२४ कामाधिकरणम्

ॐ कामादितरत्र तत्र चाऽऽयतनादिभ्यः ॐ

२४. अथ कामाधिकरणम्

सूत्रभाष्यम्

प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्वपाठ इत्यत्रोच्यते—

॥ ॐ कामादितरत्र तत्र चाऽऽयतनादिभ्यः ॐ ॥ ४० ॥

स्वेच्छ्यैव मूलस्थाने स्थिताऽन्यत्र च अवतारान्करोतीश्वरेच्छानुसारेण । ‘सर्वायतना सर्वकाला सर्वेच्छा न सर्वज्ञान बद्धा बन्धिका सैषा प्रकृतिरविकृतिः’इति वत्सश्रुतेः ।

‘नामादयस्तु बद्धत्वान्मोचकत्वात्परोऽपि च ।

उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥

श्रुतौ तथा जीवपरावुच्येते किञ्चनेतरत् ।

नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम्’ इति ब्रह्मतर्के ।

तत्त्वप्रदीपिका

‘यतः प्रसूता जगतः प्रसूती’ ‘मम योनिरप्स्वन्तः समुद्रे’ ‘सदेव सोम्यदमग्र आसीत्’ इत्यादिना चित्प्रकृतेरपि प्राणादिवज्जन्मलयाद्याशङ्कायामाह– कामादित्यादि सूत्रम् ॥ ईश्वरेच्छानु-सारेण वर्तमानया स्वेच्छयैव मूलस्थाने तेन सहैव स्थिताऽन्यत्र च सहावतारान्करोति । सर्वं तदिच्छयैवेति सर्वेच्छा । सर्वः पूर्णत्वाद्विष्णुरिति वाऽर्थः । तस्यायतनमेवास्या आयतनं तत्काल एव कालस्तस्मादेवेच्छा चेति ‘सर्वायतना सर्वकाला सर्वेच्छा’ च । सा स्वयं क्वचिदपि न बद्धा बन्धका च जीवानाम् । अथापि नामादिभ्यः परस्तात्परमात्मनोऽवस्ताद्वक्तव्या सेत्यत आह– ‘नामादयस्तु बद्धत्वात्’इत्यादि । बद्धत्वमोचकत्वयोरुभयोरप्यभावेन यथा येन प्रकारेण योजनायामव्यक्तं नेवोदितं श्रुतौ तस्मिन्योजनाप्रकारे प्राणपर्यन्तो जीवराशिः सत्यादिगुणकः परश्वैवोच्येते । नान्यत्किञ्चित् । अव्यक्तस्याबद्धत्वेन परतत्वेऽन्तर्भावात् । तदा तस्मिन्पक्षे तत्वद्वयमेवोक्तमिति । एवं च प्रकारान्तरेणापि योजनाऽस्तीति गम्यते । येन प्रकारेणाव्यक्त-शब्दशब्दता स्वरमणपरतन्त्राऽक्षतगुणगणलक्षणा सा महालक्ष्मीरत्र संलक्ष्यते । स्वयं च सूत्रं सैव हि सत्यादय इति तदभिमुखमिव च प्रतिभाति । ‘यथाऽव्यक्तं न तूदितम्’इत्यादिकमुदाहारद्भिरिह भट्टारकैश्च तां कटाक्षेण वीक्ष्यमाणामभिप्रेक्षामहे । सा च देवी प्रस्तुतैव भगवत्प्रस्तावे । अनादिकालभगवत्सम्बन्धित्वादिति ह्याह । भूमादिगुणत्वमुभयथाऽपि विष्णोरेवेति भूमा विष्णुरेवेत्युक्तं पुरस्तात् । श्रीगुणेषूदितेष्वपि सत्यादिषु तेषां भूमा विष्णुरेवेत्यर्थः । न हि भगवतोऽन्यत्र सत्यज्ञानादीनां गुणानां परिपूर्तिः । न च ‘यत्र नान्यत्पश्यति’इत्यादिना सर्व-स्वातन्त्र्यादिधर्मोपपत्तिरन्यत्रेति च तत्रैवाऽवोदितम् । अन्तरालेऽनुक्तिपक्षेऽपि नोपासनीया सेति मा भूच्छङ्केत्यत्रैवोपासनापादे प्रस्तौति देवीं प्राणप्रसूतिम् । प्राणादुपरि सहैव भगवता मुमुक्षूणा-मभिध्यातव्येति । नामादिप्राणपर्यन्तानामपि परिवारभूतानामुत्तरोत्तरतो विशेषादुपास्तिपूजादिकं विवक्षितम् । किं पुनरखिलेश्वरस्यातिप्रियतमाया विरिञ्चमुखनिखिलसुरवरपुरस्सरसज्जनसन्ततसेव्याया देव्याः । उक्तं चानुव्याख्याने–

