२६ प्रदानाधिकरणम्

ॐ प्रदानवदेव हि तदुक्तम् ॐ

२६. प्रदानाधिकरणम्

सूत्रभाष्यम्

॥ ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ ४४ ॥

न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिकर्तव्येन । यथा गुरुदत्तं तथैव भवति । ‘आचार्यवान्पुरुषो वेद’ (छां.उ.६-१४-२) इति ह्युक्तम् ।

तत्त्वप्रदीपिका

अथ किं श्रवणादिमात्रेण दृष्टिर्भवत्युत सेतिकर्तव्येनेति विचार्यते । श्रोतव्य इत्येव विहितत्वाद्येन केनाप्युपायेन श्रुतवतः स्वयमेव मननादिना दृष्टिरित्यत आह– प्रदानवदेव तदुक्तम् ॥ न ताव-त्परोपदेशे निलीनतया बलाद्वा श्रवणं दृष्टिद्वारं भवति । चौर्यादिदोषदुष्टत्वात् । किन्त्वित्थं श्रवणं कर्तव्यमिति यथाशास्त्रविहितं तथा कृतेनैव सेतिकर्तव्येनेति ह्युक्तम् । तदेव वर्णयति यथा गुरुदत्तं तथैव भवतीति । यथाभूतगुरुदत्तं तथैव भवति यथा च गुरुणा दत्तं प्रसादेन वाऽप्रसादेन वा तदनुरूपं भवति । अत उत्तमगुरुं प्राप्य शुश्रूषया प्रसाद्य ततः श्रोतव्यमित्यर्थः । उक्तञ्च भगवतैव–

‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।

सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः ॥

असंशयः संशयच्छिद्गुरुरुक्तो मनीषिभिः ।

तस्माद्ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा ॥

अन्येऽपि स्वात्मनो मुख्याः क्रमाद्गुरव ईरिता ।

नातिप्रसन्नहृदयो यद्दद्याद्गुरुरप्यसौ ।

न तत्सत्यं भवेत्तस्मादर्चनीयः परो गुरुः’ इति ॥

तत्त्वप्रकाशिका

अत्र भगवज्ज्ञानसाधनोपासनेतिकर्तव्यतासाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ‘इतरे त्वर्थ-सामान्यात्’ इत्युक्तमयुक्तं स्यादतस्तत्समर्थनीयम् । प्रकृतं श्रवणाद्येव विषयः । किं यथाकञ्चिदनुष्ठितं ज्ञानसाधनमुत गुरुप्रसादपूर्वकप्रदानयुक्तमिति सन्देहः । कर्तव्यताविधेरुभयथाऽपि पर्यवसानं सन्देहबीजम् । यथाकञ्चिदनुष्ठितं श्रवणादिज्ञानसाधनमिति पूर्वः पक्षः । ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति श्रवणादिमात्रस्यैव ज्ञानहेतुत्वावगमात् । मानस्य च गुरुप्रसादाधीनत्वे ज्ञानिनोऽपि मोक्षस्य तदधीनत्वप्रसङ्गश्च । नेदमनिष्टमिति चेन्न । कदाचिद्गुरुकोपेन तदभावप्रसङ्गात् । अन्यथा गुरुकोपवत्तद्वरस्यापि निरर्थकता स्यात् । अभ्युपगमे चानियम इत्युक्तविरोधः स्यात् । अतो ज्ञाने गुर्वपेक्षाभावात्तदुक्तप्रकारेणोपासनमयुक्तमिति । सिद्धान्तय-त्सूत्रमुपन्यस्य व्याचष्टे ॥ प्रदानवदिति ॥ न श्रवणादिमात्रं ज्ञानसाधनं किं तु प्रसादपूर्वक-गुरुप्रदानयुक्तमेव गुरुप्रदानानुसारित्वात्फलस्य । न चैवमुक्तवचनविरोधः । गुरुप्रदानं ज्ञानसाधनस्य श्रवणादेरितिकर्तव्यतेत्यभ्युपगमात् । न हि दृढमुष्टिनिपीडनादि पृथक्साधनमुच्यत इति भावः । गुरुप्रदानाधीनत्वं ज्ञानस्य कुत इत्यत आह ॥ आचार्यवानिति ॥ न चैवमुक्तरीत्या ज्ञानाद्यभावः । तज्ज्ञानमोक्षयोरीश्वरकल्पितत्वात् । न चैवं गुरुशापो विफलः । ज्ञानादिह्रासहेतुत्वात् । उक्तं च । ‘ज्ञानिनो गुरुशापेऽपि नामुक्तिः संसृतेर्भवेत् । आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति’ इति । तथा ‘ये ज्ञानविषयाः शापा मुक्तिगाश्चाधिकारिणाम् । कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः । तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि । भगवन्नियतत्वात्तु शापादिर्नात्र कारणम्’ इति । अतो गुरुप्रदानस्यावश्यकत्वादुक्तं युक्तमिति सिद्धम् ।

