ॐ सैव हि सत्यादयः ॐ
२३. सत्याद्यधिकरणम्
सूत्रभाष्यं
कृतिर्निष्ठां विज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेन्न —
॥ ॐ सैव हि सत्यादयः ॐ ॥ ३९ ॥
सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः । ब्रह्मतर्के च —
‘नामादिप्राणपर्यन्ताद्यो हि सत्यादिरूपवान् ।
तस्मै नमो भगवते विष्णवे सर्वजिष्णव’ इति ॥
‘सत्याद्या अहमात्मान्ता यद्गुणास्समुदीरिताः ।
तस्मै नमो भगवते यस्मादेव विमुच्यत’ इति चाध्यात्मे ॥
तत्त्वप्रदीपिका
‘सत्यं त्वेव विजिज्ञासितव्यं’ ‘विज्ञानं त्वेव विजिज्ञासितव्यं’ ‘मतिस्त्वेव विजिज्ञासितव्या’ इत्यादिना प्राणादुपर्युपदिश्यमानानामुपर्युपरि विशेषत एव जिज्ञास्यत्वेनोच्यमानानां सत्यविज्ञानमतिश्रद्धानिष्ठाकृतिसुखभूमाहंकारात्मनामन्योन्यभेदात्परमात्मनोऽपि बहव उत्तमाः स्युः। अन्यथा विशेषणं भेदोपपादकं न स्यादित्यत आह– सैव हि सत्यादयः ॥ या ब्रह्मादीना-मुपास्यत्वेन प्रपञ्चितगुणा या चाक्षरशब्देन स्वदर्शिनामविरोधनेत्री समभिहिता या च प्राणा-त्प्रतिपादिताधिक्या तस्या एव परमदेवातायाः स्वरूपाणि सत्यादीनि । न त्वत्रान्य उच्यन्ते, परमत्वादेव । तदुत्तमे प्रमाणाभावात् । ‘तत्तेजोऽसृजत’इत्युक्तवा ‘सेयं देवता’ इतिवन्न विरोधः स्त्रीलिङ्गोक्त्यो कृतिर्निष्ठेत्यादिशब्दवाच्यत्वमप्युचितमिति ज्ञापयतः ।
‘स्त्रीगुणाः पुङ्गुणाश्चैव नपुंसकगुणा अपि ।
यदधीना व्यत्ययः स्याल्लिङ्गानां तत्र सर्वशः ।
कः किं कं तत्सर्वमात्माऽदितिर्देवादयस्ततः’ इति लिङ्गनिर्णये ॥
तस्य च बहुगुणानामुपास्यानामत्र प्रकटनीयत्वाद्बहुवचनमविरुद्धम् । विशेषणस्य च स्वरूपभेदानापादकत्वेऽपि विशेषमात्रमापाद्य कृतकृत्यत्वम् । ‘एष तु वा अतिवदति’ इति भेदानुक्तौ सर्वश्रुतिसिद्धप्राणपरमात्मभेदाभावप्रसङ्गः ।
‘अतिवादी प्राणवादी सत्यवादी विशेषतः ।
स सत्यो भगवान्विष्णुर् यन्निर्दोषो नियामकः ॥
विशिष्टज्ञानरूपश्च सामान्यज्ञानरूपकः ।
नित्यश्रद्धास्वरूपश्च तथैव स्थैर्यरूपकः ॥
स एव सर्वकर्ता च सम्पूर्णानन्दरूपकः ।
स च सर्वगुणैः पूर्णो भूमेत्युच्चार्यते ततः ॥
यदधीनं विना नान्यत्किञ्चिदस्ति कुतश्चन ।
स भूमोक्तोऽतिपूर्णत्वादन्यदल्पमितीर्यते ॥
स सर्वगुणसम्पूर्णः सर्वदेशेषु सर्वदा ।
स्वतन्त्रः सर्ववस्तूनि तदधीनानि सर्वशः’ इति परमसारे ॥
तत्त्वप्रकाशिका
अत्र भगवदापरोक्ष्यसाधनोपासनाधिकारिणः प्राणाद्विष्णोरेवोत्तमत्वसाधनादस्ति शास्त्रादि-सङ्गतिः । अनेकेषामुत्तमत्वे प्रागुक्तमयुक्तं स्यादित्येकस्यैवोत्तमत्वं समर्थनीयम् । प्रकृतः प्राण एव विषयः । किं तस्मात्सत्यपदोदितविष्णुरेवोत्तमः किमन्योऽप्यस्तीति सन्देहः । विष्णुरुत्तम इत्युक्ते-रुभयथा सम्भवः सन्देहबीजम् । पूर्वपक्षयति ॥ कृतिरिति ॥ न केवलं प्राणात्सत्यपदोक्तो विष्णु-रेवोत्तमोऽपि तु बहवोऽप्युत्तमाः सन्ति । सत्यादप्युपरि विज्ञानमतिश्रद्धानिष्ठाकृतिसुख-भूमाहङ्कारात्मनामुक्तत्वात् । न च विज्ञानादीनां सत्येनाभेदान्न बहूनामुत्तमत्वं प्राणादिति वाच्यम् । तेषामभेदोक्त्यादिकारणविशेषं विना प्राणं विहायाभेदग्रहणस्यान्याय्यत्वात् । अतः प्राणादपि बहूनामुत्तमत्वात्तस्य विष्णुं विना सर्वोत्तमत्वं विष्णोर्निरुपचरितसर्वोत्तमत्वं च न युक्तमिति भावः । पूर्वपक्षं प्रतिषेधति ॥ नेति ॥ तत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्य व्याचष्टे ॥ सैवेति ॥ न प्राणादधिका बहव इति युक्तम् । यस्मात्सत्यादयोऽहंकारात्मान्ताः सा ईश्वराख्या परदेवतैव न तु ततो भिन्नाः । न च वाच्यमभेदानुक्तेर्भेद एव तेषामिति । ‘सत्यं भगवो विजिज्ञासे’ इति सत्याख्यस्य भगवतो गुणजिज्ञासायां तद्गुणत्वेन तदविनाभूतज्ञानस्योक्तत्वात् । तथोत्तरत्रापि विज्ञानादिकथनस्याऽ-सङ्गतत्वादिति भावः । अत्र कृतिनिष्ठाद्यनुसारेण स्त्रीलिङ्गप्रयोगः । अत एव शङ्काभाष्ये विज्ञान-स्यादित्वेऽपि कृतिर्निष्ठेत्युक्तम् । अत्रैव हिशब्दसूचितां स्मृतिमाह ॥ ब्रह्मतर्के चेति ॥ नन्वस्तु भूमान्तानां भगवद्गुणत्वोक्त्याऽभेदो न त्वहङ्कारात्मनोस्तयोरभेदानुक्तेरित्यत आह ॥ सत्याद्या इति ॥ पूर्ववदभेदानुक्तावप्यहंकारात्मनोरस्त्येव भगवत्स्वरूपत्वमित्यत्र हेतुर्यस्मादिति । ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स्वराड् भवति’ इत्यहंकारात्मज्ञानान्मोक्षः श्रूयते । मोक्षश्च भगवज्ज्ञानादेव । अतस्तयोस्तत्स्वरूपत्वमिति भावः । किं च ‘स एवाऽधस्तात्’ इत्यादिनोदितं यद्भूम्नः पूर्णत्वं तदेवाहंकारात्मनोरुच्यते । ‘अहमेवाध-स्तादात्मैवाधस्तात्’ इति तथा श्रुत्यन्तरे सर्वेषामपि पूर्णत्वमुच्यते ‘सत्यं पूर्णम्’ इत्यादिना । अतः सत्यादीनामात्मान्तानां भगवत्स्वरूपत्वेन स एव प्राणादुत्तम इत्युक्तमुपपन्नमिति सिद्धम् ।
गुर्वर्थदीपिका
अत एव शङ्काभाष्य इत्यत्रात एवेत्युपलक्षणम् । सम्भावितब्रह्माऽभेदेभ्यो ज्ञानादिभ्योऽप्य-नित्यक्रियारूपकृतेरसम्भावितब्रह्माभेदत्वेन पूर्वपक्षप्रापकत्वात्तस्या एवादौ ग्रहणमित्यपि ग्राह्यम् । सूत्रकारोऽपि स्त्रीलिङ्गपदवाच्यगुणानां बहुत्वात्तत एव तेषां ब्रह्मण्यसम्भव इति शङ्कानिवारणाय च सा परदेवतेति विशेष्यं निर्देष्टुं सैवेत्याह । न त्वहंकारात्मनोरित्यस्य ‘सत्यं भगवो विजिज्ञासे’ इतिवद्भूम्नां भगवो विजिज्ञास इत्यभेदज्ञापकप्रश्नाभावादित्यर्थः । इदं चोपलक्षणम् । ‘अथात अहमादेशः’ ‘अथात आत्मादेशः’ इत्युभयोरपि प्रकरणान्तरत्वोक्त्या भेदबोधकसम्भवाच्चेति द्रष्टव्यम् । यद्यप्युपसंहारवाक्योक्ता मुक्तिः सत्याद्यात्मान्तसकलभगवद्गुणज्ञानस्यापि फलरूप-तयाऽन्वेति । तथाऽप्यहङ्कारात्मनो भगवद्गुणत्वे ज्ञापकान्तराभावादिदमेव ज्ञापकमिति भावेनोक्त-महङ्कारात्मज्ञानादिति ।
भावबोधः
प्राणाद्विष्णोरेवेति । पूर्वसूत्रे प्रश्नाद्यध्याहारेण ‘यः सत्येनातिवदति’ इति वाक्यस्य प्राणाद्विष्णोरुत्तमत्वप्रतिपादकत्वोक्तौ तन्न्यायेनैव ‘यदा वै विजानात्यथ सत्यं वदति न विजानन् सत्यं वदति विजानन्नेवं सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यं’ इत्यादिवाक्यानामपि सत्या-दिभ्यो विज्ञानादीनामुत्तमत्वप्रतिपादकत्वस्य वक्तुं शक्यत्वात् । न विष्णोरेव प्राणादुत्तमत्व-मित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । किं तस्मादिति । अत्र किं प्राणो विष्ण्वा-द्यनेकोत्तमयुक्त उत विष्णुमात्रोत्तमयुक्त इति चिन्ता । तदर्थं ‘यदाह वै विजानाति’ इत्यादीनि वाक्यानि किं विष्ण्वन्यप्रतिपादकानि उत विष्णोरेव प्रतिपादकानीति । तदर्थं तेषां विष्ण्वभेदज्ञापकं नास्त्युतास्तीति । सत्यादीनामभेदानुक्तेरन्यत्वमिति न्यायविवरणं तन्निरसनीयाशङ्कानिरासपूर्वकं योजयति– न च विज्ञानादीनामित्यादिना ॥ प्राणं विहायेति वदता अभेदोक्त्यादिविशेष-कारणाभावेऽपि यद्यभेदोऽङ्गीक्रियते तर्हि प्राणस्यापि सत्येनाभेदः स्यादित्यतिप्रसङ्गः सूचितो भवति । सत्यादय आत्मान्ताः सा परदेवतेति वक्तव्ये सत्यादिगुणास् तस्या एव परदेवतायाः स्वरूपभूता इति वचनं ‘यदाह वै विजानाति’ इत्यादि वाक्यस्यास्य विज्ञानादीनां सत्यादि-स्वरूपभूतगुणप्रतिपादकत्वेन अभेदानुक्तिरूपपूर्वपक्षहेतोरसिद्धिज्ञापनार्थम् इत्यभिप्रायेण तद्भाष्यं व्याचष्टे– सत्यं भगव इत्यादीनामिति ॥ अभेदानुक्तेरिति ॥ ‘सत्यं भगवो विजिज्ञासे’ इति सत्यादिरूपभगवद्गुणजिज्ञासायां ‘यदाह वै विजानाति’ इत्यादिविज्ञानादीनां तद्गुणत्वेनोपदेशवत् ‘भूमानं भगवो विजिज्ञासे’ इति भूम्नो गुणजिज्ञासायां ‘यत्र नान्यत् पश्यति’ इत्यादिना दृश्यत्वादे-रेवोपदेशेनाहंकारस्य तद्गुणत्वोपदेशाभावात् तथा ‘अहंकारं भगवः’ इत्येवंरूपस्य जिज्ञासावाक्यस्य तद्गुणत्वेनात्मोपदेशस्य चाभावादिति भावः । अत्रैव ‘हि’ शब्दसूचितां न्यायविवरणोदाहृतां श्रुतिं चाह– श्रुत्यन्तर इति ॥
भावदीपः
अत्रापि सङ्गत्युपपादनायाधिकारिण इत्यन्तोक्तिः । फलमाह ॥ अनेकेषामिति ॥ प्रागुक्त-मिति ॥ तेभ्यः प्राणस्य तस्माच्चेत्यादिना सर्वस्मात्प्राणस्योत्तमत्वं ततो विष्णोर्निरुपचरितमुत्तमत्वं यत्प्रागुक्तं तदयुक्तं स्यादित्यर्थः । एतेन प्रागुक्तप्रमेयसमर्थनात्पूर्वसङ्गतिरपि सूचिता ॥ प्रकृत इति ॥ विष्णूत्कर्षावधित्वेन सर्वाधिकार्युत्तमत्वेन च प्रकृत इत्यर्थः । बहवोऽप्युत्तमा इति भाष्योक्त-प्रतिज्ञार्थमाह ॥ न केवलमिति ॥ कुत इत्यतः स्वयं हेतुमाह ॥ सत्यादपीति ॥ विज्ञानं त्वेव विजिज्ञासितव्यं, मतिस्त्वेव विजिज्ञासितव्येत्यादिनोक्तत्वादित्यर्थः । भाष्योक्तहेतुं योजयितुमाह ॥ न चेति ॥ भाष्योक्तहेतोर्निर्बीजत्वनिरासाय सत्यादीनामभेदानुक्तेरन्यत्वमित्यन्यत्रोक्तबीजं व्यंजयन् कृतीत्यादिभाष्यभावार्थमाह ॥ तेषामिति ॥ विज्ञानादीनामित्यर्थः । भाष्ये कृत्यादित्वेन निर्देशस्य कृत्यमग्रे व्यक्तम् ॥ फलोक्त्योपसंहरति ॥ अत इति ॥ सत्यादीनामभेदानुक्त्या यतो भेदोऽत इत्यर्थः । सूत्रार्थस्य पूर्वपक्षनिषेधहेतुत्वं पूर्वपक्षनिषेधपूर्वं सूत्रार्थोक्त्या व्यनक्ति ॥ न प्राणादिति ॥ स्त्रीलिङ्गनिर्वाहार्थमुक्तं परदेवतेति तच्छब्दस्य प्रकृतपरामर्शद्योतनायेश्वराख्येति । सर्वेशात्प्राणा-त्परत्वेनोत्तमत्वेन पूर्वत्र प्रकृतेत्यर्थः । सौत्रैवकारव्यावर्त्यमाह ॥ न त्विति ॥ भाष्यं व्यावर्त्य-शङ्कानिरासपूर्वं व्याचष्टे ॥ न च वाच्यमिति ॥ भगवो भगवन् हे सनत्कुमार । मतुवसो रु सम्बुद्धौ छन्दसि । जिज्ञासायां नारदस्येति शेषः । यदा वै विजानात्यथ सत्यं वदति नाविजानन् सत्यं वदतीत्यादिश्रुतिशेषार्थः ॥ तदविनाभूतेति ॥ सूत्रे सेति भाष्ये तस्या एवेति च स्त्रीलिङ्गोक्तौ बीजमाह ॥ अत्रेति ॥ सूत्रादावित्यर्थः ॥ कृतिर्निष्ठेत्युक्तमिति ॥ अन्यथा हि छान्दोग्ये सत्यानन्तरं विज्ञानमतिश्रद्धानिष्ठाकृत्यादीनामुक्तेर्विज्ञानं मतिः श्रद्धेत्यादीनामित्युक्तिर्भाष्ये स्यादिति भावः ।