‘तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।

कर्तव्यैषाऽपि तद्भक्तिर्लोकवेदानुसारतः ॥

यो हि भक्तः प्रधाने स्यात्तदीयेष्वपि भक्तिमान् ।

दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ॥

व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते ।

भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥

तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।

विष्णुप्रसादानुसारात्कार्या दोषास्तदन्यथा ॥

स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते ।

तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥

लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्रा गिराम्पतिः ।

सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥

तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।

सर्वेऽपि गुरवश्चैव पुरुषस्य सदैव हि ।

तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ॥

इति षाड्गुण्यवचनादप्येषोऽर्थोऽवसीयते ।

हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ॥

हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ।

तत्पूजाऽविहितत्याग इति भक्तेः क्रमेण हि ॥

नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः ।

इति प्रवृत्तवचनं साधनस्य विनिर्णयः’ ॥ इत्यादि ॥

तत्त्वप्रकाशिका

अत्र भगवद्दर्शनसाधनोपासने श्रियोऽनधिकारित्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथाऽधि-कारिणां प्राणावसानत्वासिद्धेस्तत्साधनीयम् । प्राणपरमात्मप्रसङ्गसन्निधापिता श्रीरत्र विषयः । अधिकारिणी न वेति सन्देहः । चेतनद्वैविध्यदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ प्रकृतेरिति ॥ भवत्येव प्रकृतिरधिकारिणी साधुत्वे सति संसारित्वात् । न च तस्याः संसारित्वाभावः । सीता-रुक्मिण्यादिरूपायास्तस्या जन्ममरणादिदर्शनात्संसारप्राप्तेः । किं च सा कृतार्था न वा । आद्ये भगवदुपासनं न स्यात् । द्वितीये कथमसंसारित्वं तस्याः । अतः संसारित्वेन प्रकृतेरप्यधिकारोऽ-स्त्येव । अधिकारित्वे च तस्याः किमिति नामादिष्वपाठः । किं तु तत्पाठोऽध्याहर्तव्य एव । स च भवन्प्राणादुपर्येव भवेत् । तथा च नाधिकारिणां प्राणावसानत्वमिति भावः । सिद्धान्त-यत्सूत्रमवतार्य व्याचष्टे ॥ अत्रेति ॥ न प्रकृतेरधिकारित्वम् । तस्या बद्धत्वाभावात् । न च जन्मादेः संसारित्वप्राप्तिः । जननादेरवतारादित्वेन संसारहेतुत्वाभावात् । न च जन्माद्येव किं न स्यादिति वाच्यम् । जननेऽपि मूलरूपेण भगवत्समीपे स्थितत्वात् । नापीन्द्रादिवत् । स्वेच्छयैव जनने कर्मनिमित्तत्वाभावात् । न च स्वेच्छानुसारित्वे स्वातन्त्र्यम् । ईश्वरेच्छानुसारित्वात् । मूलरूपेण भगवत्समीपे स्थिता स्वेच्छयाऽवतारान्करोतीत्येतत्कुतः । सर्वगतत्वाद्यभिधायकश्रुतेरिति भावः । सर्वमिच्छाधीनं यस्याः सा सर्वेच्छा । अविकृतिरित्यचेतनप्रकृतिं व्यावर्तयति । नन्वेवम-संसारित्वेनाऽनधिकारित्वेऽपि प्रकृतेः कुतो नामादिष्वपाठः । भगवद्भक्ततारतम्यकथनावसरे तदुक्तेरावश्यकत्वात् । अन्यथा तदभावप्रसङ्गादित्यत आह ॥ नामादयस्त्विति ॥ यथा बद्धमोचकत्वविवक्षयैव नामादीनां परमात्मनश्चोक्तिस्तदुभयाभावेन प्रकृतेरनुक्तिर्न त्वभावात् । तथा बद्धमोचकत्वाभिप्रायेणैव ‘द्वा सुपर्णा’ इत्यादिश्रुतौ जीवेश्वरावुच्येते न तु जडम् । तदा तत्त्वद्वयमेवोक्तं ज्ञातव्यं न तु जडाभाव इत्यर्थः ।

गुर्वर्थदीपिका

तस्या बद्धत्वाभावादित्युपलक्षणम् । ईश्वरवत्सर्वदेशव्यापित्वाद्देहसहिताया एव सार्वकालीनत्वाद्बन्धकमायायाश्च स्वेच्छाधीनत्वात्सर्वदैकस्वभावत्वादविकारत्वाच्चेति सूत्रोक्ता-स्सर्वेऽपि हेतवोऽनधिकारित्वे द्रष्टव्याः । जननेऽपीत्यस्य प्रादुर्भावेऽपीत्यर्थः । ईश्वरेच्छानुसारित्वा-दित्यत्र तदिच्छाया अपीति शेषः ।