गुर्वर्थदीपिका

उपासनेतिकर्तव्यतासाधनादित्यत्र उपासनस्य गुरुप्रसादपूर्वकप्रदानाख्येतिकर्तव्यतासाधना-दित्यर्थः । अन्यथा गुरुणा भावितत्तत्फलानुसारेण प्रदानाभावे अभ्युपगमे चेत्यत्र गुरुकोपान्मोक्षा-भावाभ्युपगम इत्यर्थः । न श्रवणादिमात्रमित्यत्र यस्मात्कस्माच्चिद्गुरोः श्रवणादिकं श्रवणादि-मात्रमित्युच्यते । प्रसादपूर्वकगुरुप्रदानेत्यत्र गुरुस्सर्वज्ञो नियतगुरुः । न हि दृढमुष्टिनिपीडनादीत्यत्र तण्डुलान्पिनष्टीत्यादिनोक्तपिष्टीकरणाय तण्डुलादेर्दृढमुष्टिनिपीडनम् । आदिपदेन मुसलादिकं गृह्यते । पृथक्साधनं पेषणाङ्गभूतसाधनं न ह्युच्यते तण्डुलान्पिनष्टीति वाक्ये न ह्युच्यत इत्यर्थः । इदं चोपलक्षणम् । ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इति विधिवाक्ये कस्याप्यङ्गस्यासङ्ग्रहात् । वाक्यान्तरेण सङ्ग्रहस्तु ‘एवमाचार्यवान्पुरुषो वेद’ इति गुरुप्रदानेऽपि समान इत्यपि द्रष्टव्यम् । तज्ज्ञानमोक्षयोरित्यत्र तच्छब्देनाधिकारिणो गृह्यन्ते ।