न चैवमपि मतिः श्रद्धानिष्ठाकृतिरित्यादीनामित्युक्तिः स्यादिति शङ्क्यम् । सत्यं पूर्णं कृतिः पूर्णा, निष्ठा पूर्णा, श्रद्धा पूर्णेत्यादिन्यायविवरणोक्तश्रुत्यन्तरानुरोधेन कृतिर्निष्ठेत्यादिनिर्देशात् । पत्यादिशब्देभ्य इति निर्देशवत् । केचित्तु कृतिरित्येकदेशद्वारा प्रकृतिशब्दस्मारणेन प्रकृतिनयोक्ता व्यवहितप्रसवहेतुपरमपुरुषात्सत्यपदार्थादन्यत्वमित्यपि शङ्काव्युदासायेत्याहुः । तत्वप्रदीपे तु ‘स्त्रीगुणाः पुंगुणाश्चैव नपुंसकगुणास्तथा । यदधीना व्यत्ययः स्याल्लिङ्गानां तत्र सर्वशः’ इति स्मृतेरुपास्यगुणानामत्र प्रकटनीयत्वात्कृत्याद्यपेक्षया स्त्रीलिङ्गोक्तिरित्युक्तम् ॥ न त्वहंकारेति ॥ तत्र भूमानं भगवो विजिज्ञास इति प्रश्नेऽहंकारोपदेशाप्रवृत्तेरहंकारं ‘भगवो विजिज्ञास’ इति तद्गुण-जिज्ञासादेरश्रवणाच्चेति भावः । हेतुत्वं व्यनक्ति ॥ स वा एष इति ॥ आत्मरतिरित्यत्रात्मशब्दो विष्णुवाची ॥ भगवज्ज्ञानादेवेति ॥ ‘तमेवं विद्वानमृत’ इत्यादेरिति भावः । ननु विज्ञानादेः सत्याभेदे विज्ञानं त्वेव विजिज्ञासितव्यं, मतिस्त्वेव विजिज्ञासितव्येत्यादिना उत्तरोत्तरस्य पूर्वपूर्वस्माद्विशेषणम् । अथातोऽहंकारादेश, अथात आत्मादेश इति प्रकरणविच्छेदकोक्तिश्च कथं युज्येतान्यथा प्राणात्सत्यस्याऽपि विशेषणं भेदकं न स्यादित्यतः स्मृत्युक्तयुक्तिं व्यक्तीकृत्य सैवेत्येवकारसूचितं छान्दोग्यभाष्योक्तं युक्त्यन्तरं चाऽऽह ॥ किञ्चेति ॥ तदेवेति ॥ एवमप्यह-मादेरविष्णुत्वे धर्मोपपत्तेश्चेति भूम्नो विष्णुत्वहेतोर्व्यभिचारः स्यात् । अथात इत्युक्तिस्तु अथ-शब्दस्य रूपान्तरापेक्षया युज्यतेऽतःशब्दस्तत्प्रसादादिति छान्दोग्यभाष्यदिशा युक्तेति भावः ॥ श्रुत्यन्तर इति ॥ न्यायविवरणोक्त इत्यर्थः । सर्वेषां सत्याद्यात्मान्तानामित्यर्थः । एवं च सत्यादीनामैक्ये प्रमिते सति यत्तु शब्दादिना विशेषणमुक्तं तत्तु तत्वप्रदीपोक्तदिशा भेदप्रतिनिधि-विशेषमात्रेणोपपन्नमिति भावः ॥ अत इति ॥ पूर्वपूर्वगुणजिज्ञासाया उत्तरोत्तरस्य प्रवृत्तत्वादह-मात्मनोर्भगवल्लक्षणवत्त्वाच्चेत्यर्थः । विवृतं चाऽहंकारस्य ब्रह्मत्वं न्यायामृते अहमर्थस्यानात्मत्वभङ्गे ।
अभिनवचन्द्रिका
विष्णोरेवोत्तमत्वसाधनादिति ॥ प्राणादुत्तमेषु भेदनिर्वाह्यबहुत्वसमानाधिकरणोत्तमत्व-निरासादस्ति शास्त्रादिसङ्गतिरित्यर्थः । एतेन विष्णोरेवोत्तमत्वसाधनादित्ययुक्तम् । प्राणादुत्त-मत्वेनाशङ्कितानां विज्ञानादीनां प्राणोत्तमत्वस्य निराकर्तुमशक्यत्वादिति परास्तम् । विष्णोरेवेत्यनेन विज्ञानादिषु परमात्मभेदनिर्वाह्यबहुत्वसमानाधिकरणप्राणोत्तमत्वनिरासादित्यर्थस्याभिमतत्वात् ॥ प्राण एव विषय इति ॥ संशयकोट्यवधिरित्यर्थः । एतेन अस्याधिकरणस्य विष्णुविषयत्वात् प्राणो विषय इति कथनमयुक्तमिति परास्तम् । एककोटिकमनेकधर्मिकं संशयमाह– किं तस्मादिति ॥ प्राणोत्तमत्वं भेदनिर्वाह्यबहुत्वेन सह सत्यादिष्वस्ति न वेति सन्देह इति भावः ॥ विष्णुरुत्तम इत्युक्तेरिति ॥ ‘एष तु वा अतिवदति’ इति विष्णोरुत्तमत्वोक्तेरित्यर्थः । बहवोऽप्युत्तमा इति ॥ भेदनिर्वाह्यबहुत्वोपेता इत्यर्थः । विज्ञानादीनां प्राणोत्तमत्वे युक्तिमाह सत्यादप्युपरीति ॥ तेषु भेदनिर्वाह्यबहुत्वाऽसिद्धिं शङ्कते न चेति ॥ तेषामिति ॥ यद्यपि अभेदोक्त्यादिकारणविशेषं विनेत्येतावदेवालम्, तथापि यद्यभेदोक्त्यादिकारणं विना विज्ञानादीनां सत्यादभेदोऽङ्गीक्रियते तर्हि प्राणेनापि विज्ञानादीनामभेदोऽङ्गीक्रियताम्, अविशेषादित्यतिप्रसङ्गसूचनाय प्राणं विहा-येत्युक्तम् ॥ तत्र हेत्वाकाङ्क्षायामिति ॥ परस्परं भेदनिर्वाह्यबहुत्वसमानाधिकरणप्राणाधिक्योपेता इति न युक्तमित्यर्थः । एतेन सत्यादीनां प्राणाधिकत्वान् न प्राणाधिका बहव इत्ययुक्तमिति परास्तम् ॥ यस्मादिति ॥ परस्परभेदाभावाद् विशिष्टाभाव इति भावः । यद्यपि आत्मान्ता इति वक्तव्यम्, तथापि येषामात्मनो विष्णुत्वनिश्चयस् तान्प्रति अहङ्कारान्ताः सा परदेवतेति वक्तव्यम् । येषां तु आत्मन्यपि सन्देहः, तान्प्रति आत्मान्ताः सेति वक्तव्यमिति ज्ञापनाय अहङ्कारात्मान्ता इत्युक्तम् ॥ गुणजिज्ञासायामिति ॥ पूर्णगुणस्यापि कृष्णस्य कृष्णकेशत्ववद् भगवद्रूपस्यापि विज्ञानस्य सत्याख्यभगवद्गुणत्वस्यापि भावात्, सत्याविनाभूत विज्ञानाख्यरूपस्य सत्याख्यभगव-द्गुणत्वेनोक्तत्वाद् गुणगुणिनोश्चाभेदाद् गुणत्त्वोक्त्यैवाभेदलाभ इति भावः । इदमुक्तं भवति ‘सत्यं भगवो विजिज्ञास’ इति नारदेन पृष्टः सनत्कुमारः ‘यदा वै विजानात्यथ सत्यं वदति’ इति सत्याविनाभूतं विज्ञानाख्यं रूपमाह । न चेदं यथाश्रुतं तत्प्रश्नोत्तरं भवति । तेन मन्यामहे विज्ञानगुणकः सत्य इत्येवं विस्पष्टाभिधाने अयोग्यानामपि प्रतीतिः स्यात् । अवश्यवेद्यं रूपान्तरं च अप्रस्तावितं स्यात्, तन्माभूदिति सत्याविनाभूतम् अवश्यवेद्यं विज्ञानाख्यं रूपं सत्यस्य गुणोऽपि भवतीत्याशयेन ‘यदा वै विजानाति इत्याद्युपदिष्टमिति । एतेन विज्ञानस्य सत्यगुण-त्वेनोक्तेः श्रुतावनुपलम्भात्, गुणत्वेनोक्तत्वादित्ययुक्तमिति परास्तम् । ननु सूत्रे सेतिऽस्त्रीलिङ्ग-प्रयोगोऽनुपपन्नः । सर्वत्र ब्रह्मणः प्रकृतत्वेन ब्रह्मशब्दानुसारेण नपुंसकलिङ्गप्रयोगस्यैव युक्त-त्वादित्यत आह अत्रेति ॥ कृतिनिष्ठादीनां स्त्रीत्वाद् अस्त्रीभूतस्य ब्रह्मणः न कृत्याद्यैक्यमिति शङ्कानिरासाय, परमात्मनोऽपि स्त्रीरूपत्वान् न तदैक्यमनुपपन्नमिति सूचनाय स्त्रीलिङ्गप्रयोग इति भावः । भाष्ये नामादीति । नामादिप्राणपर्यन्ताद् वर्गाद् य अधिक इत्यर्थः । टीकायां तयोरभेदानुक्तेरिति । ‘अथात अहङ्कारादेशः, अथात आत्मादेशः’ इत्येव प्रारब्धत्वेन ‘न सत्यं भगवो विजिज्ञास’ इत्यादिवत् प्रश्नोत्तरयोरभावादार्थिकगुणत्वोक्तेरभावेनाऽभेदानुक्तेरित्यर्थः ।
पूर्वपक्षस्तु- न केवलं प्राणात्सत्यपदोक्तो विष्णुरेवोत्तमो ऽपि तु बहवः । सत्यादप्युपरि विज्ञानमतिश्रद्धानिष्ठाकृतिसुखभूमाहङ्कारात्मनामुक्तत्वात् । न च सत्यादीनामभेदः प्रमाणाभावात् । अतः प्राणादपि बहूनामुत्तमत्वात् तस्य विष्णुं विना सर्वोत्तमत्वं विष्णोर्निरुपचरितसर्वोत्तमत्वं न युक्तमिति ।
