२८ पूर्वविकल्पाधिकरणम्

ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ

२८. पूर्वविकल्पाधिकरणम्

सूत्रभाष्यम्

॥ ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ॥ ४६ ॥

न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत्पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः ।

‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि ।

गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ॥

समग्रानुग्रहाभावात्सत्यकामः स्वकं गुरुम् ।

ऋषभाद्यनुज्ञया चैव प्राप तस्माद्धि युज्यत’ इति बृहत्तन्त्रे ॥

‘समग्रानुग्रहं कश्चित्स्वयमेव समो यदि ।

कुर्यात्पुनश्च गृह्णीयादविरोधेन कामतः ॥

ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् ।

एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च’इति महासंहितायाम् ॥

तत्त्वप्रदीपिका

किं पूर्वप्राप्त एव गुरुर्ग्राह्य उत पश्चात्प्राप्तोऽप्यथवा पश्चात्प्राप्त एवेत्याकाङ्क्षायामाह– पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॥ न च पूर्वप्राप्त एव गुरुरिति नियमः । नाप्युत्तरप्राप्त एवेति वा । गुरुस्वरूपविशेषमनुग्रहविशेषं चापेक्ष्यैव नियमः स्यात् । समग्रानुग्रहं चेत्पश्चात्तनः प्रकरोति स्वयमेव गुरुश्च स्वयमेव तदा विकल्पः स्यात् । विकल्पो व्यवस्थित एव स्यात् । एतदाह– ‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । गृह्णीयादविचारेण’ इति । अथ समग्रानुग्रहं चेत्पश्चात्तनः प्रकरोति समः, स्वयमेव तदा पूर्वाविरोधे विकल्पः स्यात् । मानसक्रियावत् । अस्य भाष्यस्य वर्णना– यथोभयो-र्ध्यानयोः समयोरिति । समत्वं फलतः । तच्चाऽह । ‘विकल्पः समयोर्भवेत्’इति ।

‘समग्रानुग्रहं कश्चित्स्वयमेव समो यदि ।

कुर्यात्पुनश्च गृह्णीयादविरोधेन कामतः’ इत्यादि च ॥

‘समग्रानुग्रहाभावात्’ इत्यादेरयमर्थः । ऋषभादीनामेकैकस्मादेव समग्रानुग्रहाभावादृषभाद्यनु-ज्ञया च सत्यकामः स्वकं गुरुं प्रापेति । अतः सिद्धमसमग्रानुग्रहे तूत्तमस्य तदनुज्ञयाऽवरः प्राप्य इति । एतच्चाऽह– ‘तस्माद्धि युज्यत’ इति ॥

