२५ निर्धारणाधिकरणम्

ॐ तन्निर्धारणार्थनियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॐ

२५. निर्धारणाधिकरणम्

सूत्रभाष्यं

दर्शनार्थं ह्युपासनम् । तच्च श्रवणादेरेव भवति । अतः किमर्थमित्यत्रोच्यते —

॥ ॐ तन्निर्धारणार्थनियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॐ ॥ ४३ ॥

तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव । हिशब्देन ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ.उ.४-४-५) इति श्रुतिं सूचयति । श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः । ब्रह्मतर्के च —

‘श्रुत्वा मत्वा यथा ध्यात्वा तदज्ञानविपर्ययौ ।

संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’इति ॥

तत्त्वप्रदीपिका

तारतम्यज्ञानपूर्वकं सपरिवारस्य विष्णोरुपासनमिति दर्शितम् । तच्चोपासनं हरेर्दर्शनार्थं हीष्यते । तत्र श्रवणमननयोः फलं वाच्यम् । पृथक्फलाभावे तयोरपि दर्शनमेवेति किमर्थमेतत् । तयोश्च प्रथममेव स्यात् । तेनापि दर्शनसम्भवात् । न चाग्निहोत्राग्निष्टोमादिवद् बहूनामनुष्ठानम् । दृष्टफले फलनिष्पत्तावितरवैयर्थ्यात् । अतिशयार्थत्वे प्रथमावृत्त्यापि तद्युक्तेरित्यत आह– तन्निर्धारणेत्यादि सूत्रम् ॥ तत्वनिश्चय इत्यादेरयं भावः । ‘आत्मा वा ओ द्रष्टव्यः’ इत्युक्त्वा तद्दर्शनार्थत्वेन ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति विधीयन्ते । नैकमेव । न च विकल्प्यन्ते । अतो नैकफलत्वं श्रवणादीनां कल्प्यम् । पृथग्विधिविरोधात् । समस्तगुणपरिपूर्णो नारायण इत्ययमेव वेदार्थ इति ज्ञानं वेदार्थनियमः । उपपन्न एवैवम्भाव इत्यधिगमस्तत्वनिश्चयः । तौ ब्रह्मदृष्टेः पृथगेव तत्साधनोपासनात्पूर्वभाविनौ । श्रवणमननयोः फलं तत्वाज्ञाननिवृत्तिस्तद्विपर्यय प्रतीतिनिवृत्तिश्च । वेदार्थनियमोऽज्ञाननिवृत्तिरूपः । तत्वनिश्चयो विपर्ययनिवृत्तिरूपः । तत्वाज्ञानं तदनुपपत्तिश्च हि दृष्टिसाधनोपास्तिप्रतिबन्धौ । तत्वनिश्चयवतोऽपि पारोक्ष्यात्कश्चित्संशयो भवत्या दृष्टेः । दर्शने कीदृशो नु भवेदिति । तदेतदाह–

‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।

संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति ।

अतः श्रवणमननवतोपासना कार्येति सिद्धम् ।

तत्त्वप्रकाशिका

अत्र भगवज्ज्ञानसाधनोपासनस्य समस्तस्यापि कर्तव्यतासाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा समस्तोपास्तिविधानवैयर्थ्यापत्तेः सा समर्थनीया । प्रकृतोपासनमेव विषयः । किं समस्तं कर्तव्यं व्यस्तं वेति सन्देहः । विधेः पक्षद्वयसाधारण्यं सन्देहबीजम् । पूर्वपक्षयति ॥ दर्शनार्थ-मिति ॥ व्यस्तमेवोपासनं कर्तव्यम् । तथा हि । उपासनं तावद्भगवद्दर्शनार्थं न तु प्रयोजनान्तरं दृष्टमिष्टं वा । तच्च दर्शनं श्रवणमननाभ्यां भविष्यति किं ध्यानेन । अथोच्येत ज्ञानप्रतिबन्धकस्य दृढत्वाद् ध्यानादेव दर्शनमिति । ‘तथा सति ध्यानेनैव दर्शनसम्भवादलं श्रवणादिना । न चोभयसमुच्चयेनैव दर्शनमिति मानमस्ति । न चोभयोरपि कृत्यं पश्यामः । अतः समस्तोपा-सनस्याकर्तव्यत्वाद्व्यर्थं तद्विधानमिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत्रेति ॥ कर्तव्यमेव समस्तोपासनं न श्रवणमननमात्रम् । श्रवणादिमात्रेण दर्शनाभावात् । तत्त्वज्ञानं हि श्रवणफलम् । अयमेव वेदार्थो नान्य इति निर्णयस्तु मननफलम् । तदुभयं च ब्रह्मदर्शनात्पृथगेव । अतो ध्यानं दर्शनार्थं कर्तव्यमिति भावः । ननु ध्यानादेव चेद्भगवद्दर्शनं किं तर्हि श्रवणमननाभ्या-मित्यत आह ॥ हिशब्देनेति ॥ ज्ञानार्थं त्रयस्यापि विहितत्वात्सर्वमुपासनं कर्तव्यमिति भावः ।

