ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ
२७. गुरुप्रसादाधिकरणम्
सूत्रभाष्यं
गुरुप्रसादः स्वप्रयत्नो वा बलवानिति निगद्यते —
॥ ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ॥ ४५ ॥
ऋषभादिभ्यो विद्यां ज्ञात्वाऽपि सत्यकामेन ‘भगवांस्त्वेव मे कामं ब्रूयात्’ (छां.उ.४-९-२) ‘श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्याध्द्येव विद्या विदिता साधिष्ठं प्रापयति’ (छां.उ.४-९-३) इति वचनात् । ‘अत्र ह न किञ्चन वीयाय’ इत्यनुज्ञानादुपकोसलवचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रसाद एव बलवान् (प्रदानमेव बलवत्) । तर्हि तावताऽलमिति न मन्तव्यम् । ‘श्रोतव्यो मन्तव्य’ (बृ.उ.४-४-५) इत्यादेस्तदपि कर्तव्यम् । वाराहे च—
‘गुरुप्रसादो बलवान्न तस्माद् बलवत्तरम् ।
तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धय’ इति ॥
तत्त्वप्रदीपिका
प्रसन्नाद्गुरोः श्रवणं कर्तव्यमित्युक्तम् । तत्र गुरुप्रसादो वा श्रवणादिस्वप्रयत्नो वा बलवानिति निरूप्यते । लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । गुरोः प्रसादपूर्वकं प्रदानमेव बलवत् । सत्यकाम-ब्राह्मण उपकोसलब्राह्मणे च तत्र लिङ्गानां भूयस्त्वात् । ‘तमुपनीय कृशानामबलानां चतुश्शता गा निराकृत्योवाचैतास्सौम्यानुसंव्रजेति, ता अभिप्रस्थापयन्नुवाच नासहस्रेणाऽवर्तेयेति, स ह वर्षगणं प्रोवास’ इत्युपनीतमात्रस्य सत्यकामस्य विनाऽप्यध्ययनेन गुरुप्रसादने प्रवृत्तेः । ‘अथ हैनमृषभोऽभ्युवाद’ ‘ब्रह्मणः सोम्य ते पादं ब्रवाणीति’ ‘तमग्निरभ्युवाद’ ‘तं हंस उपनिपत्याभ्युवाद’ ‘तं मद्गुरुपनिपत्याभ्युवाद’इत्यादिना वृषभाविष्टाद्वायोरग्नेः प्रत्यक्षाद्धंसरूपाद्ब्रह्मणो मद्गुरूपाद्वरुणाच्च स्वयमेवाभिभाष्य तत्वोपदेशलाभात्तेभ्यो ज्ञानादिगुणकं ब्रह्म ज्ञात्वाऽपि सत्यकामेन तेष्वशुश्रूषादिभयाद्भगवांस्त्वेव मेऽभीष्टाय ब्रूयादिति वचनात्, उपनयनादिकर्तुराचार्यादाराधिताल्लब्धा विद्या हि साधकतमत्वं प्राप्नोतीति वचनात्, तं चानुज्ञानाभीप्सुं प्रति ‘अत्र ह न किञ्चन वीयाय’इत्याचार्यस्यानुज्ञानात्, देवेभ्यः श्रुत्वा न किञ्चिदपि हानिरभवदित्यर्थः, उपकोसलवचनाच्च, अयमर्थः– ‘तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाऽग्नयः परिप्रवोचन् प्रब्रूह्यस्मै’ इति बहुवर्षं गुरुप्रसादनार्थमग्नीन्परिचरत उपकोसलस्यार्थे सत्यकामं प्रति जायावचनात्, अप्रोच्य प्रोषिते च तस्मिन् ‘तप्तो ब्रह्मचारी कुशलं नः परिचचारीद्धन्तास्मै प्रब्रवाम’ इत्युक्त्वा ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इत्युपकोसलायाग्नीनां वचनात्, ‘अथ हैनं गार्हपत्योऽनुशशास’ ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’इत्यादौ च प्रत्येकं तेषां तस्मा एव वचनात्, ‘आचार्यस्तु ते गतिं वक्ता’इत्याचार्यानुज्ञानार्थं च वचनादित्येवं लिङ्गभूयस्त्वाद्गुरुप्रसाद एव बलवान् ॥