‘वायुर्वृषभरूपः सन्नग्निर्हंसश्चतुर्मुखः ।

मद्गुरूपश्च वरुणः सत्यकामाय होचिरे ॥

नाऽचार्यबुद्ध्या तैरुक्तमतोऽनुज्ञां गुरोरगात् ।

उत्तमाचार्यसम्प्राप्त्यै नावराचार्यतः क्वचित् ।

इच्छेदनुज्ञां श्रुत्वाऽपि नानुज्ञां प्रार्थयेत्ततः’ इत्याचार्यसंहितायाम् ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मज्ञानसाधनोपासनेतिकर्तव्यता यत्प्रसादस्तद्विचारादस्ति शास्त्रादिसङ्गतिः । उत्तमगुरोर-स्वीकारे सार्वज्ञाभावेन भाविफलानुसारेणोपासनानुपपत्तिप्रसङ्गाद्विचारणीयमेव तत् । प्रकृतो गुरुरेव विषयः । किं पूर्वप्राप्त एवेति नियम उत पूर्वतनं त्यक्त्वा अन्योऽपि ग्राह्य इति सन्देहः । उभयथा दर्शनं सन्देहबीजम् । प्रथमप्राप्त एवेति पूर्वः पक्षः । प्रथमप्राप्तत्यागे कारणाभावात् । गुरुपरिग्रह-मात्रेण शुभलाभोपपत्तेः । विनैव कारणं प्रथमप्राप्तसंत्यागे दोषप्राप्तेश्च । ‘गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत्’ इत्यादिवचनात् । अतः पूर्वप्राप्त एव गुरुरिति नियमात्क्वचित्सर्वज्ञगुरोः प्रथम-प्राप्तत्वाभावे प्रागुक्तं न युज्यत इति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ पूर्वेति ॥ न पूर्वप्राप्त एव गुरुरिति नियमः । पश्चात्तनोऽपि स्वीकार्यो भवति । न च वैयर्थ्यम् । गुरुपरिग्रहस्य समग्रानुग्रहार्थत्वात् । स च पूर्वतनेन समोऽधिको वा समग्रानुग्रहं करोति चेत्स्वीकार्यो नाधमः । समग्रानुग्रहस्याकर्तोत्तमोऽपि न स्वीकार्यो न वा । न तु स्वीकार्य एवेति विधिः । विकल्पश्च यदृच्छया प्राप्तौ न तु तदर्थं प्रयतितव्यम् । समग्रानुग्रहकर्तोत्तमश्चेत्तदा न विकल्पः स्यात् । पूर्वानुज्ञां विनैवासंशयं स्वीकार्यः स्यादिति भावः । साम्ये विकल्प इत्यत्रोक्तं दृष्टान्तं व्याचष्टे ॥ मानसेति ॥ तदेव व्यनक्ति ॥ यथेति ॥ विकल्पः स्यादिति सम्बन्धः । अत्र स्मृतिमाह ॥ पूर्वस्मादिति ॥ यदि पूर्वस्मादुत्तमोऽविचारेण स्वीकार्यस्तर्हि कथमृषभादयः सत्यकामेन न गृहीताः । पूर्वतन एव प्राप्तोऽतो नैतद्युक्तमित्यत आह ॥ समग्रेति ॥ नास्माभिरुत्तममात्रपरिग्रह उच्यते किं तु समग्रानु-ग्रहकर्तुरुत्तमस्य । सत्यकामः समग्रानुग्रहाभावान्नोत्तमान् जग्राहेत्यतः पूर्वपरित्यागेनोत्तमः समो वा स्वीकार्य इति युज्यत इति भावः । साम्ये पूर्वानुज्ञापेक्षितेतिभावेन तत्र स्मृतिं चाह ॥ समग्रेति ॥ अविरोधेन गुर्वनुज्ञया । अनेन दोषवचनस्य विषयो दर्शितो भवति । अधमस्वीकारविषयं वा व्यर्थस्वीकारविषयं वाऽनुज्ञाभावविषयं वेति ।

गुर्वर्थदीपिका

इतिकर्तव्यता यत्प्रसाद इत्यत्र येषां गुरूणां प्रसाद इति कर्तव्यताश्रवणादेरङ्गम् । ते गुरवो विचार्यन्त इत्यर्थः । प्रकरोतीति वदता प्रकरणात् प्रकृष्टकरणात् प्रकृष्टानुग्रहकरणादिति सूत्रार्थ-स्सूचितः । समे विकल्पोक्तावर्थादुत्तमे तदभावस्यापि प्राप्तत्वादविकल्प इत्युक्तम् । पूर्वमेव गृहीतो गौतमाख्यऋषिरूपो नीचगुरुः ‘अग्निष्टे पादं वक्ता ’इत्यादि प्रायपाठानुसारेण ‘आचार्यस्ते पादं वक्ता’ इत्यस्याप्यूह्यत्वादृषभाद्यनुज्ञया चेत्युक्तम् । अनेनोत्तमोऽपि ऋषभः स्वस्माच्छ्रवणायोग्य-त्वान्न सम्पूर्णानुग्रहं कृतवानिति ज्ञेयम् । अतो राजगृहान्नालाभाद्भिक्षुगृहान्नप्रार्थनायेव ततो नीचस्यापि पूर्वगुरोः प्रार्थनायागतः । ऋषभादीनामाचार्यत्वेनावरणेऽपीदमेव कारणमिति ज्ञेयम् ।

भावबोधः

इतिकर्तव्यता यत्प्रसाद इति । अस्य पादान्तर्भावकथनार्थमेतदुक्तम् । पूर्वसूत्रे गुरुप्रसाद-रूपेतिकर्तव्यतायाः प्राबल्येनाऽऽवश्यकत्वोक्तौ यदृच्छया समग्रानुग्रहकर्तृस्वीकारानन्तरं पश्चात् समग्रानुग्रहकर्तृलाभे किं कर्तव्यमित्याक्षेपे तद्विचारादनन्तरसङ्गतिरिति भावः । किं पूर्वेति । अत्र किं पूर्वप्राप्त एव गुरुरिति नियम उत पश्चात् प्राप्तोऽपि स्वीकार्य इति चिन्ता । तदर्थं ‘गुरुमन्त्र-परित्यागी रौरवं नरकं व्रजेत्’ इति वचनं किं निरवकाशमुत सावकाशमिति । तथर्दं किं गुरु-स्वीकारोऽदृष्टमात्रप्रयोजनक उत ज्ञानादिदृष्टादृष्टोभयप्रयोजनक इति । तदर्थं गुर्वन्तरस्वीकारे प्रमाणं नास्त्युतास्तीति । न च पूर्वप्राप्त एव गुरुरिति नियम इति भाष्यानुसारेण पूर्वपक्षमाह– प्रथमप्राप्त एवेति ॥ न चोत्तमगुरुस्वीकारार्थत्वे प्राप्तसंत्यागदोष इति न्यायविवरणं मनसि निधायाह– विनैवेति ॥ प्रागुक्तमिति ॥ ‘इतरे तु अर्थसामान्यात्’ इत्यत्रोक्तं भाविफलानुसारेण सर्वज्ञगुरूप-दिष्टस्वयोग्यगुणोपासनमित्यर्थः । समाग्रानुग्रहार्थत्वादिति । अनेन पश्चात्तनगुरूस्वीकारे समग्रानु-ग्रहकर्तृत्वं हेतुरित्युक्तं भवति । ‘समग्रानुग्रहं’ इत्यादिस्मृत्यनुसारेण सूत्रे ‘प्र’ इत्युपसर्गस्य समग्रत्वमर्थः । योग्यतयाऽनुग्रहस्येत्यस्य लाभः । तथा च प्रकरणात् समग्रानुग्रहकरणात् पूर्वस्य समस्य त्यागे विकल्पः । अधमत्यागादिनियमोपलक्षकमेतत्; इत्यभिप्रेत्य प्रवृत्तं समग्रानुग्रहं चेत्पश्चात्तनः करोतीति भाष्यं व्याचष्टे– स चेति ॥ नाधम इति ॥