भावबोधः

इति कर्तव्यतासाधनादिति ॥ प्रधानभूताङ्गिविचारानन्तरं तदङ्गभूतेतिकर्तव्यताविचारादनन्तर-सङ्गतिरिति भावः । ‘इतरे तु अथ सामान्यात्’ इत्युक्तमयुक्तमिति । तत्र तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपदेशोपपत्तेरिति न्यायविवरणानुसारेण ध्यानयोग्यतानिर्णयार्थं गुरुपरिग्रहस्यावश्यकत्वस्योक्तत्वादित्यर्थः । यथाकथञ्चिदिति ॥ अत्र श्रवणादि किं यथाकथञ्चिदनुष्ठितं ज्ञानसाधनम् उत गुरुप्रसादपूर्वकप्रदानयुक्तमेवेति चिन्ता । तदर्थं श्रवणादिफलं ज्ञानादिकं गुरुप्रसादाधीनं न भवत्युत भवतीति । तदर्थं ज्ञानादेः फलस्य गुरुप्रसादाधीनत्वे ‘श्रोतव्यः’ इत्यादिश्रुतिविरोधकादाचित्कगुरुशापप्रयुक्तमोक्षाभावौ किं भवत उत न भवत इति । सौत्रावधारणव्यावर्तककथनपरेण च श्रवणादिमात्रेणेति भाष्यानुसारेणाह– आत्मेति ॥ गुर्वधीनत्वे ज्ञानमोक्षयोर् ज्ञानिनोऽपि कदाचिद्गुरुकोपाज्ज्ञानपराभावेनामुक्तिप्रसङ्गात् । न गुर्वधीनत्वमिति न्यायविवरणं योजयति– ज्ञानस्य चेत्यादिना । ज्ञानिनो गुरुशापान्मोक्षाभावो नानिष्ट इत्यत आह– अभ्युपगम इति ॥ अत्र सौत्रः ‘तत्’शब्दः पूर्वसूत्रप्राप्तश्रवणाद्युपासनपरामर्शक ‘एव’कारव्यावर्त्त्यं च श्रवणादिमात्रमित्यभिप्रेत्य प्रवृत्तं न च श्रवणादिमात्रेणेत्यादिभाष्यं व्याचष्टे– न श्रवणादिमात्रमित्यादिना ॥ ‘श्रोतव्यः’ इति श्रुतिविरोधपरिहारार्थमेव भाष्ये सेतिकर्तव्ये-नेत्युक्तम् । अन्यथा यथागुरुदत्तमित्यादिनैव पूर्तेरित्यभिप्रेत्याह– न चैवमित्यादिना ॥ गुरुप्रदान-मित्यनेन सेतिकर्तव्यतेत्यतः स्वपदविवरणार्थं यथा गुरुदत्तमिति भाष्यमित्युक्तं भवति ॥ न हि दृढमुष्टीति ॥ यथा ‘सोममभिषुणोति’ इत्यादौ सोमरसस्य दृढमुष्टिनिपीढनसाध्यत्वे ‘सोमं दृढमुष्ट्या निपीढयेत्’ इति न पृथक् चोच्यते । तेन विना सोमरसलाभासम्भवेनानुक्तिसिद्धत्वात् तथाऽत्रापीति भावः । ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादिति गुरोर्वरेण चामुक्त्यनुपपत्तेरिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे न चैवमित्यादिना । मुक्तिदूषणेनैवेति गुरुशापादेः कृतार्थत्वादिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासापूर्वकं व्याचष्टे– न चैवमिति ॥ अत्र न्यायविवरणोदाहृतं प्रमाणं पठति– उक्तं चेति ॥ प्रमाणविशेषमप्याह– तथा हीति ॥