तत्त्वप्रकाशिका
अत्र भगवद्दर्शनसाधनोपासनेतिकर्तव्यतारूपगुरुप्रसादस्य बलीयस्त्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा क्वचिदनपेक्षितत्वप्रसङ्गेनोक्तायुक्तेस्तत्समर्थनीयम् । प्रकृतं गुरुप्रसादपूर्वकं श्रवणादिविषयः । संशयप्रकारं दर्शयति ॥ गुर्विति ॥ किं तन्मध्ये गुरुप्रसादो बलवानुत श्रवणादिरूपः शिष्यप्रयत्नो वा । अथ द्वयं समं वा । साधनेषु त्रैविध्यदर्शनं सन्देहबीजमिति भावः । शिष्यप्रयत्न एव बलवानिति पूर्वः पक्षः । गुरुप्रसादस्येति कर्तव्यतामात्रत्वात् । न हि साधनादपीति-कर्तव्यतायाः प्राबल्यं दृष्टम् । मास्तु वाधिक्यं शिष्यप्रयत्नस्य तथापि साम्यं स्यान् न तु प्रयत्नस्य दौर्बल्यम् । गुरुशिष्ययोरपि पुरुषत्वसाम्यात् । अतो गुरुप्रसादस्याप्रबलत्वान्नावश्यकत्वमिति । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ निगद्यत इति ॥ गुरुप्रसादपूर्वकप्रदानमेव ज्ञानसाधने बलवत् । न त्वधमं नापि समम् । तस्य प्राबल्ये लिङ्गबाहुल्यदर्शनात् । तथा हि । ऋषभादिभ्यो ब्रह्मविद्यां श्रुतवतापि सत्यकामेन भगवानिति गुरुः प्रार्थ्यते । यदि श्रवणाद्येव बलवत्तर्हि तेन गुरुप्रसादपूर्वकप्रदानप्रार्थनं न क्रियेत । तथा गुरुणा गोतमेनात्रेत्यनुज्ञा क्रियते । स्वप्रदानस्याप्राबल्येऽनुज्ञावैयर्थ्यात् । तथोपकोसलेनाग्निभ्यः श्रुतविद्येनापि गुरुः प्रार्थ्यते । गुरुणा च सत्यकामेन तं प्रति विद्योच्यते । श्रवणादेरेव प्राबल्ये न तेन गुरुः प्रार्थ्येन गुरुणापि नोच्येत । एवं लिङ्गभूयस्त्वाद्गुरुप्रसादपूर्वकप्रदानमेव बलवदिति ज्ञायत इति भावः । सत्यकामेन वचनादिति तेनोक्तत्वादित्यर्थः । यद्यपि देवेभ्यः श्रुतं तथापि भगवानेव मे शुभार्थं ब्रवीतु । कुतः । आचार्यादेव विदिता विद्या साधुत्वं प्राप्नोतीति भगवद्दृशेभ्यः श्रुतत्वात्तेषां चाचार्यतया मयाऽस्वीकृतत्वादित्यर्थः । अत्र देवेभ्यः श्रवणे न किं च नापगतम् । न काचिद्धानिरभूदित्यर्थः । न चेतिकर्तव्यत्वेन दौर्बल्यम् । यागीयहिंसायामिति कर्तव्यताया एव प्राबल्यदर्शनात् । न च गुरुशिष्ययोः पुरुषत्वसाम्यात्तत्क्रिययोः साम्यं गुरुशिष्यवदेवोपपत्तेः । नन्वेवं गुरुप्रसादस्य प्राबल्ये तावताऽलम् । न श्रवणादिना कृत्यमित्याशङ्कां परिहरति ॥ तर्हीति ॥ अत्र स्मृतिं चाह ॥ वाराहे चेति ॥ अतो गुरुप्रसादपूर्वकप्रदानस्य प्राबल्यात्तदवश्यापेक्षितमिति सिद्धम् ।
गुर्वर्थदीपिका