भावबोधः

श्रियोऽनधिकारित्वसमर्थनादिति ॥ व्यतिहाराधिकरणे प्राणादुपरितनस्य सत्यस्य विष्णुत्वे समर्थिते तदुपरितनानां विज्ञानादीनां विष्णुत्वज्ञापकाभावेन विष्णोरप्यन्येषामुत्तमत्वमिति तारतम्य-कथनावसरे श्रियः कुतो न पाठ इति च शङ्काद्वय उत्पन्ने आद्यशङ्काया अतिविरोधित्वेन ‘सैव हि’ इत्यत्र तां परिहृत्य द्वितीयाऽत्र परिह्रियत इत्यनन्तरसङ्गतिरिति भावः ॥ अधिकारिणीति ॥ अत्र श्रीरधिकारिणी भवत्युत न भवतीति चिन्ता । तदर्थं सा किं संसारिणी भवत्युत न भवतीति । तदर्थं सीतारुक्मिण्यादिरूपेण भूमौ भवनं किं तस्याः कर्मनिबन्धनमुत स्वेच्छामात्रनिबन्धनमिति । तदर्थं नित्यमुक्तत्वे तस्याः किं भगवदुपासनं न युक्तमुत युक्तमिति ॥ साधुत्वे सतीति ॥ नित्यसंसारितमोयोग्यव्यावृत्त्यर्थं साधुत्वग्रहणम् । मुक्तादिव्यावृत्त्यर्थं संसारिग्रहणम् । श्रियोऽप्रयत्नत्वादनुपासनं संसारो वेति न्यायविवरणं योजयति– किं चेत्यादिना ॥ अत्राप्रयत्नत्वं कृतार्थत्वम् । अत्र सूत्रे ‘कामात्’ इत्यंशस्य स्वेच्छेश्वरेच्छारूपोभयार्थत्वम् अवधारणार्थककामा-दित्यनेन सम्बन्धसमुच्चयार्थस्य च ‘इतरत्र च’ इत्यन्वयः । तत्र स्थितेतरत्रावतारान् करोतीति शेष इत्यभिप्रेत्य प्रवृत्तं स्वेच्छयैवेत्यादिभाष्यं व्याचष्टे– जननादेरित्यादिना ॥ सर्वगतत्वादिति ॥ अनेन सर्वमापतनमाश्रयो यस्याः सा सर्वापतनेति विग्रहः प्रदर्शितो भवति । सर्वचेतनेच्छास्वरूपत्वस्य दुःखादिसर्वविषयकेच्छावत्त्वस्य वा सम्भवादाह– सर्वमिति ॥

भावदीपः

श्रियोऽनधिकारित्वेति ॥ प्राणादिवत्संसारितया अधिकारित्वशङ्कायामिति भावः । तेन प्राणादुपरि श्रुतस्य सर्वस्य सत्यादेर्विष्णुत्वे सिद्धे तर्हि श्रियोऽप्यधिकारितया प्राणादूर्ध्वमध्याहारः स्यादिति शङ्कोत्थानाद्वा मोच्यमोचकचिन्तानन्तरमनुभयरूपस्य श्रीतत्वस्य चिन्तनाद्वा पूर्वसङ्गतिः सूचिता ॥ चेतनद्वैविध्येति ॥ ईशतदितररूपानधिकार्याधिकारिद्विविधचेतनदर्शनमित्यर्थः । भाष्ये प्राप्तेरित्यनन्तरमधिकारसम्भवादिति शेषं मत्वाऽऽकाङ्क्षामनुरुध्य व्युत्क्रमेण व्याचष्टे ॥ भवत्येवेति ॥ उपासन इत्यनुकर्षः । मुक्त्ययोग्यानां मुक्तानां च निरासाय साधुत्व इत्यादिविशेषणद्वयम् । जन्मादेरित्यादिपदार्थो मरणेति ॥ जन्ममृतिदुःखेर्ष्यादिदर्शनादित्युपलक्षणम् । ‘यतः प्रसूता जगतः प्रसूती’ ‘मम योनिरप्स्वंतस्समुद्र’ इत्यादौ श्रवणादित्यपि ध्येयम् । एवमाद्यसूत्रव्यावर्त्यं भाष्योक्तं व्यक्तीकृत्य द्वितीयसूत्रव्यावर्त्यं श्रियोऽप्रयत्नत्वादनुपासनं संसारो वेत्यन्यत्रोक्तं व्यनक्ति ॥ किञ्चेति ॥ न स्यादिति ॥ तथा च यद्यदर्चितमित्यादिवाक्यविरोध इति भावः । द्वितीय इति ॥ एतेन न्यायविवरणं विकल्पमुखेन योज्यमिति दर्शितम् । किमित्यादिभाष्यं व्याकुर्वन् फलोक्त्योपसंहरति ॥ अत इति ॥ जन्मादिदर्शनाद्यदर्चितमित्यादावुपासनादर्शनाच्चेत्यर्थः ॥ प्राणावसानत्वमिति ॥ इयदित्यत्रोक्तमित्यर्थः ।

