर्धारणं नितरां धारणम् । निर्धारणमिति यावत् । यद्वा निर्धारणं निश्चयः । निर्णायकवचनादिति यावद् इत्यभिप्रेत्य प्राधान्यमित्युक्तन्यायप्रदर्शकत्वेन व्याख्याति ॥ नान्यः पन्थेति ॥

तत्त्वसुबोधिनी

उपासनस्य कर्तव्यतेति ॥ पूर्वाधिकरणे श्रवणादिना परोक्षदर्शनार्थं पूर्वप्राप्तं गुरुं परित्यज्य समग्रानुग्रहकर्ता पश्चात्तनः स उत्तमो वा मुमुक्षुणाऽवश्यं स्वीकार्य इत्युक्ते कर्मणा मोक्षसम्भवा-न्निष्फलज्ञानार्थं गुरुस्वीकारो व्यर्थ इत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । अन्यथोक्तं व्यर्थमिति ॥ कर्तव्यता समर्थनाभावे उक्तं गुरुपरिग्रहादि व्यर्थं स्यादित्यर्थः ॥ तदनिश्चयादिति ॥ ज्ञानस्य मोक्षसाधनत्वानिश्चादित्यर्थः । कुतोऽनिश्चय इत्यत आह ॥ यथा खल्विति ॥ ननु भाक्तमित्यत्र कर्मणोऽन्तरशुद्धिद्वारा ज्ञानसाधनत्वमुक्तम् ॥ तथा इति ॥ कर्मणेत्यस्या इत्यर्थः । तथा च वाशब्दज्ञापितपरम्पराकारणत्वं न सम्भवतीत्यर्थः । तथापि मोक्षं प्रति कारणत्वं कुत इत्यत आह– संसिद्धिपदेनेति ॥ अन्यथा संशब्दवैय्यर्थ्यं स्यादित्यर्थः । तथा च भाक्तमित्युक्त-परम्पराकारणत्वमपि सम्भवतीत्यर्थः ।

वाक्यार्थविवरणम्

उक्तम् ॥ गुणोपसंहारादिकम् । ननु वचनबलान्निश्चयः सम्भवतीत्यत आह ॥ यथा खल्विति ॥ ध्यानोपासनं ध्यानरूपोपासनम् । विद्यया श्रवणादिरूपपरोक्षज्ञानेन । दर्शनात् । अपरोक्षज्ञानात् ।

वाक्यार्थमञ्जरी

उक्तं पादमारभ्य कुत इत्यतः कोट्यन्तरसद्भावादित्याह ॥ यथेति ॥ भाक्तं वेति ॥ तत्र मोक्षं प्रति कर्मणः परम्परया हेतुत्वस्य साक्षादमुख्यामृतहेतुत्वस्य चोक्तत्वादिति भावः ॥ ॐ विद्यैव तु निर्धारणात् ॐ ॥ विद्यैव ब्रह्मविषयापरोक्षज्ञानमेव मोक्षहेतुर्न कर्म कुतः निर्धारणात् । ‘नान्य’ इत्यन्यनिषेधे न तस्यैव मोक्षहेतुत्वस्यानिर्धारितत्वादित्यर्थः ॥ कर्मवचनादपीति ॥ तत्रत्यैवकारस्यायोगव्यवछेदकत्वेन सावकाशत्वादिति भावः ।