क्वचिदनपेक्षितत्वप्रसङ्गेनेत्यत्र प्राबल्याभावे व्रीहियवयोरिव वैकल्पिकत्वस्यापि सम्भवादिति भावः । ऋषभादिभ्य इत्यत्राऽऽदिपदेन ‘अग्निष्टे पादं वक्ता, हंसस्ते पादं वक्ता, मुद्गस्ते पादं वक्ता’ इति छन्दोगोपनिषद्युक्ता अग्निहंसजलवायसा गृह्यन्ते । अग्निभ्य इत्यस्य ‘अथैनं गार्ह-पत्योऽनुशशास’ इति तस्यामेवोपनिषद्युक्तत्रेताग्निभ्य इत्यर्थः । यद्यपि देवेभ्य इत्यस्य देवेभ्य ऋषभादिदेवेभ्य इत्यर्थः । अनेन ऋषभस्य सर्वोत्तमत्वेऽपि तस्मात्सत्यकामस्य सम्पूर्णश्रवणायोग्यता सूचिता । काम इति श्रौतपदस्यार्थकथनं शुभार्थमिति ॥ शुभकाम्यफलार्थमित्यर्थः । याज्ञीय-हिंसायामित्यत्र मन्त्रादिरूपेतिकर्तव्यताया एव केवलहिंसातः प्राबल्यदर्शनादिति भावः ।
भावबोधः
बलीयस्त्वसमर्थनादिति । पूर्वाधिकरणे गुरुप्रसादस्य इति कर्तव्यत्वोक्तौ, तर्हि तत एव दौर्बल्यं स्यादित्याक्षेपोत्थानादन्तरसङ्गतिरिति भावः । किमिति । अत्र गुरुप्रसादः श्रवणादि-रूपप्रयत्नबलान्न भवत्युत भवतीति चिन्ता । तदर्थं गुरुशिष्ययोः पुरुषत्वसाम्येऽपि श्रवणादिरूप-शिष्यव्यापारात् प्रदानरूपगुरुव्यापारस्य प्राबल्यं न युज्यते उत युज्यत इति । तदर्थं तस्य प्राबल्ये श्रवणादेर् वैयर्थ्यं प्राप्नोत्युत न प्राप्नोतीति । न्यायविवरणानुरोधात् कोट्यन्तरमाह– द्वयं समं वेति ॥ गुरुप्रसाद इति सन्देहभाष्यसूचितपूर्वपक्षमाह– शिष्यप्रयत्न एवेति ॥ शिष्यस्यापि पुरुषत्वसाम्याद्धारणादेस् तत्प्रयत्नस्य न दौर्बल्यमिति न्यायविवरणोक्तपूर्वपक्षमाह– मास्तु वेति ॥ यागीयहिंसायाम् इति ॥ मन्त्रादीतिकर्तव्यताशून्यत्वे तस्या अपि पापहेतुत्वादिति भावः ॥ स्मृतिं चाहेति ॥ अनेन गुरुप्रसादो बलवानित्यादिविशेषोक्तेरिति न्यायविवरणमप्युक्तार्थम् ।
भावदीपः
बलीयस्त्वेऽपीति ॥ एतेन पूर्वमुपजीव्यास्य प्रवृत्तेः पूर्वसङ्गतिरपि सूचिता ॥ उक्तेति ॥ इतरेत्यत्रोक्तस्यायुक्तेरित्यर्थः । यद्वा सेतिकर्तव्येनैव श्रवणादिना फलमिति पूर्वोक्तस्यायुक्तेरित्यर्थः ॥ तन्मध्य इति ॥ गुरुप्रसादश्रवणाद्योर्मध्य इत्यर्थः ॥ त्रैविध्येति ॥ वक्ष्यमाणदिशेतिकर्तव्यता-बलवत्त्वस्य नित्यज्योतिष्टोमादौ करणबलवत्त्वस्याग्नेयाग्नीषोमीयादौ साम्यस्य दर्शनमित्यर्थः । शिष्यस्याऽपि पुरुषत्वसाम्याद्धारणादेस्तत्प्रयत्नस्य न दौर्बल्यमिति न्यायविवरणे, दौर्बल्यं न किं तु प्राबल्यमेवेति, किं तु समबलत्वमेवेति चार्थद्वयमुपेत्य पूर्वपक्षद्वयं क्रमेण व्यनक्ति ॥ शिष्येति ॥ सेतिकर्तव्येनेति प्राचीनभाष्यसूचितहेतुमाह ॥ गुर्विति ॥ अप्रयोजकत्वं हेतोर्निराह ॥ न हीति ॥ तथा चादृष्टकल्पना विपक्षे बाधिकेति भावः । न्यायविवरणस्थमेव हेतुमाह ॥ गुरुशिष्ययोरिति ॥ अत इति ॥ शिष्यप्रयत्नस्योक्तहेतुना प्राबल्यस्य समबलत्वस्य वा प्राप्तत्वादित्यर्थः । अप्रबलत्वात्प्राबल्याभावाद्धीनबलत्वात्समबलत्वाद्वेत्यर्थः ॥ लिङ्गभूयस्त्वाद् गुरुप्रदानमेव बलवदिति भाष्यं व्युत्क्रमेण व्याचष्टे ॥ गुरुप्रसादेति ॥ एवकारव्यावर्त्यमाह ॥ न त्विति ॥ हेतूपपादकत्वेन वृषभेत्यादिभाष्यं व्याचष्टे ॥ तथा हीति ॥ छान्दोग्ये चतुर्थाध्याये सत्यकामब्राह्मणे गौतमः सत्यकाममुपनीय कृशानामबलानां चतुःशतं गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति । ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तयेति । स ह वर्षगणं प्रोवासेत्युपनीतमात्रस्य सत्यकामस्य विनाप्यध्ययनेन गुरुप्रसादने प्रवृत्तेन अथ हैनमृषभोऽभ्युवाद ब्रह्मणः सोम्य ते पादं ब्रवाणीति । तमग्निरभ्युवाद तं हंस उपनिपत्याभ्युवाद तं मद्गुरूपनिपत्याभ्युवादेत्यादिना वृषभाविष्टाद्वायोरग्नेश्च प्रत्यक्षाद्धंसरूपाद् ब्रह्मणो मद्गुरूपाद्वरुणाच्च स्वयमेवाभिभाष्य तत्वोपदेशलाभात् । तेभ्यो ज्ञानादिगुणकं ब्रह्म ज्ञात्वाऽप्युपनेता गुरुः प्रार्थ्यत इत्यर्थः । वायुर्वृषभरूपः सन्निति छान्दोग्यभाष्योक्तावपि तत्वप्रदीपोक्त्या तदाविष्टो वायुर्ग्राह्यः ॥ अत्रेतीति ॥ वृषभादिभ्यः श्रवणे काचिदपि हानिर्मा भूदित्यनुज्ञेत्यर्थः ॥ तथोपकोसलेनेति ॥ तत्रैवाऽध्याये तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रावोचन् प्रब्रूह्यस्मा इति बहुवर्षं गुरुप्रसादनार्थ-मग्नीन्परिचरत उपकोसलस्यार्थे सत्यकामं प्रति जाययोक्ते सत्यप्रोच्यैव प्रोषिते तस्मिंस्तप्तो ब्रह्मचारी कुशलं नः परिचचारीद्धन्तास्मै प्रब्रवामेत्युक्त्वा प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेत्यादिना सम्भूय प्रत्येकं च ब्रह्मोपदिशद्भ्यो गार्हपत्यादित्रेताग्निभ्यः श्रुतविद्येनाप्याचार्यस्तु ते गतिं वक्तेत्युपदिष्टेन गुरुरर्थ्यते तेन च य एषोऽन्तरक्षणि पुरुषो दृश्यते इत्यादिना विद्योच्यते इत्यर्थः । अन्वयं दर्शयन्नेवार्थमाह ॥ सत्यकामेनेति ॥ भाष्योक्तश्रुतेरर्थमाह ॥ यद्यपीति ॥ कामे काम्यमाननिमित्तं श्रुतार्थमिति यावत् । साधिष्ठं साधुत्वम् । प्रागुक्तशङ्काद्वयं क्रमेणानूद्य निराह ॥ न चेति ॥ यागीयेति ॥ पापजननस्वभावाया अपि हिंसायास्तां शक्तिं परिभाव्य पुण्यजनन-शक्त्याधायकत्वस्य दर्शनादिति भावः ॥ अत्रेति ॥ प्रदानं बलवदित्यत्र श्रवणादि च कार्यमित्यत्र चेत्यर्थः । न केवलं लिङ्गदर्शनं श्रोतव्य इति विधिश्च किंतु स्मृतिं चेति चार्थः ॥ अत इति ॥ भूयो लिङ्गदर्शनादित्यर्थः ।
अभिनवचन्द्रिका
बलीयस्त्वसमर्थनादिति ॥ प्रधानगतकार्यजननशक्तिनियामकत्वसमर्थनादित्यर्थः । लोके हि द्विविधमङ्गं द्दश्यते । किञ्चित्प्रधानगतकार्यजननशक्तिनियामकम् । यथोपनयनादि । तेन विना प्रधानस्य वेदाध्ययनस्य क्कापि धर्मजनकत्वाभावात् । प्रत्युताधर्मस्यैव जननात् किञ्चित्सौष्ठवा-पादकम् । यथा प्राङ्मुखत्वादि । तेन विनापि धर्मजनकत्वात् । गुरुप्रदानं तु, न प्राङ्मुखत्वादिवत् सौष्ठवापादकं किन्तु उपनयादिवत् प्रधानशक्तिनियामकमेवेति समर्थ्यत इति भावः । एतेन अङ्गं भवति प्रधानात्प्रबलं चेति व्याहतमिति परास्तम् ॥ अन्यथेति ॥ साधनशक्तिनियामकत्वाभावे कथंचिदनुष्ठितेन श्रवणादिना अपरोक्षज्ञानसिद्धिसम्भवाद् अलसस्य गुरुप्रदानादिकमनपेक्षितं स्यादित्यर्थः ॥ किं तन्मध्य इति ॥ यद्यपि नायम् एकधर्मिकोऽनेककोटिकः । नापि एककोटि-कोऽनेकधर्मिकस् तथापि अनवधारणज्ञानत्वात्, अनेककोटिकोऽनेकधर्मिकोऽयं संशयो बोध्यः । दृश्यते हि लोके किं देवदत्ताद् यज्ञदत्तो बलवान्, उत तस्माद् देवदत्तो बलवान्, अथवा उभौ समाविति । अनेकधर्मिकानेककोटिकः संशयः । नन्विह देवदत्तो यज्ञदत्ताद् बलवान्, न वा, तथा यज्ञदत्तो देवदत्ताद् बलवान् न वा, तथा उभौ समौ नवेति त्रयः संशया द्रष्टव्याः, नत्वेकः संशय इति चेत्, किमियं लौकिकीप्रतीतिः, उत एकधर्मिकोऽनेककोटिकः संशय इति स्वसमयानु-रोधादुच्यते । नाद्यस् तदभावात् । न द्वितीयः । स्वसमयस्याऽप्रामाणिकत्वात् । यद्यपि भाष्ये कोटिद्वयमेव प्रदर्शितं तथापि सिद्धान्तसूत्रेण साम्यपक्षस्यापि निरासात् तस्यापि सङ्कीर्तनं कृतम् । शिष्यप्रयत्न एवेति । शिष्यप्रयत्नः स्वयमनन्याधीनशक्तिकः सन् गुरुप्रसादशक्तिनियामकः, न तु गुरुप्रसादः स्वयमनन्याधीनशक्तिकः सन्, शिष्यप्रयत्ननिष्ठशक्तिनियामक इत्यर्थः । कुत इत्यत आह गुरुप्रसादस्येति ॥ न हीति ॥ ‘येन साधनशक्तेरङ्गाधीनत्वं प्रतीम’ इति शेषः ॥ साम्यं स्यादिति ॥ उभयोरपि परस्परानधीनशक्तिकत्वेन साम्यं स्यादित्यर्थः ॥ गुरुशिष्ययोरपीति ॥ तत्वमुपदिशतो गुरोः शिष्यः सहकारी, शिष्याभावे उपदेशायोगात् । एवं तत्वं जानतः शिष्य-स्यापि गुरुः सहकारी, उपदेशकाभावे तत्वग्रहणायोगात् । न च गुरुरीश्वरः येन शिष्यान्त-र्नियामको गुरुरिति तद्व्यापारं बलीयांसं प्रतीम इति भावः ।
एतेन गुरुव्यापारप्राबल्ये पुरुषत्वस्य नियामकतयाऽनभिधानात् शिष्यस्य पुरुषत्वेन साम्याभिधानमयुक्तमिति परास्तम् । पुरुषत्वसाम्याभिधानस्य शिष्यवद्गुरोरप्यनीश्वरत्वेन न तव्द्यापारस्य शिष्यव्यापाराद्बलवत्त्वमित्यत्र तात्पर्यात् । अप्रबलत्वादिति ॥ शिष्यव्यापारशक्ति-नियामकत्वाभावादित्यर्थः ॥ नावश्यकत्वमिति ॥ सिद्धे प्रकारान्तरेण श्रवणे अपरोक्षज्ञान-सम्भवाद् गुरुप्रसादजन्यसौष्टवरूपातिशयापेक्षाशून्येनाऽलसेन न गुरुप्रसादाय प्रयतितव्यमिति भावः ॥ यागीयहिंसायामिति ॥ मन्त्रादीति कर्तव्यताशून्यत्वे तस्या अपि पापहेतुत्वादिति भावः ॥ न च गुरुशिष्ययोरिति ॥ अनीश्वरत्वसाम्यात् तत्क्रिययोः साम्यमिति न वाच्यमित्यर्थः ॥ गुरुशिष्यवदिति ॥ अनीश्वरत्वेऽपि ईश्वरानुग्रहात् पुण्यवशाच्च गुरोर्गुरुत्वमिव तत एव तत्प्रयत्न-स्याप्याधिक्योपपत्तिरिति भावः । गुरुप्रसादस्याऽऽधिक्यं नाम श्रवणाद्यभावेऽपि आपरोक्ष्यहेतुत्व-मिति मन्वानः शङ्कते नन्वेवमिति ॥