भावदीपः

उपासनेतिकर्तव्यतेति ॥ गुरुप्रदानरूपेत्यर्थः । प्रधानचिन्तानन्तरं तदङ्गविचारणाद्वा पूर्वोक्तेन समस्तोपासनकर्तव्यत्वहेतुनैव श्रुतिविहितत्वेन तन्मात्रकर्तव्यत्वपूर्वपक्षकरणाद्वा पूर्वसङ्गतिरपीति भावः ॥ इतरे त्विति ॥ गुरुप्रदानासमर्थने स्वप्राप्यफलसाम्येन मध्यमगुणा गुरूक्तप्रकारेणोपास्या इति प्रागुक्तमयुक्तमित्यर्थः । यथाकथञ्चिद् गुरूपदेशे निलीनतया वा बलाद्वेत्यर्थः ॥ प्रदानेति ॥ उपदेशयुक्तमित्यर्थः ॥ उभयथेति ॥ गुरुमुखाच्छ्रोतव्यो मन्तव्य इति विशिष्याश्रवणादिति भावः । श्रवणादिमात्रेण दृष्टिरिति भाष्योक्तप्रतिज्ञामाह ॥ यथाकथञ्चिदिति ॥ कुत इत्यतः पूर्वत्र हिशब्दोक्तमेव हेतुमाह ॥ आत्मा वा अर इति ॥ अप्रयोजको हेतुरित्यतो गुर्वधीनत्वे ज्ञानमोक्षयोर्ज्ञानिनोऽपि कदाचिद्गुरुकोपाज्ज्ञानफलाभावेनामुक्तिप्रसङ्गादित्यन्यत्रोक्तं विपक्षे बाधकं व्यनक्ति ॥ ज्ञानस्य चेति ॥ गुरुकोपस्य वैफल्यमेव कुतो नेत्यत आह ॥ अन्यथेति ॥ तद्वरस्येति ॥ ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादित्येवंरूपतद्वरस्येत्यर्थः ॥ अभ्युपगमे चेति ॥ मोक्षाभावस्येत्यर्थः ॥ अत इति ॥ अनुकूलतर्कसनाथेनानुमानेन श्रवणादिमात्रत एव फलसिद्ध्यनु-मानादित्यर्थः । सौत्रैवकारव्यावर्त्योक्तिपरं न चेत्यादिभाष्यं व्याचष्टे ॥ नेति ॥ सेतिकर्तव्येनेत्ये-तत्सूत्रारूढं करोति ॥ प्रसादेति ॥ कुत इत्यतो यथेत्यादिभाष्यस्य यथा प्रीत्याऽप्रीत्या वा तथैव तदनुरूपमेव फलमित्यर्थमुपेत्य हेतुमाह ॥ गुरुप्रदानेति ॥ सम्यग्लक्षणसंपन्नो यद्दद्यात्सुप्रसन्नधीः । शिष्याय सत्यं भवतीति नातिप्रसन्नहृदयो यद्दद्याद्गुरुरप्यसौ । न तत्सत्यं भवेत्तस्मादर्चनीयः सदा गुरुर् इति च स्मृतेरिति भावः । सेतिकर्तव्येनेत्येवंरूपभाष्योक्तिसूचितयुक्तिं प्रागुक्तशङ्कानिवर्तकत्वेन व्यनक्ति ॥ न चैवमित्यादिना ॥ श्रोतव्य इत्यादिवचनेनेत्यर्थः । तावता कथमुक्तशङ्कानिरास इत्यत आह ॥ न हीति ॥ ‘सोममभिषुणोति’ इत्यादौ सोमरसस्य दृढमुष्टिनिपीडनसाध्यत्वेऽपि सोमं दृढमुष्ट्या निपीड्येत्यादिरूपेण यथा पृथङ्नोच्यते तेन विना तल्लाभेनाङ्गत्वेनानुक्ति-सिद्धत्वात्तथाऽत्रापि गुरुमुखाच्छ्रोतव्य इति पृथगनुक्तावप्यभिमतत्वान्न तद्विरोध इति भावः ।

यद्वा गुरुप्रदानेन विना ज्ञानासिद्धौ श्रवणादिवत्प्राधान्यमेव स्यात्कुतोऽङ्गतेत्यत आह ॥ न हीति ॥ दृढमुष्टिनिपीडनादिना यागसिद्धावपि तत् सोमवत्प्रधानसाधनं यथा न भवति तथेदमपीत्यर्थः । ज्ञानस्य चेत्यादिनोक्तचोद्यमनूद्य चतुर्थस्कन्धतात्पर्याभिमतहेतूक्त्या निरस्यति

॥ न चैवमुक्तेति ॥ अन्यथा गुरुकोपवदित्यादिनोक्तमनूद्य निराह ॥ न चैवं गुर्विति ॥ येन तद्वरोऽपि व्यर्थः स्यादिति भावः । कुत इत्यतो मुक्तिदूषणेनैव गुरुशापस्य कृतार्थत्वादित्य-न्यत्रोक्तहेतुं व्यनक्ति ॥ ज्ञानादीति ॥ मुक्तीत्युपलक्षणमिति भावः ॥ उक्तं चेति ॥ न्यायविवरणोक्तवचन इत्यर्थः । आनन्दह्रासेत्युपलक्षणमिति भावः । चतुर्थस्कन्धतात्पर्योक्तमाह ॥ ये ज्ञानविषया इति ॥ पूर्वत्र ज्ञानपदाश्रवणाद्वचनान्तरोक्तिः । पूर्वं साधारणाधिकारिपरम् उत्तरं तूत्तमाधिकारिपरमित्याहुः ॥ अत इति ॥ गुरुप्रदानयुक्तश्रवणादेरेवाभिमतफलहेतुत्वाद्बाधका-भावाच्चेत्यर्थः ॥ उक्तमिति ॥ इतरे त्वित्यत्रोक्तमित्यर्थः ।