ननु श्रौतोऽपि समुच्चयः कथमङ्गीकर्तुं शक्यते । ध्यानादेव दर्शनसम्भवात् । न च ज्ञानोदयोप-योगितया श्रवणादेः कर्तव्यता । श्रवणादेः फलान्तरस्यैवोक्तत्वादित्यत आह ॥ श्रवणादीति ॥ कर्तव्यमेव समस्तोपासनं श्रवणादेरपि ध्यानफलदर्शनोपयोगित्वात् । तथा हि । भगवद्दर्शनस्य तावदज्ञानसंशयविपर्ययाः प्रतिबन्धकाः । तत्र श्रवणं तत्वज्ञानमुत्पादयदज्ञानं निवर्तयति । मननं च वेदार्थनिर्णयं कुर्वत्संशयविपर्ययौ निवर्तयति । अतः प्रतिबन्धकनिवर्तकतया ज्ञानोपयोगित्वा-त्समस्तोपासनमपेक्षितमिति भावः । अत्र स्मृतिमाह ॥ ब्रह्मतर्के चेति ॥ अतः सर्वोपासनस्य कर्तव्यत्वादुक्तं युक्तमिति सिद्धम् ।

गुर्वर्थदीपिका

अन्यथा समस्तोपास्तिविधान इत्यत्र समस्तोपास्तिः श्रवणमनननिदिध्यासनरूपेत्यर्थः । अलं श्रवणादिनेत्यस्य ध्यानार्थमस्तु श्रवणादिकम् । श्रवणादिना अलम् अपरोक्षदर्शनायालं तद्धेतुता मास्त्वित्यर्थः । श्रवणफलं मननफलमित्यत्र साक्षादिति शेषः । अन्यथा प्रतिबन्धस्यापि श्रवणमननफलत्वस्य वक्ष्यमाणत्वाद्विरोधः स्यात् । एवं च तन्निर्धारणं तत्त्वनिर्धारणं तेन सहितोऽर्थनिश्चयः वेदार्थनिश्चयश्चेति श्रवणमननसाक्षात्फलं ब्रह्मदृष्टेः पृथगेव । अतो ब्रह्मदृष्टेः साक्षात्साधनं ध्यानमेवेति भावः । तर्हि तयोर्वैयर्थ्यमित्यत उक्तम् अप्रतिबन्धः फलमिति ॥ ब्रह्मदर्शनोपयोगिप्रतिबन्धनिरासाख्यावान्तरफलाय कर्तव्यम् । तद्द्वारा ब्रह्मदर्शनोपयोगित्वमस्ति । न तु ध्यानवत् साक्षात् । इदं चोपलक्षणम् । अश्रुतानिश्चितार्थध्यानायोगात्साक्षाद्दृष्टिसाधनध्यान-हेतुतयाऽप्युपयोग इत्यपि द्रष्टव्यम् । अत इत्यस्य दर्शनातिरिक्तफलजनकत्वादित्यर्थः । प्रतिबन्धकनिवर्तकतया ज्ञानोपयोगित्वादित्यत्र ज्ञानमनूद्य तादर्थ्येन श्रवणादित्रिकस्यापि विहितत्वान्न प्रतिबन्धनिरसनमात्रेण चरितार्थतेति भावः ।