पूर्वपक्षस्तु– शिष्यप्रयत्न एव बलवान् प्रधानत्वात्, न गुरुप्रसाद इतिकर्तव्यतारूपत्वान् माभूद्वाऽऽधिक्यं, साम्यं तु स्यात् । न शिष्यप्रयत्नस्य दौर्बल्यम् । गुरुशिष्ययोः पुरुषत्वसाम्यात् । अतो गुरुप्रसादस्याऽप्रबलत्वान्नावश्यकत्वमिति ।
सिद्धान्तस्तु– गुरुप्रसादो बलवानेव न दुर्बलः । नापि समः । लिङ्गभूयस्त्वात् । तथा हि– ऋषभादिभ्यो विद्यां श्रुत्वापि सत्यकामो ‘भगवांस्त्वेवमेकामे ब्रूयात्’ इति गुरुं प्रार्थयते । तथा उपकोसलोऽपि अग्न्यादिभ्यो विद्यां श्रुत्वापि गुरुं प्रार्थयते । न च गुरुप्रसादस्य प्राबल्याभावे तद्युज्यते । न च इति कर्तव्यतात्वाद्दौर्बल्यमनुमातुं शक्यम् । लिङ्गभूयस्त्वेन बाधितविषयत्वात् । यागीयहिंसाङ्गेषु मन्त्रादिषु व्यभिचाराच्च । न च तावताऽलमिति न मन्तव्यम् । ‘आत्मा वा ओ द्रष्टव्यः’ इति वचनेन तस्यानुष्ठेयत्वाद् अतो वचनेन तस्यानुष्ठेयत्वात् । अतो गुरुप्रसादपूर्वक-प्रदानस्य प्राबल्यात् तदवश्यमपेक्षितमिति सिद्धम् ।
वाक्यार्थमुक्तावली
श्रवणादिवद्गुरुप्रदानस्यापि अपेक्षितत्वे आत्मा वारे द्रष्टव्येति श्रुतौ गुरुप्रसादपूर्वकं श्रवणादि-रूपं साधनं स्वान्तरङ्गिप्राबल्येन वाङ्गादङ्गिप्रधानभावेन युक्तमुताङ्गप्राबल्योपेतमिति चिन्ता । तदर्थं साधनादितिकर्तव्यतायाः प्राबल्यमदृष्टमुत दृष्टमिति ॥ त्रैविध्यदर्शनमिति ॥ एकत्रैकस्य प्रधान्यमन्यत्रापरस्य प्राधान्यं क्वचिदुभयस्य प्राधान्यमिति त्रैविध्यदर्शनमित्यर्थः । स्वप्रयत्नो वेति भाष्यानुसारेण पूर्वपक्षयति ॥ शिष्य इति ॥ श्रवणादीत्यनुक्त्वा प्रयत्न इति कर्तृव्यापारोक्त्या सूचितयुक्तिमाह ॥ गुरुप्रसादस्येति ॥ गुरुप्रसादश्च प्रयत्नश्च बलौ इति भाष्यानुसारेण पूर्वपक्षमाह ॥ मास्तु वेति ॥ कुतो न प्रयत्नस्य न दौर्बल्यमित्यतो गुर्विति स्वेति चोक्त्या सूचितं पुंसाम्य-मित्युक्तन्यायं विशदयति ॥ गुरुशिष्ययोरिति ॥ पुरुषत्वसाम्यात् तत्क्रिययोरपि साम्या-वश्यम्भावादिति भावः । अत्र पूर्वपक्ष्यभिमतं स्वप्रयत्नजन्यश्रवणादेः प्राबल्यं नाम ज्ञानसम्पादने स्वेतिकर्तव्यगुरुप्रसादानियतशक्तिकत्वम् । साम्यं नाम ज्ञानसम्पादने समानशक्तिकत्वम् । सिद्धान्त्यभिमतं प्रसादस्य प्राबल्यं तु स्वाङ्गिनिष्ठज्ञानसम्पादनशक्त्युद्बोधकत्वमिति विवेकः ।
सूत्रे तदिति प्रदानं परामृश्यते । एवेत्यनुवर्तत इत्यभिप्रायेण प्रवृत्तं गुरुप्रदानमेव बलवदिति भाष्यं व्याचष्टे ॥ गुर्विति ॥ प्रदानमेव बलवन् न तु श्रवणादीत्यर्थः । बलवदेवेत्यप्यन्वयं मत्वोक्तं न त्वधममिति । लिङ्गभूयस्त्वादित्यस्य तत् तस्य प्रदानस्य तत्र प्राबल्ये सत्यकामप्रार्थना गौतमानुज्ञोपकोसलप्रार्थनसत्यकामोपदेशरूपलिङ्गभूयस्त्वादित्यर्थमभिप्रेत्य व्याचष्टे ॥ तस्य प्राबल्येत्यादिना ॥ उपकोसलवचनाच्चेत्यस्योपकोसलस्य गुर्वर्थनारूपवचनादुपकोसलं प्रति गुरूपदेशरूपवचनाच्चेत्यर्थमभिप्रेत्याह ॥ तथोपकोसलेनापीत्यादिना ॥ यद्यपि छान्दोग्ये ‘किन्नु सोम्य तेऽनुवोचमिति सत्यकामेन पृष्टो इति ह प्रतिजज्ञ इत्युपकोसलोऽग्निभिरुक्तं सर्वं विज्ञापयांचक्रे’ इत्येवोच्यते । न तु तेन विद्योपदेशाय गुरुरर्थ्यत इत्युच्यते । प्रत्युत लोकानुवाव किल सौम्य तेऽब्रुवन्नहं न तु वक्ष्यामीति स्वयमेवोपदिष्टवानिति च प्रतीयते । तथापीह प्रतिजज्ञ इत्यस्याग्निभिरुक्तं सर्वं विज्ञापयाञ्चक्र इत्यर्थः । तत्राचार्यस्तु ते गतिं वक्तेत्युक्तस्यापि विज्ञापितत्वात्तदेवार्थनारूपं वचनमिति भावः । इति वचनादित्यस्येति ॥ श्रुतेरित्यर्थोक्तौ सत्यकामेनेत्यनन्वितं स्यादित्यतोऽन्वयमर्थं चाह ॥ सत्यकामेनेति ॥ काम इति तादर्थ्ये सप्तमीत्यभिप्रेत्य व्याचष्टे ॥ शुभार्थमिति ॥ साधिष्ठमित्येतत्साधुत्वमिति व्याख्यातम् । प्राप्नोतीति स्वार्थे णिजिति भावः ॥ गुरुशिष्यवदेवेति ॥ गुरुशिष्यभाववदेव तत्क्रिययोर्वैषम्योपपत्तेरिति भावः । गुरुप्रसादस्याधिक्यं नाम श्रवणाद्यभावेऽपि फलहेतुत्वमिति मन्वानः शङ्कते ॥ नन्वेवमिति ॥ यद्वा गुरुप्रसादस्य श्रवणादौ ज्ञानजननशक्त्युद्बोधकत्वेन प्राबल्ये तस्य शिष्यान्तःकरण एव ज्ञानजननशक्त्याविर्भावकत्वसम्भवात् कथमन्तर्गडुना श्रवणादिनेति शङ्कते ॥ नन्वेवमिति ॥ परिहरतीति ॥ हिशब्दस्तूचितश्रुत्युदाहरणपूर्वं तदपीत्यंशं कर्तव्यपदाध्याहारेण व्याचष्ट इत्यर्थः ॥ अत्र स्मृतिमिति ॥ विशेषोक्तिरिति न्यायप्रदर्शनाय हिशब्दसूचितस्मृतिं चाहेत्यर्थः । सूत्रे बलवदिति वाच्ये बलीय इति प्रकर्षोक्तिस्तु यथा श्रवणादेर्गुरुप्रसादो बलवान् एवमस्मादन्यो बलवानस्ति किमिति शङ्कावारणाय । अत एव न तस्माद्बलवत्तर इत्युक्तम् ।
तत्त्वसुबोधिनी
बलीयस्त्वसमर्थनादिति ॥ पूर्वाधिकरणे गुरुप्रसादस्य इतिकर्तव्यतात्वोक्तौ तर्हि तत एव दौर्बल्यं स्यादित्याक्षेपोत्थानाद् अनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ बलीयस्त्वासमर्थनेत्यर्थः ॥ उक्तयुक्तेरिति ॥ प्रदानवदित्युक्तयुक्तेरित्यर्थः । इतिकर्तव्यतात्वेऽपि अस्तु गुरुप्रसादस्य प्राबल्यमित्यत आह ॥ न हीति ॥ वैय्यधिकरण्यपरिहारायाह ॥ तेनोक्तत्वादित्यर्थ इति ॥ याज्ञीयहिंसायामिति ॥ मन्त्रादीतिकर्तव्यताशून्यत्वे तस्यापि पापहेतुत्वादिति भावः ॥ गुरुशिष्यवदेवेति ॥ पुरुषत्वेऽपि गुरुशिष्ययोर् वैषम्यात् तत्क्रिययोरपि वैषम्योपपत्तेः ॥ तदवश्यापेक्षितमिति ॥ न च लुंपेदवश्यमकृत्यमिति स्मरणात् प्रकृते च तदभावाद् अवश्यमलोपप्राप्तेरवश्यमपेक्षितमित्येव वक्तव्यत्वाद् अवश्यमपेक्षितमित्येतस्यासाधुत्वमिति वाच्यम् । शकंध्वादिषु पररूपं वाच्यमित्युक्तेः । पररूपांगिकारेण साधुत्वादिति भावः ।