अभिनवचन्द्रिका

अन्यथेति ॥ तत्र गुरुपरिग्रहस्योक्तत्वादिति भावः । न केवलं पूर्वोक्त ‘आत्मा वा ओ द्रष्टव्य’ इति श्रुतिविरोधो दोषः । अपि तु मोक्षस्य तदधीनत्वप्रसङ्गश्च दोष इत्याह– ज्ञानस्येति ॥ ‘अनियम’ इत्युक्तविरोध इति । ज्ञानिनां मध्ये केषाञ्चिन्मुक्तिः केषांचिन्नेति नियममपहाय सर्वेषां मुक्तिरित्युक्तिविरोध इत्यर्थः ॥ न चैवमिति ॥ गुरुप्रसादयुक्तस्यैव श्रवणादेः कारणत्वं न केवलस्येत्यङ्गीकारे, ‘आत्मा वा ओ द्रष्टव्य’ इति वचनविरोधः । तस्य श्रवणादेरेव साधनत्वाभि-धायित्वात् । अन्यथा गुरुप्रसादयुक्तस्यैव श्रवणादेः साधनतामभिदद्यादिति भावः ॥ गुरुप्रदान-मिति ॥ गुरुप्रदानस्य श्रवणादिसमकक्षत्वाभावात्, गुरुप्रदानयुक्तस्याभिधानप्रसङ्गो नेति भावः ॥ नात्र कारणमिति ॥ ज्ञानादिविघाते शापादिः कारणं नेत्यर्थः ।

पूर्वपक्षस्तु– श्रवणादिकमेव ज्ञानसाधनं न गुरुप्रदानपूर्वकम् । ‘आत्मा वा ओ द्रष्टव्यः’ इति श्रुतौ श्रवणादीनामेव ज्ञानसाधनत्वाभिधानात् । न हि श्रवणादित्रयमुक्त्वा, विशिष्यगुरु-प्रदानस्यानुक्तौ कारणमस्ति । किं च गुरुप्रसादस्य श्रवणाद्यङ्गत्वे अनुष्ठितश्रवणादेरपि गुरुकोपेन ज्ञानाभावः स्यात् । तथा जातापरोक्षस्यापि मोक्षाभावः स्यादविशेषादिति ।

सिद्धान्तस्तु– गुरुप्रदानयुक्तमेव श्रवणादिकं मोक्षसाधनम् । ‘आचार्यवान्पुरुषो वेद’ इति वचनात् । न च ‘आत्मा वा ओ द्रष्टव्यः’ इति श्रुतौ श्रवणादेरिव गुरुप्रदानस्याप्युक्तिप्रसङ्गः । गुरुप्रदानस्य श्रवणाद्यङ्गत्वेन तत्समकक्षत्वाभावात् । न च अनुष्ठितश्रवणादेरपि ज्ञानाभावः । ज्ञानिनोऽपि मोक्षाभावो गुरुकोपेन स्यादिति वाच्यम् । तज्ज्ञानमोक्षयोरीश्वरकल्पितत्वात् । न चैवं गुरुशापो विफलः ज्ञानादिह्रासहेतुत्वात् । तदुक्तम् ‘ज्ञानिनो गुरुशापेऽपि नामुक्तिः संसृतेः क्कचित् । आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति’ इति । तथा ‘ये ज्ञानविषयाः शापा मुक्तिगाश्चाधिकारिणाम् । कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः । तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि । भगवन्नियतत्वात्तु शापादिर्नात्र कारणम्’ इति । अतो गुरुप्रदान-स्याऽऽवश्यकत्वात् तद्युक्तमेव श्रवणादिकं कर्तव्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