सिद्धान्तस्तु- न प्राणादधिका बहव इति युक्तं, सत्यादीनां सर्वेषां परदेवतात्वात् । न च अभेदोक्त्यभावः । ‘सत्यं भगवो विजिज्ञास’ इति प्रश्ने ‘यथा वै विजानाति’ इति तव्द्याप्तार्थान्तरो-पदेशस्य कथमप्ययोगेन विज्ञानस्य सत्यगुणत्वाभिप्रायत्वात् । गुणस्य च गुणभिन्नत्वात् । एवमुत्तरत्रापि द्रष्टव्यम् । न चाऽहङ्कारात्मनोर्गुणप्रश्नोत्तराभावेन भूमाभेदाऽसिद्धत्वात् । एवमुत्त-रत्रापि द्रष्टव्यम् । न चाऽहङ्कारात्मनोर्गुणप्रश्नोत्तराभावेन भूमाभेदाऽसिद्धिरिति वाच्यम् ‘स वा एष एवम्’ इत्यादिना अहङ्कारात्मज्ञानान्मोक्षाभिधानात् । ‘स एवाधस्तात्’ इति पूर्णत्वाभिधानाच्च । किं च सर्वेषां सत्यादीनां श्रुत्यन्तरे ‘सत्यं पूर्णम्’ इत्यादिना पूर्णत्वं भगवल्लक्षणमुच्यते । ततोऽपि सर्वेषां परमात्मैक्यम् । अतः सत्यादीनामात्मान्तानां भगवत्स्वरूपत्वेन स एव प्राणादुत्तम इत्युक्तमुपपन्नमिति सिद्धम् ।
वाक्यार्थमुक्तावली
प्रश्नाद्यध्याहारेण प्राणात्सत्यस्योत्तमत्वे तदध्याहारेण सत्यापेक्षया विज्ञानादेरुत्तमत्वं स्यात् । विज्ञानादेरभेदोक्त्यभावेऽपि सत्याभेदस्वीकारे प्राणस्यैव सत्येन विज्ञानाभेदः स्यादिति समान-न्यायेन आक्षेपादनन्तरसङ्गतिः ॥ किमिति ॥ अत्र किं प्राणः सत्याख्यविष्णुनेवानेकैरुत्तमैर्युक्त उत सत्याख्यविष्णुनैवोत्तमेन युक्त इति चिन्ता । तदर्थं विज्ञानादीनां सत्याभेदो न सम्भवत्युत सम्भवतीति । कृतिर्निष्ठा ज्ञानमित्यादीनामित्यनन्तरं शेषमाह ॥ उक्तत्वादिति ॥ भेदादित्ये-तदवतार्य व्याकुर्वंस्तदुपपादकतयानुक्तिरित्युक्तन्यायं योजयति ॥ न चेत्यादिना ॥ उक्त्या-दीत्यादिपदेन लिङ्गमुच्यते । अन्यायत्वमुपपादयितुं प्राणं विना विज्ञानादीनां सत्येनाभेदस्वीकारे सर्वत्र हिशब्दो यस्मादित्यर्थ इत्यभिप्रेत्य व्याचष्टे । ॥ यस्मादिति ॥ सत्यादय इति ॥ सत्यविज्ञानमतिश्रद्धानिष्ठाकृतिसुखभूमाहंकारात्मन इत्यर्थः । भाष्ये सत्यादयः साक्षरशब्देन प्रकृता परदेवतैव इति व्याख्यातव्ये सत्यादयो गुणा इति व्याख्यानेन व्यावृत्तिमाशङ्क्य निषेधति ॥ न चेति ॥ अभेदसिद्धेरिति ॥ अहिकुण्डलाधिकरणन्यायेनेति भावः । तथा चानुक्तिरूप-पूर्वपक्षहेतोरसिद्धिः । अक्षरशब्देन प्रकृतत्वादिति वक्तव्ये सेति स्त्रीलिङ्गप्रयोगे नियामकमाह ॥ अत्रेति ॥ कृतिर्निष्ठा इत्युक्तमिति । निष्टाया आदित्वेऽपि कृत्युपपाद्यत्वात् कृतेरादितो ग्रहणम् । सत्यादीनां गुणगुणिभावो विना भावप्रकारश्च ‘पूर्णत्वात्सुखरूपोऽसौ सर्वकर्ता सुखत्वतः । कर्तृत्वात् सुस्थिरश्चासौ स्थिरत्वादास्थिकस्तथा । आस्तिकत्वाच्च मन्तासौ विज्ञाता च ततो हरिः । विज्ञातृत्वाच्च निर्दोषो सर्वस्यापि नियामकः’ इति च्छान्दोग्यभाष्यादाववगन्तव्यः । अत्र यद्वक्तव्यं तत्सर्वमन्यत्रानुसन्धेयम् । स्मृतिं चेति । न केवलं गुणत्वादभेदसिद्धिः । न केवलं हिशब्दो हेतुसूचकः स्मृतिसूचकश्चेति वा । नामादिप्राणपर्यन्तादुपरि सत्यादिरूपवानिति योज्यम् । सत्यादि-रुपवानिति सत्यादिनामकगुणस्वरूपवान् । तन्नामकरूपवांश्चेत्यर्थः ॥ तयोरभेदानुक्तेरिति ॥ सत्यं भगवो विजिज्ञासेत्यादिना सत्यादिगुणप्रश्ने यदा वै विजानात्यथ सत्यं वदतीत्यादिना सत्यं भगवो विजिज्ञासेति ‘यो वै भूमा तत्सुखम्’ इत्यन्तेन प्रश्नवचनेन सत्यादिभूमान्तानां गुणत्वोक्त्या-भेदोक्तिवत्, भूमानं भगवो विजिज्ञासेति भूम्नो जिज्ञासायां यत्र नान्यत्पश्यतीत्यादिना स एवाधस्तादित्यादिना च सर्वं स्वातन्त्र्यपूर्णत्वादेस्तल्लक्षणत्वोक्त्या तद्गुणत्वेनाहंकारोपदेशाभावात् । तथाहंकारं भगवो विजिज्ञासेति गुणजिज्ञासावाक्यस्यैवाभावेन आत्मनस् तद्गुणत्वस्य सुतरामभावादिति भावः ॥ पूर्ववदिति ॥ गुणप्रश्नप्रतिवचनाभ्यामित्यर्थः । अहंकारात्मनोरिति ॥ अहंकारात्मनोरस्त्येव भगवत्स्वरूपत्वमित्यत्र मोचकत्वाख्यभगवल्लक्षणतो भगवतोऽनूनत्वाख्यो न्यायः यस्मादित्यत्रोच्यत इत्यर्थः । नन्वहमात्मनोर्लक्षणैक्येन ब्रह्मत्वेऽपि गुणत्वं न श्रूयते । प्रश्नप्रतिवचनाभावादित्यतो यद्गुणा इत्यस्य घटनामाह ॥ किञ्चेति ॥ गुणलक्षणलक्षितत्वाद् गुणत्वमिति भावः । इति चेतिशब्दात् हिशब्दसूचिता न्यायविवरणोपात्ता श्रुतिः समुच्चीयत इति भावेनाह तथेति ॥
तत्त्वसुबोधिनी
पूर्वसूत्रे प्रश्नाद्यध्याहारेण यः सत्येनातिवदतीति वाक्यस्य प्राणाद्विष्णोरुत्तमत्वे प्रतिपादकोक्तौ तन्न्यायेनैव यदा वै विजानातीति, अथ सत्यमित्यादिवाक्यानामपि सत्यादिभ्यो विज्ञानाना-मुत्तमत्वप्रतिपादकत्वस्य वक्तुं शक्यत्वाच्च विष्णोरेव प्राणादुत्तमत्वमित्याक्षेपोत्थानादनन्तर-सङ्गतिरिति भावः । अभेदोक्त्यादिरूपकारणविशेषं विनेत्यर्थः । नन्वभावेऽप्यस्तु सत्यपदोक्तस्य विष्णोर् विज्ञानादिपदोक्तेनाभेद इत्यत उक्तम् ॥ प्राणं विहायेति ॥ अभेदोत्क्यादिकारणविशेषा-भावेऽपि यद्यभेदोऽङ्गीक्रियते तर्हि प्राणस्यापि सत्येनाभेदः स्यादिति प्रसङ्गः स्यादित्यर्थः । सत्यादय आत्मान्ताः सा परदेवतेति वक्तव्ये सत्यपि गुणास्तस्या एव परं देवतायाः स्वरूपभूता इति वचनं यदा वै विजानात्यथ सत्यमित्यादिवाक्यस्य विज्ञानादीनां सत्यादिस्वरूपभूतगुण-प्रतिपादकत्वेनाभेदानुक्तिरूपपूर्वपक्षहेतोरसिद्धिर् ज्ञापनार्थमित्यभिप्रायेण तद्भाष्यं व्याचष्टे ॥ सत्यं भगव इति ॥ अन्यथेति ॥ सत्यपदोक्तस्य विज्ञानादिपदोक्तेनाभेदाभाव इत्यर्थः । ननु सत्यादेर् नपुंसकत्वात्तदनुसारेण सूत्रे नपुंसकलिङ्गमेव प्रयोक्तव्यम् एवं च कथं स्त्रीलिङ्गप्रयोग इत्यत आह अत्रेति ॥ अत एवेति ॥ यतः कृत्याद्यनुसारेण स्त्रीलिङ्गप्रयोगोऽत एवेत्यर्थः ॥ अभेदानुक्ते-रिति ॥ सत्यं भगवो जिज्ञास इति सत्यगुणजिज्ञासायां विज्ञानादीनां तद्गुणत्वकथनवद् भूमा न भगवो विजिज्ञास इति भूम्नो गुणजिज्ञासायां यत्र नान्यदित्याघटत्वादेरेवोपदेशेनाहंकारस्य तद्गुण-त्वोपदेशाभावात् तथाहंकारभगवो इत्येवं रूपस्य जिज्ञासावाक्यस्य तद्गुणत्वेनात्मोपदेशस्य वाऽभावादिति भावः । अत्रेव सौत्रहिशब्दसूचितां श्रुतिमाह ॥ तथा श्रुत्यन्तर इति ॥
वाक्यार्थविवरणं