भाष्ये श्रियोऽवताराद्युक्तेरुपयोगघटनाय पूर्वपक्षं निराह ॥ नेति ॥ अवतारादित्वेनेति ॥ अवतारतिरोधाननटनवंचनादिरूपत्वेनेत्यर्थः । एतेन भाष्येऽवतारानिति बहुवचनमाद्यर्थ इति सूचितम् । उपलक्षणं वा । मूलेत्यादेरुपयोगं व्यनक्ति ॥ न च जन्माद्येवेति ॥ स्वेच्छयै-वेत्यस्योपयोगं वदन्नर्थमाह ॥ नापींद्रेति ॥ यथेन्द्रादेरंशिनो मूलस्थाने स्थितस्यैवांशेन कर्मवशादर्जुनादित्वेन जन्मादिकं तथा किं न स्यादित्यपि नेत्यर्थः । ईश्वरेत्यादेर्व्याख्या न च स्वेच्छेति । श्रुतिस्थपदानामुपयोगायाह ॥ मूलेत्यादि ॥ इच्छाशब्दमिच्छाधीने लाक्षाणिकं मत्वा सर्वमिच्छाधीनं यस्या इति विग्रहोक्तिः । एतेन सर्वायतनेत्यादिरपि बहुव्रीहिरिति सूचितम् ॥ पदद्वयकृत्यमचेतनेति ॥

नन्वियं श्रुतिः प्रकृतिश्च प्रतिज्ञादृष्टान्तेतिनये टीकायामुदाहृत्य ब्रह्मपरत्वेन निर्णीतेति कथमत्र श्रीतत्वपरत्वेनोक्तिरिति चेत्सत्यम् । अथापि ‘अस्माकं परमुख्यार्थो भगवानेक एव तु । मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते’ इत्यानुमानिकपादीयानुभाष्योक्त्यार्थान्तरस्यापि भावाददोषः । एवं तत्र तत्र ज्ञेयम् । श्रुतौ सर्वायतनेत्युक्तावपि सूत्रे श्रुतिसूचनमात्रार्थत्वादायतनादिभ्य इत्येवोक्तम् । स्मृत्यर्थमाह ॥ यथेत्यादिना ॥ तत्वप्रदीपे तु यथा येन प्रकारेण योजनायामव्यक्तं नैवोदितं श्रुतौ तथा तस्मिन्योजनाप्रकारे प्राणान्तो जीवराशिः सत्यादिगुणकः परश्चैवोच्यते न त्वन्यत् किञ्चिदव्यक्तस्याबद्धत्वेन परतत्वेऽन्तर्भावात्तदा तस्मिन्पक्षे जीवपराख्यं तत्त्वद्वयमेवोक्तमिति प्रकृत-छन्दोगश्रुतिव्याख्यानमात्रपरतया स्मृत्यर्थमुक्त्वा तेन प्रकारान्तरेण श्रुतियोजना सूचितेत्युपेत्य सैव हि सत्यादय इत्यस्य सैव लक्ष्मीरेव सत्यादयः सत्यविज्ञानमतिश्रद्धानिष्ठाकृतिसुखान्तास्सर्वे भूमादिस्तु विष्णुरेवेत्यर्थमुक्त्वा सत्यादिगुणकत्वं श्रियोऽपि योजितम् । अत एव सैवेति सूत्रे स्त्रीलिङ्गप्रयोग इत्युक्तम् ।

अभिनवचन्द्रिका

आद्ये भगवदुपासनं न स्यादिति । नियमेनेति शेषः । एतेन कृष्णेन क्रियमाणरुद्रोपासन-वदसुरजनमोहाय महालक्ष्म्या उपासनमुपपन्नमिति परास्तम् । न चैवमपि मुक्तवदुपपत्तिः । संसारित्वानङ्गीकारे मोक्षार्थोपासनाभ्यासाभावेन मुक्तवत्संस्कारपाटवाभावात् । ननु न प्रकृतिरधिकारिणी । नामादिष्वपठितत्वात् । न ह्यधिकारित्वाविशेषे प्रकृतेरेव परित्यागे हेतुरस्तीति शङ्कोत्तरत्वेन ‘किमिति नामादिष्वपाठ’ इति भाष्यं योजयति– अधिकारित्वे चेति ॥ पूर्वोक्तयुक्त्या अधिकारित्वे सिद्धे नामादिष्वपाठ एव किमित्यङ्गीक्रियत इत्यर्थः । नामादिष्वपठितत्वहेतुरसिद्ध इति भावः । यदि नामादिषु महालक्ष्म्याः पाठस् तर्हि किमित्यश्रवणमिति शङ्कायाः किमुत्तरमिति पृच्छति– किं त्विति ॥ उत्तरमाह तत्पाठ इति ॥ पाठशब्दोऽत्र वाक्यपरः । तत्प्रतिपादकं वाक्यं ‘अस्ति भगवः प्राणाद्भूय’ इति प्रश्नप्रतिवचनवद् अध्याहर्तव्यमेवोक्तं न तूच्चारितं ततश्चाश्रवणं न दोषायेति भावः ॥ स्वेच्छयैवेति ॥ स्वेच्छयैव जायमाने रुग्मिण्यादिजनने कर्मनिमित्तत्वा-भावादित्यर्थः । तटस्थः शङ्कते– नन्वेवमिति ॥ इत्यत आहेति ॥ पूर्वोक्ताऽऽशङ्कापरिहारो-द्देशेनाप्रवृत्तमपि ब्रह्मतर्कवाक्यम् । अर्थादुक्तशङ्कापरिहारस्यापि सिद्धेस्तदर्थं तद्वाक्यमुदाजहारे-त्यर्थः । एतेन ब्रह्मतर्कवाक्यस्य जीवेश्वरावेव तत्वतया निर्दिष्टौ, न तु जडं, तच्चायुक्तं प्रामाणिक्स्य परित्यागे कारणाभावादित्याशङ्कापरिहारकत्वात्, प्रकृतेर् नामादिष्वपाठः कुत इत्याशङ्कापरिहाराय ‘आह’ इत्ययुक्तमिति परास्तम् । तद्वचनस्य साक्षादेतच्छङ्कापरिहारकत्वाभावेऽपि अर्था-त्तत्परिहारस्यापि सिद्धेस् तदुदाहरणस्योचितत्वात् ।