अन्यथेति ॥ गुरुप्रदानपूर्वकत्वरूपेति कर्तव्यताऽदाने इतरे त्वर्थसामान्यादित्यत्र योग्यगुरूप-देशेन स्वस्वयोग्यमुपासनं कार्यमित्युक्तमयुक्तं स्यादित्यर्थः ॥ प्रकृतश्रवणाद्येवेति ॥ कर्तव्यतया पूर्वाधिकरणे प्रकृत इत्यर्थः । एतेन श्रवणादेरितिकर्तव्यस्यानुष्ठेयत्वसिद्धौ तदितिकर्तव्यता-विचारावसर इत्यनन्तरसङ्गतिरिति भावः । अत्र प्रकृतं श्रवणादिकं यथाकथञ्चिदनुष्ठितं ज्ञान-साधनमुत गुरुप्रसादपूर्वकप्रदानयुक्तमेवेति चिन्ता । तदर्थं ज्ञानादेर्गुरुप्रसादाधीनत्वे श्रोतव्य इत्यादि-प्रमाणविरोधः । कदाचिद् गुरुकोपेन तदभावप्रसङ्गलक्षणतर्कबाधश्चास्ति स नास्तीति । यथाकथञ्चिदिति । परोपदेशे निलीनतया बलाद्वानुष्ठितमित्यर्थः । उक्तं च तत्वप्रदीपे । न तावत्परोपदेशे निलीनतया बलाद्वानुष्ठितं दृष्टिद्वारं भवतीति । सौत्रावधारणव्यावर्त्यकथनपरं न च श्रवणादिमात्रेणेति भाष्यमनुरुध्याह ॥ आत्मेति ॥ यथा गुरुदत्तं तथैव भवतीत्युत्तरवाक्ये गुरुप्रदानस्य फलाव्यभिचारित्वोक्त्या तन्निषेध्यतया सूचितं फलाभाव इत्युक्तन्यायं विशदयति । ज्ञानस्य चेत्यादिना ॥ तदभावप्रसङ्गादिति ॥ ज्ञानाभावप्रसङ्गाद्भाविनोऽपि मोक्षाभावप्रसङ्गा-च्चेत्यर्थः ॥ त्वद्वरस्यापीति ॥ मदुपदिष्टं तवापरोक्षं मोक्षपर्यवसायि भवेदिति प्रसादपूर्वं दत्तवरस्यापीत्यर्थः ॥ अभ्युपगम इति ॥ ज्ञानिनो मोक्षाभावाभ्युपगम इत्यर्थः ।

सूत्रे तदित्यनेन पूर्वसूत्रप्रकृतं श्रवणादित्रयं परामृश्यते । दृष्टिदमिति प्रकरणात्सम्बद्ध्यते । तथा च प्रसादपूर्वकगुरुप्रदानयुक्तमेव तच्छ्रवणादिकं दृष्टिकारणम् । कुतः? तत्र ज्ञानस्य गुरु-प्रदानाधीनत्वमुक्तं श्रुताविति सूत्रार्थः । अत्रैवकारव्यावर्त्यं दर्शयन् न च श्रवणादीति भाष्यं व्याचष्टे ॥ न श्रवणादीति ॥ प्रदानवत्तदित्यंशव्याख्यापरं किन्तु सेतिकर्तव्येनेत्येतद् व्याचष्टे ॥ किमिति ॥ इतिकर्तव्यविवरणाय प्रदानपूर्वकस्यैव फलप्रदत्वे युक्तिसूचनाय च प्रवृत्तं यथा गुरुदत्तमित्येतद्व्याचष्टे ॥ गुरुप्रदानेति ॥ फलस्य प्रदानान्वयव्यतिरेकानुविधायित्वादित्यर्थः । भाष्ये किन्तु गुरुप्रदानयुक्ते-नेत्यनुक्त्या सेतिकर्तव्येनेति प्रयोगेन व्यावर्त्यं पूर्वपक्ष्युक्तं प्रमाणविरोधमाशङ्क्य निराह ॥ न चैवमिति ॥