‘गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित्’

इत्यनुव्याख्यानोक्तेरिति भावः ।

‘समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम्’

इति स्मृत्यनुसारेणाह– समग्रानुग्रहस्याकर्तेति ॥ समग्रानुग्रहमित्यादिभाष्यं स्वयमेव तदा विकल्पः स्यादिति शेषसाहित्येन प्रकारान्तरेण व्याचष्टे– समस्य चेत्यादिना ॥

‘समे विकल्प एव स्यात् पूर्वानुज्ञा च सर्वथा’

इत्यनुव्याख्यानं ‘अविरोधेनैव’ इति स्मृतिं च मनसि निधायाह– पूर्वानुज्ञयेति ॥ स्वयमेवे-त्यस्यार्थो विकल्पश्चेति । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यादिति भाष्यमविकल्प इति अकारप्रश्लेषेण प्रकारान्तरेण व्याचष्टे– समग्रानुग्रहकर्तेति ॥

‘तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते’

इत्यनुव्याख्यानानुसारेण, स्वयमेवेत्यस्यार्थ उक्तः । पूर्वानुज्ञां विनैवेति । तस्य चाविचारेणेति स्मृत्यनुसारेण तात्पर्यकथनमसंशयमिति भाष्ये उत्तमः स्वीकार्य इति च पदद्वयाध्याहार इति ज्ञातव्यम् । अविरोधेन पूर्वानुज्ञयेति । अनुज्ञाभावे विरोधोत्पत्तेरिति भावः । अनेन दोषवचनस्येति । अनेन दोषवचनस्यैव सावकाशत्वेन तत्तत्र मानं न भवतीत्यभिप्रेत्य न्यायविवरणे तत्र दोषे मानाभावादित्युक्तमित्युक्तं भवति । व्यर्थस्वीकारविषयं वेति । समग्रानुग्रहस्याकर्तुः समस्योत्तमस्य वा स्वीकारविषयमित्यर्थः ।