भावबोधः

समस्तस्यापीति । ‘सर्ववेदान्तप्रत्ययं’ इत्यत्र श्रवणमननाख्यशास्त्राभ्यासरूपोपासनोपसंहार इत्यादिना ‘कामादितरत्र च’ इत्यन्तेनाधिकारिविशेषादिनिर्णयपूर्वकं ध्यानरूपोपासना च कर्तव्येत्युक्तम् । तत्र अन्यतरोपासनामात्रेण फलसिद्धौ किमुभयानुष्ठानेन इत्याक्षेपोत्थानादनन्तर-सङ्गतिरिति भावः ॥ किमित्यादि ॥ अत्र ब्रह्मोपासनं किं व्यस्तं कर्तव्यमुत समस्तं कर्तव्यमिति चिन्ता । तदर्थं द्विविधोपासनस्यापि किमेकफलकत्वम् उतानेकफलकत्वमिति । तदर्थं भिन्नफलकत्वे श्रवणमननरूपोपासनस्य श्रुत्युक्तज्ञानोपयोगित्वं न सम्भवत्युत सम्भवतीति । तच्च दर्शनं श्रवणमननाभ्यामेवेत्यादिना । तच्च श्रवणादेरेव भवतीति भाष्यव्याख्यानपरेणान्यथोपासां विनैव श्रवणादिज्ञानमात्रेण मुक्तिरिति न्यायविवरणांशोऽप्युक्ततात्पर्यम् । बन्धदाढर्््ये श्रवणादीमाम-फलत्वमिति न्यायविवरणं तन्निवर्तनीयप्रदर्शनपूर्वकं संयोजयति– अथोच्येत इत्यादिना । सौत्र‘हि’ शब्दनिवर्तनीयमाह– न चोभयेति ॥ अप्रतिबन्ध इत्येतन्निवर्तनीयमाह– न चोभयोरपीति ॥ सूत्रे तन्निवारणं चार्थनियमश्चेति द्वन्द्वः । छन्दः कल्पत्वादेकवद्भावेऽपि नपुंसकत्वाभावः । तन्निर्धारणेन सहितोऽर्थनियम इति मध्यमपदलोपी समासः । प्रथमस्तच्छब्दो बुद्धिस्थत्वपरो भावप्रधानो वा । द्वितीयस्तु ‘सैव हि’ इत्यादिना प्रकृतब्रह्मपरामर्शक इत्यभिप्रायेण प्रवृत्तं तत्त्वनिश्चय इत्यादिभाष्यं व्याचष्टे– तत्त्वज्ञानं हि इत्यादिना ॥ ज्ञानार्थं त्रयस्यापि विहितत्वादिति । उपलक्षणमेतत् ।

‘श्रवणादित्रयोत्पन्नदृष्ट्यैव स्वेच्छया हरिः ।

प्रसन्नो मुक्तिदो नित्यं नान्येन तु कथञ्चन ॥’

ईशेच्छानियतिश्रुतेरिति न्यायविवरणानुसारेण ईशेच्छानियतत्वाच्चेत्यपि ज्ञातव्यम् । प्रतिबन्धकनिवर्तकतया ज्ञानोपयोगित्वादिति । शास्त्राभ्यासस्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति, ब्रह्मसाक्षात्कारहेतुत्वाच् चित्तवृत्तिनिरोधत्वाच्च । अत एवोक्तम्–