तेषामिति ॥ तेषां विज्ञानादीनां सत्येनाभेदोक्त्यादौ विशेषकारणेन भाव्यम् । तं विना विज्ञानादीनां सत्येनाभेदग्रहणस्यान्याय्यत्वादिति योज्यम् । अत्रातिप्रसङ्गसूचनाय प्राणं विहायेत्युक्तम् । कारणविशेषाभावेऽपि यद्यभेदोक्तिस्तर्हि प्राणेनाप्यभेदः स्यात् । अतः प्राणं विहाय तेषामेव ग्रहणमन्याय्यमिति भावः ॥ बहूनाम् ॥ उपर्युपर्याम्नातानाम् ॥ तस्येति ॥ प्राणस्येत्यर्थः ॥ विष्णुं विनेति ॥ सत्यपदोक्तविष्णूपर्याम्नातविज्ञानाद्युत्तमत्वाभावादिति भावः ॥ विष्णोरिति ॥ विज्ञानाद्युत्तमत्वाभावादिति भावः ॥ तदिति ॥ सत्याख्यभगवदित्यर्थः । तदविनाभूतज्ञानस्य तद्गुणत्वेनोक्तत्वादित्यन्वयः ॥ गुणेति ॥ सत्याख्यविष्णोर्गुणान्तरेत्यर्थः ॥ अविनाभूतेति ॥ सत्याख्यविष्ण्वविनाभूतेत्यर्थः ॥ अभेदेति ॥ सत्याख्यभगवतेत्यर्थः ॥ अन्यथा ॥ एवं गुणोक्त्यभिप्रायाभावे ॥ अत्र ॥ सूत्रे । कुतस्तथा ज्ञायत इत्यत आह ॥ अत एवेति ॥ सूत्रे कृतिर्निष्ठेत्याद्यनुसारेण स्त्रीलिङ्गप्रयोग इति ज्ञापनार्थमेवेत्यर्थः ॥ विज्ञानस्येति ॥ श्रुतौ विज्ञानस्य आदित्वेन तदनुसारेण विज्ञानादीनां भेदादिवक्तव्यमित्यर्थः ॥ ब्रह्मतर्के चेतीति ॥ यः सत्यादिरूपवान् हरिर् नामादिप्राणपर्यन्ताद् अधि अधिक इत्यर्थः ॥ भगवद्गुणत्वोक्तेति ॥ सैव हीति सूत्रेण विज्ञानादिभूमान्तानां सत्याख्यभगवद्गुणोक्त्या भगवता अभेदोऽस्त्वित्यर्थः । गुणगुणिनोरभेदादित्याशयः ॥ अभेदेति ॥ सत्याख्यभगवतेति शेषः ।
वाक्यार्थमञ्जरी
प्रागुक्तं विष्णुं विना प्राणस्योत्तमत्वम् ॥ निरुपचरितेति ॥ विज्ञानाद्युत्तमत्वादिति भावः । ॐ सैव हि सत्यादयः ॐ । सत्यादयो दश सा परदेवतैवेत्यर्थः । विजिज्ञासे विशेषेण ज्ञास्यामि ॥ तद्गुणत्वेनेति ॥ विज्ञानात्मकस्य रूपस्य विशेषबलेन सत्यगुणत्वमविरुद्धमिति भावः ॥ तदविनाभूतेति ॥ तदा वै विजानात्यथ सत्यंवदति नाविजानन्सत्यं वदतीत्यन्वयव्यतिरेकोक्तिपूर्वकं विज्ञानोक्तेरित्यर्थः ॥ तथोत्तरत्रापीति ॥ विज्ञानं भगवो विजिज्ञास इत्यादिजिज्ञासायां तद्गुणत्वेन यदा वै मनुतेऽथ विजानाति नामत्वाविजानातीत्यादिनामत्वाद्यभिधानादित्यर्थः ॥ अभेदानुक्ते-रिति ॥ सत्यं भगवो विजिज्ञासेत्यादिना सत्यादिभगवद्गुणविजिज्ञासायां यदा ह वै विजानादित्यर्थः ॥ अभेदानुक्तेरिति ॥ यदा ह वै विजानाति इत्यादिना विज्ञानादीनां सत्यादिगुणत्वेनोपदेशवद् भूमानं भगवो विजिज्ञास इति भूमाख्यभगवद्गुणजिज्ञासायां यत्र नान्यत्पश्यतीत्यादिना दृश्यत्वादे-रेवोक्तत्वेन तद्गुणत्वेनाहंकारस्योपदेशाभावात्तथात्मनस्तद्गुणत्वेनोपदेशाभावादिति भावः ॥ स वा एष इति ॥ स एषोऽधिकारी एवं शृण्वन्नेवं मन्वान एवं ध्यायन्नेवं पश्यन् मुक्तः सन्नात्मरतिः परमात्मना रतिरलम्बुद्धिर्यस्य स तथोक्तः । परमात्मना क्रीडत इत्यात्मक्रीडः परमात्मना स्वयं स्त्रीरूपः सन् मिथुनीभवतीत्यात्ममिथुनः । परमात्मनैवाभिव्यक्तः स्वरूपानन्दो यस्यासावात्मानन्दः स्वातन्त्र्या-त्स्वोभगवानेव राट् आज्ञापयिता प्रत्यक्षो भवतीति स्वराडित्यर्थः ॥ अहङ्कारात्मज्ञानादिति ॥ एतद्वाक्यस्य तदुभयान्तिमप्रकरणत्वादिति भावः । अहमेवाधस्तादित्यादिप्रतीकद्वयं पूर्णमित्या-दीत्यादिशब्देन विज्ञानं पूर्णमित्यादिग्राह्यम् ।
॥ इति सत्याद्यधिकरणम् ॥ २३ ॥