वाक्यार्थमुक्तावली

अत्र रमाया नित्यमुक्तत्वे भगवदनूनत्वात् सत्यादीनामिव तदुपासकत्वानुपपत्तेः संसारित्वमिति पूर्वन्यायेन पूर्वपक्षोत्थानादनन्तरसङ्गतिः । अत्र श्रीरधिकारिवर्गनिविष्टा न वेति चिन्ता । तदर्थं संसारिणी न वेति । तदर्थं सीतादिरूपायास्तस्या भूमौ जननं कर्मनिबन्धनप्राकृतशरीर-सम्बन्धरूपमुत स्वेच्छामात्रेणाभिव्यक्तरूपमिति । तदर्थं स्वेच्छाकृतव्यक्तिमात्रत्वेन नित्यमुक्तत्वे तत्कारणमुपासनाख्यं दृश्यमानं कार्यं च सम्भवत्युत न सम्भवतीति । जन्मादिकं संसारित्वे तत्तदधिकारित्वे हेतुः । अधिकारित्वं च नामादिष्वपाठादाक्षेपकमिति भावेन भाष्यार्थं वदन् आद्यसूत्रनिरस्यं पूर्वपक्षमाह । भवत्येवेत्यादिना ॥ नित्यसंसारितमोयोग्यव्यावृत्त्यर्थं साधुत्वे सतीत्युक्तम् । भगवत्प्रियत्वे सतीत्यर्थः । मुक्तव्यावृत्त्यर्थं संसारित्वादिति । द्वितीयसूत्रनिरस्यं पूर्वपक्षमप्रयत्नमिति न्यायप्रदर्शनपूर्वमाह ॥ आद्येति ॥ आप्तकामत्वेन प्राप्तव्यप्रयोजनेच्छायाः प्रयत्नायोगात् । श्रुतं भगवदुपासनं न स्यादिति भावः । फलोद्देशेन प्रयत्नमङ्गीकृत्य कृतार्थत्वा-भावेऽस्मदादेरिव संसारित्वमेव स्यात् । कथमसंसारित्वम् । कारणाभावादिति तृतीयसूत्रनिरस्यं पूर्वपक्षमाह ॥ द्वितीय इति ॥ एतेन भाष्ये जन्मादेरित्यादिपदेन कृतार्थत्वाभावोऽपि गृह्यते । तथा चाद्ये बाधकस्य विद्यमानत्वेनादिपदोक्तकृतार्थत्वाभावात् संसारप्राप्तेः कथमसंसारित्वमिति भाष्यार्थ उक्तो भवति ॥ अत्रोच्यत इति ॥ भाष्यस्यात्र पूर्वपक्ष्युक्ते प्रकृतेरधिकारित्वे उक्तहेतोरसिद्धिरुच्यत इत्यर्थं मत्वा पूर्वपक्षं प्रतिक्षिपति ॥ न प्रकृतेरिति ॥