‘अथवा सततं शास्त्रविमर्शेन भविष्यति ॥’ इति सुधाग्रन्थस्याप्ययमेवाभिप्रायः ॥

भावदीपः

समस्तस्येति ॥ फलभेदोक्त्येति भावः । तेन पूर्वत्राद्यनये श्रवणमननयोरन्यैस्त्रयो-विंशतिनयैर्ध्यानप्रकारध्यानाधिकारनियमध्यातृध्येयानां निरूपणानन्तरमत्र श्रवणादित्रितयस्य फलभेदोक्त्या सर्वस्य कर्तव्यत्वसमर्थनस्यावसर इति वा पूर्वं कृतकृत्यतया फलाभावेऽपि प्रकृते-रादरादुपासनालोपेऽपि अकृतार्थानां समस्तोपासनस्य फलाभावाल्लोप एवेति शङ्कायां फलभेद-कथनेनालोपोक्तेर्वा पूर्वसङ्गतिः सूचिता ॥ विधानेति ॥ श्रोतव्यो मन्तव्य इत्यादिविधानेत्यर्थः । यद्वा श्रवणादिरूपा जिज्ञासा कर्तव्येत्याद्यसूत्रे त्रितयकर्तव्यत्वविधानेत्यर्थः । तस्यैव ह्यधस्तननयैः प्रपञ्चनादिति भावः ॥ व्यस्तं वेति ॥ एकैकं वा द्वयं वेत्यर्थः ॥ विधेरिति ॥ श्रोतव्य इत्यादेरित्यर्थः । विकल्पद्योतकवाशब्दो वा समुच्चयार्थचशब्दो वा नास्तीति व्याससमासपक्षद्वय-साधारण्यमित्यर्थः । भाष्ये किमर्थमुपासनमिति ध्यानस्यैव लोपप्रतीतावपि न्यायविवरणे बन्ध-दाढर्््याच्छ्रवणादेरफलता अन्यथोपासनं विनैव श्रवणादिज्ञानमात्रेण मुक्तिरित्यनिर्धारणस्योक्त्या भाष्येऽपि तथैवाभिप्रेतमिति भावेन ध्यानं कार्यं न वेत्यनुक्त्वा समस्तं व्यस्तं वेत्येव सन्देहं प्रदर्श्य तथैव पूर्वपक्षयति ॥ व्यस्तमेवेति ॥ श्रवणमनने द्वे एव कार्ये न ध्यानमेव कार्यं न श्रवणमनने श्रवणमननयोरन्यतरदेव वा कार्यमिति त्रेधा प्रतिज्ञार्थः । कुत इत्यतः विवक्षितफलस्य तत्तन्मात्रेणैव लब्ध्याऽधिकस्य व्यर्थत्वादिति भावेनाद्यार्थहेतूपपादकतया भाष्यं व्याचष्टे ॥ उपासनं तावदिति ॥ दृष्टमिष्टं वेति ॥ द्रष्टव्य इति वदन् यस्याश्रवणात्प्रकाशश्च कर्मण्यभ्यासादिति प्रकाशार्थत्वोक्तेश्चेति भावः । प्रजापश्वादिकमपि तत्र तत्रोपासनाफलत्वेन श्रूयत इत्यतः दृष्टं वा न भवतीत्युक्तम् । महाफलहेतूपासनस्याल्पफलार्थत्वायोगेन सिद्धान्तिनानङ्गीकारादिति भावः । द्वितीयार्थे हेतूपपाद-कत्वे न बन्धदाढर्््याच्छ्रवणादेरफलतेत्यन्यत्रोक्तं व्यनक्ति ॥ अथोच्येतेति ॥ तथासतीति ॥ तत्प्रतिबन्धदाढर्््ये सतीत्यर्थः । समस्तमिति सिद्धान्तकोटिं निराह ॥ न चेति ॥ श्रवणादिद्वयस्य ध्यानस्य च समुच्चयेनेत्यर्थः ॥ मानमिति ॥ निदिध्यासितव्यश्चेति चशब्दादिरूपमित्यर्थः । तृतीयार्थे हेतुं व्यनक्ति ॥ न चेति ॥ किं चेति चार्थः । द्वयोः श्रवणमननयोरन्यतरेणैव दर्शन-सम्भवेऽन्यतरस्य कृत्यं नेत्यर्थः । श्रवणाज्जनलोकादिरित्युक्तफलं त्विष्टं न भवति । दृष्टेरेवेष्टत्वात् । तथैवाध्यानायेत्यत्रोक्तेरिति भावः । फलोक्त्योपसंहरति ॥ अत इति ॥ व्यस्तादेवाभिमतफलसिद्धेः । समस्तादेव फलसिद्धौ मानाभावाच्चेत्यर्थः । तद्विधानमिति पूर्ववद्व्याख्येयम् ।

भाष्यादौ श्रवणादिफलोक्तेः पूर्वपक्ष्युक्तहेतुनिरासोपपादकतयोपयोगं विवक्षुः पूर्वपक्षं निराह ॥ कर्तव्यमेवेति ॥ न श्रवणमननमात्रं श्रवणमात्रं मननमात्रं ध्यानमात्रं वा नेत्यपि ध्येयम् । श्रवणादिमात्रेणेत्यत्राप्येवं ज्ञेयम् । कुत इत्यतो भिन्नफलकत्वात्त्रयाणामिति भावेन भाष्यं व्याचष्टे ॥ तत्त्वेति ॥ श्रवणफलमित्यश्रवणशब्देन गुरूपदेशविषयकश्रावणप्रत्यक्षमुच्यते । मननशब्देन च युक्त्यनुसंधानम् । फलं साक्षात्फलमित्यर्थः । भाष्ये निश्चय इत्युक्तावपि तत्वज्ञानं हि, इत्युक्ति-र्द्वितीये निर्णय इत्युक्तिश्च निश्चयपदोक्त्याऽयमेव वेदार्थो नान्य इति, निश्चयस्तत्वनिश्चय-पदेनोक्तमिति तदेव मननफलनिर्देशकमिति न ज्ञेयमिति सूचनाय । निश्चय इत्युक्तिस्तु संशय-भिन्नत्वमात्रेणेति भावः । तत्त्वेत्युक्त्या सौत्रतच्छब्दः पूर्वत्र इयदामननादित्यादिना प्रकृतपरापर-तत्त्वपर इति सूचितम् । तत्वप्रदीपे तु निश्चयपदस्वारस्यानुरोधेन निश्चितप्रामाण्यकं मननफलरूपं ज्ञानं निश्चयपदार्थः । नियमपदेन श्रवणफलमित्युपेत्य व्याख्यातम् । टीका तु श्रवणादिफलं चेत्यादिभाष्यस्वारस्याभिप्रायेति ध्येयम् ॥ त्रयस्यापीति ॥ समुच्चायकशब्दाभावेऽपि त्रितयविधाना-न्यथानुपपत्त्या समुच्चयो गम्यते । विकल्पार्थकवाशब्दाभावादिति भावः । ‘न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन’इत्यादिस्मृतिसूचनाय ज्ञानार्थमित्युक्तिः । अन्यथा दर्शनार्थमित्यवक्ष्यत् । उक्तशङ्कानिवर्तकहेतूपपादकतया भाष्यं व्याचष्टे ॥ कर्तव्यमेवेत्यादिना ॥ ज्ञानोपयोगित्वादिति ॥ ध्यानस्य साक्षाज्ज्ञानजनकत्वाच्चेत्यपि ध्येयम् ॥ अत्रेति ॥ श्रवणादेः प्रतिबन्धनिवृत्तिद्वारा अङ्गाङ्गिभावेन दृष्टिहेतुत्वरूपेऽर्थे स्मृतिमाहेत्यर्थः । एतच्चापरोक्षदृशिश्चैव श्रवणान्मननादनु । सम्यङ्निश्चिततत्वस्य निदिध्यासनया भवेदित्यनुभाष्ये निदिध्यासनं ब्रह्मदर्शनसाधनं तत्सिद्धये श्रवणमनने अपि कर्तव्ये इति सुधायां चोक्त्या दृष्टिहेतुध्यानोपकारकतया विवेक्तव्यम् । विवृत-मेतन्न्यायामृते तृतीयपरिच्छेदे ॥ अत इति ॥ श्रुत्युक्तत्वात्तत्वज्ञानतन्निर्णययोर्जनकत्वाच्छ्रवण-मननयोरित्यर्थः । अत्र सूत्रपदकृत्यचर्चा तन्त्रदीपिकायां व्यक्ता ।