भावदीपः

यत्प्रसादस्तद्विचारादिति ॥ एतेन पूर्वोपजीवनरूपं पूर्वानन्तर्ये बीजं च सूचितम् । एतच्चिन्ता-फलमाह ॥ उत्तमेति ॥ उत्तमगुरोरस्वीकारे साधारणगुरोरुपयुक्तसार्वज्ञाभावेन तन्मुखेन स्वप्राप्यभाविफलानुसारिगुणोपदेशालाभादधिकारिणां फलानुसारेणोपासनायोगादितरे त्वित्यत्रोक्त-मयुक्तं स्यादित्यर्थः ॥ प्रकृत इति ॥ पूर्वसूत्रे गुरुप्रदाननिर्देशकेन तद्धीति तत्पदेन प्रकृत इत्यर्थः ॥ उभयथेति ॥ लोके भृत्यादौ पूर्वप्राप्तस्वामिपरित्यागापरित्यागयोर्द्वयोरपि दर्शनमित्यर्थः । पूर्वप्राप्त एव गुरुरिति नियम इति भाष्यसूचितसंशयकोटी उक्त्वा तदनुगुणपूर्वपक्षप्रतिज्ञां चाह ॥ प्रथमेति ॥ पूर्वप्राप्त एवेति भाष्योक्तैवकारसूचितहेतुमाह ॥ प्रथमप्राप्तेति ॥ प्रदानवदेवेत्यत्रोक्तज्ञानप्राप्तिरेव कारणमस्तु । केवलश्रवणादिमात्रेण तदसिद्धेरित्यत आह ॥ गुरुपरिग्रहेति ॥ हेतोरप्रयोजकत्व-निरासाय प्राप्तं स त्यागनिमित्तदोष इत्यन्यत्रोक्तं च हेतुमाह ॥ विनैवेति ॥ अत इति ॥ पूर्वत्यागेनाऽन्यस्वीकारस्य व्यर्थत्वाद्दोषवचनाच्चेत्यर्थः । प्रागुक्तमितरे त्वित्यत्रोक्तमित्यर्थः ॥ भाष्यं व्याचष्टे ॥ नेति ॥ एवकारार्थमाह ॥ पश्चात्तनोऽपीति ॥ समग्रेत्यादिभाष्यभावार्थं व्यावर्त्यपूर्वमाह ॥ न चेति ॥ भाष्याक्षरार्थमाह ॥ स चेति ॥ पश्चात्तन इत्यर्थः । भाष्यस्थस्मृत्यनुरोधेनोक्तम् ॥ समोऽधिको वेति ॥ गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचिदित्यनुभाष्यं हृदि कृत्वाऽह ॥ नाधम इति ॥ तदा विकल्प इत्यत्र विकल्पोऽविकल्प इति च द्वेधा विच्छिद्यार्थमाह ॥ समस्य चेति ॥ विकल्पशब्दार्थमाह ॥ स्वीकार्यो न वेति ॥ व्यवस्थितविकल्प इत्युपेत्योक्तम् ॥ पूर्वानुज्ञयेति ॥ स्वयमेवेत्यस्यार्थो यदृच्छया प्राप्ताविति । अविकल्पशब्दार्थमाह ॥ असंशयं स्वीकार्यः स्यादिति ॥ अत्र स्मृतिमिति ॥ उक्तसर्वार्थ इत्यर्थः ॥ अनेनेति ॥ पूर्वस्मादित्यादि-स्मृतिकथनेनेत्यर्थः । तदेव व्यनक्ति ॥ अधमेत्यादिना ॥

अभिनवचन्द्रिका

स्यात् पश्चात्तनोऽपि गुरुः स्वीकार्यः स्यात् । कुतः प्रकरणात् प्रकृष्टानुग्रहकरणात् । उक्तस्यापवादमाह– पूर्वविकल्प इति ॥ पश्चात्तनसमग्रानुग्रहकर्ता पूर्वेण समश्चेत्, पूर्वानुज्ञया विकल्पः न तूत्तमवत्स्वीकारनियमः । पूर्वानुज्ञा चेत् स्वीकार्यः, न चेन्नेति । तत्र दृष्टान्तः क्रिया-मानसवदिति । समानयोर्ध्यानयोरिवेति सूत्रार्थः ॥ सर्वज्ञानाभावेनेति ॥ ध्यानोपयोगिध्येय-स्वरूपज्ञानाभावेन भाविफलानुसारेण उपासनानुपपत्तिप्रसङ्गादित्यर्थः ॥ प्रथमप्राप्तसन्त्याग इति ॥ अन्यगुरुस्वीकारेण प्रथमप्राप्तसंत्याग इत्यर्थः । प्रथमप्राप्तगुर्वसाध्यशुभलाभाय पुनरन्यो गुरुः स्वीकार्य इत्यत आह– गुरुपरिग्रहमात्रेणेति ॥ गुरुपरिग्रहमात्रेण एकलव्यवत् शूभलाभो-पपत्तेरित्यर्थः ॥ विनैव कारणमिति ॥ त्यागकारणीभूतपातित्यादिदोषं विनैवेत्यर्थः ॥ गुरु-मन्त्रेति ॥ गुरुपरित्यागी, मन्त्रपरित्यागीत्यर्थः ॥ प्रागुक्तं न युज्यत इति ॥ सर्वज्ञगुरूपदेशानु-सारेण ध्यातव्यमिति यत्प्रागुक्तं तन्न युज्यत इत्यर्थः । भाष्ये ‘समग्रानुग्रहं चेत्प्रकरोति’ इति विशेषणबललब्धमर्थमाह– समग्रानुग्रहस्याकर्तेति ॥ ‘तदाविकल्पः स्यात्’ इति भाष्यस्य विषयमाह– समस्य चेति ॥ ‘तदा विकल्पः स्यात्’ इति भाष्यस्याऽविकल्प इति पदच्छेदमङ्गी-कृत्याऽर्थान्तरमाह– समग्रेति ॥