सूत्रे कामादित्यावर्तते । चशब्द एवार्थे समुच्चये च । प्राणविष्णुप्रसङ्गसन्निधापिता श्रीरन्वेति । तथा च कामादीश्वराधीनात् कामादेव स्वेच्छयैव न कामतः । तत्रेशसमीपे मूलरूपेण स्थिता इतरत्र च भूमाववतरतीति शेषः । कुतः । आयतनादिभ्यः । अनेनायतनादिबोधकश्रुतिर्गृह्यते । सर्वगतत्वादिबोधकश्रुतेरित्यभिप्रेत्य प्रवृत्तं स्वेच्छयेत्यादिभाष्यम् आकाङ्क्षाक्रमेण व्याचष्टे ॥ जननादेरित्यादिना ॥ जननमरणयोर् जनिप्रत्यक्षगोचरत्वतदगोचरत्वरूपत्वेनेत्यर्थः । एतेना-न्यत्रावतारान् करोतीत्येतदुपलक्षणमिति व्याख्यातं भवति ॥ न च जन्माद्येवेति ॥ अस्मदादि-वदिति शेषः ॥ जननेऽपीति ॥ तथा च नास्मदादिवज्जननमिति भावः । इन्द्रादीनां मूलरूपेण स्वर्गादौ भगवत्समीपे स्थितानामपि अर्जुनादिरूपेणोत्पत्तिर्दृष्टेत्याशङ्कयाह ॥ नापीति ॥ सर्वमायतनं यस्याः सा सर्वायतना । सर्वेऽपि काले आश्रयो यस्याः सा सर्वकाला । सर्वा अवस्था जगतो यस्याः सा सर्वावस्था इति श्रुत्यर्थः । अविकृतिरित्यचेतनप्रकृतिरिति । सर्वेच्छा सर्वज्ञेत्यनेनैवाचेतनप्रकृतिर् व्यावर्तितेति चेन्न । सत्वात्सञ्जायते ज्ञानमित्यादिना चेतनप्रकृतेर् इच्छाद्यात्मना परिणामात् तद्विवक्षया भेदाभिप्रायेण सर्वेच्छाद्युपपद्यत इति शङ्केतापि । अतोऽ-विकृतिरिति विशेषणमिति भावः ॥ तदभावप्रसङ्गादिति ॥ नियामकविशेषणमन्तरेण तारतम्य-प्रसङ्गे प्राणपरमात्मनोर्मध्ये श्रियोऽभावप्रसङ्गः । न चैतद्युक्तम् । प्रमाणान्तरप्राप्तत्वात् । अतो मध्ये तदनुक्तौ नियामकं वाच्यमित्यर्थः । स्मृतौ परोऽपि चेत्यनन्तरमुच्यत इति शेषः । बन्धमोचकत्वाभिप्रायेणैवेति । तयोरन्यः पिप्पलं स्वाद्वत्तीति बद्धत्वस्य सखायौ उपकार्योप-कारिणाविति परमात्मनो बन्धान्मोचकत्वस्याभिप्रेतत्वादिति भावः । इतरत् किञ्चनेत्यस्यार्थो न तु जडमिति ॥ यद्यपि नापि चित्प्रकृतिरित्यपि वक्तव्यम् । तथापि द्वा सुपर्णेत्यत्र बुद्धिजीवावुच्येते इत्यपव्याख्यानिरासोद्देशेन स्मृतेः प्राप्तत्वान्न तु जडबुद्ध्याख्यमित्युक्तं ज्ञेयम् । तद्वयमिति । ‘ईश्वरः प्रकृतिजीवो जडं चेति चतुष्टयम् । पदार्थानां समुद्दिष्टं’ इति बृहदारण्यकभाष्योक्तरीत्या तत्वचतुष्टयमध्ये ईश्वरजीवाख्यं तत्वद्वयमेवोक्तमित्यर्थः ।

तत्त्वसुबोधिनी

श्रियोऽनधिकारित्वसमर्थनादिति ॥ व्यतिहाराधिकरणे प्राणादुपरितनस्य सत्यस्य विष्णुत्वे समर्थिते तदुपरितनानां विज्ञानानन्दानां विष्णुत्वज्ञापकाभावेन विष्णोरप्यन्येषामुत्तमत्वमिति तारतम्यकथनावसरे श्रियः कुतो न पाठ इति शङ्काद्वयोत्पन्ने आद्यशङ्काया अतिविरोधित्वेन सैव हीत्यनेन तां परिहृत्य द्वितीयात्र परिह्रियत इत्यनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ अनधिकारित्वसमर्थनाभावे इत्यर्थः । साधुत्वे सतीति । नित्यसंसारितमोयोग्यव्यावृत्यर्थं साधुत्व-ग्रहणम् । मुक्त्यादिव्यावृत्यर्थं संसारित्वे सतीति । अत्र सूत्रे कामादित्यस्येच्छा ईश्वरेच्छा-रूपोभयार्थत्वम् अवधारणार्थकशब्दस्य स्वेच्चार्थकनामादित्यनेन सम्बन्धः । समुच्चयार्थस्य चेतरत्रेत्यन्वयः । तत्रस्थिते तत्रावतारान्करोतीति शेष इत्यभिप्रेत्य प्रवृत्तं स्वेच्छयैवेत्यादिभाष्यं व्याचष्टे ॥ जननादेरिति । अत्रावतारो नामेश्वरज्ञानादिवदभूत्वा भवनम् । आदिपदेनान्यप्रत्यक्ष-विषयत्वमित्यवधेयम् । अङ्गीकृत्याह । जननेऽपीति । वस्तुतो जननं नास्त्येव तथापि तदङ्गी-कारेऽपि न त्वदिष्टसिद्धिरित्यर्थः । तथापि मूलरूपेण भगवत्समीपे स्थितस्यापीन्द्रस्य जन्मादि-वत्वेन बद्धत्ववत् श्रियोऽपि बद्धत्वं स्यादित्याशङ्क्य निषेधति । नापि इन्द्रादिवदिति । उत्तरमाह ॥ स्वेच्छयैवेति ॥ सर्वगतत्वादीति ॥ अनेन सर्वम् आयतनम् आश्रयो यस्याः सा सर्वायतनेति विग्रहः सूचितो भवति । सर्वचेतनेच्छास्वरूपस्य दुःखादिसर्वविषयकेच्छावत्वस्य वा सम्भवादाह ॥ सर्वमिति ॥