अभिनवचन्द्रिका

समस्तस्यापीति ॥ समाविष्टस्यापीत्यर्थः । श्रवणमननाभ्यां समाविष्टस्य, अन्यथासिद्धि-शङ्कयाऽकर्तव्यतया प्रसक्तस्यापि ध्यानस्य, तथा ध्यानेन समाविष्टयोः, अन्यथासिद्धिशङ्कया अकर्तव्यतयाप्रसक्तयोरपि श्रवणमननयोः, कर्तव्यता समर्थ्यत इति भावः । एतेन अपिशब्दो व्यर्थ इति परास्तम् । समस्तोपास्तीति ॥ ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति ज्ञानार्थं श्रवणादीनां समावेशाभिप्रायकविधीनां वैयर्थ्यं स्यादित्यर्थः । विधीनां समावेशाभि-प्रायाभावे ‘आत्मा वा ओ द्रष्टव्य’ इति दर्शनानुवादेन श्रोतव्यो मन्तव्योवा, निदिध्यासितव्यो वेति विकल्पाभिधानं स्यादिति भावः । एतेन समस्तस्य कर्तव्यत्वाभावेऽपि एकेन श्रवणमनने, एकेन निदिध्यासनं कर्तव्यमित्येवमर्थं विधीनां सार्थक्यसम्भवात् समस्तोपास्तिविधानवैयर्थ्यापत्ते-रित्ययुक्तमिति परास्तम् । व्यस्तमेवेति ॥ श्रवणमनने वा, निदिध्यासनं वा, स्वेच्छानुसारेण कार्यं न तु समस्तमित्यर्थः । तच्च दर्शनमिति ॥ अपरोक्षज्ञानस्याऽज्ञानसंशयविपर्ययाः प्रतिबन्धकाः । तत्राऽज्ञाननिवृत्यर्थं श्रवणं, संशयविपर्ययनिवृत्यर्थ मननंचाऽऽवश्यकम् । ध्यानस्य तु न किमपि प्रयोजनमितिभावः । अथोच्येतेति ॥ ज्ञानप्रतिबन्धकानामज्ञानसंशयविपर्ययाणां द्दढत्वात्, न श्रवणमननाभ्यां निवृत्तिः । अतो ध्यानमावश्यकमिति यद्युच्येतेत्यर्थः । तथा सतीति ॥ ध्यानस्यैवाज्ञानसंशयविपर्ययनिवर्तकत्व इत्यर्थः । न चोभयोरपीति ॥ श्रवणमननयोर्मध्ये एकस्यापि ज्ञानोपयोगं नैव पश्याम इत्यर्थः । अत इति ॥ श्रवणमननाभ्यां प्रतिबन्धकनिवृत्तौ, ध्यानस्य वैयर्थ्यं, ध्यानेनैव प्रतिबन्धकनिवृत्तौ श्रवणमनने व्यर्थे भवत इति यतः, अतः समस्तोपासनं सर्वथा न कार्यमितिभावः । तदुभयं चेति ॥ श्रवणमननफलं दर्शनादन्यदेवेति न ताभ्यां दर्शनसाधनस्य ध्यानस्याऽन्यथासिद्धिरिति भावः ।