वाक्यार्थविवरणम्
उक्तेति ॥ गुरुप्रसादस्यावश्यकत्वेत्यर्थः ॥ त्रैविध्येति ॥ कृष्यादौ वृष्ट्यादिसाधनं प्रबलं दृष्टम् । कर्षणादिकं दुर्बलम् । स्वर्गे ज्योतिष्टोमाश्वमेधयोर्द्वयोः साधनयोः साम्यं दृष्टमित्यर्थः ॥ साम्यादिति ॥ तथा च तदीययोः प्रसादश्रवणादिप्रयत्नयोरपि साम्यमेवेत्यर्थः ॥ काम इत्यस्य शुभार्थमिति ॥ साधिष्ठमित्यस्य साधुत्वमिति । देवेभ्यः श्रुतत्वे मया कस्माद् वक्तव्यमित्यत आह ॥ तेषां चेति ॥ वीयायेत्यस्यार्थोऽपगतमित्यादि ॥ यागीयहिंसायामिति ॥ यथा यज्ञे शमित्राऽ-जाहिंसा क्रियते तत्र तस्य शमितुमौनं, यथा ध्वनिं न कुर्यात्तथा अजाया मुखबन्धनं कृत्वा मुष्ट्या अजाहिंसा कर्तव्या । ध्वनिकरणे शमितुः प्रायश्चित्तस्मरणात् । अतो यागीयहिंसायां मौनमुखबन्धनादीतिकर्तव्यताया एव प्राबल्यं दृष्टमिति मीमांसकसम्प्रदायः । तत्क्रिययोः प्रसाद-श्रवणादिरूपयोः ॥ गुरुशिष्यत्वेति ॥ गुरुत्वशिष्यत्वेत्यर्थः । यथा पुरुषत्वसाम्येऽपि कस्य-चिद्गुरुत्वं कस्यचिच्छिष्यत्वमेवं पुरुषत्वसाम्येऽपि तत्क्रिययोः प्राबल्यदौर्बल्ये युक्ते इत्यर्थः ।
वाक्यार्थमञ्जरी
उक्तेति ॥ आवश्यकत्वेत्यर्थः ॥ न हीति ॥ सन्निकर्षापेक्षयेन्द्रियस्यैव प्राबल्यदर्शनादिति भावः ॥ पुरुषत्वसाम्यादिति ॥ तथा च तत्क्रिययोरपि साम्यमिति भावः । ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ । तद् गुरुप्रदानं श्रवणाद्यपेक्षया बलीयः बलिष्ठं, कुतः लिङ्गानां ज्ञापकानां भूयस्त्वात् । बाहुल्यदर्शनान् न च श्रवणादिवैय्यर्थ्यं हि यस्मात् श्रुत्युक्तं तदपि श्रवणादिकमपि कार्यं यत इत्यर्थः ॥ ऋषभादिभ्य इति ॥ ऋषभः सर्वदेवोत्तमो वायुश् चतुःशतसङ्ख्याकगोगणं प्रदायैतस्य प्रसवेन सहस्रसङ्ख्यापूर्तिपर्यन्तमरण्ये स्थित्वा तत्त्पूर्त्यनंतरं मामेहीति गुरुणा गौतमेनोक्तेन सत्यकामेन तथा कृत्वा गुर्वभिमुखे जाते सति तदीयगुरुसेवाप्रसन्ना वाय्वग्निब्रह्म-वरुणाः क्रमेण ऋषभाग्निहंसजलवायसरूपेण सत्यकामं प्रति विद्योपदेशं चक्रुस्तैरूपदिष्टः सत्यकामो गुरुमेत्य तस्मै सहस्रसङ्ख्याकं गोगणं समर्प्य तैरुक्तं निवेद्य, भगवानित्यनेन विद्योपदेशाय गुरुप्रार्थनं करोतीत्यर्थः ॥ तथोपकोसलेनेति ॥ गुरुणा सत्यकामेनाग्निपरिचर्यायां नियुक्ते उपकोसले बहुकालं तथा कुर्वति सति सत्यकामे कदाचित्प्रवासङ्गतेऽग्नय उपकोसलाय विद्योपदेशं चक्रुः । ततः सत्यकामे आगते उपकोसलस्तस्मै तदुक्तं निवेद्योपदेशाय प्रार्थ्यत इत्यर्थः । श्रुतिद्वयं क्रमेण व्याचष्टे ॥ यद्यपीत्यादिना ॥ भगवद्दृशेभ्यो भगवत्समेभ्योऽत्रेत्यनुवादः ॥ यागीयपशुहिंसायामिति ॥ मन्त्रादीतिकर्तव्यताशून्यत्वे यागस्वरूपानिष्पत्तेस्तस्या अपि यागहेतुत्वादिति भावः ।
॥ इति गुरुप्रसादाधिकरणम् ॥ २७ ॥