वाक्यार्थविवरणं

तमोयोग्येषु व्यभिचारवारणाय साधुत्वे सतीत्युक्तम् । मुक्तेषु तद्वारणाय संसारित्वादित्युक्तम् ॥ कृतार्थेति ॥ कृतकृत्या नित्यमुक्तेत्यर्थः । प्राप्तप्राप्तव्यत्वं कृतकृत्यत्वम् । भगवदुपासनं तया क्रियमाणं न स्यादित्यर्थः । अवतारादिरूपत्वेन ॥ प्रादुर्भावादिरूपत्वेन । आदिपदेन मरणस्य भूलोकपरित्यागाप्रत्यक्षत्वरूपत्वेनेति ग्राह्यम् ॥ इन्द्रादिवदिति ॥ तेषां मूलरूपेण स्थितत्वेऽपि भूमौ अंशेन जननं कर्मनिमित्तकं प्रसिद्धं तद्वदित्यर्थः । भाष्ये सर्वकाला सर्वस्मिन् काले स्थिता नित्येत्यर्थः ॥ तत्त्वद्वयम् ॥ जीवेश्वररूपम् ॥

वाक्यार्थमञ्जरी

प्राणावसानत्वासिद्धेरिति ॥ अधिकारित्वे च तस्याः प्राणोपर्येव वक्तव्यत्वादिति भावः ॥ सन्निधापितेति ॥ तस्यास्तदुभयमध्यस्थत्वादिति भावः । साधुत्वे सतीति तमोयोग्यव्यावृत्तये विशेषणं मुक्तव्यावृत्तये विशेष्यम् । कृतार्था मुक्ता ।

श्रीः कामाद् ईशेच्छानुसारि स्वेच्छयैव तत्रेशसमीपे मूलरूपेण स्थिता इतरत्र भूम्यादाववतरति कुत आयतनादिभ्यः सर्वमायतनमाश्रयो यस्याः सा तथेति सर्वगतत्वादिप्रतिपादकशब्देभ्य इत्यर्थः । जननेऽपीति जन्मवतां च मनुष्याणां नैवंभाव इति भावः ॥ नापीति ॥ तेषां मूलरूपेण सतामेवार्जुनादिरूपेण जननादिति भावः ॥ कर्मेति ॥ तेषाञ्च जनने कर्मैव निमित्तमिति भावः । सर्वचेतनेच्छास्वरूपत्वस्य दुःखादिसर्वविषयेच्छावत्त्वस्य वा सम्भवादाह ॥ सर्वमिति ॥ अविकृतिर् विकाररहिता ॥ तदभावेति ॥ प्रकृत्यभावेत्यर्थः । कृतकृत्यत्वेन मुक्तत्वेन यत्कृष्णपदाब्जं सात्वतैः पञ्चरात्रैः ॥


ॐ आदरादलोपः ॐ

सूत्रभाष्यम्

॥ ॐ आदरादलोपः ॐ ॥ ४१ ॥

अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति ।

‘यथा श्रीर्नित्यमुक्ताऽपि प्राप्तकामाऽपि सर्वदा ।

उपास्ते नित्यशो विष्णुमेवं भक्तो हरेर्भवेत्’ इति बृहत्तन्त्रे ।

तत्त्वप्रदीपिका

अस्तु सा स्वयमुपास्या, न तूपास्ते कदाचिदप्यबद्धत्वात् । जीवानां तु बन्धमुक्तत्यर्थ-मनारतोपासनावासनावशाद्युज्यते मुक्तावुपास्तिरित्यत आह– आदरादलोपः ॥ सर्वतोऽनादि-भक्त्याधिक्यादेव देव्या उपासनापूजाद्यलोपः । तथा च भागवते ‘तुलसीभिरीशमभ्यर्चति’ इत्यादि । अतः श्रीब्रह्मवाय्वादिभिरुपास्यो भगवांस्तत्परिवृतत्वेन चान्यैरिति स्थितम् । प्राणवचनेनैव ब्रह्मणोऽपि सिद्धत्वाद्वायुत्वादनन्तरत्वाद्ब्रह्मपदस्य ।

‘वायुरेव यतो ब्रह्मपदं नियमतो व्रजेत् ।

सहैव जननेऽप्यस्मात्पूर्वं वायोर्जनिं वदेत् ।

क्वचित्तु ब्रह्मणः पूर्वं प्रधान्यात्तत्पदस्य च’ इति ब्रह्मतर्के ॥

तत्त्वप्रकाशिका

ननु रमाया असंसारित्वे कृतकृत्यत्वेन भगवदुपासनाभावः स्यात् । न चाऽसौ युक्तः । ‘यदर्चितं ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभिश्च सात्वतैः’ । इत्यादिप्रमाणसिद्धत्वादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे ॥ आदरादिति ॥ प्रकृतेरसंसारित्वेन कृतकृत्यत्वेऽपि भगवदुपासना-भावो न प्रसज्यते । निरुपाधिकभक्त्यतिशयेनोपासनोपपत्तेरिति भावः । ‘आदरो भजनं भक्तिर्बहुमानं च सेवनं’ इत्यभिधानम् । अत्रैव स्मृतिं चाह ॥ यथेति ॥ अन्योऽपि हरेर्भक्तः । एवं निरुपाधिकभक्त्युपासको भवेदित्यर्थः ।