पूर्वपक्षस्तु– श्रवणमनने एव कार्ये । ताभ्यामेवाज्ञानसंशयविपर्ययनिवृत्तौ स्वकारणादेव दर्शनसम्भवात् । अथोच्येत ज्ञानप्रतिबन्धकानां दृढत्वात् । ध्यानेनैव प्रतिबन्धकनिवृत्तिरिति, तर्हि ध्यानेनैव ज्ञानमस्तु न ज्ञानार्थं श्रवणमनने । न च समुच्चितानां ज्ञानहेतुत्वे मानमस्ति । न च ज्ञानोत्पादे श्रवणमननयोरुपयोगं पश्यामः । अतः समस्तोपासनं न कर्तव्यमिति समस्तोपास्ति-विधानवैयर्थ्यमिति ।

सिद्धान्तस्तु– कर्तव्यमेव समस्तोपासनं न श्रवणमननमात्रम् । तयोस् तत्वज्ञानवेदार्थ-निर्णयरूपदर्शनातिरिक्तफलहेतुत्वेन दर्शनहेतुत्वाभावात् । ध्यानस्य च दर्शनहेतुत्वेनाऽऽवश्य-कत्वात् । न चैवं श्रवणमननाभावप्रसङ्गस् तयोः साक्षाद्दर्शनहेतुत्वाभावेऽपि प्रतिबन्धकी-भूताज्ञानसंशयविपर्ययनिवृत्तिद्वारा दर्शनोपयोगित्वेनाऽऽवश्यकत्वात् । न च तत्र प्रमाणाभावः । दर्शनार्थं ‘श्रोतव्यो मन्तव्य’ इति विहितत्वात् । ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति स्मृतेश्च । अतः समस्तोपासनस्य कर्तव्यत्वाद्युक्तं तद्विधानमिति सिद्धम् ।

वाक्यार्थमुक्तावली

समस्तस्यापीति ॥ श्रवणमननाख्यशास्त्राभ्यासस्वरूपस्य सर्वपरिज्ञानाधिकरणोक्तस्योपसंहार इत्यारभ्य कामादित्यन्तैरधिकरणैस् तारतम्यपरिज्ञानपूर्वं सपरिवारस्य विष्णोर्यथायोग्यं कर्तव्य-मित्युक्तस्य ध्यानरूपस्येत्येवं द्विविधोपासनस्यापि समुच्चयसाधनादनन्तरसङ्गतिरिति भावः । अत एव समस्तस्यापीत्यपिशब्दः । समस्तोपास्तिविधीति । ‘आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति समस्तोपास्तिविधीत्यर्थः ॥ किं समस्तमिति ॥ शास्त्राभ्यासरूपं ध्यानरूपं चेत्युपासनं किमन्यत्र परित्यागेनान्यतरदनुष्ठेयमुत समुच्चितं कर्तव्यमिति चिन्ता । तदर्थं द्विविध-स्योपासनस्य किमेकफलकत्वमुत भिन्नफलकत्वमिति ॥ विधेरिति ॥ उक्तरीत्या विधेरेकफलका-भिन्नफलकाप्युपपद्यत इति विधेः पक्षद्वयसाधारण्यमित्यर्थदर्शनार्थम् । ह्युपासनमित्यत्र हिशब्दो यत इति हेत्वर्थः । तस्य चात इत्यनेन सम्बन्धः । यद्वा हिशब्दो युक्तिविशेषद्योतकः । तामेवाह ॥ न तु प्रयोजनान्तरं दृष्टमिति ॥