पूर्वपक्षस्तु– प्रथमप्राप्त एव गुरुः स्वीकार्यो न तु तत्परित्यागेनान्यः स्वीकार्यः । परित्याग-कारणीभूतपातित्यादिदोषाभावात् । न च प्रथमप्राप्तगुर्वसाध्यफललाभायाऽन्यः स्वीकार्य इति वाच्यं गुरुस्वीकारेणैव तदुपपत्तेः । न हि गुरुस्वीकारस्य साध्यं नास्ति येनान्यस्वीकारः स्यात् । अन्यथैकलव्यस्य विद्याप्राप्तिर्न स्यात् । पातित्यादिदोषं विनापि गुरुपरित्यागे च दोषप्राप्तेश्च । अतः पूर्वप्राप्त एव गुरुरिति नियमात् क्कचित्सर्वज्ञगुरोः प्रथमप्राप्तत्वाभावे प्रागुक्तं न युज्यत इति ।

सिद्धान्तस्तु– न पूर्वप्राप्त एव गुरुरिति नियमः । पश्चात्तनः समग्रानुग्रहं करोति चेत्सोऽपि ग्राह्यः । गुरुपरिग्रहस्य समग्रानुग्रहार्थत्वात् । गुरुप्रसादमन्तरा गुरुस्वीकारमात्रेण मोक्षादिलक्षण-महाफलाभावात् । ‘ये च नान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृृणुहि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतिदेशाच्च । समग्रानुग्रहकर्ता पूर्वस्मादुत्तमश्चेत् पूर्वानुज्ञां विना निःसंशयं स्वीकार्य एव । समश्चेत्पूर्वानुज्ञया स्वीकार्यः । नो चेन् न स्वीकार्य इति विकल्पः स्यात् । मानसक्रियावद् अधमश्चेन् न स्वीकार्य एव । ‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । ग गृह्णीयादविचारेण विकल्पः समयोर्भवेत्’ इति स्मृतेः । अतः सर्वज्ञगुरुस्वीकारस्योपपन्नत्वात् तदुक्तप्रकारेणोपासनं कर्तव्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

इतिकर्तव्यता यत्प्रसाद इति ॥ ननु गुरुप्रसाद इतिकर्तव्यता इति प्रदानवदित्यत्रोक्तम् । तथा चेदं तदनन्तरमेव स्यादिति चेन्न । कथमितिकर्तव्यताहिंसायां मन्त्रादिवद्वा स्वाध्यायस्य कुशाग्रहणादिवद्वेति इतिकर्तव्यत्वप्रकारविचारस्याभ्यर्हितत्वेन तदनन्तरं गुरुविचारोपपत्तेः । लिङ्गभूयस्त्वादित्यत्र ऋषभाद्युत्तमलाभेऽपि सत्यकामेन पूर्वप्राप्तगुरोरनुसारेणोक्तौ तर्हि पूर्वप्राप्त एव गुरुरिति नियम इति पूर्वपक्षोत्थानाच्चानन्तरसङ्गतिरिति भावः ॥ सार्वज्ञाभावेनेति ॥ कुशकस्य पूर्वप्राप्ताधमगुरोश्चेति शेषः ॥ प्रसङ्गादिति ॥ इतरे त्वर्थसामान्यादिति प्रागुक्तमयुक्तं स्यादिति शेषः ॥ किमिति ॥ किं पूर्वप्राप्त एव गुरुरिति नियम उत पश्चात्प्राप्तोऽपि स्वीकार्य इति चिन्ता । तदर्थं किं पूर्वपरित्यागे कारणं नास्ति गुरुमन्त्रपरित्यागीति दोषवचनं च निरवकाशमुत कारणमस्ति दोषवचनं च सावकाशमिति ॥ न पूर्वप्राप्त एवेति भाष्यनिषेध्यं पूर्वपक्षसाध्यमाह । प्रथमप्राप्त एवेति । प्रकरणादित्यत्र प्राप्तगुरुसन्त्यागे कारणोक्त्या सूचितं प्राप्तसन्त्याग इत्युक्तन्यायं तत्र हेतुत्वेनाह ॥ प्रथमप्राप्तेति ॥ पुनश्च गृह्णीयादविरोधेन कामत इति भाष्ये दोषवचनस्य विषयोक्त्या सूचितं प्राप्तसन्त्याग इत्युक्तन्यायं प्राप्तसन्त्यागे दोषस्स्यादित्येवं हेत्वन्तरपरत्वेन व्याचष्टे ॥ नैवेति ॥ गुरुत्यागे भवेन्मृत्युर्मन्त्रत्यागे दरिद्रता । गुरुमन्त्रपरित्यागीति वचनमादितः पठनीयम् ॥ प्रागुक्तमिति ॥ भाविफलानुसारेण सर्वज्ञगुरूपदिष्टगुणोपासनमिति इतरे त्वर्थसामान्यादित्यत्रोक्त-मित्यर्थः ।