तत्त्वसुबोधिनी

इति कर्तव्यतासाधनादिति ॥ प्रधानविचारादनन्तरं तदङ्गभूतेतिकर्तव्यताविचारादनन्तर-सङ्गतिरिति भावः । अन्यथेति इतिकर्तव्यता समर्थनाभाव इत्यर्थः ॥ इतरेत्वर्थसाम्यादित्युक्त-मयुक्तमिति ॥ तत्र ध्यानयोग्यतानिर्णयार्थं गुरुपरिग्रहावश्यकत्वस्य उक्तत्वादित्यर्थः ॥ तदधीनत्व- प्रसङ्ग इति ॥ गुर्वधीनत्वप्रसङ्ग इत्यर्थः । तदभावप्रसङ्गात् । ज्ञानमोक्षयोर् अभावप्रसङ्गात् । ननु गुरुकोपेन मोक्षाभाव इत्यत आह ॥ अन्यथेति ॥ गुरुकोपस्य निरर्थकेत्यर्थः । ज्ञानिनो गुरुशापान्मोक्षाभावो नानिष्ट इत्यत आह अभ्युपगम इति ॥ अत्र सौत्रतच्छब्दः पूर्वसूत्र-प्राप्तश्रवणाद्युपासनपरामर्शक एवकारव्यावर्त्यं च श्रवणादिमात्रम् इत्यभिप्रेत्य प्रवृत्तं ‘न च श्रवणादि-मात्रेण इत्यादिभाष्यं व्याचष्टे- न च श्रवणादिमात्रमित्यादिना ॥ श्रोतव्य इति श्रुतिविरोध-परिहारार्थमेव भाष्ये सेति कर्तव्येनेत्युक्तम् । तर्हि श्रोतव्य इत्युक्तिविरोध इत्याशङ्क्य निषेधति ॥ न चैवमिति ॥ ननु गुरुप्रदानज्ञानसाधनत्वमेवास्तु कुत इतिकर्तव्यतात्वमित्यत आह- न हीति ॥ मुष्टिनिपीडनसाधनदार्ढ्यम् इतिकर्तव्यतैव न तु साधनं तद्वत्प्रकृतेऽपि इति भावः । प्रमाणविशेष-मप्याह– तथेति ॥ अधिकारिणो मुक्तिगा ये ज्ञानविषया शापा ते कदाचित् काल एव भवन्ति न तु सर्वकाल इत्यर्थः ।

वाक्यार्थविवरणं

तदधीनत्वेति ॥ गुरुप्रसादाद्यधीनत्वेत्यर्थः । इदं मोक्षस्य गुरुप्रसादाधीनत्वम् ॥ तदभावेति ॥ मोक्षाभावेत्यर्थः ॥ अन्यथेति ॥ गुरुकोपेऽपि मोक्षाङ्गीकार इत्यर्थः ॥ अभ्युपगम इति ॥ अपरोक्षज्ञानिनो गुरुकोपेन मोक्षाङ्गीकार इत्यर्थः ॥ उक्तवचनेति ॥ गुरुप्रसादपूर्वकत्व-तदभावोदासीनत्व ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्य इत्यादीत्यर्थः ॥ इति कर्तव्यतेति ॥ तथा च सेतिकर्तव्यताकमेव श्रवणं तत्राभिमतमिति भावः । ननु श्रुतौ श्रवणेतिकर्तव्यता कण्ठतः कुतो नोक्तेत्यत आह ॥ न हीति ॥ ‘निपीड्याथो वासो विस्तृत्य चाञ्जसा’ इत्यादौ मुष्ठ्या वासोनिपीडनादि विधीयते । तत्र वासोनिपीडनसाधनमुष्ट्यादेर्दाढ््यमभिप्रेतम् । दृढमुष्टिनिपीडनेनैव वाससो जलनिर्गमनसम्भवात् । अतो मुष्टेर्दाढर्््यादिरूपेतिकर्तव्यता पृथङ्नोच्यते । सिद्धत्वेन अवक्तव्यत्वात् । तद्वत्प्रकृतेऽपीति सम्प्रदायविदः ॥ साधनमिति ॥ वाससो जलनिर्गमनेत्यर्थः ।