ननु श्रवणादिना जनलोकादिकं प्रयोजनं प्रमितमेवेत्यत उक्तं- दृष्टं चेति । अधिकत्वेन सर्वेषां तदपेक्षाभावादिति भावः । श्रवणादेरित्यादिशब्दार्थमाह ॥ श्रवणमननाभ्यामिति ॥ किमर्थमित्यस्यार्थः ॥ किं ध्यानेनेति ॥ एवं ध्यानमननवैय्यर्थ्येन तदाक्षेपकत्वेन भाष्यं व्याख्याय दृढबन्ध इत्युक्तन्यायावलम्बनं ध्यानं स्वीकृत्य श्रवणाद्याक्षेपकतया भाष्यं व्याचष्टे ॥ अथेति ॥ दृढत्वादिति । श्रवणमननानिवर्त्यत्वादित्यर्थः । तथा च भाष्यस्य तच्चोपासनं हरेर्दर्शनार्थं भवतीष्यते । अतः श्रवणादेः किमर्थमनुष्ठानमित्यर्थो लभ्यते । उक्तं च तत्वप्रदीपे । तच्चोपासनं हरेर्दर्शनार्थमिष्यते । तच्च श्रवणमननयोः फलं वाच्यमिति । सौत्रहिशब्दनिवर्तनीयमाह ॥ न च तयोरिति ॥ सूत्रे तन्निर्धारणं चार्थनियमश्चेति द्वन्द्वः । छन्दःकल्पत्वादेकवद्भावेऽपि नपुंसकत्वा-भावः । तन्निर्धारणेन सहितार्थनियम इति मध्यमपदलोपी वा समासः । प्रथमस्तच्छब्द इयदामननात् सैव हीति प्रकृतपरतत्वपरः । भावप्रधानो वा । फलमित्यावर्तते । तद्दृष्टेरिति चावर्तते । अत्र तच्छब्देन सैव हीति प्रकृतब्रह्मपरामर्शः । हिशब्दः श्रुतिद्योतकः । तथा चायं सूत्रार्थः । तन्निर्धारणम् अर्थनिश्चयस् तेन सहितोऽर्थ नियमः । अयमेव वेदार्थो नान्य इति निश्चयश्चेत्येवंरूपं श्रवणमननरूपं फलम् । तद्दृष्टेर्ब्रह्मापरोक्षज्ञानध्यानसाध्यात् पृथग्गतस् ताभ्यां दृष्ट्यर्थसिद्धेर् दृष्ट्यर्थं ध्यानं कार्यम् । तर्हि श्रवणमनने ज्ञानार्थिना न कार्ये इत्यत उक्तम् ॥ हीति ॥ श्रुतिविहितेऽपि समुच्चयो कथमङ्गीकारार्हः । ज्ञानार्थिनो ध्यानमात्रेण पूर्तेरित्यत उक्तम् । तद्दृष्टेरिति । तद्दृष्टेरप्रतिबन्धः श्रवणमननयोः फलमिति । तदेतदभिप्रेत्य प्रवृत्तं तत्वनिश्चय इत्यादिभाष्यं व्याचष्टे । तत्वज्ञानं हि श्रवणफलमित्यादिना ॥ ज्ञानार्थमिति ॥ द्रष्टव्य इति दर्शनानुवादेन त्रयस्य विहितत्वादिति भावः ॥ ज्ञानोपयोगितयेति ॥ ज्ञानप्रतिबन्धकनिवर्तक-तयेत्यर्थः ॥ फलान्तरस्यैवेति ॥ तत्वनियमस्य वेदार्थनियमलक्षणस्येत्यर्थः ।

ननु कथमुपयोगः पदान्तरोक्तेरित्यत उपयोगप्रकारं दर्शयन् फलान्तरस्य तदविरोधं दर्शयति ॥ तथा हीति ॥ प्रतिबन्धकनिवर्तकतया ज्ञानोपयोगित्वादिति । नन्वथवा सततं शास्त्रविमर्शेन भविष्यतीति शास्त्रावमर्शस्य तन्त्रसारे साक्षादपरोक्षहेतुत्वमुक्तमिति विरोध इति चेन्न । अत्र तत्वनिश्चयात्प्राक्कालीनयोः श्रवणमननयोर्विचारितत्वात् तत्र तदनन्तरभाविनोर्विवक्षितत्वात् । हृदि किञ्चिदुपास्यैवेत्युक्तेरीषद्बिम्बध्यानोपासनस्य सर्वेषामपेक्षितत्वेन शास्त्रविमर्शप्राचुर्यविवक्षया तद्वाक्योपपत्तेश्च । उक्तं च सुधायाम् । शास्त्राभ्यासस्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । चित्तवृत्तिनिरोधनाच्च । अत एवोक्तम् अथवा सततं शास्त्रावर्शेन भविष्यतीति । अत्र हिशब्देन सौत्रेणात्मा वारे इति तृतीयनियतश्रुतिवत् ‘श्रवणादित्रयोत्पन्नदृष्ट्यैव स्वेच्छया हरिः । प्रसन्नो मुक्तिदो नित्यं न चान्यत्तु कथञ्चन’ इतीच्छानियतिश्रुतेरपि ग्रहणान् नियतिरित्युक्तन्यायोऽपि सूत्रारूढो भवति । भाष्ये नियतिरिति न्यायस्य विधिनियतिरिति व्याख्येयम् । न्यायविवरणे त्वीश्वरेच्छानियतिरित्यर्थकथनमिति न भाष्ये तदप्रदर्शनमिति ज्ञेयम् ।