सूत्रे पूर्वविकल्प इत्यस्य पूर्वप्राप्तगुरौ विकल्पो ऽनियमः । स एवानुवर्तनीय इति नियमोऽ-स्तीत्यर्थं मत्वा प्रागुक्तभाष्यमनूद्यैवकारार्थमाह ॥ पश्चात्तनोऽपीति ॥ प्रकरणादिति ल्यब्लोप-निमित्ता पञ्चमी । प्रेत्युपसर्गस्य समग्रत्वमित्यर्थः । प्रदानवदिति अनुग्रहः कृतोऽत्रानीयते । तथा चानुग्रहस्य प्रकर्षेण सामाग्य्रेण करणमपेक्ष्य समग्रानुग्रहलक्षणफलमपेक्ष्य पश्चात्तनोऽपि स्वीकार्य इत्यभिप्रेत्य पश्चात्तनः करोतीति भाष्यं प्रवृत्तम् । चेच्छब्दो यस्मादित्यर्थे । यस्मात्समग्रानुग्रहं पश्चात्तनः करोतीत्यतस् तादृशफलाभावात्पूर्वप्राप्त एवेति नियम इति तदर्थमभिप्रेत्य व्यावर्त्यकथनपूर्वं व्याचष्टे ॥ न च वैयर्थ्यमिति ॥ पश्चात्तनोऽपि स्वीकार्योऽतः पूर्वप्राप्त एवेत्यनियम इत्युक्तं पश्चात्तनस्वीकारे विशेषाभिधानाय चेदं सूत्रमिति भावेन समग्रानुग्रहं चेत् पश्चात्तनः करोति तदा पूर्वप्राप्ते गुरौ विकल्पः । अनियमः स एवेति । नियमो नास्ति । अन्योऽपि स्वीकार्य इति प्रवृत्तम् । तत्र पश्चाद्भाविनः समग्रानुग्रहकर्तृत्वमात्रं नालम् । पश्चात्तनस्याधमत्वे गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचिदिति वचनविरोधादिति भावेन पश्चात्तनं पूर्वतनादुत्तमत्वसमत्वाभ्यां विशेषयन् व्याचष्टे ॥ स चेति ॥ स पश्चात्तनः पूर्वतनेन समोऽधिको वा समग्रानुग्रहं करोति चेत् स्वीकार्यो नाधमः स्वीकार्यः । नाप्युत्तमः समो वा समग्रानुग्रहस्याकर्ता स्वीकार्यः । अत उत्तमस्य समस्य वा पश्चाद्भाविनः प्रकरणं समग्रानुग्रहमपेक्ष्य स्वीकार्यत्वात् पूर्वप्राप्ते विकल्प एव न नियम इति भावः ।

समग्रानुग्रहं चेत् पश्चात्तनः करोतीति भाष्यं स्वयमेव तदा विकल्पः स्यादिति शेषसाहित्येन प्रकारान्तरेण व्याचष्टे ॥ समस्य चेति ॥ ‘समे विकल्प एव स्यात् पूर्वानुज्ञा च सर्वथा’ इत्यनुव्याख्यानमविरोधेनेति स्मृतिं च मनसि निधायाह ॥ पूर्वानुज्ञयेति ॥ अनुज्ञया कार्यः । अनुज्ञाभावे न स्वीकार्य इत्यर्थः । स्वयमेवेत्यस्यार्थो विकल्पश्चेति । अनेन पश्चात्तनः समः समग्रानुग्रहं स्वयमेव चेत्करोति तदापि पूर्वानुज्ञाभावाभावाभ्यां विकल्प एव स्यादिति भाष्यार्थः । अस्यापि पूर्वस्मादुत्तरस्य समस्य ग्रहणप्रकरणं समग्रानुग्रहं पूर्वं पूर्वानुज्ञां चापेक्ष्य विकल्पः स्यादित्यर्थ उक्तो भवति । अनुज्ञामपेक्ष्य समे विकल्प इवोत्तमेऽपि किं विकल्प इत्यतः समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यादिति भाष्यं प्रकारान्तरेण व्याचष्टे ॥ समग्रानुग्रहकर्तेति ॥ एतेन स्वयमेवेत्यस्यानुज्ञां विनेत्यर्थः । स्वीकार्य इति शेषः । अविकल्प इति पदच्छेद इत्युक्तं भवति । तदेव व्यनक्तीति भाष्यत्वात्स्वपदं विवृणोतीत्यर्थः । षष्ठ्यर्थे वतिः । षष्ठी च द्विवचनान्ता विवक्षिता । क्रिया च प्रज्ञान्तरपृथक्त्ववदिति वक्ष्यमाणत्वाद् ध्यानरूपेति विवरणमिति भावः ॥ अत्रेति ॥ समयोरेव विकल्पो नोत्तमप्राप्तावित्यत्रेत्यर्थः । अविचारेण स्वयमेव गृह्णीयादित्यन्वयः । समग्रानुग्रहाभावादिति भाष्यस्योत्तमैरपि समग्रानुग्रहकरणात् प्राप्तगुरोः स्वयोग्ययावदुपदेशकत्वेन स्वयोग्यगुरुत्वात् । मध्ये प्राप्तोत्तमानुज्ञासद्भावाच्च तं प्राप न तूत्तमा नैवेत्यतः पूर्वपरित्यागेन समग्रानुग्रहकर्तुरुत्तमस्य समस्य वा स्वीकार इत्येतद्युज्यत इत्यर्थः ॥ अविरोधेन पूर्वानुज्ञयेति ॥ अनुज्ञाभावे विरोधोत्पत्तेरिति भावः ॥ अनेन दोषवचनस्येति ॥ एतेन गुरोरस्वीकारस्याकर्तव्यत्वप्रमाणत्वेनोदाहृतस्य गुरुमन्त्रपरित्यागीति वचनस्य सावकाश-त्वोक्त्या अमानत्वमित्युक्तन्यायोऽपि विवृतो भवतीति ज्ञेयम् । अनुज्ञाभावविषयं वेत्युपलक्षणम् । समग्रानुग्रहकर्तृविषयं वेति बोध्यम् ।