गुर्वर्थदीपिका

कारणाभावादित्यस्य स्वसाम्यभिया भगवतोऽकारणत्वकारणाभावादित्यर्थः ।

भावबोधः

निरुपाधिकभक्त्यतिशयेनेति ॥ उपलक्षणमेतत् । संस्कारपाटवान् नित्योपासोपपत्तेश्चेति न्यायविवरणोक्तमपि ग्राह्यम् ।

ननु लक्ष्मीवदितरेषाम् अनाद्यनन्तकालेषु एकप्रकारेण उपासनाभावात् कथम् एवमित्युक्तम् इत्यतो व्याचष्टे– एवं निरुपाधिकेति ॥

भावदीपः

यदर्चितमिति ॥ दशमस्कन्धगतम् । आदिपदेन ‘वापीषु विद्रुमतटीष्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीशम् । अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रमुच्छेषितं भगवतेत्यमतांग यच्छ्रीः’ इत्यादितृतीयस्कन्धस्थवाक्यग्रहः । तस्या इत्येतदर्थं वदन्नेवाबद्धत्वेऽपीत्यादिभाष्यार्थमाह ॥ प्रकृतेरिति ॥ अलोपपदमाकृष्यार्थमाह ॥ भगवदुपासनाभावो नेति ॥ भक्तीत्यादिभाष्यं व्याचष्टे ॥ निरुपाधिकेति ॥ फलाद्युपाधिरहितेत्यर्थः । आदरस्य भक्तित्वे एकादशस्कन्धतात्पर्ये त्रयोदशा-ध्यायोक्तवाक्यमाह ॥ आदर इति ॥ अत्रैवेति ॥ अबद्धत्वेऽप्युपासनं प्रकृतेरस्तीत्यत्रेत्यर्थः ॥ स्मृतिं चेति ॥ न केवलमादरादुपपद्यत इति चार्थः । अन्य इति शेषोक्तिः । सर्वसाम्यं निराह ॥ एवमिति ॥

वाक्यार्थमुक्तावली

असंसारित्वमिति ॥ नित्यमुक्तत्वमित्यर्थः ॥ कृतकृत्यत्वेनेति ॥ आप्तकामत्वेनेत्यर्थः । पूर्वसूत्राच् चशब्दोऽनुवर्तते । तेन पूर्वसूत्रोक्तमबाध्यत्वं कृतकृत्यत्वं च समुच्चीयते । प्रकृतिर-विकृतिरिति प्रकृतत्वात्प्रकृतेरित्यन्वेति । अवधारणार्थश्चशब्द आदरादित्यनेनान्वेति । प्रकरणा-दुपासनाया इति लक्ष्यत इति भावेन प्रवृत्तमबद्धत्वेऽपीति भाष्यं यथा श्रीर्नित्यमुक्तापि प्राप्तकामापि सर्वदेति स्मृत्यनुसारेण व्याचष्टे ॥ प्रकृतेरिति ॥ भक्तिविशेषादेव न तु फलोपाधिनेत्येवमाकारेण सूचितमुक्तम् ॥ निरुपाधिकेति ॥ भक्तिविशेषादित्युक्त्यैव संस्कारपाटवमित्युक्तन्यायोऽपि दर्शितः । अत एव भाष्ये विशेषपदग्रहणम् । अलोप इति सामान्योक्त्या पूजाद्यलोपोऽपि गृह्यत इति भावेन भाष्ये उपासनादीत्यादिपदमुक्तम् । तथा च तत्त्वप्रदीपे । उपासना पूजाद्यलोपः । तथा च भागवते ॥ तुलसीभिरीशमभ्यर्चतीत्यादीति ॥

तत्त्वसुबोधिनी

ननु लक्ष्मीवदितरेषाम् अनाद्यनन्तकालेऽप्येकप्रकारेणोपासनाभावात् कथमेवमुक्तमित्यतस् तद्व्याचष्टे ॥ एवं निरूपाधिकेति ॥

वाक्यार्थविवरणं

कृतकृत्यत्वेन ॥ कृतकृत्यत्वप्राप्त्येत्यर्थः ॥ यदर्चितमिति ॥ इदं दशमस्कन्धगतं वाक्यम् ॥ इत्यादीति ॥ आदिपदेन ‘वापीषु विद्रुमतटीष्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीश ॥ अभ्यर्चती स्वलकमुल्लसमीक्ष्य वक्त्रमुच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः’ इति तृतीयस्कन्धवाक्य-ग्रहणम् । प्रमाणसिद्धत्वात् । अवनादिरूपोपासनस्येति शेषः । सूत्रे उप भगवत्समीपे स्थितेस्तत्सम्बन्धित्वादित्यर्थः ।

वाक्यार्थमञ्जरी

रमाया अलोप उपासनालोपाभाव आदराद् भक्तेरेवेत्यर्थः । ननु लक्ष्मीवदितरेषा-मनाद्यनन्तकाले एकप्रकारेणोपासनाभावात्कथमेवमुक्तमित्यतो व्याचष्टे ॥ एवं निरुपाधिकेति ॥