तत्त्वसुबोधिनी

सर्ववेदान्तप्रत्ययमित्यत्र श्रवणमननाख्याशास्त्राभ्यासरूपोपासनोपसंहार इत्यादिना कामादि-रत्रेत्यन्तेन, अधिकारिविशेषनिर्णयपूर्वकं ध्यानरूपोपासना च कर्तव्येत्युक्तम् । तत्रान्यतरोपासन-मात्रेण फलसिद्धौ किमुभयानुष्ठानेनेत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । अन्यथेति । समस्तो-पासनस्य कर्तव्यताऽसमर्थनेत्यर्थः । ननु उभयोरपि अपेक्षितत्वात् कथमेकेनैवालमित्युच्यते इत्यत आह ॥ न चेति ॥ ध्यानेनैव दर्शनसम्भवे श्रवणादिध्यानकृत्यमित्यर्थः । सूत्रे तन्निर्धारणार्थं चार्थनियमश्चेति द्वन्द्वः । च्छन्दःकल्पत्वादेकवद्भावेऽपि नपुंसकत्वाभावः । तन्निर्धारणेन सहितोऽर्थनियम इति मध्यमपदलोपी समासः । प्रथमस् तच्छब्दः बुद्धिस्थपरो भावप्रधानो वा, द्वितीयस्तु सैव हीत्यादिना प्रकृतब्रह्मपरामर्शक इत्यभिप्रायेण अप्रवृत्ततत्वनिश्चय इत्यादिभाष्यं व्याचष्टे ॥ तत्वज्ञानं हीत्यादिना ॥ अस्य च सूत्रस्य तन्निर्धारणार्थनियमस् तत्वनिर्धारणं वेदार्थनियमश्च तद्दृष्टेर् ब्रह्मदृष्टेः पृथुगेव श्रवणादिफलम् । किमत्र प्रमाणमित्यत उक्तम् ॥ हीति ॥ एवं च श्रोतव्य इत्याद्यत्र प्रमाणमिति भावः ।

ननु ध्यानेनैव दर्शनसम्भवान्न श्रवणादिना कृत्यम् । न च श्रवणादेरपि ज्ञानोपयोगित्वमिति वाच्यम् । तत्वनिश्चयादिरूपफलान्तरस्यैव उक्तत्वेन ज्ञानोपयोगित्वाभावादित्यत उक्तम् । अप्रतिबन्धः फलमिति ॥ दर्शनप्रतिबन्धकाज्ञानसंशयविपर्ययनिरासः फलम् । श्रवणादिना तत्वनिश्चयवेदार्थनियमयोः सतोर् अज्ञानादिरूपदर्शनप्रतिबन्धकनिरासे सति पश्चाद्ध्यानेन दर्शनं सम्भवतीत्यक्षरार्थः ।

वाक्यार्थविवरणं

समस्तस्यापीति ॥ श्रवणमननादिरूपशास्त्राभ्यासरूपस्य ध्यानरूपस्येति समस्तस्येत्यर्थः ॥ विधानेति ॥ श्रोतव्यो मन्तव्य इत्यादिविधानेत्यर्थः । व्यस्तं यत्किञ्चिदिति यावत् ॥ विधेः ॥ जिज्ञासा कर्तव्येति विधेः ॥ ज्ञानप्रतिबन्धकस्येति ॥ अज्ञानसंशयविपर्यरूपस्येत्यर्थः ॥ उभयेति ॥ श्रवणादिरूपशास्त्राभ्यासध्यानरूपोभयेत्यर्थः । ननु उभयमप्यावश्यकमिति चेत्तत्राह ॥ न चोभयोरपीति ॥ तदुभयम् ॥ फलभूतमुभयं पृथगेव । अस्तीति शेषः । अतः श्रवणमननाभ्यां दर्शनं न भविष्यतीति भावः । भाष्ये श्रुत्वा अज्ञानं पराणुद्य, मत्वा संशयविपर्ययौ पराणुद्य, ध्यात्वा ब्रह्मदर्शनं लभत इति विवेकेन योज्यम् ।

वाक्यार्थमञ्जरी

समस्तस्य सर्वस्य व्यस्तं किञ्चिद्विधेः श्रोतव्य इत्यादेर्द्दष्टं भवति ॥ न चेति ॥ कृत्यं चेत्यन्वयः ॥ ॐ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलं ॐ ॥ तन्निर्धारणं तस्य परापरतत्त्वस्य निर्धारणं निश्चयो ऽर्थनियमो ऽर्थस्य वेदार्थस्य अयमेवेति नियमः निश्चय एतदुभयं तद्दृष्टेस् तस्य परमात्मनो दृष्टेर् अपरोक्षज्ञानात्पृथक् अन्यदेव अप्रतिबन्धः ज्ञानप्रतिबन्धक-निवृत्तिस् तदुभयफलमित्यर्थः ॥ पृथगेवेति ॥ अपृथक्त्वे किल श्रवणमननाभ्यां पूर्तिः स्यादिति भावः ॥ कथमिति ॥ निष्फलत्वादिति भावः ।

॥ इति निर्धारणाधिकरणम् ॥ २५ ॥