तत्त्वसुबोधिनी

इतिकर्तव्यता यत्प्रसाद इति ॥ अस्य पादान्तर्भावकथनार्थं यत्प्रसाद इति उक्तम् । पूर्वसूत्रे गुरुप्रसादरूपेतिकर्तव्यतायाः प्राबल्येन आवश्यकोक्तौ यदृच्छया समग्रानुग्रहकर्तृगुरुस्वीकारानन्तरं पश्चात् समग्रानुग्रहकर्तृगुरुलाभे किं कर्तव्यम् इत्याक्षेपे तद्विचारादनन्तरसङ्गतिरिति भावः । ननु शुभलाभार्थं गुरुस्वीकार इत्यत आह ॥ गुर्विति ॥ कोऽसौ दोष इत्यत आह ॥ गुरुमन्त्रेति ॥ प्रागुक्तं न युज्यते इति । इतरेत्वर्थसामान्यादित्यत्र उक्तं भाविफलानुसारेण सर्वज्ञगुरूपदिष्टस्वयोग्य-गुणोपासनमित्यर्थः । पूर्वप्राप्त एवेत्यवधारणव्यावृत्यर्थमाह ॥ पश्चात्तनोऽपीति ॥ समग्रानुग्रहार्थ-त्वादिति ॥ तथा च पश्चात्तनगुरुस्वीकारे समग्रानुग्रहकर्तृत्वं हेतुरिति भावः । समग्रानुग्रहमित्यादि-भाष्योदाहृतस्मृत्यनुसारेण सूत्रे प्रेत्युपसर्गस्य समत्वमर्थः । योग्यतयाऽनुग्रहस्येत्यस्य लाभः । तथा च प्रकरणात् समग्रानुग्रहकरणात् पूर्वस्य समस्य त्यागेन विकल्पः । अधमत्यागादिनियमोपलक्षक-मेतदित्यभिप्रेत्य प्रवृत्तं समग्रानुग्रहमित्यादिभाष्यं व्याचष्टे ॥ स चेति ॥ समग्रानुग्रहमित्यादिभाष्यं स्वयमेव तदा विकल्पः स्यादिति शेषसाहित्येन प्रकारान्तरेण व्याचष्टे ॥ समस्य चेति ॥ पूर्वाज्ञया गुर्वन्तरस्वीकार आवश्यक इत्थं स्वीकारे कथं विकल्प इत्यत आह ॥ विकल्पश्चेति ॥ दैवाद्गुर्वन्तरप्राप्तिश्चेत् तदा स्वीकारः न तु तदर्थं प्रयत्नः । समग्रानुग्रहं चेद् इत्यादिभाष्यम् अविकल्प इत्यकारप्रश्लेषेण प्रकारान्तरेण व्याचष्टे ॥ समग्रानुग्रहकर्तेति ॥ स्वयमेवेत्यस्यार्थः पूर्वानुज्ञां विनेति ॥ तस्य तात्पर्यकथनम् असंशयमिति ॥ भाष्ये उत्तमः स्वीकार्य इति च पदद्वयाध्याहार इति ज्ञातव्यम् । अविरोधेन पूर्वानुज्ञयेति । अनुज्ञाभावे विरोधोत्पत्तेरित्यर्थः ॥ तेनेति ॥ पूर्वानुज्ञास्वीकारपूर्वकं गुर्वंतरपरिग्रहः कर्तव्य इति कथनेनेत्यर्थः । व्यर्थस्वीकारविषयं चेति । समग्रानुग्रहस्याकर्तुः समस्य उत्तमस्य वा स्वीकारविषयमित्यर्थः ।