ननु अधिकारिणो ज्ञानमोक्षयोरीश्वरकल्पितत्वेऽपि गुरुशापः कुतो विफलो न भवतीति चेत् । अत्र प्रष्टव्यं, गुरुशापस्य वैफल्यं किं मनुष्योत्तमक्षितिपविवक्षयोच्यते उत आधिकारिकदेवविवक्षया । नाद्य इत्याह ॥ ज्ञानादिह्रासेति ॥ आदिपदेन मौक्तानन्दसङ्ग्रहः । अस्मिन्नर्थे प्रमाणमाह ॥ तदुक्तमिति ॥ मुक्तिर् लिङ्गभङ्गः । आनन्द•हासदोषेण विद्यमानानन्दस्येति शेषः ॥ विदुष्य-तीति ॥ मनुष्योत्तमक्षितिपानामिति शेषः । •हासवचनस्याधिकारिकदेवेष्वसम्भवादिति भावः । द्वितीयपक्षेऽपि । आधिकारिकान् प्रत्यपि न गुरुशापस्य वैफल्यम् । तेषामपरोक्षज्ञानमोक्षानन्दयोः क्लृप्तत्वेन ह्रासाद्यसम्भवेऽपि ज्ञानाद्युत्पत्तौ किञ्चिद्विलम्बहेतुत्वात् । अत्र प्रमाणमाह ॥ तथेति ॥ एवं विकल्पमुखेन योजनाऽकरणे ज्ञानादिह्रासहेतुत्वादित्यर्थे आद्यप्रमाणस्य सम्मतित्वसम्भवेऽपि, ये ज्ञानविषया इति द्वितीयप्रमाणोदाहरणासम्भवात् । कादाचित्का इत्यनेन ज्ञानादिह्रासोक्त्य-लाभात् । न हि तेषां ज्ञानस्य मुक्तेश्च ‘तारतम्यस्य चैव हि भगवन्नियतत्वात्’ इति नियतोक्तिश्चाधिकारिकान् देवान् विहाय अन्यत्र घटते । न वाऽऽधिकारिकाणां ज्ञानादिह्रासवचनं युक्तम् । वृद्धिह्रासौ विमुक्तिगौ नृणामित्याद्युक्तेः । अतो अत्रोक्तविकल्पक्रमेणैव ग्रन्थयोजने द्वितीयप्रमाणोदाहरणं तत्र नियतत्वकथनं च श्लिष्टतरं भवति, नान्यथेति द्रष्टव्यम् ॥ ज्ञान-विषयाः ॥ ‘तव अपरोक्षज्ञानं मा भवतु’ इत्यपरोक्षज्ञानविषयाः । मुक्तिगाः ‘तव मुक्तिर्मा भवतु’ इत्येवं मुक्तिविषयाश्चेत्यर्थः ॥ कादाचित्का इति ॥ कालविलम्बाय भवन्तीत्यर्थः ।

वाक्यार्थमञ्जरी

इति कर्तव्यतेति ॥ उपसाधनतेत्यर्थः ॥ इत्युक्तमिति ॥ तत्र गुरूपदेशानुसारेणोपासना-कर्तव्यतोक्तेरिति भावः । अभ्युपगमे मोक्षाभावस्य ॥ इत्युक्तेति ॥ तत्र कस्यापि ज्ञानिनो मोक्षाभावो नेत्युक्तेरिति भावः ।

ॐ प्रदानवदेव हि तदुक्तं ॐ ॥ प्रीतिपूर्वकत्वादि प्रकृष्टं दानम् उपदेशः प्रदानं तद्युक्तमेव श्रवणादिकम् अपरोक्षज्ञानसाधनं, कुतस् तदुक्तं तज्ज्ञानस्य गुरुप्रदानाधीनत्वमाचार्यवानिति श्रुतावुक्तं यत इत्यर्थः । उक्तवचनम् आत्मा वार इत्यादि ॥ न हीति ॥ दृढमुष्टिनिपीडनादि पृथक् साधनं न हीत्यर्थः । उक्तं न्यायविवरणे । तथा चतुर्थतात्पर्ये । अत्र ज्ञानाद्यभावे ।

॥ इति प्रदानाधिकरणम् ॥