वाक्यार्थविवरणम्

पादसङ्गत्यर्थमाह इतिकर्तव्यता यत्प्रसाद इति ॥ यस्य गुरोः प्रसाद इत्यर्थः ॥ तद्वि-चारादिति ॥ तद्गुरुविचारादित्यर्थः ॥ सार्वज्ञाभावेनेति ॥ उत्तमस्य सर्वज्ञस्य गुरोः स्वीकारे तस्य सर्वज्ञत्वेनैतद्योग्यतापरिज्ञानसम्भवेन भाविफलानुसारेणोपासनमुपदिशेत् । तदुक्तानुसारेणोपासनमयं कुर्यात् । अधमस्य स्वीकारे तु तस्यासर्वज्ञत्वेनैतद्योग्यतापरिज्ञानासम्भवेन तदनुसारेणोपदेशासम्भवेन तस्य तथोपासनं न सम्भवतीत्याशयः ॥ गुरुपरिग्रहमात्रेणेति ॥ यादृशतादृशगुरुपरिग्रह-मात्रेणेत्यर्थः ॥ शुभेति ॥ उपासनज्ञानादिद्वयेत्यर्थः ॥ वैय्यर्थ्यम् ॥ गुरुपरिग्रहमात्रेण शुभ-लाभोपपत्तेः । प्रथमप्राप्तपरित्यागेन पश्चात्तनस्वीकारवैय्यर्थ्यमित्यर्थः ॥ तमेव विकल्पं दर्शयति ॥ पूर्वानुज्ञयेति ॥ न वेति ॥ पूर्वानुज्ञाभावेन वेत्यर्थः ॥ प्राप्तौ ॥ समग्रानुग्रहकर्तुः समस्येत्यर्थः । भाष्ये उभयोर्ध्यातव्ययोः रामकृष्णादिमूर्तिध्यानयोरित्यर्थः । ऋषभादय उक्तगौतमापेक्षयोत्तमाः । ऋषभहंसमद्गुरूपा देवा न गृहीता इत्यनन्तरं किन्त्विति शेषः । पूर्वतनो गौतमाख्यो गुरुर् जग्राह । गुरुत्वेनेति शेषः ॥ दोषवचनस्य ॥ गुरुमन्त्रपरित्यागीत्युदाहृतवचनस्य अधमेति पूर्वप्राप्तोत्तम-गुरुसत्त्वेऽपि तं परित्यज्य अधमो यदि स्वीक्रियते तर्हि तदा गुरुपरित्यागीत्युक्तदोष इत्यर्थः ॥ व्यर्थेति ॥ पूर्वमेव प्राप्तो गुरुः समग्रानुग्रहं करोति तदा, तं विना तदपेक्षयोत्तमस् तत्समो वा समग्रानुग्रहस्याकर्ता यदि वृथा स्वीक्रियते तदा गुरुमन्त्रपरित्यागीत्युक्तदोष इत्यर्थः ॥ अनुज्ञा-भावेति ॥ पूर्वप्राप्तगुरुसमः समग्रानुग्रहकर्ता यदि लभ्यते तदा पूर्वानुज्ञां विनैव तं परित्यज्य यदि सः स्वीक्रियते तदा गुरुमन्त्रपरित्यागीत्युक्तदोष इत्यर्थः ।

वाक्यार्थमञ्जरी

यत्प्रसादः यस्य गुरोः प्रसादो ऽतो गुरुविचारस्य पादान्तर्भाव इति भावः । शुभं ज्ञानादिः, मन्त्र उपदेशः ॥ प्रागुक्तमिति ॥ इतरे त्वर्थसामान्यादित्यत्रोक्तभाविफलानुसारेण सर्वज्ञगुरूप-दिष्टस्वयोग्यगुणोपासनमित्यर्थः ।

पूर्वविकल्पः पूर्वं परित्यज्यापरः स्वीकार्यो न वेति विकल्पः स्यात्, कथं क्रियामानसवन् मानसी चासौ क्रिया च क्रियामानसं ध्यानं, यथा फलतः समयोर्ध्यानयोर्विकल्पस् ततः कुतः स्वीकार्यः प्रकरणात् प्रकर्षेण समग्रेणानुग्रहकरणान्निमित्तादित्यर्थः । अकारप्रश्लेषेणार्थान्तरमाह ॥ समग्रानुग्रहकर्तेति ॥ दोषवचनस्य गुरुमन्त्रेत्यादेर् इति दर्शित इत्यन्वयः ।